Templesinindiainfo

Best Spiritual Website

Shri Radha Ashtottara Shatanama Stotram Lyrics in Hindi | Shri Radha Slokam

Sri Radha AshtottaraShatanama Stotram Lyrics in Hindi:

श्रीराधाष्टोत्तरशतनामस्तोत्रम्

अथास्याः सम्प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
यस्य सङ्कीर्तनादेव श्रीकृष्णं वशयेद्ध्रुवम् ॥ १ ॥

राधिका सुन्दरी गोपी कृष्णसङ्गमकारिणी ।
चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा ॥ २ ॥

वीणापाणिः स्मितमुखी रक्ताशोकलतालया ।
गोवर्धनचरी गोपी गोपीवेषमनोहरा ॥ ३ ॥

चन्द्रावली-सपत्नी च दर्पणस्था कलावती ।
कृपावती सुप्रतीका तरुणी हृदयङ्गमा ॥ ४ ॥

कृष्णप्रिया कृष्णसखी विपरीतरतिप्रिया ।
प्रवीणा सुरतप्रीता चन्द्रास्या चारुविग्रहा ॥ ५ ॥

केकराक्षा हरेः कान्ता महालक्ष्मी सुकेशिनी ।
सङ्केतवटसंस्थाना कमनीया च कामिनी ॥ ६ ॥

वृषभानुसुता राधा किशोरी ललिता लता ।
विद्युद्वल्ली काञ्चनाभा कुमारी मुग्धवेशिनी ॥ ७ ॥

केशिनी केशवसखी नवनीतैकविक्रया ।
षोडशाब्दा कलापूर्णा जारिणी जारसङ्गिनी ॥ ८ ॥

हर्षिणी वर्षिणी वीरा धीरा धाराधरा धृतिः ।
यौवनस्था वनस्था च मधुरा मधुराकृति ॥ ९ ॥

वृषभानुपुरावासा मानलीलाविशारदा ।
दानलीला दानदात्री दण्डहस्ता भ्रुवोन्नता ॥ १० ॥

सुस्तनी मधुरास्या च बिम्बोष्ठी पञ्चमस्वरा ।
सङ्गीतकुशला सेव्या कृष्णवश्यत्वकारिणी ॥ ११ ॥

तारिणी हारिणी ह्रीला शीला लीला ललामिका ।
गोपाली दधिविक्रेत्री प्रौढा मुग्धा च मध्यका ॥ १२ ॥

स्वाधीनपका चोक्ता खण्डिता याऽभिसारिका ।
रसिका रसिनी रस्या रसनास्त्रैकशेवधिः ॥ १३ ॥

पालिका लालिका लज्जा लालसा ललनामणिः ।
बहुरूपा सुरूपा च सुप्रसन्ना महामतिः ॥ १४ ॥

मरालगमना मत्ता मन्त्रिणी मन्त्रनायिका ।
मन्त्रराजैकसंसेव्या मन्त्रराजैकसिद्धिदा ॥ १५ ॥

अष्टादशाक्षरफला अष्टाक्षरनिषेविता ।
इत्येतद्राधिकादेव्या नाम्नामष्टोत्तरशतम् ॥ १६ ॥

कीर्तयेत्प्रातरुत्थाय कृष्णवश्यत्वसिद्धये ।
एकैकनामोच्चारेण वशी भवति केशवः ॥ १७ ॥

वदने चैव कण्ठे च बाह्वोरुरसि चोदरे ।
पादयोश्च क्रमेणास्या न्यसेन्मन्त्रान्पृथक्पृथक् ॥ १८ ॥

॥ ॐ तत्सत् ॥

इत्यूर्ध्वाम्नाये राधाष्टोत्तरशतनामकथनं नाम प्रथमः पटलः ॥

Also Read:

Shri Radha Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Radha Ashtottara Shatanama Stotram Lyrics in Hindi | Shri Radha Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top