Paramadvaita in Hindi:
॥ परमाद्वैतम ॥
र्विकारां निराकारं निरञ्जनमनामयम् ।
आद्यन्तरहितं पूर्णं ब्रह्मैवाहं न सम्शयः ॥ १ ॥
निष्कलङ्कं निराभासं त्रिपरिच्छेदवर्जितम् ।
आनन्दमजमव्यक्तं ब्रह्मैवाहं न सम्शयः ॥ २ ॥
निर्विशेषं निराकारं नित्यमुक्तमविक्रियम् ।
प्रज्ञानैकरसं सत्यं ब्रह्मैवाहं न सम्शयः ॥ ३ ॥
शुद्धं बुद्धं स्वतस्सिद्धं परं प्रत्यगखण्डितम् ।
स्वप्रकाशं पराकाशं ब्रह्मैवाहं न सम्शयः ॥ ४ ॥
सुसूक्ष्ममस्तितामात्रं निर्विकल्पं महत्तमम् ।
केवलं परमाद्वैतं ब्रह्मैवाहं न सम्शयः ॥ ५ ॥
Also Read:
Paramadvaitham Lyrics in English | Hindi | Kannada | Telugu | Tamil
Add Comment