Templesinindiainfo

Best Spiritual Website

Sri Ekadanta Stotram Lyrics in Hindi

Sri Ekadanta Stotram in Hindi:

॥ श्री एकदन्त स्तोत्रम् ॥
मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः ।
भृग्वादयश्च मुनय एकदन्तं समाययुः ॥ १ ॥

प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् ।
तुष्टुवुर्हर्षसम्युक्ता एकदन्तं गणेश्वरम् ॥ २ ॥

देवर्षय ऊचुः
सदात्मरूपं सकलादिभूत
-ममायिनं सोऽहमचिन्त्यबोधम् ।
अनादिमध्यान्तविहीनमेकं
तमेकदन्तं शरणं व्रजामः ॥ ३ ॥

अनन्तचिद्रूपमयं गणेशं
ह्यभेदभेदादिविहीनमाद्यम् ।
हृदि प्रकाशस्य धरं स्वधीस्थं
तमेकदन्तं शरणं व्रजामः ॥ ४ ॥

विश्वादिभूतं हृदि योगिनां वै
प्रत्यक्षरूपेण विभान्तमेकम् ।
सदा निरालम्ब-समाधिगम्यं
तमेकदन्तं शरणं व्रजामः ॥ ५ ॥

स्वबिम्बभावेन विलासयुक्तं
बिन्दुस्वरूपा रचिता स्वमाया ।
तस्यां स्ववीर्यं प्रददाति यो वै
तमेकदन्तं शरणं व्रजामः ॥ ६ ॥

त्वदीय-वीर्येण समस्तभूता
माया तया संरचितं च विश्वम् ।
नादात्मकं ह्यात्मतया प्रतीतं
तमेकदन्तं शरणं व्रजामः ॥ ७ ॥

त्वदीय-सत्ताधरमेकदन्तं
गणेशमेकं त्रयबोधितारम् ।
सेवन्त आपूर्यमजं त्रिसंस्था-
स्तमेकदन्तं शरणं व्रजामः ॥ ८ ॥

ततस्त्वया प्रेरित एव नाद-
स्तेनेदमेवं रचितं जगद्वै ।
आनन्दरूपं समभावसंस्थं
तमेकदन्तं शरणं व्रजामः ॥ ९ ॥

तदेव विश्वं कृपया तवैव
सम्भूतमाद्यं तमसा विभातम् ।
अनेकरूपं ह्यजमेकभूतं
तमेकदन्तं शरणं व्रजामः ॥ १० ॥

ततस्त्वया प्रेरितमेव तेन
सृष्टं सुसूक्ष्मं जगदेकसंस्थम् ।
सत्त्वात्मकं श्वेतमनन्तमाद्यं
तमेकदन्तं शरणं व्रजामः ॥ ११ ॥

तदेव स्वप्नं तपसा गणेशं
संसिद्धिरूपं विविधं बभूव ।
सदेकरूपं कृपया तवाऽपि
तमेकदन्तं शरणं व्रजामः ॥ १२ ॥

सम्प्रेरितं तच्च त्वया हृदिस्थं
तथा सुदृष्टं जगदंशरूपम् ।
तेनैव जाग्रन्मयमप्रमेयं
तमेकदन्तं शरणं व्रजामः ॥ १३ ॥

जाग्रत्स्वरूपं रजसा विभातं
विलोकितं तत्कृपया तथैव ।
तदा विभिन्नं भवदेकरूपं
तमेकदन्तं शरणं व्रजामः ॥ १४ ॥

एवं च सृष्ट्वा प्रकृतिस्वभावा-
त्तदन्तरे त्वं च विभासि नित्यम् ।
बुद्धिप्रदाता गणनाथ एक-
स्तमेकदन्तं शरणं व्रजामः ॥ १५ ॥

त्वदाज्ञया भान्ति ग्रहाश्च सर्वे
नक्षत्ररूपाणि विभान्ति खे वै ।
आधारहीनानि त्वया धृतानि
तमेकदन्तं शरणं व्रजामः ॥ १६ ॥

