Templesinindiainfo

Best Spiritual Website

Sri Lalitha Shodasopachara Puja Vidhi in Hindi

Sri Lalitha Shodasopachara Puja Vidhanam in Hindi:

॥ श्री ललिता षोडशोपचार पूजा ॥
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री ललिता परमेश्वरीमुद्दिश्य श्री ललितापरमेश्वरी प्रीत्यर्थं यवच्छक्ति ध्यानावाहनादि षोडशोपचार पूजां करिष्ये ॥

पीठपूजा –
आधारशक्त्यै नमः । वराहाय नमः ।
दिग्गजेभ्यो नमः । पत्रेभ्यो नमः ।
केसरेभ्यो नमः । कर्णिकायै नमः ।
आत्मने नमः । ब्रह्मणे नमः ।
सप्तप्राकारं चतुर्द्वारक सहित सुवर्ण मण्डपं पूजयेत् ।
प्रागाम्नायमय पूर्वद्वारे द्वारश्रियै नमः ।
दक्षिणाम्नायमय दक्षिणद्वारे द्वारश्रियै नमः ।
पश्चिमाम्नायमय पश्चिमद्वारे द्वारश्रियै नमः ।
उत्तराम्नायमय उत्तरद्वारे द्वारश्रियै नमः ।
तन्मध्ये क्षीरसागराय नमः ।
क्षीरसागरमध्ये रत्नद्वीपाय नमः ।
रत्नद्वीपमध्ये कल्पवृक्षवाटिकायै नमः ।
तन्मध्ये रत्नसिंहासनाय नमः ।
रत्नसिंहासनोपस्थित श्री ललिता परमेश्वरी देवतायै नमः ।

ध्यानम् –
अरुणां करुणातरङ्गिताक्षीं
धृतपाशाङ्कुशपुष्पबाणचापाम् ।
अणिमादिभिरावृतां मयूखै-
रहमित्येव विभावये भवानीम् ॥

ध्यायेत्पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् ।
सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं
श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥

एह्येहि देवदेवेशि त्रिपुरे देवपूजिते
परामृतप्रिये शीघ्रं सान्निध्यं कुरु सिद्धिदे ।
इति बिन्दुपीठगत निर्विशेष ब्रह्मात्मक श्रीमत्कामेश्वराङ्के श्रीललिताम्बिकां आवाहयेत् ।
ओं श्री ललिता परमेश्वरी देव्यै नमः ध्यायामि ।

प्राणप्रतिष्ठा –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥

आवाहिता भव स्थापिता भव ।
सुप्रसन्नो भव वरदो भव ।
स्थिरासनं कुरु प्रसीद प्रसीद ।

सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीं अरुणमाल्यभूषाम्बरां
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥

आवाहनम् –
ओं हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
सहस्रदलपद्मस्थां स्वस्थां च सुमनोहराम् ।
शान्तां च श्रीहरेः कान्तां तां भजे जगतां प्रसूम् ॥
ओं श्री ललिता देव्यै नमः आवाहयामि ।

आसनम् –
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥
अमूल्य रत्नसारं च निर्मितं विश्वकर्मणा ।
आसनं च प्रसन्नं च महादेवि प्रगृह्यताम् ॥
ओं श्री ललिता देव्यै नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।

पाद्यम् –
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् ॥
शुद्धगङ्गोदकमिदं सर्ववन्दितमीप्सितम् ।
पापेध्मवह्निरूपं च गृह्यतां परमेश्वरी ।
ओं श्री ललिता देव्यै नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –
कां॒ सो᳚स्मि॒तां हिर॑ण्यप्रा॒कारा॑-
-मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒
तामि॒होप॑ह्वये॒ श्रियम् ॥
पुष्पचन्दनदूर्वादिसम्युतं जाह्नवीजलम् ।
शङ्खगर्भस्थितं शुद्धं गृह्यतां पद्मवासिनि ॥
ओं श्री ललिता देव्यै नमः हस्तयोः अर्घ्यं समर्पयामि ।

आचमनीयम् –
च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒
श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्ये-
-ऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥
पुण्यतीर्थादिकं चैव विशुद्धं शुद्धिदं सदा ।
गृह्यतां कृष्णकान्ते च रम्यमाचमनीयकम् ॥
ओं श्री ललिता देव्यै नमः मुखे आचमनीयं समर्पयामि ।

