Templesinindiainfo

Best Spiritual Website

Sri Gayatri Stuti Lyrics in Hindi

Sri Gayatri Stuti in Hindi:

॥ श्री गायत्री स्तुति ॥
नारद उवाच ।
भक्तानुकम्पिन् सर्वज्ञ हृदयं पापनाशनम् ।
गायत्र्याः कथितं तस्माद् गायत्र्याः स्तोत्रमीरथ ॥ १ ॥

श्री नारायण उवाच ।
आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणी ।
सर्वत्र व्यापिकेऽनन्ते श्री सन्ध्ये ते नामोऽस्तुते ॥ २ ॥

त्वमेव सन्ध्या गायत्री सावित्री च सरस्वती ।
ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ॥ ३ ॥

प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः ।
वृद्धा सायं भगवती चिन्त्यते मुनिभिस्सदा ॥ ४ ॥

हंसस्था गरुडारूढा तथा वृषभवाहनी ।
ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥ ५ ॥

यजुर्वेदं पठन्ती च अन्तरिक्षे विराजिते ।
सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ॥ ६ ॥

रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी ।
त्वमेव ब्राह्मणो लोके मर्त्यानुग्रहकारिणी ॥ ७ ॥

सप्तर्षिप्रीति जननी माया बहुवरप्रदा ।
शिवयोः करनेत्रोत्था ह्य श्रुस्वेदसमुद्भवा ॥ ८ ॥

आनन्दजननी दुर्गा दशथा परिपठ्यते ।
वरेण्य़ा वरदा चैव वरिष्ठा वरवर्णिनी ॥ ९ ॥

गरिष्ठा वाराही च वरारोहा च सप्तमी ।
नीलगङ्गा तथा सन्ध्या सर्वदा भोगमोक्षदा ॥ १० ॥

भागीरधी मर्त्यलोके पाताले भोगवत्यपि ।
त्रिलोकवासिनी देवी स्थानत्रयनिवासिनी ॥ ११ ॥

भूर्लोकस्था त्वमेवाऽसि धरित्री शोकधारिणी ।
भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ॥ १२ ॥

महर्लोके महासिद्धिर्जनलोके जनन्यपि ।
तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ॥ १३ ॥

कमला विष्णुलोके च गायत्री ब्रह्मलोकगा ।
रुद्रलोके स्थिता गौरी हरार्धाङ्गनिवासिनी ॥ १४ ॥

अहमेव महतश्चैव प्रकृतिस्त्वं हि गीयसे ।
साम्यवस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ॥ १५ ॥

ततः पराऽपराशक्ति परमा त्वं हि गीयसे ।
इच्छाशक्ति क्रियाशक्तिः ज्ञानशक्तिः त्रिशक्तिदा ॥ १६ ॥

गङ्गा च यमुना चैव विपाशा च सरस्वती ।
सुरयूर्धेविका सिन्धुर्नर्मदेरावती तथा ॥ १७ ॥

गोदावरी शतद्रुश्च कावेरी देवलोकगा ।
कौशिकी चन्द्रभागा च वितस्ता च सरस्वती ॥ १८ ॥

गण्डकी तापिनी तोया गोमती वेत्रवत्यपि ।
इडा च पिङ्गली चैव सुषुम्ना च तृतीयका ॥ १९ ॥

गान्धारी हस्तिजिह्वा च पूषापूषा तथैव च ।
अलं बुषा कुहूश्चैव शङ्खिनी प्राणवाहिनी ॥ २० ॥

नाडी च तं शरीरस्था गीयसे प्राक्तनैर्बुधैः ।
हृत्पद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ॥ २१ ॥

तालुस्था त्वं सदाधार बिन्दुस्था बिन्दुमालिनी ।
मूले तु कुण्डली शक्तिः व्यापिनी केशमूलगा ॥ २२ ॥

शिखामध्यासना त्वं हि शिखाग्रेतु मनोन्मनी ।
किमन्यद्बहुनोक्तेन यत्किञ्चिज्जगतीत्रये ॥ २३ ॥

तत्सर्वे त्वं महादेवि श्रिय़े सन्ध्ये नमोस्तुते ।
इतीदं कीर्तितं स्तोत्रं सन्ध्यायां बहुपुण्यदम् ॥ २४ ॥

महापापप्रशमनं महासिद्धि विधायकम् ।
य इदं कीर्तयेत् स्तोत्रं सन्ध्याकाले समाहितः ॥ २५ ॥

अपुत्रः प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् ।
सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ॥ २६ ॥

भोगान् भुङ्क्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् ।
तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ॥ २७ ॥

यत्र यत्र जले मग्नः सन्ध्यामज्जनजं फलम् ।
लभते नात्र सन्देहः सत्यं सत्यं च नारद ॥ २८ ॥

शृणुयाद्योपि तद्भक्त्या स तु पापात् प्रमुच्यते ।
पीयूषसदृशं वाक्यं सन्ध्योक्तं नारदेरितम् ॥ २९ ॥

Also Read:

Sri Gayatri Stuti Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Gayatri Stuti Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top