Adhyaya numbering is different from Gautami mahatma with 105 Adhyayas are inserted from 70th Adhyaya in the encoding.
Vyasagita from Brahma Purana in Hindi:
॥ व्यासगीता ब्रह्मपुराणे ॥
अध्यायः २३४ (१२६)
आत्यन्तिकलयनिरूपणम्
व्यास उवाच
आध्यात्मिकादि भो विप्रा ज्ञात्वा तापत्रयं बुधः ।
उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥ २३४.१ ॥
आध्यात्मिकोऽपि द्विविधा शारीरो मानसस्तथा ।
शारीरो बहुभिर्भेदैर्भिद्यते श्रूयतां च सः ॥ २३४.२ ॥
शिरोरोगप्रतिश्यायज्वरशूलभगंदरैः ।
गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥ २३४.३ ॥
तथाऽक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः ।
भिद्यते देहजस्तापो मानसं श्रोतुमर्हथ ॥ २३४.४ ॥
कामक्रोधभद्वेषलोभमोहविषादजः ।
शोकासूयावमानेर्ष्यामात्सर्याभिभवस्तथा ॥ २३४.५ ॥
मानसोऽपि द्विजश्रेष्ठास्तापो भवति नैकधा ।
इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ २३४.६ ॥
मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः ।
सरीसृपाद्यैश्च नृणां जन्यते चाऽऽधिभौतिकः ॥ २३४.७ ॥
शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवः ।
तापो द्विजवरश्रेष्ठाः कथ्यते चाऽऽधिदैविकः ॥ २३४.८ ॥
गर्भजन्मजराज्ञानमृत्युनारकजं तथा ।
दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तमाः ॥ २३४.९ ॥
सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते ।
उल्बसंवेष्टितो भग्नपृष्ठग्रीवास्थिसंहतिः ॥ २३४.१० ॥
अत्यम्लकटुतीक्ष्णोष्णलवणैर्मातृभोजनैः ।
अतितापिभिरत्यर्थं बाध्यमानोऽतिवेदनः ॥ २३४.११ ॥
प्रसारणाकुञ्चनादौ नागा(ङ्गा)नां प्रभुरात्मनः ।
शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः ॥ २३४.१२ ॥
निरुच्छ्वासः सचैतन्यः स्मरञ्जन्मशतान्यथ ।
आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः ॥ २३४.१३ ॥
जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः ।
प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥ २३४.१४ ॥
अधोमुखस्तैः क्रियते प्रबलैः सूतिमारुतैः ।
क्लेशैर्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः ॥ २३४.१५ ॥
मूर्च्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना ।
विज्ञानभ्रंसमाप्नोति जातस्तु मुनिसत्तमाः ॥ २३४.१६ ॥
कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः ।
पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा ॥ २३४.१७ ॥
कण्डूयनेऽपि चाशक्तः परिवर्तेऽप्यनीश्वरः ।
स्तनपानादिकाहारमवाप्नोति परेच्छया ॥ २३४.१८ ॥
अशुचिस्रस्तरे सुप्तः कीटदंशादिभिस्तथा ।
भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥ २३४.१९ ॥
जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणि च ।
बालभावे यदाप्नोति आधिभूतादिकानि च ॥ २३४.२० ॥
अज्ञानतमसा छन्नो मूढान्तः करणो नरः ।
न जानाति कुतः कोऽहं कुत्र गन्ता किमात्मकः ॥ २३४.२१ ॥
केन बन्धेन बद्धोऽहं कारणं किमकारणम् ।
किं कार्यं किमकार्यं वा किं वाच्यं किं न चोच्यते ॥ २३४.२२ ॥
को धर्मः कश्च वाऽधर्मः कस्मिन्वर्तेत वै कथम् ।
किं कर्तव्यमकर्तव्यं किं वा किं गुणदोषवत् ॥ २३४.२३ ॥
एवं पशुसमैर्मूढैरज्ञानप्रभवं महत् ।
अवाप्यते नरैर्दुःखं शिश्नोदरपरायणैः ॥ २३४.२४ ॥
अज्ञानं तामसो भावः कार्यारम्भप्रवृत्तयः ।
अज्ञानिनां प्रवर्तन्ते कर्मलोपस्ततो द्विजाः ॥ २३४.२५ ॥
नरकं कर्मणां लोपात्फलमाहुर्महर्षयः ।
तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥ २३४.२६ ॥
जराजर्जरदेहश्च शिथिलावयवः पुमान् ।
विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ २३४.२७ ॥
दूरप्रनष्टनयनो व्योमान्तर्गततारकः ।
नासाविवरनिर्यातरोमपुञ्जश्चलद्वपुः ॥ २३४.२८ ॥
प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः ।
उत्सन्नजठराग्नित्वादल्पाहारोल्पचेष्टितः ॥ २३४.२९ ॥
कृच्छ्रचंक्रमणोत्थानशयनासनचेष्टितः ।
मन्दीभवच्छ्रोत्रनेत्रगलल्लालाविलाननः ॥ २३४.३० ॥
अनायत्तैः समस्तैश्च करणैर्मरणोन्मुखः ।
तत्क्षणेऽप्यनुभूतानामस्मर्ताऽखिलवस्तुनाम् ॥ २३४.३१ ॥
सकृदुच्चारिते वाक्ये समुद्भूतमहाश्रमः ।
श्वासकासामयायाससमुद्भूतप्रजागरः ॥ २३४.३२ ॥
अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी ।
भृत्यात्मपुत्रदाराणामपमानपराकृतः ॥ २३४.३३ ॥
प्रक्षीणाखिलशौचश्च विहाराहारसंस्पृहः ।
हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ॥ २३४.३४ ॥
अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् ।
संस्मरन्यौवने दीर्घं निःश्वसित्यतितापितः ॥ २३४.३५ ॥
एवमादीनि दुःखानि जरायामनुभूय च ।
मरणे यानि दुःखानि प्राप्नोति शृणु तान्यपि ॥ २३४.३६ ॥
श्लथग्रीवाङ्घ्रिहस्तोऽथ प्राप्तो वेपथुना नरः ।
मुहुर्ग्लानिपरश्चासौ मुहुर्ज्ञानबलन्वितः ॥ २३४.३७ ॥
हिरण्यधान्यतयभार्याभृत्यगृहादिषु ।
एते कथं भविष्यन्तीत्यतीवममताकुलः ॥ २३४.३८ ॥
मर्मविद्भिर्महारोगैः क्रकचैरिव दारुणैः ।
शरैरिवान्तकस्योग्रैश्छिद्यमानास्थिबन्धनः ॥ २३४.३९ ॥
परिवर्तमानताराक्षिहस्तपादं मुहुः क्षिपन् ।
संशुष्यमाणताल्वोष्ठकण्ठो घुरघुरायते ॥ २३४.४० ॥
निरुद्धकण्ठदेशीऽपि उदानश्वासपीडितः ।
तापेन महता व्याप्तस्तृषा व्याप्तस्तथा क्षुधा ॥ २३४.४१ ॥
क्लेशादुत्क्रान्तिमाप्नोति याम्यकिंकरपीडितः ।
तापेन महात व्याप्तस्तृषा व्याप्तस्तथा क्षुधा ॥ २३४.४२ ॥
एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् ।
शृणुध्वं दर्शं यानि प्राप्यन्ते पुरुषैर्मृतैः ॥ २३४.४३ ॥
याम्यकिंकरपाशादिग्रहणं दण्डताडनम् ।
यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम् ॥ २३४.४४ ॥
करम्भवालुकाविह्नियन्त्रशस्त्रादिभीषणे ।
प्रत्येकं यातनायाश्च यातनादि द्विजोत्तमाः ॥ २३४.४५ ॥
क्रकचैःपीड्यमानानांमृ(मू)षायां चापि ध्माप्यताम् ।
कुठारैः पाट्यमानानांभूमौ चापि निखन्यताम् ॥ २३४.४६ ॥
शूलेष्वारोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् ।
गृध्रैः संभक्ष्यमाणानां द्वीपिभिश्चोपभुज्यताम् ॥ २३४.४७ ॥
क्वथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे ।
उच्चन्निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ २३४.४८ ॥
नरके यानि दुःखानि पापहेतूद्भवानि वै ।
प्राप्यन्ते नारकैर्विप्रास्तेषां संख्या न विद्यते ॥ २३४.४९ ॥
न केवलं द्विजश्रेष्ठा नरके दुःखपद्धतिः ।
स्वर्गेऽपि पातभीतस्य क्षयिष्णोर्नास्ति निर्वृतिः ॥ २३४.५० ॥
पुनश्च गर्भो भवति जायते च पुनर्नरः ।
गर्भे विलीयते भूयो जायमानोऽस्तमेति च ॥ २३४.५१ ॥
जातमात्रश्च म्रियते बालभावे च यौवने ।
यद्यत्प्रीतिकरं पुंसां वस्तु विप्राः प्रजायते ॥ २३४.५२ ॥
तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति ।
कलत्रपुत्रमित्रादिगृहक्षेत्रधनादिकैः ॥ २३४.५३ ॥
क्रियते न तथा भूरि सुखं पुंसां यथाऽसुखम् ।
इति संसारदुःखार्कतापतापितचेतसाम् ॥ २३४.५४ ॥
विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् ।
तदस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः ॥ २३४.५५ ॥
गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ।
निरस्तातिशयाह्लादं सुखभावैकलक्षणम् ॥ २३४.५६ ॥
भेषजं भगवत्प्राप्तिरेका चाऽऽत्यन्तिकी मता ।
तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः ॥ २३४.५७ ॥
तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं द्विजोत्तमाः ।
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ॥ २३४.५८ ॥
शब्दब्रह्माऽऽगममयं परं ब्रह्म विवेकजम् ।
अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् ॥ २३४.५९ ॥
यथा सूर्यस्तथा ज्ञानं यद्वै विप्रा विवेकजम् ।
मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तमाः ॥ २३४.६० ॥
तदेतच्छ्रुयतामत्र संबन्धे गदतो मम ।
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥ २३४.६१ ॥
शब्दब्रह्मणि निष्णातः परं ब्रह्मधिगच्छति ।
द्वे विद्ये वेदितव्ये इति चाऽऽथर्वणी श्रुतिः ॥ २३४.६२ ॥
परया ह्यक्षरप्राप्तिरृग्वेदादिमयाऽपरा ।
यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् ॥ २३४.६३ ॥
अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम् ।
वित्तं सर्वगतं नित्यं भूतयोनिमकारणम् ॥ २३४.६४ ॥
व्याप्यं व्याप्यं यतः सर्वं तद्वै पश्यन्ति सूरयः ।
तद्ब्रह्म परमं धाम तद्व्येयं मोक्षकाङ्क्षिभिः ॥। २३४.६५ ॥
श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ।
उत्पत्तिं प्रलयं चैव भूतानामगतिं गतिम् ॥ २३४.६६ ॥
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ।
ज्ञानशक्तिबलवैश्वर्यवीर्यतेजांस्यशेषतः ॥ २३४.६७ ॥
भगवच्छब्दवाच्यानि च स वाच्यो भगवानिति ।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ॥ २३४.६८ ॥
भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः ।
उवाचेदं महर्षिभ्यः पुरा पृष्टः प्रजापतिः ॥ २३४.६९ ॥
नामाव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ।