पञ्चामृत स्नानम् –
क्षीरम् –
आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥
ओं श्री ललिता देव्यै नमः क्षीरेण स्नपयामि ।

दधि –
द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिन॑: ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्राण॒ आयूग्॑म्षि तारिषत् ॥
ओं श्री ललिता देव्यै नमः दध्ना स्नपयामि ।

आज्यम् –
शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑सि दे॒वोव॑स्सवि॒तोत्पु॑ना॒तु
अच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभि॑: ।
ओं श्री ललिता देव्यै नमः आज्येन स्नपयामि ।

मधु –
मधु॒वाता॑ ऋताय॒ते मधु॑क्षरन्ति॒ सिन्ध॑वः ।
माध्वी᳚र्नः स॒न्त्वौष॑धीः ।
मधु॒ नक्त॑मु॒तोष॑सि॒ मधु॑म॒त्पार्थि॑वग्ं रज॑: ।
मधु॒द्यौर॑स्तु नः पि॒ता ।
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्‍ं अस्तु॒ सूर्य॑: ।
माध्वी॒र्गावो॑ भवन्तु नः ।
ओं श्री ललिता देव्यै नमः मधुना स्नपयामि ।

शर्करा –
स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने ।
स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तु नाम्ने ।
स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ ।
बृह॒स्पत॑ये॒ मधु॑मां॒ अदा᳚भ्यः ।
ओं श्री ललिता देव्यै नमः शर्करेण स्नपयामि ।

फलोदकम् –
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणी॑: ।
बृह॒स्पति॑ प्रसूता॒स्तानो॑ मुन्च॒न्त्वग्‍ं ह॑सः ॥
ओं श्री ललिता देव्यै नमः फलोदकेन स्नपयामि ।

शुद्धोदक स्नानम् –
आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो
वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु
मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥
सुगन्धि विष्णुतैलं च सुगन्धामलकीजलम् ।
देह सौन्दर्य बीजं च गृह्यतां श्रीहरप्रिये ।
ओं श्री ललित देव्यै नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।

वस्त्रम् –
उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥
सौन्दर्यमुख्यालङ्कारं सदा शोभाविवर्धनम् ।
कार्पासजं च क्रिमिजं वसनं देवि गृह्यताम् ।
ओं श्री ललिता देव्यै नमः वस्त्रयुग्मं समर्पयामि ।

व्यजनचामरम् –
क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् ॥
शिववायुप्रदे चैव देहे च सुखदे वरे ।
कमले गृह्यतां चेमे व्यजनश्वेतचामरे ।
ओं श्री ललिता देव्यै नमः व्यजनचामराभ्यां वीजयामि ।

गन्धम् –
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
मलयाचलसम्भूतं वृक्षसारं मनोहरम् ।
सुगन्धयुक्तं सुखदं चन्दनं देवि गृह्यताम् ॥

ओं श्री ललिता देव्यै नमः श्री गन्धान् धारयामि ।

ओं श्री ललिता देव्यै नमः हरिद्रा कुङ्कुम कज्जल कस्तूरी गोरोचनादि सुगन्ध द्रव्याणि समर्पयामि ।

आभरणम् –
मन॑स॒: काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यश॑: ॥
रत्नस्वर्णविकारं च देहालङ्कारवर्धनम् ।
शोभादानं श्रीकरं च भूषणं प्रतिगृह्यताम् ।
ओं श्री ललिता देव्यै नमः सर्वाभरणानि समर्पयामि ।

पुष्पाणि –
क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥ ११ ॥
नाना कुसुम निर्माणं बहुशोभाप्रदं परम् ।
सर्वभूतप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् ॥
ओं श्री ललिता देव्यै नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।

अष्टोत्तरशतनामावली –
श्री ललिता अष्टोत्तरशतानामावली पश्यतु ।

श्री ललिता सहस्रनाम स्तोत्रम् पश्यतु ।

श्री ललिता सहस्रनामावली पश्यतु ।

धूपम् –
आप॑: सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥
वृक्षनिर्यासरूपं च गन्धद्रव्यादि संयुतम् ।
श्रीकृष्णकान्ते धूपं च पवित्रं प्रतिगृह्यताम् ।
ओं श्री ललिता देव्यै नमः धूपं आघ्रापयामि ।

