Templesinindiainfo

Best Spiritual Website

Shri Chandra Ashtottarashatanama Stotram 2 Lyrics in Hindi | Chandra Slokam

Sri Chandra Ashtottara Shatanama Stotram Two Lyrics in Hindi:

श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् २
अथ श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् ।
अथ वक्ष्ये शशिस्तोत्रं तच्छृणुष्व मुदान्वितः ॥ १ ॥

चन्द्रोऽमृतमयः श्वेतो विधुर्विमलरूपवान् ।
विशालमण्डलः श्रीमान् पीयूषकिरणः करी ॥ २ ॥

द्विजराजः शशधरः शशी शिवशिरोगृहः ।
क्षीराब्धितनयो दिव्यो महात्माऽमृतवर्षणः ॥ ३ ॥

रात्रिनाथो ध्वान्तहर्ता निर्मलो लोकलोचनः ।
चक्षुराह्लादजनकस्तारापतिरखण्डितः ॥ ४ ॥

षोडशात्मा कलानाथो मदनः कामवल्लभः ।
हंसःस्वामी क्षीणवृद्धो गौरः सततसुन्दरः ॥ ५ ॥

मनोहरो देवभोग्यो ब्रह्मकर्मविवर्धनः ।
वेदप्रियो वेदकर्मकर्ता हर्ता हरो हरिः ॥ ६ ॥

ऊर्द्ध्ववासी निशानाथः श‍ृङ्गारभावकर्षणः ।
मुक्तिद्वारं शिवात्मा च तिथिकर्ता कलानिधिः ॥ ७ ॥

ओषधीपतिरब्जश्च सोमो जैवातृकः शुचिः ।
मृगाङ्को ग्लौः पुण्यनामा चित्रकर्मा सुरार्चितः ॥ ८ ॥

रोहिणीशो बुधपिता आत्रेयः पुण्यकीर्तकः ।
निरामयो मन्त्ररूपः सत्यो राजा धनप्रदः ॥ ९ ॥

सौन्दर्यदायको दाता राहुग्रासपराङ्मुखः ।
शरण्यः पार्वतीभालभूषणं भगवानपि ॥ १० ॥

पुण्यारण्यप्रियः पूर्णः पूर्णमण्डलमण्डितः ।
हास्यरूपो हास्यकर्ता शुद्धः शुद्धस्वरूपकः ॥ ११ ॥

शरत्कालपरिप्रीतः शारदः कुमुदप्रियः ।
द्युमणिर्दक्षजामाता यक्ष्मारिः पापमोचनः ॥ १२ ॥

इन्दुः कलङ्कनाशी च सूर्यसङ्गमपण्डितः ।
सूर्योद्भूतः सूर्यगतः सूर्यप्रियपरःपरः ॥ १३ ॥
स्निग्धरूपः प्रसन्नश्च मुक्ताकर्पूरसुन्दरः ।
जगदाह्लादसन्दर्शो ज्योतिः शास्त्रप्रमाणकः ॥ १४ ॥

सूर्याभावदुःखहर्ता वनस्पतिगतः कृती ।
यज्ञरूपो यज्ञभागी वैद्यो विद्याविशारदः ॥ १५ ॥

रश्मिकोटिर्दीप्तिकारी गौरभानुरिति द्विज ।
नाम्नामष्टोत्तरशतं चन्द्रस्य पापनाशनम् ॥ १६ ॥

चन्द्रोदये पठेद्यस्तु स तु सौन्दर्यवान् भवेत् ।
पौर्णमास्यां पठेदेतं स्तवं दिव्यं विशेषतः ॥ १७ ॥

स्तवस्यास्य प्रसादेन त्रिसन्ध्यापठितस्य च ।
सदाप्रसादास्तिष्ठन्ति ब्राह्मणाश्च द्विजोत्तम ॥ १८ ॥

श्राद्धे चापि पठेदेतं स्तवं पीयूषरूपिणम् ।
तत्तु श्राद्धमनन्तञ्च कलानाथप्रसादतः ॥ १९ ॥

दुःस्वप्ननाशनं पुण्यं दाहज्वरविनाशनम् ।
ब्राह्मणाद्याः पठेयुस्तु स्त्रीशूद्राः श‍ृणुयुस्तथा ॥ २० ॥

इति बृहद्धर्मपुराणान्तर्गतं श्रीचन्द्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

Also Read:

Shri Chandra Ashtottarashatanama Stotram 2 Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Chandra Ashtottarashatanama Stotram 2 Lyrics in Hindi | Chandra Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top