भूतेषु वसते योऽन्तर्वसन्त्यत्र च तानि यत् ॥
धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ २३४.७० ॥
ससर्वभूतप्रकृतिर्गुणांश्च, दोषांश्च सर्वान्स(न)गुणो ह्यतीतः ।
अतीतसर्वावरणोऽखिलात्मा, तेनाऽऽवृतं यद्भवनान्तरालम् ॥ २३४.७१ ॥
समस्तकल्याणगुणात्मको हि, स्वशक्तिलेशादृतभूतसर्गः ।
इच्छागृहीताभिमतोरुदेहः, संसाधिताशेषजगद्धितोऽसौ ॥ २३४.७२ ॥
तेजोबलैश्वर्यमहावरोधः, स्ववीर्यशक्त्यादिगुणैकराशिः ।
परः पराणां सकला न यत्र, क्लेशादयः सन्ति परापरेशे ॥ २३४.७३ ॥
स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपः प्रकटस्वरूपः ।
सर्वेश्वरः सर्वदृक्सर्ववेत्ता, समस्तशक्तिः परमेश्वराख्यः ॥ २३४.७४ ॥
संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् ।
संदृश्यते वाऽऽप्यथ गम्यते वा,तज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ॥ २३४.७५ ॥
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवाद आत्यन्तिकलयनिरूपणं नाम
चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ २३४ ॥
अध्यायः २३५ (१२७)
योगाभ्यासनिरूपणम्
मुनय ऊचुः
इदानीं ब्रूहि योगं च दुःखसंयोगभेषजम् ।
यं विदित्वाऽव्ययं तत्र युञ्जामः पुरुषोत्तमम् ॥ २३५.१ ॥
श्रुत्वा स वचनं तेषां कुष्णद्वैपायनस्तदा ।
अब्रवीत्परमप्रीतो योगी योगविदां वरः ॥ २३५.२ ॥
योगं वक्ष्यामि भो विप्राः शृणुध्वं भवनाशनम् ।
यमभ्यस्याऽऽप्नु याद्योगी मोक्षं परमदुर्लभम् ॥ २३५.३ ॥
श्रुत्वाऽऽदौ योगशास्त्राणि गुरुमाराध्य भक्तितः ।
इतिहासं पुराणं च वेदांश्चैव विचक्षणः ॥ २३५.४ ।
आहारं योगदोषांश्च देशकालं च बुद्धिमान् ।
ज्ञात्वा समभ्यसेद्योगं निर्द्वद्वो निष्परिग्रहः ॥ २३५.५ ॥
भुञ्जन्सक्तुं यवागूं च तक्रमूलफलं पयः ।
यावकं कणपिण्याकमाहारं योगसाधनम् ॥ २३५.६ ॥
न मनोविकले ध्माते न श्रान्ते क्षुधिते तथा ।
न द्वंद्वे न च शीते च न चोष्णे नानिलात्मके ॥ २३५.७ ॥
सशब्दे न जलाभ्यासे जीर्णगोष्ठे चतुष्पथे ।
सरीसृपे श्मशाने च न नद्यन्तेऽग्निसंनिधौ ॥ २३५.८ ॥
न चैत्ये न च वल्मीके सभये कूपसंनिधै ।
न शुष्कपर्णनिचये योगं युञ्जीत कर्हिचित् ॥ २३५.९ ॥
देशानेताननादृत्य मूढत्वाद्यो युनक्ति वै ।
प्रवक्ष्ये तस्य ये दोषा जायन्ते विघ्नकारकाः ॥ २३५.१० ॥
बाधिर्यं जडता लोपः स्मृतेर्मूकत्वमन्धता ।
ज्वरश्च जायते सद्यस्तद्वदज्ञानसंभवः ॥ २३५.११ ॥
तस्मात्सर्वात्मना कार्या रक्षा योगविदा सदा ।
धर्मार्थकाममोक्षणां शरीरं साधनं यतः ॥ २३५.१२ ॥
आश्रमे विजने गुह्ये निःशब्दे निर्भये नगे ।
शून्यागारे शुचौरम्ये चैकान्ते देवतालये ॥ २३५.१३ ॥
रजन्याः पश्चिमे यामे पूर्वे च सुसमाहितः ।
पूर्वाह्णे मध्यमे चाह्नि युक्ताहारो जितेन्द्रियः ॥ २३५.१४ ॥
आसीनः प्राङ्मुखो रम्य आसने सुखनिश्चले ।
नातिनीचे न चोच्छ्रिते निस्पृहः सत्यवाक्षुचिः ॥ २३५.१५ ॥
युक्तनिद्रो जितक्रोधः सर्वभूतहिते रतः ।
सर्वद्वंद्वसहो धीरः समकायाङ्घ्रिमस्तकः ॥ २३५.१६ ॥
नाभौ निधाय हस्तौ द्वौ शान्तः पद्मासने स्थितः ।
संस्थाप्य दृष्टिं नासाग्रे प्राणानायम्य वाग्यतः ॥ २३५.१७ ॥
समाहृत्येन्द्रियग्रामं मनसा हृदये मुनिः ।
प्रणवं दीर्घमुद्यम्य संवृतास्यः सुनिश्चलः ॥ २३५.१८ ॥
रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा ।
संछाद्य निर्मलं शान्ते स्थितः संवृतलोचनः ॥ २३५.१९ ॥
हृत्पद्मकोटरे लीनं सर्वव्यापि निरञ्जनम् ।
युञ्जीत शान्ते स्थितः संवृतलोचनः ॥ २३५.२० ॥
करणेन्द्रियभूतानि क्षेत्रज्ञे प्रथमं न्यसेत् ।
क्षेत्रज्ञश्च परे योज्यस्ततो युञ्जति योगवित् ॥ २३५.२१ ॥
मनो यस्यान्तमभ्येति परमात्मनि चञ्चलम् ।
संत्यज्य विषयांस्तस्य योगसिद्धिः प्रकाशिता ॥ २३५.२२ ॥
यदा निर्विषयं चित्तं परे ब्रह्मणि लीयते ।
समाधौ योगयुक्तस्य तदाऽभ्येति परं पदम् ॥ २३५.२३ ॥
असंसक्तं यदा चित्तं योगिनः सर्वकर्मसु ।
भवत्यानन्दमासाद्य तदा निर्वाणमृच्छति ॥ २३५.२४ ॥
शुद्धं धामत्रयातीतं तुर्याख्यं पुरुषोत्तमम् ।
प्राप्य योगबलाद्योगी मुच्यते नात्र संशयः ॥ २३५.२५ ॥
निःस्पृहः सर्वकामेभ्यः सर्वत्र प्रियदर्शनः ।
सर्वत्रानित्यबुद्धिस्तु योगी मुच्येत नान्यथा ॥ २३५.२६ ॥
इन्द्रियाणि न सेवेन वैराग्येण च योगवित् ।
सदा चाभ्यासयोगेन मुच्यते नात्र संशयः ॥ २३५.२७ ॥
न च पद्मासनाद्योगो न नासाग्रनिरीक्षणात् ।
मनसश्चेन्द्रियाणां च संयोगो योग उच्यते ॥ २३५.२८ ॥
एवं मया मुनिश्रेष्ठा योगः प्रोक्तो विमुक्तिदः ।
संसारमोक्षहेतुश्च किमन्यच्छ्रोतुमिच्छथ ॥ २३५.२९ ॥
लोमहर्षण उवाच
श्रुत्वा ते वचनं तस्य साधु साध्विति चाब्रुवन् ।
