Templesinindiainfo

Best Spiritual Website

Sri Meenakshi Navaratnamala Lyrics in Hindi

Sri Meenakshi Navaratnamala in Hindi:

॥ श्री मीनाक्षी नवरत्नमाला ॥

गौरीं काञ्चनपद्मिनीतटगृहां श्रीसुन्दरेशप्रियां
नीपारण्यसुवर्णकन्तुकपरिक्रीडाविलोलामुमां ।
श्रीमत्पाण्ड्य कुलाचलाग्रविलसद्रत्नप्रदीपायितां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ १ ॥

गौरीं वेदकदम्बकाननशुकीं शास्त्राटवीकेकिनीं
वेदान्ताखिलधर्महेमनलिनीहंसीं शिवां शाम्भवीं ।
ओङ्काराबुजनीलमत्तमधुपां मन्त्राम्रशाखापिकां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ २ ॥

गौरीं नूपुरशोभिताङ्घ्रिकमलां तूणोल्लसज्जङ्घिकां
दन्तादर्शसमानजानुयुगलां रम्भानिभोरूज्ज्वलां ।
काञ्चीबद्धमनोज्ञपीन जघनामावर्तनाभीहृदां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ३ ॥

गौरीं व्योमसमानमध्यमधृतामुत्तुङ्गवक्षोरुहां
वीणामञ्जुलशारिकान्वितकरां शङ्खाभकण्ठोज्ज्वलां ।
राकाचन्द्रसमानचारुवदनां लोलम्बनीलालकां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ४ ॥

गौरीं कुङ्कुमपङ्कलेपितलसद्वक्षोजकुम्भोज्ज्वलां
कस्तूरीतिलकालिकामलयजोल्लेपोल्लसत्कन्धरां ।
लाक्षाकर्दम शोभिपादयुगलां सिन्दूरसीमन्तिनीं
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ५ ॥

गौरीं मञ्जुलमीननेत्रयुगलां कोदण्डसुभ्रूलतां
बिम्बोष्ठीं जितकुन्ददन्तरुचिरां चाम्पेयनासोज्ज्वलां ।
अर्धेन्दुप्रतिबिम्बफालरुचिरामादर्शगण्डस्थलां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ६ ॥

गौरीं काञ्चनकङ्कणाङ्गदधरां नासोल्लसन्मौक्तिकां
काञ्चीहारकिरीटकुण्डलशिरोमाणिक्यभूषोज्ज्वलां ।
मञ्जीराङ्गुलिमुद्रिकाङ्घ्रिकटकग्रैवेयकालङ्कृतां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ७ ॥

गौरीं चम्पकमल्लिकादिकुसुमां पुन्नागसौगन्धिकां
द्रोणेन्दीवरकुन्दजातिवकुलैराबद्धचूलीयुतां ।
मन्दारारुणपुष्पकैतकदलैः श्रेणीलसद्वेणिकां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ८ ॥

गौरीं दाडिमपुष्पवर्णविलसद्दिव्याम्बरालङ्कृतां
चन्द्राम्शोपमचारुचामरकरां श्रीभारतीसेवितां ।
नानारत्नसुवर्णदण्डविलसन्मुक्तातपत्रोज्ज्वलां
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ९ ॥

वाचा वा मनसापि वा गिरिसुते कायेन वा सन्ततं
मीनाक्षीति कदाचिदम्ब कुरुतेत्वन्नामसङ्कीर्तनं ।
लक्ष्मीः तस्य गृहे वसत्यनुदिनं वाणी च वक्त्राम्बुजे
धर्माद्यष्टचतुष्टयं करतले प्राप्तं भवेन्निश्चयः ॥ १० ॥

Also Read:

Sri Meenakshi Navaratnamala Lyrics in English | Hindi |Kannada | Telugu | Tamil

Sri Meenakshi Navaratnamala Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top