Templesinindiainfo

Best Spiritual Website

Sri Durga Devi Shodashopachara Puja Lyrics in Hindi

Sri Durga Devi Shodashopachara Pooja in Hindi:

॥ श्री दुर्गा षोडशोपचार पूजा ॥
पूर्वाङ्गं पश्यतु ॥

हरिद्रा गणपति पूजा पश्यतु ॥

पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री जगदम्बा प्रसादेन सर्वापन्निवृत्यर्थं मनोवाञ्छाफल सिद्ध्यर्थं, मम व्याधिनाशपूर्वकं क्षिप्रमेवारोग्यप्राप्तिद्वारा ग्रहपीडानिवारण पीशाचोपद्रवादि सर्वारिष्ट निवारणपूर्वकं क्षेमायुः सकलैश्वर्य सिद्ध्यर्थं श्री महाकाली श्री महालक्ष्मी श्री महासरस्वती स्वरूपिणी श्री दुर्गा परादेवी प्रीत्यर्थं, संभवद्भिः द्रव्यैः संभवद्भिः उपचारैश्च संभवता नियमेन संभविता प्राकारेण श्रीसूक्त विधानेन यथा संभव कुङ्कुमार्चन पूर्वक यावच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये ॥

प्राणप्रतिष्ठा –
रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजादिरूढा कराब्जैः
पाशं कोदण्डमिक्षूद्भवमलिगुणमप्यङ्कुशं पञ्चबाणान् ।
बिभ्राणासृक्कपालं त्रिणयनलसिता पीनवक्षोरुहाढ्या
देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥

ओं आं ह्रीं क्रों हंसस्सोहम् ।

ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोगम्᳚ ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥

अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥

साङ्गां सायुधां सवाहनां सशक्तिं पति पुत्र परिवारसमेतां श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेवी आवाहिता भव स्थापिता भव । सुप्रसन्नो भव वरदा भव । स्थिरासनं कुरु प्रसीद प्रसीद ॥

स्वामिनि श्री जगन्माता यावत्पूजावसानकम् ।
तावत्त्वं प्रीतिभावेन यन्त्रे(बिम्बे)ऽस्मिन् सन्निधिं कुरु ॥

ध्यानम् –
लक्ष्मी प्रदान समये नवविद्रुमाभाम्
विद्याप्रदान समये शरदिन्दुशुभ्राम् ।
विद्वेषि वर्गविजयेतु तमालनीलाम्
देवीं त्रिलोकजननीं शरणं प्रपद्ये ॥

खड्गं चक्रगदेषु चापपरिघान् शूलं भुशुण्डिं शिरः ।
शङ्खं सन्दधतीं करैः त्रिणयनां सर्वाङ्गभूषाभृताम् ॥
नीलाश्मद्युति मास्यपाददशकां सेवे महाकालिकाम् ।
यामस्तौत् स्वपितेहरौ कमलजो हन्तुं मधुं कैटभम् ॥

अक्षस्रक् परशू गदेषु कुलिशान् पद्मं धनुः कुण्डिकाम् ।
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ॥
शूलं पाश सुदर्शने च दधतीं हस्तैः प्रवाल प्रभाम् ।
सेवेसैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥

घण्टा शूल हलानि शङ्ख मुसले चक्रं धनुस्सायकान् ।
हस्ताब्जैः दधतीं घनान्त विलसत् शीतांशुतुल्यप्रभाम् ॥
गौरी देह समुद्भवां त्रिजगतामाधारभूतां महा ।
पूर्वामत्र सरस्वतीमनुभजे शुंभादिदैत्यार्दिनीम् ॥

या देवी मधुकैटभ प्रशमनी या माहिषोन्मूलिनी
य धूम्रेक्षण चण्डमुण्डदमनी या रक्तबीजाशिनी ।
या शुम्भादि निशुंभ दैत्यशमनी या सिद्धलक्ष्मीः परा
सा चण्डी नवकोटिशक्ति सहिता मां पातु विश्वेश्वरी ॥