व्यासं प्रशस्य सम्पूज्य पुनः प्रष्टुं समुद्यताः ॥ २३५.३० ॥
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे योगाभ्यासनिरूपणं नाम
पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥ २३५ ॥
अध्यायः २३६ (१२८)
सांख्ययोगनिरूपणम्
मुनय ऊचुः
तव वक्त्राब्धिसंभूतममृतं वाङ्मयं मुने ।
पिबतां नो द्विजश्रेष्ठ न नृप्तिरिह दृश्यते ॥ २३६.१ ॥
तस्माद्योगं मुने ब्रूहि विस्तरेण विमुक्तिदम् ।
सांख्यं च द्विपदां श्रेष्ठ श्रोतुमिच्छामहे वयम् ॥ २३६.२ ॥
प्रज्ञावाञ्श्रोत्रियो यज्वा ख्यातः प्राज्ञोऽनसूयकः ।
सत्यधर्ममतिर्ब्रह्मन्कथं ब्रह्माधिगच्छति ॥ २३६.३ ॥
तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया ।
सांख्ये वा यदि वा योग एतत्पृष्टो वदस्व नः ॥ २३६.४ ॥
मनसश्चेन्द्रियाणां च यथैकागय्रमवाप्यते ।
येनोपायेन पुरुषस्तत्त्वं व्याख्यातुमर्हसि ॥ २३६.५ ॥
व्यास उवाच
नान्यत्र ज्ञानतपसोर्नान्यत्रेन्द्रियनिग्रहात् ।
नान्यत्र सर्वसंत्यागात्सिद्धिं विन्दति कश्चन ॥ २३६.६ ॥
महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः ।
भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु ॥ २३६.७ ॥
भूमेर्देहो जलात्स्नेहो ज्योतिषश्चक्षुषी स्मृते ।
प्राणापानाश्रयो वायुःकोष्ठाकाशं शरीरिणाम् ॥ २३६.८ ॥
क्रान्तौ विष्णुर्बले शक्रः कोष्ठेऽग्निर्भोक्तुमिच्छति ।
कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक्सरस्वती ॥ २३६.९ ॥
कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
दश तानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥ २३६.१० ॥
शब्दस्पर्शौ तथा रूपं रसं गन्धं च पञ्चमम् ।
इन्द्रियार्थान्पृथग्विद्यादिन्द्रियेभ्यस्तु नित्यदा ॥ २३६.११ ॥
इन्द्रियाणि मनो युङ्क्ते अवश्या(शा)निव राजिनः(लः) ।
मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः ॥ २३६.१२ ॥
इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः ।
नियमे च विसर्गे च भूतात्मा मनसस्तथा ॥ २३६.१३ ॥
इन्द्रियाणीन्द्रियार्थश्च स्वभावश्चेतना मनः ।
प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥ २३६.१४ ॥
आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतनाः ।
सत्त्वं हि तेजः सृजति न गुणान्वै कथंचन ॥ २३६.१५ ॥
एवं सप्तदशं देहं वृतं षोडशभिर्गुणैः ।
मनीषी मनसा विप्राः पश्यत्यात्मानमात्मनि ॥ २३६.१६ ॥
न ह्यं चक्षुषा दुश्यो न च सर्वैरपीन्द्रियैः ।
मनसा तु प्रदीप्तेन महानात्मा प्रकशते ॥ २३६.१७ ॥
अशब्दस्पर्शरूपं तच्च(च्चा)रसागन्धमव्ययम् ।
अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् ॥ २३६.१८ ॥
अव्यक्तं सर्वदेहेषु मर्त्येषु परमार्चितम् ।
योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयतः ॥ २३६.१९ ॥
विद्याविनयसम्पन्नब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ २३६.२० ॥
स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च ।
वसत्येको महानात्मा येन सर्वमिदं ततम् ॥ २३६.२१ ॥
सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि ।
यदा पश्यति भूतात्मा ब्रह्म सम्पद्यते तदा ॥ २३६.२२ ॥
यावानात्मनि वेदाऽऽत्मा तावानात्मा परात्मनि ।
य एवं सततं वेद सोऽमृतत्वाय कल्पते ॥ २३६.२३ ॥
सर्वभूतात्मभूतस्य सर्वभूतहितस्य च ।
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ २३६.२४ ॥
शकुन्तानामिवाऽऽकाशे मत्स्यानामिव चोदके ।
यथा गतिर्न दृश्येन तथा ज्ञानविदां गतिः ॥ २३६.२५ ॥
कालः पचति भूतानि सर्वाण्येवाऽऽत्मनाऽऽत्मनि ।
यस्मिस्तु पच्यते कालस्तन्न वेदेह कश्चन ॥ २३६.२६ ॥
न तदुर्ध्वं न तिर्यक्च नाधो न च पुनः पुनः ।
न मध्ये प्रतिगृह्णीते नैव किंचिन्न कश्चन ॥ २३६.२७ ॥
सर्वे तत्स्था इमे लोका बाह्यमेषां न किंचन ।
यद्यप्यग्रे समागच्छेद्यता बाणो गुणच्युतः ॥ २३६.२८ ॥
नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः ।
तस्मात्सूक्ष्मतरं नास्ति नास्ति स्थूलतरं तथा ॥ २३६.२९ ॥
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ २३६.३० ॥
तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् ।
तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते ॥ २३६.३१ ॥
अक्षरं च क्षरं चैव द्वेधा भावोऽयमात्मनः ।
क्षकः सर्वेषु भूतेषु दिव्यं त्वमृतमक्षरम् ॥ २३६.३२ ॥
नवद्वारं पुरं कृत्वा हंसो हि नियतो वशी ।
ईदृशः सर्वभूतस्य स्थावरस्य चरस्य च ॥ २३६.३३ ॥
हानेनाभिविकल्पानां नराणां संचयेन च ।
