Sri Sita Kavacham in Hindi:
॥ श्री सीता कवचम् ॥
। ध्यानम् ।
सीतां कमलपत्राक्षीं विद्युत्पुञ्जसमप्रभाम् ।
द्विभुजां सुकुमाराङ्गीं पीतकौसेयवासिनीम् ॥ १ ॥
सिंहासने रामचन्द्र वामभागस्थितां वराम्
नानालङ्कार सम्युक्तां कुण्डलद्वय धारिणीम् ॥ २ ॥
चूडाकङ्कण केयूर रशना नूपुरान्विताम् ।
सीमन्ते रविचन्द्राभ्यां निटिले तिलकेन च ॥ ३ ॥
मयूरा भरणेनापि घ्राणेति शोभितां शुभाम् ।
हरिद्रां कज्जलं दिव्यं कुङ्कुमं कुसुमानि च ॥ ४ ॥
बिभ्रन्तीं सुरभिद्रव्यं सगन्ध स्नेह मुत्तमम् ।
स्मिताननां गौरवर्णां मन्दारकुसुमं करे ॥ ५ ॥
बिभ्रन्तीमपरेहस्ते मातुलुङ्गमनुत्तमम् ।
रम्यवासां च बिम्बोष्ठीं चन्द्रवाहन लोचनाम् ॥ ६ ॥
कलानाथ समानास्यां कलकण्ठ मनोरमाम् ।
मातुलिङ्गोत्भवां देवीं पद्माक्षदुहितां शुभाम् ॥ ७ ॥
मैथिलीं रामदयितां दासीभिः परिवीजिताम् ।
एवं ध्यात्वा जनकजां हेमकुम्भ पयोधराम् ॥ ८ ॥
सीतायाः कवचं दिव्यं पठनीयं सुभावहम् ॥ ९ ॥
। कवचम् ।
श्री सीता पूर्वतः पातु दक्षिणेऽवतु जानकी ।
प्रतीच्यां पातु वैदेही पातूदीच्यां च मैथिली ॥ १ ॥
अधः पातु मातुलुङ्गी ऊर्ध्वं पद्माक्षजाऽवतु ।
मध्येऽवनिसुता पातु सर्वतः पातु मां रमा ॥ २ ॥
स्मितानना शिरः पातु पातु फालं नृपात्मजा ।
पद्माऽवतु भृवोर्मध्ये मृगाक्षी नयनेऽवतु ॥ ३ ॥
कपोले कर्णमूले च पातु श्रीरामवल्लभा ।
नासाग्रं सात्त्विकी पातु पातु वक्त्रं तु राजसी ॥ ४ ॥
तामसी पातु मद्वाणीं पातु जिह्वां पतिव्रता ।
दन्तान् पातु महामाया चिबुकं कनकप्रभा ॥ ५ ॥
पातु कण्ठं सौम्यरूपा स्कन्धौ पातु सुरार्चिता ।
भुजौ पातु वरारोहा करौ कङ्कणमण्डिता ॥ ६ ॥
नखान् रक्तनखा पातु कुक्षौ पातु लघूदरा ।
वक्षः पातु रामपत्नी पार्श्वे रावणमोहिनी ॥ ७ ॥
पृष्ठदेशे वह्निगुप्ताऽवतु मां सर्वदैव हि ।
दिव्यप्रदा पातु नाभिं कटिं राक्षसमोहिनी ॥ ८ ॥
गुह्यं पातु रत्नगुप्ता लिङ्गं पातु हरिप्रिया ।
ऊरू रक्षतु रम्भोरूः जानुनी प्रियभाषिणी ॥ ९ ॥
जङ्घे पातु सदा सुभ्रूः गुल्फौ चामरवीजिता ।
पादौ लवसुता पातु पात्वङ्गानि कुशाम्बिका ॥ १० ॥
पादाङ्गुलीः सदा पातु मम नूपुर निस्वना ।
रोमाण्यवतु मे नित्यं पीतकौशेयवासिनी ॥ ११ ॥
रात्रौ पातु कालरूपा दिने दानैकतत्परा ।
सर्वकालेषु मां पातु मूलकासुरघातिनी ॥ १२ ॥
। फलशृति ।
एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् ।
इदं प्रातः समुत्थाय स्नात्वा नित्यं पठेत्तुयः ॥ १३ ॥
जानकीं पूजयित्वा स सर्वान् कामानवाप्नुयात् ।
धनार्थी प्राप्नुयाद्द्रव्यं पुत्रार्थी पुत्रमाप्नुयात् ॥ १४ ॥
स्त्रीकामार्थी शुभां नारीं सुखार्थी सौख्यमाप्नुयात् ।
अष्टवारं जपनीयं सीतायाः कवचं सदा ॥ १५ ॥
अष्टभूसुर सीतायै नरै प्रीत्यार्पयेत् सदा ।
फलपुष्पादिकादीनि यानि यानि पृथक् पृथक् ॥ १६ ॥
सीतायाः कवचं चेदं पुण्यं पातकनाशनम् ।
ये पठन्ति नरा भक्त्या ते धन्या मानवा भुवि ॥ १७ ॥
पठन्ति रामकवचं सीतायाः कवचं विना ।
तथा विना लक्ष्मणस्य कवचेन वृथा स्मृतम् ॥ १८ ॥
तस्मात् सदा नरैर्जाप्यं कवचानां चतुष्टयम् ।
आदौ तु वायुपुत्रस्य लक्ष्मणस्य ततः परम् ॥ १९ ॥
ततः पटेच्च सीतायाः श्रीरामस्य ततः परम् ।
एवं सदा जपनीयं कवचानां चतुष्टयम् ॥ २० ॥
इति श्री शतकोटिरामायणान्तर्गत श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे श्री सीता कवचम् ।
Also Read:
Sri Sita Kavacham Lyrics in Hindi | English | Kannada | Telugu | Tamil