एणांकानल भानुमण्डल लसत् श्रीचक्र मध्ये स्थिताम्
बालार्क द्युति भासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।
चापं बाणमपि प्रसन्न वदनां कौस्तुंभ वस्त्रान्वितां
तां त्वां चन्द्र कलावतंस मकुटां चारुस्मितां भावये ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः ध्यायामि ।

आवाहनम् –
हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
आगच्छ वरदे देवि दैत्यदर्पविनाशिनि ।
पूजां गृहाण सुमुखि नमस्ते शङ्करप्रिये ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः आवाहयामि ।

आसनम् –
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥
दुर्गा देवि समागच्छ सान्निध्यमिह कल्पय ।
बलिं पूजां गृहाणत्वमष्टाभिः शक्तिभिस्सह ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः नवरत्नखचित सुवर्ण आसनं समर्पयामि ।

पाद्यम् –
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् ॥
सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थ साधके ।
शरण्ये त्रम्बके गौरी नारायणि नमोऽस्तु ते ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –
कां॒ सो᳚स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः हस्तयोः अर्घ्यं समर्पयामि ।

आचमनीयम् –
च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥
शरणागतदीनार्त परित्राण परायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः मुखे आचमनीयं समर्पयामि ।

पञ्चामृत स्नानम् –
क्षीरम् –
आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥
ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः क्षीरेण स्नपयामि ।

दधि –
द॒धि॒क्राव्णो॑अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिन॑: ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्राण॒ आयूग्॑म्षि तारिषत् ॥
ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः दध्ना स्नपयामि ।

आज्यं –
शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑सि दे॒वोव॑स्सवि॒तोत्पु॑ना॒तु
अच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभि॑: ।
ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः आज्येन स्नपयामि ।

मधु –
मधु॒वाता॑ ऋताय॒ते मधु॑क्षरन्ति॒ सिन्ध॑वः ।
माध्वी᳚र्नः स॒न्त्वौष॑धीः ।
मधु॒ नक्त॑मु॒तोष॑सि॒ मधु॑म॒त्पार्थि॑वग्ं रज॑: ।
मधु॒द्यौर॑स्तु नः पि॒ता ।
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्‌ं अस्तु॒ सूर्य॑: ।
माध्वी॒र्गावो॑ भवन्तु नः ।
ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः मधुना स्नपयामि ।

शर्करा –
स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने ।
स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तु नाम्ने ।
स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ ।
बृह॒स्पत॑ये॒ मधु॑मां॒ अदा᳚भ्यः ।
ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः शर्करेण स्नपयामि ।

फलोदकम् –
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणी॑: ।
बृह॒स्पति॑ प्रसूता॒स्तानो॑ मुन्च॒न्त्वग्‌ं ह॑सः ॥
ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः फलोदकेन स्नपयामि ।

औपचारिक स्नानम् –
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यः त्राहि नो देवी दुर्गा देवि नमोऽस्तु ते ॥
ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः औपचारिक स्नानं समर्पयामि ।

जल स्नानम् –
आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥
सुगन्धि विष्णुतैलं च सुगन्धामलकीजलम् ।
देह सौन्दर्य बीजं च गृह्यतां श्रीहरप्रिये ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।

वस्त्रम् –
उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥
अ॒भि वस्त्रा॑ सुवस॒नान्य॑र्षा॒भि धे॒नूः सु॒दुघा॑: पू॒यमा॑नः ।
अ॒भि च॒न्द्रा भर्त॑वे नो॒ हिर॑ण्या॒भ्यश्वा॑न्र॒थिनो॑ देव सोम ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः वस्त्रयुग्मं समर्पयामि ।

उपवीतम् –
क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् ॥

ओं य॒ज्ञो॒प॒वी॒तं प॒रमं॑ पवि॒त्रं
प्र॒जाप॑ते॒र्यत्स॒हजं॑ पु॒रस्ता᳚त् ।
आयु॑ष्यमग्र्यं॒ प्र॒ति मु॑ञ्च शु॒भ्रं
य॑ज्ञोपवी॒तं ब॒लम॑स्तु॒ तेज॑: ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः यज्ञोपवीतं समर्पयामि ।

