Templesinindiainfo

Best Spiritual Website

Shonachala Shiva Nama Stotram Lyrics in Hindi | Hindu Slokam

Shonachala Shivanama Stotram Hindi Lyrics:

शोणाचलशिवनामस्तोत्रम्
गौतमाय श्रीशङ्करेणशिवमुख्यनाम्नाम्परिगणनपुरःसरं
पार्वतीकृते गौतम प्रश्नेऽरुणेश्वरप्रदक्षिणामाहात्म्यवर्णनं
गौतम उवाच –
भगवन्नरुणाद्रीशनामधेयानितेभृशम् ।
विशेषाच्छ्रोतुमिच्छामिस्थानेऽस्मिन्सुरपूजिते ॥ १ ॥

महेश्वर उवाच –
नामानिश‍ृणु मे ब्रह्मन्मुख्यानिद्विजसत्तम ।
दुर्लभान्यल्पपुण्यानां कामदानिसदाभुवि ॥ २ ॥

शोणाद्रीशोऽरुणाद्रीशो देवाधीशो जनप्रियः ।
प्रपन्नरक्षको धीरः शिवसेवकवर्धकः ॥ ३ ॥

अक्षिपेयामृतेशानः स्त्रीपुम्भावप्रदायकः ।
भक्तिविज्ञप्तिसन्धाता दीनबन्दिविमोचकः ॥ ४ ॥

मुखराङ्घ्रिपतिः श्रीमान्मृडो मृगमदेश्वरः ।
भक्तप्रेक्षणकृत्साक्षी भक्तदोषनिवर्तकः ॥ ५ ॥

ज्ञानसम्बन्धनाथश्च श्रीहलाहलसुन्दकः ।
आहवैश्वर्यदाता च स्मर्तृ सर्वाघनाशनः ॥ ६ ॥

व्यत्यस्तनृत्यद्ध्वजधृक्सकान्तिर्नटनेश्वरः ।
सामप्रियः कलिध्वंसी वेदमूर्तिनिरञ्जनः ॥ ७ ॥

जगन्नाथो महादेवस्त्रिनेत्रस्त्रिपुरान्तकः ।
भक्तापराधसोढा च योगीशो भोगनायकः ॥ ८ ॥

बालमूर्तिः क्षमारूपी धर्मरक्षो वृषध्वजः ।
हरो गिरीश्वरो भर्गश्चन्द्ररेखावतंसकः ॥ ९ ॥

स्मरान्तकाऽन्धकरिपुः सिद्धराजो दिगम्बरः ।
आगमप्रियईशानो भस्मरुद्राक्षलाञ्छनः ॥ १० ॥

श्रीपतिः शङ्करः स्रष्टा सर्वविद्येश्वरोऽनघः ।
गङ्गाधरः क्रतुध्वंसो विमलो नागभूषणः ॥ ११ ॥

अरुणो बहुरूपश्च विरूपाक्षोऽक्षराकृतिः ।
अनादिरन्तरहितः शिवकामः स्वयम्प्रभः ॥ १२ ॥

सच्चिदानन्दरूपश्च सर्वात्मा जीवधारकः ।
स्त्रीसङ्गवामसुभगो विधिर्विहितसुन्दरः ॥ १३ ॥

ज्ञानप्रदो मुक्तिदश्च भक्तवाञ्छितदायकः ।
आश्चर्यवैभवः कामी निरवद्यो निधिप्रदः ॥ १४ ॥

शूली पशुपतिः शम्भुः स्वयम्भुगिरिशो मृडः ।
एतानि मम मुख्यानि नामान्यत्र महामुने ॥ १५ ॥

इति श्रीस्कान्दे महापुराणे प्रथमे माहेश्वरखण्डे
तृतीयमरुणाचलमाहात्म्यं तत्र पूर्वार्धः प्रारभ्यते
नवमोऽध्यायान्तर्गता शोणाचलशिवनामस्तोत्रं सम्पूर्णम् ।

Also Read:

Shonachala Shiva Nama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shonachala Shiva Nama Stotram Lyrics in Hindi | Hindu Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top