शरीराणामजस्याऽऽहुर्हंसत्वं पारदर्शिनः ॥ २३६.३४ ॥
हंसोक्तं च क्षरं चैव कूटस्थं यत्तदक्षरम् ।
तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी ॥ २३६.३५ ॥
व्यास उवाच
भवतां पृच्छतां विप्रा यथावदिह तत्त्वतः ।
सांख्यं ज्ञानेन संयुक्तं तदेतत्कीर्तितं मया ॥ २३६.३६ ॥
योगकृत्यं तु भो विप्राः कीर्तयिष्याम्यतः परम् ।
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ॥ २३६.३७ ॥
आत्मनो व्यापिनो ज्ञानं ज्ञानमेतदत्तुमम् ।
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना ॥ २३६.३८ ॥
आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा ।
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ॥ २३६.३९ ॥
कामं क्रोदं च लोभं च भयं स्वप्नं पञ्चमम् ।
क्रोधं शमेन जयति कामं संकल्पवर्जनात् ॥ २३६.४० ॥
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ।
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ॥ २३६.४१ ॥
चक्षुः श्रोत्रं च मनसा मनो वाचं च कर्मणा ।
अप्रमादाद्भयं जह्यद्दम्भं प्राज्ञोपसेवनात् ॥ २३६.४२ ॥
एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः ।
अग्नींश्च ब्राह्मणांश्चाथ देवताः प्रणमेत्सदा ॥ २३६.४३ ॥
वर्जयेदुद्धतां वाचं हिंसायुक्तां मनोनुगाम् ।
ब्रह्मतेजोमयं शुक्रं यस्य सर्वमिदं जगत् ॥ २३६.४४ ॥
एतस्य भूतभूतस्य दृष्टं स्थावरजङ्गमम् ।
ध्यायनमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥ २३६.४५ ॥
शौचं चैवाऽऽत्मनः शुद्धिरिन्द्रयाणां च निग्रहः ।
एतैर्विवर्घते तेजः पाप्मानं चापकर्षति ॥ २३६.४६ ॥
समः सर्वेषु भूतेषु लभ्यालभ्येन वर्तयन्
धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ २३६.४७ ॥
तामत्रधौ वशे कृत्वा निषेवेद्ब्रह्मणः पदम् ।
मनसश्चेन्द्रियाणां च कृत्वैकाग्रयं समाहितः ॥ २३६.४८ ॥
पूर्वरात्रे परार्धे च धारयेन्मन आत्मनः ।
जन्तोः पञ्चेन्द्रियस्यास्य यद्येकं क्लिन्नमिन्द्रियम् ॥ २३६.४९ ॥
ततोऽस्य स्रवति प्रज्ञा गिरेः पादादिवोदकम् ।
मनसः पूर्वमादद्यात्कूर्माणामिव मत्स्यहा ॥ २३६.५० ॥
ततः श्रोत्रं ततश्चक्षुर्जिह्वा घ्राणं च योगवित् ।
तत एतानि संयम्य मनसि स्थापयेद्यदि ॥ २३६.५१ ॥
तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत् ।
पञ्चेन्द्रियाणि मनसि हृदि संस्थापयेद्यदि ॥ २३६.५२ ॥
यदैतान्यवतिष्ठन्ते मनः षष्ठानि चाऽऽत्मनि ।
प्रसीदन्ति च संस्थायां तदा ब्रह्म प्रकाशते ॥ २३६.५३ ॥
विधूम इव दीप्तार्चिरागत्य इव दीप्तिमान् ।
वैद्युतोऽग्निरिवाऽऽकाशे पश्यन्त्यात्मानमात्मनि ॥ २३६.५४ ॥
सर्व तत्र तु सर्वत्र व्यापकत्वाच्च दृश्यते ।
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ॥ २३६.५५ ॥
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ।
एवं परिमितं कालमाचरन्संशितव्रतः ॥ २३६.५६ ॥
आसीनो हि रहस्येको गच्छेदक्षरसाम्यताम् ।
प्रमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने ॥ २३६.५७ ॥
अद्भुतानि रसः स्पर्शः शीतोष्णमारुताकृतिः ।
प्रतिभानुपसर्गाश्च प्रतिसंगृह्य योगतः ॥ २३६.५८ ॥
तांस्तत्त्वविदनादृत्य साम्येनैव निवर्तयेत् ।
कुर्यात्परिचयं योगे त्रैलोक्ये नियतो मुनिः ॥ २३६.५९ ॥
गिरिशृङ्गे तथा चैत्ये वृक्षमूलेषु योजयेत् ।
संनियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव ॥ २३६.६० ॥
एकाग्रं चिन्तयेन्नित्यं योगान्नोद्विजते मनः ।
येनोपयेन शक्येत नियन्तुं चञ्चलं मनः ॥ २३६.६१ ॥
तत्र युक्तो निषेवेत न चैव विचलेत्ततः ।
शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥ २३६.६२ ॥
नातिव्रजेत्परं वाचा कर्मणा मनसाऽपि वा ।
उपेक्षको यथाहारो लब्धालब्धसमो भवेत् ॥ २३६.६३ ॥
यश्चैनमभिनन्देत यश्चैनमभिवादयेत् ।
समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥ २३६.६४ ॥
न प्रहृष्येन लाभेषु नालाभेषु च चिन्तयेत् ।
समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥ २३६.६५ ॥
एवं स्वस्थात्मनः साधोः सर्वत्र समदर्शिनः ।
षण्मासान्नित्ययुक्तस्य शब्दब्रह्मभिवर्तते ॥ २३६.६६ ॥
वेदनार्तान्परान्दृष्ट्वा समलष्टाश्मकाञ्चनः ।
एवं तु निरतो मार्गं विरमेन्न विमीहितः ॥ २३६.६७ ॥
अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी ।
तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥ २३६.६८ ॥
अजं पुराणमजरं सनातनं, यमिन्द्रियातिगमगोचरं द्विजाः ।
अवेक्ष्य चेमां परमेष्ठिसाम्यतां, प्रयान्त्यनावृत्तिगतिं मनीषिणः ॥ २३६.६९ ॥