गन्धं –
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
मलयाचल संभूतं वृक्षसारं मनोहरम् ।
सुगन्धयुक्तं सुखदं चन्दनं देवि गृह्यताम् ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः दिव्य श्री चन्दनं समर्पयामि ।

सुगन्ध द्रव्याणि –
ओं अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुं
ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः ॥
ह॒स्त॒ध्नो विश्वा॑ व॒युना॑नि
वि॒द्वान्पुमा॒न्पुमां॑सं॒ परि॑ पातु वि॒श्वत॑: ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः हरिद्रा कुङ्कुम कज्जल कस्तूरि गोरोचनादि सुगन्ध द्रव्याणि समर्पयामि ।

आभरणम् –
मन॑स॒: काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यश॑: ॥
ओं आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहन्तु पु॒ष्पिणी॑: ।
ह्र॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः सर्वाभरणानि समर्पयामि ।

पुष्पम् –
क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥ ११ ॥
चामन्तिका वकुल चम्पक पाटलाब्जैः
पुन्नाग जाजि करवीर रसाल पुष्पैः ।
बिल्व प्रवाल तुलसी दल मल्लिकाभिः
त्वां पूजयामि जगदीश्वरी देवि मातः ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।

अथाङ्ग पूजा –
ओं दुर्गायै नमः – पादौ पूजयामि ।
ओं गिरिजायै नमः – गुल्फौ पूजयामि ।
ओं अपर्णायै नमः – जानूनी पूजयामि ।
ओं हरिप्रियायै नमः – ऊरू पूजयामि ।
ओं पार्वत्यै नमः – कटिं पूजयामि ।
ओं आर्यायै नमः – नाभिं पूजयामि ।
ओं जगन्मात्रे नमः – उदरं पूजयामि ।
ओं मङ्गलायै नमः – कुक्षिं पूजयामि ।
ओं शिवायै नमः – हृदयं पूजयामि ।
ओं महेश्वर्यै नमः – कण्ठं पूजयामि ।
ओं विश्ववन्द्यायै नमः – स्कन्धौ पूजयामि ।
ओं काल्यै नमः – बाहू पूजयामि ।
ओं आद्यायै नमः – हस्तौ पूजयामि ।
ओं वरदायै नमः – मुखं पूजयामि ।
ओं सुवाण्यै नमः – नासिकां पूजयामि ।
ओं कमलाक्ष्यै नमः – नेत्रे पूजयामि ।
ओं अम्बिकायै नमः – शिरः पूजयामि ।
ओं देव्यै नमः – सर्वाण्यङ्गानि पूजयामि ।

अष्टोत्तर शतनामावली –

श्री दुर्गा अष्टोत्तरशतनामावली पश्यतु ।

श्री दुर्गा स्तोत्राणि पश्यतु ।

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः नाणाविध परिमल पत्र पुष्पाणि समर्पयामि ।

धूपम् –
आप॑: सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥
ओं धूरसि धूर्व धूर्वन्तं धूर्व तं योस्मन्धूर्वति
तं धूर्व यं वयं धूर्वामैः ।
देवा नमसि वह्नितमग्ं सास्त्रितमाम्
पप्रितमम् जुष्टतमे देवहूतमम् ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः धूपं समर्पयामि ।

दीपम् –
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
ओं उद्दीप्यस्व जातवेदोऽपघ्नं निरृतिं मम ।
पशूग्‌ंश्च मह्यमावह जीवनं च दिशोदिश ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः दीपं समर्पयामि ।

धूप दीपानन्तरं शुद्धाचमनीयं समर्पयामि ।

नैवेद्यम् –
आ॒र्द्रां य॒: करि॑णीं य॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आवह ॥
नानोपहार रूपं च नाना रससमन्वितम् ।
नाना स्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॑स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि (ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि ।
उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि ।
पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि ।

