Templesinindiainfo

Best Spiritual Website

Vakaradi Sri Varaha Ashtottara Shatanama Stotram Lyrics in Hindi

Vakaradi Sri Varahashtottarashatanama Stotram Lyrics in Hindi:

॥ वकारादि श्रीवराहाष्टोत्तरशतनामस्तोत्रम् ॥
श्री हयग्रीवाय नमः ।
हरिः ॐ

वराहो वरदो वन्द्यो वरेण्यो वसुदेवभाः ।
वषट्कारो वसुनिधिर्वसुधोद्धरणो वसुः ॥ १ ॥

वसुदेवो वसुमतीदंष्ट्रो वसुमतीप्रियः ।
वनधिस्तोमरोमान्धु र्वज्ररोमा वदावदः ॥ २ ॥

वलक्षाङ्गो वश्यविश्वो वसुधाधरसन्निभः ।
वनजोदरदुर्वारविषादध्वंसनोदयः ॥ ३ ॥

वल्गत्सटाजातवातधूतजीमूतसंहतिः ।
वज्रदंष्ट्राग्रविच्छिन्न हिरण्याक्षधराधरः ॥ ४ ॥

वशिष्टाद्यर्षिनिकरस्तूयमानो वनायनः ।
वनजासनरुद्रेन्द्रप्रसादित महाशयः ॥ ५ ॥

वरदानविनिर्धूतब्रह्मब्राह्मणसंशयः ।
वल्लभो वसुधाहारिरक्षोबलनिषूदनः ॥ ६ ॥

वज्रसारखुराघातदलिताब्धिरसाहिवः ।
वलाद्वालोत्कटाटोपध्वस्तब्रह्माण्डकर्परः ॥ ७ ॥

वदनान्तर्गतायात ब्रह्माण्डश्वासपद्धतिः ।
वर्चस्वी वरदंष्ट्राग्रसमुन्मीलितदिक्तटः ॥ ८ ॥

वनजासननासान्तर्हंसवाहावरोहितः ।
वनजासनदृक्पद्मविकासाद्भुतभास्करः ॥ ९ ॥

वसुधाभ्रमरारूढदंष्ट्रापद्माग्रकेसरः ।
वसुधाधूममषिका रम्यदंष्ट्राप्रदीपकः ॥ १० ॥

वसुधासहस्रपत्रमृणालायित दंष्ट्रिकः ।
वसुधेन्दीवराक्रान्तदंष्ट्राचन्द्रकलाञ्चितः ॥ ११ ॥

वसुधाभाजनालम्बदंष्ट्रारजतयष्टिकः ।
वसुधाभूधरावेधि दंष्ट्रासूचीकृताद्भुतः ॥ १२ ॥

वसुधासागराहार्यलोकलोकपधृद्रदः ।
वसुधावसुधाहारिरक्षोधृच्छृङ्गयुग्मकः ॥ १३ ॥

वसुधाधस्समालम्बिनालस्तम्भ प्रकम्पनः ।
वसुधाच्छत्ररजतदण्डच्छृङ्गमनोरमः ॥ १४ ॥

वतंसीकृतमन्दारो वलक्षीकृतभूतलः ।
वरदीकृतवृत्तान्तो वसुधीकृतसागरः ॥ १५ ॥

वश्यमायो वरगुणक्रियाकारो वराभिधः ।
वरुणालयवास्तव्यजन्तुविद्राविघुर्घुरः ॥ १६ ॥

वरुणालयविच्छेत्ता वरुणादिदुरासदः ।
वनजासनसन्तानावनजात महाकृपः ॥ १७ ॥

वत्सलो वह्निवदनो वराहवमयो वसुः ।
वनमाली वन्दिवेदो वयस्थो वनजोदरः ॥ १८ ॥

वेदत्वचे वेदविदे वेदिने वेदवादिने ।
वेदवेदाङ्गतत्त्वज्ञ नमस्ते वेदमूर्तये ॥ १९ ॥

वेदविद्वेद्य विभवो वेदेशो वेदरक्षणः ।
वेदान्तसिन्धुसञ्चारी वेददूरः पुनातु माम् ॥ २० ॥

वेदान्तसिन्धुमध्यस्थाचलोद्धर्ता वितानकृत् ।
वितानेशो वितानाङ्गो वितानफलदो विभुः ॥ २१ ॥

वितानभावनो विश्वभावनो विश्वरूपधृत् ।
विश्वदंष्ट्रो विश्वगर्भो विश्वगो विश्वसम्मतः ॥ २२ ॥

वेदारण्यचरो वामदेवादिमृगसंवृतः ।
विश्वातिक्रान्तमहिमा पातु मां वन्यभूपतिः ॥ २३ ॥

वैकुण्ठकोलो विकुण्ठलीलो विलयसिन्धुगः ।
वप्तःकबलिताजाण्डो वेगवान् विश्वपावनः ॥ २४ ॥

विपश्चिदाशयारण्यपुण्यस्फूर्तिर्विश‍ृङ्खलः ।
विश्वद्रोहिक्षयकरो विश्वाधिकमहाबलः ॥ २५ ॥

वीर्यसिन्धुर्विवद्बन्धुर्वियत्सिन्धुतरङ्गितः ।
व्यादत्तविद्वेषिसत्त्वमुस्तो विश्वगुणाम्बुधिः ॥ २६ ॥

विश्वमङ्गलकान्तार कृतलीलाविहार ते ।
विश्वमङ्गलदोत्तुङ्ग करुणापाङ्ग सन्नतिः ॥ २७ ॥

॥ इति वकारादि श्री वराहाष्टोत्तरशतम् पराभव
श्रावणशुद्ध त्रयोदश्यां लिखितं रामेण समर्पितं च
श्रीमद्धयवदन चरणारविन्दयोर्विजयतां तराम् ॥

Also Read:

Vakaradi Sri Varaha Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Vakaradi Sri Varaha Ashtottara Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top