दीपम् –
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
जगच्चक्षुः स्वरूपं च प्राणरक्षणकारणम् ।
प्रदीपं शुद्धरूपं च गृह्यतां परमेश्वरी ॥
ओं श्री ललिता देव्यै नमः दीपं समर्पयामि ।

नैवेद्यम् –
आ॒र्द्रां य॒: करि॑णीं य॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आवह ॥
नानोपहाररूपं च नानारससमन्वितम् ।
नानास्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ॥

ओं भूर्भुव॑स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्य॒म् ।
भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ योन॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायंकाले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
ओं श्री ललिता देव्यै नमः नैवेद्यं समर्पयामि ।

ताम्बूलम् –
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚-
-न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥
ताम्बूलं च वरं रम्यं कर्पूरादि सुवासितम् ।
जिह्वाजाड्यच्छेदकरं ताम्बूलं देवि गृह्यताम् ॥
ओं श्री ललिता देव्यै नमः ताम्बूलं समर्पयामि ।

नीराजनम् –
संम्राजं च विराजञ्चाभिश्रीर्याच नो गृहे ।
लक्ष्मी राष्ट्रस्य या मुखे तया मा संसृजामसि ।
कर्पूरदीपतेजस्त्वं अज्ञानतिमिरापह ।
देवीप्रीतिकरं चैव मम सौख्यं विवर्धय ॥
सन्तत श्रीरस्तु समस्त मङ्गलानि भवन्तु ।
नित्य श्रीरस्तु नित्यमङ्गलानि भवन्तु ॥
ओं श्री ललिता देव्यै नमः कर्पूर नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।

मन्त्रपुष्पम् –
( दुर्गा सूक्तम् वा श्रीसूक्तम् पश्यतु )
सद्भावपुष्पाण्यादाय सहजप्रेमरूपिणे ।
लोकमात्रे ददाम्यद्य प्रीत्या सङ्गृह्यतां सदा ॥
ओं श्री ललिता देव्यै नमः मन्त्रपुष्पाणि समर्पयामि ।

आत्मप्रदक्षिण नमस्कारम् –
यानिकानि च पापानि जन्मान्तरकृतानि च
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहिमां कृपया देवी शरणागतवत्सले ।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष महेश्वरी ।
ओं श्री ललिता देव्यै नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।

साष्टाङ्ग नमस्कारम् –
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्गमुच्यते ॥
ओं श्री ललिता देव्यै नमः साष्टाङ्ग नमस्कारान् समर्पयामि ।

सर्वोपचाराः –
ओं श्री ललिता देव्यै नमः छत्रं आच्छादयामि ।
ओं श्री ललिता देव्यै नमः चामरैर्वीजयामि ।
ओं श्री ललिता देव्यै नमः नृत्यं दर्शयामि ।
ओं श्री ललिता देव्यै नमः गीतं श्रावयामि ।
ओं श्री ललिता देव्यै नमः आन्दोलिकानारोहयामि ।
ओं श्री ललिता देव्यै नमः अश्वानारोहयामि ।
ओं श्री ललिता देव्यै नमः गजानारोहयामि ।

यद्यद्द्रव्यमपूर्वं च पृथिव्यामतिदुर्लभम् ।
देवभूपार्हभोग्यं च तद्द्रव्यं देवि गृह्यताम् ॥
ओं श्री ललिता देव्यै नमः समस्त राज्ञीयोपचारान् देव्योपचारान् समर्पयामि ।

क्षमा प्रार्थना –
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरी ।
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व परमेश्वरी ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरी ।
यत्पूजितं मया देवी परिपूर्णं तदस्तुते ।

अनया श्रीसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजनेन भगवती सर्वात्मिका श्री ललिता देवी सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥

तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री ललिता देवी पादोदकं पावनं शुभम् ॥

ओं श्री ललित देव्यै नमः प्रसादं शीरसा गृह्णामि ।

ओं शान्तिः शान्तिः शान्तिः ।

Also Read:

Sri Lalitha Shodasopachara Pooja Vidhanam Lyrics in Hindi | English |  Kannada | Telugu | Tamil

Sri Lalitha Shodasopachara Puja Vidhi in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top