करः उद्वर्तनार्थे दिव्यश्री चन्दनं समर्पयामि ।

ताम्बूलम् –
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥
ताम्बूलं च वरं रम्यं कर्पूरादि सुवासितम् ।
जिह्वाजाड्यच्छेदकरं ताम्बूलं देवि गृह्यताम् ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः ताम्बूलं समर्पयामि ।

नीराजनम् –
यः शुचि॒: प्रय॑तो भू॒त्वा जु॒हुया᳚दाज्य॒ मन्व॑हम् ।
श्रिय॑: प॒ञ्चद॑शर्चं॒ च श्री॒काम॑: सत॒तं ज॑पेत् ॥
संम्राजं च विराजञ्चभिश्रीः याचनोगृहे ।
लक्ष्मीराष्ट्रस्य यामुखे तयामा सग्ंसृजामपि ॥

कर्पूर दीपतेजस्त्वं अज्ञानतिमिरापह ।
देवी प्रीतिकरं चैव मम सौख्यं विवर्थय ॥
सन्तत श्रीरस्तु समस्त मङ्गलानि भवन्तु
नित्यश्रीरस्तु नित्यमङ्गलानि भवन्तु ।

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः कर्पूर नीराजनं समर्पयामि ।

नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि ।
नमस्करोमि ।

मन्त्रपुष्पम् –
आन॑न्द॒: कर्द॑मश्चैव चि॒क्लीत॑ इति॒ विश्रु॑ताः ।
ऋष॑य॒स्ते त्रयः पुत्राः स्वयं श्रीदेवि देवता ॥
सद्भावपुष्पाण्यादाय सहज प्रेमरूपिणे ।
लोकमात्रे ददाम्यद्य प्रीत्या संगृह्यतां सदा ॥

श्री दुर्गा सूक्तम् पश्यतु ।

ओं म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि ।
तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥
ओं का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि ।
तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि ।

आत्मप्रदक्षिण नमस्कारम् –
यानिकानि च पापानि जन्मान्तरकृतानि च
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहिमां कृपया देवी शरणागतवत्सले ।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष सुरेश्वरी ।

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।

साष्टाङ्ग नमस्कारम् –
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोष्टाङ्गमुच्यते ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः साष्टाङ्ग नमस्कारां समर्पयामि ।

सर्वोपचाराः –
ओं श्रीदुर्गा परादेव्यै नमः छत्रं आच्छादयामि ।
ओं श्रीदुर्गा परादेव्यै नमः चामरैर्वीजयामि ।
ओं श्रीदुर्गा परादेव्यै नमः नृत्यं दर्शयामि ।
ओं श्रीदुर्गा परादेव्यै नमः गीतं श्रावयामि ।
ओं श्रीदुर्गा परादेव्यै नमः आन्दोलिकान्नारोहयामि ।
ओं श्रीदुर्गा परादेव्यै नमः अश्वानारोहयामि ।
ओं श्रीदुर्गा परादेव्यै नमः गजानारोहयामि ।

यद्यद्द्रव्यमपूर्वं च पृथिव्यामतिदुर्लभम् ।
देवभूपार्हभोग्यं च तद्द्रव्यं देवि गृह्यताम् ॥

ओं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः समस्त राज्ञीयोपचारान् देव्योपचारान् समर्पयामि ।

क्षमा प्रार्थना –
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
पुत्रोऽयमिति मां मत्वा क्षमस्व परमेश्वरी ।
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व परमेश्वरी ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरी ।
यत्पूजितं मया देवी परिपूर्णं तदस्तु ते ।

अनया श्रीसूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजनेन भगवती सर्वात्मिका श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेवी सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥

तीर्थप्रसाद स्वीकरण –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेवी पादोदकं पावनं शुभम् ॥

श्रीमहाकाली श्रीमहालक्ष्मी श्रीमहासरस्वती स्वरूपिणी श्रीदुर्गा परादेव्यै नमः प्रसादं शीरसा गृह्णामि ।

शान्तिः –
ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु ।
स॒ह वी॒र्यं॑ करवावहै ।
ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

स्वस्ति ।

Also Read:

Sri Durga Devi Shodashopachara Puja Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Durga Devi Shodashopachara Puja Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top