त्वदाज्ञया सृष्टिकरो विधाता
त्वदाज्ञया पालक एव विष्णुः ।
त्वदाज्ञया संहरको हरोऽपि
तमेकदन्तं शरणं व्रजामः ॥ १७ ॥

यदाज्ञया भूर्जलमध्यसंस्था
यदाज्ञयाऽपः प्रवहन्ति नद्यः ।
सीमां सदा रक्षति वै समुद्र-
स्तमेकदन्तं शरणं व्रजामः ॥ १८ ॥

यदाज्ञया देवगणो दिविस्थो
ददाति वै कर्मफलानि नित्यम् ।
यदाज्ञया शैलगणोऽचलो वै
तमेकदन्तं शरणं व्रजामः ॥ १९ ॥

यदाज्ञया शेष इलाधरो वै
यदाज्ञया मोहकरश्च कामः ।
यदाज्ञया कालधरोऽर्यमा च
तमेकदन्तं शरणं व्रजामः ॥ २० ॥

यदाज्ञया वाति विभाति वायु-
र्यदाज्ञयाऽग्निर्जठरादिसंस्थः ।
यदाज्ञया वै सचराऽचरं च
तमेकदन्तं शरणं व्रजामः ॥ २१ ॥

सर्वान्तरे संस्थितमेकगूढं
यदाज्ञया सर्वमिदं विभाति ।
अनन्तरूपं हृदि बोधकं वै
तमेकदन्तं शरणं व्रजामः ॥ २२ ॥

यं योगिनो योगबलेन साध्यं
कुर्वन्ति तं कः स्तवनेन स्तौति ।
अतः प्रमाणेन सुसिद्धिदोऽस्तु
तमेकदन्तं शरणं व्रजामः ॥ २३ ॥

गृत्समद उवाच –
एवं स्तुत्वा च प्रह्लाद देवाः समुनयश्च वै ।
तूष्णीं भावं प्रपद्यैव ननृतुर्हर्षसम्युताः ॥ २४ ॥

स तानुवाच प्रीतात्मा ह्येकदन्तः स्तवेन वै ।
जगाद तान्महाभागान्देवर्षीन्भक्तवत्सलः ॥ २५ ॥

एकदन्त उवाच –
प्रसन्नोऽस्मि च स्तोत्रेण सुराः सर्षिगणाः किल ।
शृणु त्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६ ॥

भवत्कृतं मदीयं वै स्तोत्रं प्रीतिप्रदं मम ।
भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २७ ॥

यं यमिच्छति तं तं वै दास्यामि स्तोत्र पाठतः ।
पुत्रपौत्रादिकं सर्वं लभते धनधान्यकम् ॥ २८ ॥

गजाश्वादिकमत्यन्तं राज्यभोगं लभेद्ध्रुवम् ।
भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २९ ॥

मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् ।
पठतां शृण्वतां नृणां भवेच्च बन्धहीनता ॥ ३० ॥

एकविंशतिवारं च श्लोकांश्चैवैकविंशतिम् ।
पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ॥ ३१ ॥

न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु वै भवेत् ।
असाध्यं साधयेन्मर्त्यः सर्वत्र विजयी भवेत् ॥ ३२ ॥

नित्यं यः पठते स्तोत्रं ब्रह्मभूतः स वै नरः ।
तस्य दर्शनतः सर्वे देवाः पूता भवन्ति वै ॥ ३३ ॥

एवं तस्य वचः श्रुत्वा प्रहृष्टा देवतर्षयः ।
ऊचुः करपुटाः सर्वे भक्तियुक्ता गजाननम् ॥ ३४ ॥

इती श्री एकदन्तस्तोत्रं सम्पूर्णम् ॥

Also Read:

Sri Ekadanta Stotram Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Ekadanta Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top