Templesinindiainfo

Best Spiritual Website

Shri Shyama Deva Ashtottara Shatanama Stotram Lyrics in Hindi

Sri Shyama Devashtottara Shatanama Stotram Hindi Lyrics:

॥ श्रीश्यामदेवाष्टोत्तरशतनामस्तोत्रम् ॥

अनाद्यन्तो ह्यनन्तश्रीराकाशग इहागमः ।
ईतित्राता चोग्रदण्ड ऊतिकृदृणशोधनः ॥ १ ॥

एकराडैतिहासिक्यमृग्य ओषधिवीर्यदः ।
औपनिषदोंऽशुमान् केशप्रियः कल्याणवृत्तिदः ॥ २ ॥

कलिकालेऽद्भुताचिन्त्यशक्तिशाली कृतिप्रियः ।
खाटूग्रामकृतस्थानः खाटूयात्राजनप्रियः ॥ ३ ॥

गुणाढ्यो गुणिसंरक्षी ग्रहभीतिविनाशकः ।
घटनाप्रियश्चन्द्ररम्यः छत्रधारी जयप्रदः ॥ ४ ॥

झटित्याश्चर्यकारी च टुप्क्रोधी ठाकुरप्रभुः ।
डाकिनीत्रासनिर्हारी ढुण्ढारिक्षेत्रमध्यगः ॥ ५ ॥

णकारैवदुर्लक्ष्यपदस्तेजस्तपोनिधिः ।
तपनीयाभूषणाढ्यो थूत्कारापहतासुरः ॥ ६ ॥

दृढव्रतो दृढप्रेमी दाता दानविधिप्रियः ।
धीरो धीरप्रियो धीमान् धीदाता धान्यवर्धनः ॥ ७ ॥

धात्रीप्रियो धैर्यदाता न्यायकारो नतिप्रियः ।
पामराणामपि त्राता पापहारी पशुप्रदः ॥ ८ ॥

फाल्गुनेऽफल्गुदाता च बहुबाहुर्भयापहः ।
भक्तप्रियो भक्तसखो भक्तभावप्रपोषकः ॥ ९ ॥

भक्तिदो भक्तवचसां श्रोता च भजनप्रियः ।
मितभाषी मृषाद्वेषी यज्ञप्रेमी यमप्रियः ॥ १० ॥

रम्यमन्दिरमध्यस्थो लीलया बहुरूपधृक् ।
विशालभालतिलकः शरणागतवत्सलः ॥ ११ ॥

षट्कर्मविद्यः सन्तानदाता तु हवनप्रियः ।
श्रीश्यामदेवो ब्रह्मण्यो बालकेशार्पणप्रियः ॥ १२ ॥

दाम्पत्यक्षेमकर्ता च शुभोष्णीषी सदर्थकृत् ।
उशीरवासितजलप्रियः केतकिगन्धभूत् ॥ १३ ॥

कौसुम्भवर्णवस्त्राढ्यः केसरालेपनप्रियः ।
अआयताक्षः सुदीप्ताक्षः सुनासा विततश्रवाः ॥ १४ ॥

श‍ृङ्गारहृद्यो लोकेशो वर्वराकारकेशवान् ।
दर्शनीयतमः श्यामः सुललाटः सुविक्रमः ॥ १५ ॥

किरीटी मणिरत्नाढ्यो मकराकृतिकुण्डली ।
श्वेतध्वजः स्मितमुखो भक्तानामभयङ्करः ॥ १६ ॥

भक्तानां पालनार्थाय नानावेषधरोऽनघः ।
सत्यप्रियः प्राणदाता सत्यसख्यः सदावसुः ॥ १७ ॥

द्वादशीतिथिसंसेव्यः साज्यचूर्णेलिमप्रियः ।
श्रीमद्भागवतास्वादरसिको भूतिवर्धनः ॥ १८ ॥

॥ फलश्रुतिः ॥

अष्टोत्तरशतं नाम्ना प्रभोः श्यामस्य सेव्यताम् ।
क्षेमः शिवं रोगदोषनिवृत्तिरनुभूयताम् ॥ १९ ॥

श्रीश्यामकृपया ह्येतन्नाम्नामष्टोत्तरं शतम् ।
गोपालचन्द्रमिश्रस्तु लोके प्राचीकशच्छुभम् ॥ २० ॥

॥ इति श्रीश्यामदेवाष्टोत्तरशतनामस्तोत्रम् ॥

Also Read:

Shri Shyama Deva Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Shyama Deva Ashtottara Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top