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे सांख्ययोगनिरूपणं नाम
पञ्चत्रिंशदधिकद्विशततमोध्यायः ॥ २३६ ॥
अध्यायः २३७ (१२९)
ज्ञानिनां मोक्षप्राप्तिनिरूपणम्
मुनय ऊचुः
यद्येवं वेदवचनं कुरु कर्म त्यजेति च ।
कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥ २३७.१ ॥
एतद्वै श्रोतुमिच्छमस्तद्भवान्प्रब्रवीतु नः ।
एतदन्योन्यवैरूप्यं वर्तते प्रतिकूलतः ॥ २३७.२ ॥
व्यास उवाच
शृणुध्वं मुनिशार्दूला यत्पृच्छध्वं समासतः ।
कर्मविद्यामयौ चौभौ व्याख्यास्यामि क्षराक्षरौ ॥ २३७.३ ॥
यां दिशं विद्यया यान्ति यां गच्छन्ति च कर्मणा ।
शृणुध्वं सांप्रतं विप्रा गहनं ह्येतदुत्तरम् ॥ २३७.४ ॥
अस्ति धर्म इति युक्तं नास्ति तत्रैव यो वदेत् ।
यक्षस्य सादृश्यमिदं यक्षस्येदं भवेदथ ॥ २३७.५ ॥
द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः ।
प्रवृत्तिलक्षणो धर्मो निवृत्तो वा विभाषितः ॥ २३७.६ ॥
कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ २३७.७ ॥
कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः ।
विद्यया जायते नित्यमव्यक्तं ह्यक्षरात्मकम् ॥ २३७.८ ॥
कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धिरता नराः ।
तेन ते देहजालेन रमयन्त उपासते ॥ २३७.९ ॥
ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः ।
न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निवः ॥ २३७.१० ॥
कर्मणां फलमाप्नोति सुखदुःखे भवाभवौ ।
विद्यया तदवाप्नोति यत्र गत्वा न शोचति ॥ २३७.११ ॥
न म्रियते यत्र गत्वा यत्र गत्वा न जायते ।
न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥ २३७.१२ ॥
यत्र तद्ब्रह्म परममव्यक्तमचलं ध्रुवम् ।
अव्याकृतमनायामममृतं चाधियोगवित् ॥ २३७.१३ ॥
द्वंद्वैर्न यत्र बाध्यन्ते मानसेन च कर्मणा ।
समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः ॥ २३७.१४ ॥
विद्यामयोऽन्यः पुरुषो द्विजाः कर्ममयोऽपरः ।
विप्राश्चन्द्रसमस्पर्शः सूक्ष्मया कलया स्थितः ॥ २३७.१५ ॥
तदेतदृषिणा प्रोक्तं विस्तरेणानुगीयते ।
न वक्तुं शक्यते द्रष्टुं चक्रतन्तुमिवाम्बरे ॥ २३७.१६ ॥
एकादशविकारात्मा कलासंभारसंभृतः ।
मूर्तिमानिति तं विद्याद्विप्राः कर्मगुणात्मकम् ॥ २३७.१७ ॥
देवो यः संश्रितस्तस्मिन्बुद्धीन्दुरिव पुष्करे ।
क्षेत्रज्ञं तं विजानीयान्नित्यं योगजितात्मकम् ॥ २३७.१८ ॥
तमो रजश्च सत्त्वं च ज्ञेयं जीवगुणात्मकम् ।
जीवमात्मगुणं विद्यादात्मानं परमात्मनः ॥ २३७.१९ ॥
सचेतनं जीवगुणं वदन्ति, स चेष्टते जीवगुणं च सर्वम् ।
ततः परं क्षेत्रविदो वदन्ति, प्रकल्पयन्तो भुवनानि सप्त ॥ २३७.२० ॥
व्यास उवाच
प्रकृत्यास्तु विकारा ये क्षेत्रज्ञास्ते परिश्रुताः ।
ते चैनं न प्रजानन्ति न जानाति स तानपि ॥ २३७.२१ ॥
तैश्चैव कुरुते कार्यं मनः षष्ठैरिहेन्द्रियैः ।
सुदान्तैरिव संयन्ता दृढः परमवाजिभिः ॥ २३७.२२ ॥
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ २३७.२३ ॥
महतः परमव्यक्तमव्यक्तात्परतोऽमृतम् ।
अमृतान्न परं किंचित्सा काष्ठा परमा गतिः ॥ २३७.२४ ॥
एवं सर्वेषु भूतेषु गूढात्मा न प्रकाशते ।
दृश्यते त्वगय्रया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ २३७.२५ ॥
अन्तरात्मनि संलीय मनःषष्ठानि मेधया ।
इन्द्रियैरिन्द्रियार्थांश्च बहुचित्तमचिन्तयन् ॥ २३७.२६ ॥
ध्यानेऽपि परमं कृत्वा विद्यासम्पादितं मनः ।
अनीश्वरः प्रशान्तात्मा ततो गच्छेत्परं पदम् ॥ २३७.२७ ॥
इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः ।
आत्मनः सम्प्रदानेन मर्त्यो मृत्युमुपाश्नुते ॥ २३७.२८ ॥
विहत्य सर्वसंकल्पान्सत्त्वे चित्तं निवेशयेत् ।
सत्त्वे चित्तं समावेश्य ततः कालंजरो भवेत् ॥ २३७.२९ ॥
चित्तप्रसादेन यतिर्जहातीह शुभाशुभम् ।
प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमत्यन्तमश्नुते ॥ २३७.३० ॥
लक्षणं तु प्रसादस्य यथा स्वप्ने सुखं भवेत् ।
निर्वाते वा यथा दीपो दीप्यमानो न कम्पते ॥ २३७.३१ ॥
एवं पूर्वापरे रात्रे युञ्जन्नात्मानमात्मना ।
लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ २३७.३२ ॥
रहस्यं सर्ववेदानामनैतिह्यमनागमम् ।
आत्मप्रत्यायकं शास्त्रमिदं पुत्रानुशासनम् ॥ २३७.३३ ॥
धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद्वसु ।
दशवर्षसहस्राणि निर्मथ्यामृतमुद्धृतम् ॥ २३७.३४ ॥
नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च ।
तथैव विदुषां ज्ञानं मुक्तिहेतोः समुद्धृतम् ॥ २३७.३५ ॥
