ब्रह्मकृता कामाक्षीस्तुतिः
काञ्चीक्षेत्रे पुरा धाता सर्वलोकपितामहः ॥ श्रीदेवीदर्शनार्थाय तपस्तेपे सुदुष्करम् । आत्मैकध्यानयुक्तस्य तस्य व्रतवतो मुने ॥ प्रादुरास पुरो लक्ष्मीः पद्महस्तपुरस्सरा । पद्मासने च तिष्ठन्ती विष्णुना जिष्णुना सह ॥ सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता । सिंहासनेश्वरी ख्याता सर्वलोकैकरक्षिणी ॥ तां दृष्ट्वाद्भुतसौन्दर्याम् परज्योतिर्मयीं पराम् । आदिलक्ष्मीमिति ख्यातां सर्वेषां हृदयस्थिताम् ॥ यामाहुस्त्रिपुरामेव ब्रह्मविष्ण्वीशमातरम् । कामाक्षीमिति प्रसिद्धां तामस्तौषीत्पूर्णभक्तिमान् ॥ ब्रह्मा जय देवि जगन्मातः जय […]