स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम् ।
तदिदं नाप्रशान्ताय नादान्ताय तपस्विने ॥ २३७.३६ ॥
नावेदविदुषे वाच्यं तथा नानुगताय च ।
नासूयकायानृजवे न चानिर्दिष्टकारिणे ॥ २३७.३७ ॥
न तर्कशास्त्रदग्धाय तथैव पिशुनाय च ।
श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने ॥ २३७.३८ ॥
इदं प्रियाय पुत्राय शिष्यायानुगताय तु ।
रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथंचन ॥ २३७.३९ ॥
यदप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः ।
इतमेव ततः श्रेय इति मन्येत तत्त्ववित् ॥ २३७.४० ॥
अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम् ।
यत्तन्महर्षिभिर्दुष्टं वेदान्तेषु च गीयते ॥ २३७.४१ ॥
तद्युष्मभ्यं प्रयच्छामि यन्मां पृच्छत सत्तमाः ।
यन्मे मनसि वर्तेत यस्तु वो हृदि संशयः ॥
श्रुतं भवद्भिस्तत्सर्वं किमन्यत्कथयामि वः ॥ २३७.४२ ॥
मुनय ऊचुः
अध्यात्मं विस्तरेणेह पुनरेव वदस्व नः ।
यदध्यात्मं यथा विद्मो भगवन्नृषिसत्तम ॥ २३७.४३ ॥
व्यास उवाच
अध्यात्मं यदिदं विप्राः पुरुषस्येह पठ्यते ।
युष्मभ्यं कथयिष्यामि तस्य व्याख्याऽवधार्यताम् ॥ २३७.४४ ॥
भीमिरापस्तथा ज्योतिर्वायुराकाशमेव च ।
महाभूतानि यश्चैव सर्वभूतेषु भूतकृत् ॥ २३७.४५ ॥
मुनय ऊचुः
आकारं तु भवेद्यस्य यस्मिन्देहं न पश्यति ।
आकासाद्यं शरीरेषु कथं तदुपवर्णयेत् ॥
इन्द्रियाणां गुणाः केचित्कथं तानुपलक्षयेत् ॥ २३७.४६ ॥
व्यास उवाच
एतद्वो वर्णयिष्यामि यथावदनुदर्शनम् ।
शृणुध्वं तदिहैकाग्य्रा यथातत्त्वं यथा च तत् ॥ २३७.४७ ॥
शब्दः श्रोत्रं तथा खानि त्रयमाकाशलक्षणम् ।
प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः ॥ २३७.४८ ॥
रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते ।
रसोऽथ रसनं स्वेदो गुणास्त्वेते त्रयोऽम्भसाम् ॥ २३७.४९ ॥
घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः ।
एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः ॥ २३७.५० ॥
वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते ।
आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः ॥ २३७.५१ ॥
मनो बुद्धिः स्वभावश्च गुणा एते स्वयोनिजाः ।
ते गुणानतिवर्तन्ते गुणेभ्यः परमा मताः ॥ २३७.५२ ॥
यथा कुर्म इवाङ्गानि प्रसार्य संनियच्छति ।
एवमेवेन्द्रियग्रामं बुद्धिश्रेष्ठो नियच्छति ॥ २३७.५३ ॥
यदूर्ध्वं पादतलयोरवार्केर्द्वं च(गधश्च)पश्यति ।
एतस्मिन्नेव कृत्ये सा वर्तते बुद्धिरुत्तमा ॥ २३७.५४ ॥
गुणैस्तु नीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि ।
मनःषष्ठानि सर्वाणि बुद्ध्या भवात्कुतो गृणाः ॥ २३७.५५ ॥
इन्द्रियाणि नरैः पञ्च षष्ठं तन्मन उच्यते ।
सप्तमीं बुद्धिमेवाऽऽहुः क्षेत्रज्ञं विद्धि चाष्टमम् ॥ २३७.५६ ॥
चक्षुरालोकनायैव संशयं कुरुते मनः ।
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते ॥ २३७.५७ ॥
रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः ।
समाः सर्वेषु भूतेषु तान्गुणानुपलक्षयेत् ॥ २३७.५८ ॥
तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत् ।
प्रशान्तमिव संयुक्तं सत्त्वं तदुपधारयेत् ॥ २३७.५९ ॥
यत्तु संतापसंयुक्तं काये मनसि वा भवेत् ।
प्रवृत्तं रज इत्येवं तत्र चाप्युपलक्षयेत् ॥ २३७.६० ॥
यत्तु संमोहसंयुक्तमव्यक्तं विषमं भवेत् ।
अप्रतर्क्यमविज्ञेयं तमस्तदुपदारयेत् ॥ २३७.६१ ॥
प्रहर्षः प्रीतिरानन्दं स्वाम्यं स्वस्थात्मचित्तता ।
अकस्माद्यदि वा कस्माद्वदन्ति सात्त्विकान्गुणान् ॥ २३७.६२ ॥
अभिमानो मृषावादो लोभो महोस्तथा क्षमा ।
लिङ्गानि रजसस्तानि वर्तन्ते हेतुतत्त्वतः ॥ २३७.६३ ॥
तथा मोहः प्रमादश्च तन्द्री निन्द्राऽप्रबोधिता ।
कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः ॥ २३७.६४ ॥
मनः प्रसृजते भावं बुद्धिरध्यवसायिनी ।
हृदयं प्रियमेवेह त्रिविधा कर्मचोदना ॥ २३७.६५ ॥
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा परः स्मृतः ॥ २३७.६६ ॥
बुद्धिरात्मा मनुष्यस्य बुद्धिरेवाऽऽमनायिका ।
यदा विकुरुते भावं तदा भवति सा मनः ॥ २३७.६७ ॥
इन्द्रियाणां पृथग्भावाद्बुद्धिर्विकुरुते ह्यनु ।
क्षृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते ॥ २३७.६८ ॥
पश्यन्ति च भवेद्दृष्टी रसन्ती भवेत् ।
जिघ्रन्ती भवति घ्राणं बुद्धिर्विकुरुते पृथक् ॥ २३७.६९ ॥
इन्द्रियाणि तु तान्याहुस्तेषां वृत्त्या वितिष्ठति ।
तिष्ठति पुरुषे बुद्धिर्बुद्धिभावव्यवस्थिता ॥ २३७.७० ॥
कदाचिल्लभते प्रीतिं कदाचिदपि शोचति ।
न सुखेन न दुःखेन कदाचिदिह मुह्यते ॥ २३७.७१ ॥
स्वयं भावात्मिका भावांस्त्रीनेतानतिवर्तते ।
सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥ २३७.७२ ॥
यदा प्रार्थयते किंचित्तदा भवति सा मनः ।
अधिष्ठाने च वै बुद्ध्या पृथगेतानि संस्मरेत् ॥ २३७.७३ ॥
इन्द्रियाणि च मेध्यानि विचेतव्यानि कृत्स्नशः ।
सर्वाण्येवानुपूर्वेण यद्यदा च विधीयते ॥ २३७.७४ ॥
अभिभागमना बुद्धिर्भावो मनसि वर्तते ।
प्रवर्तमानस्तु रजः सत्त्वमप्यतिवर्तते ॥ २३७.७५ ॥
ये वै भावेन वर्तन्ते सर्वेष्वेतेषु ते त्रिषु ।
अन्वर्थान्सम्प्रवर्तन्ते रथनेमिमरा इव ॥ २३७.७६ ॥
प्रदीपार्थं मनः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः ।
निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया ॥ २३७.७७ ॥
एवं स्वभावमेवेदमिति बुद्ध्वा न मुह्यति ।
अशोचन्सम्प्रहृष्यंश्च नित्य विगतमत्सरः ॥ २३७.७८ ॥
न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः ।
प्रवर्तमानैरनेकैर्कर्धदुरैरकृतात्मभिः ॥ २३७.७९ ॥
तेषां तु मनसा रश्मीन्यदा सम्यङ्नियच्छति ।
तदा प्रकाशतेऽस्याऽऽत्मा दीपदीप्ता यथाऽऽकृतिः ॥ २३७.८० ॥
सर्वेषामेव भूतानां तमस्युपगते यथा ।
प्रकाशं भवते सर्वं तथैवमुपधार्यताम् ॥ २३७.८१ ॥
यथा वारिचरः पक्षी न लिप्यति जले चरन् ।
विमुक्तात्मा तथा योगी गुणदोषैर्न लिप्यते ॥ २३७.८२ ॥
एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन् ।
असज्जमानः सर्वेषु न कथंचित्प्रलिप्यते ॥ २३७.८३ ॥
त्यक्त्वा पूर्वकृतं कर्मरतिर्यस्य सदाऽऽत्मनि ।
सर्वभूतात्मभूतस्य गुणसङ्गेन सज्जतः ॥ २३७.८४ ॥
स्वयमात्मा प्रसवति गुणेष्वपि कदाचन ।
न गुणा विदुरात्मानं गुणान्वेद स सर्वदा ॥ २३७.८५ ॥
परिदध्याद्गुणानां स द्रष्टा चैव यथातथम् ।
सत्तवक्षेत्रज्ञयोरेवमन्तरं लक्षयेन्नरः ॥ २३७.८६ ॥
सृजते तु गुणानेक एको न सृजते गुणान् ।
पृथग्भूतौ प्रकृत्यैतौ सम्प्रयुक्तौ च सर्वदा ॥ २३७.८७ ॥
यथाऽश्मना हिरण्यस्य सम्प्रयुक्तौ तथैव तौ ।
मशकौदुम्बरौ वाऽपि सम्प्रयुक्तौ यथा सह ॥ २३७.८८ ॥
इषिका वा यथा मुञ्जे पृथक्च सह चैवाह ।
तथैव सहितावेतौ अन्योन्यस्मिन्प्रतिष्ठितौ ॥ २३७.८९ ॥
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे
सप्तत्रिंशदधिकद्विशततमोध्यायः ॥ २३७ ॥
अध्यायः २३८ (१३०)
गुणसर्जनकथनम्
व्यास उवाच
सृजते तु गुणान्सत्त्वे क्षेत्रज्ञस्त्वधितिष्ठति ।
गुणान्विक्रियतः सर्वानुदासीनवदीश्वरः ॥ २३८.१ ॥
स्वभावयुक्तं तत्सर्वं यदिमान्सृजते गुणान् ।
ऊर्णनाभिर्यथा सूत्रं सृजते तद्गुणांस्तथा ॥ २३८.२ ॥
प्रवृत्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते ।
एवमेक व्यवस्यन्ति निवृत्तिमिति चापरे ॥ २३८.३ ॥
उभयं सम्प्रधार्यैतदध्यवस्येद्यथामति ।
अनेनैव विधानेन भवेद्वै संशयो महान् ॥ २३८.४ ॥
अनादिनिधनो ह्यात्मा तं बुद्ध्वा विहरेन्नरः ।
अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः ॥ २३८.५ ॥
इत्येवं हृदये सर्वो बुद्धिचिन्तामयं दृढम् ।
अनित्यं सुखमासीनमशोच्यं छिन्नसंशयः ॥ २३८.६ ॥
तरयेत्प्रच्युतां पृथ्वीं यथा पूर्णां नदीं नराः ।
अवगाह्य च विद्वांसो विप्रा लोलमिमं तथा ॥ २३८.७ ॥
न तु तप्यति वै विद्वान्स्थले चरति तत्त्ववित् ।
एवं विचिन्त्य चाऽऽत्मानं केवलं ज्ञानमात्मनः ॥ २३८.८ ॥
तां(तं)तु बुद्ध्वा नरः सर्गं भूतानामागतिं गतिम् ।
समचेष्टश्च वै सम्यग्लभते शममुत्तमम् ॥ २३८.९ ॥
एतद्द्विजन्मसामग्य्रं ब्राह्मणस्य विशेषतः ।
आत्मज्ञानसमस्नेहपर्याप्तं तत्परायणम् ॥ २३८.१० ॥
त्वं बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम् ।
विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः ॥ २३८.११ ॥
न भवति विदुषां महद्भयं, यदविदुषां सुमहद्भयं परत्र ।
न हि गतिरधिकाऽस्ति कस्यचिद्भवति हि या विदुषः सनातनी ॥ २३८.१२ ॥
लोके मातरमसूयते नरस्तत्र देवमनिरीक्ष्य शोचते ।
तत्र चेत्कुशलो न शोचते, ये विदुस्तदुभयं कृताकृतम् ॥ २३८.१३ ॥
यत्करोत्यनभिसंधिपूर्वकं, तच्च निन्दयति यत्पुरा कृतम् ।
यत्प्रियं तदुभयं न वाऽप्रियं, तस्य तज्जनयतीह कुर्वतः ॥ २३८.१४ ॥
मुनय ऊचुः
यस्माद्वर्मात्परो धर्मो विद्यते नेह कश्चन ।
यो विशिष्टश्च भूतेभ्यस्तद्भवान्प्रब्रवीतु नः ॥ २३८.१५ ॥
व्यास उवाच
धर्मं च सम्प्रवक्ष्यामि पुराणमृषिभिः स्तुतम् ।
विशिष्टं सर्वधर्मेभ्यः शृणुध्वं मुनिसत्तमाः ॥ २३८.१६ ॥
इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य तत्त्वतः ।
सर्वतः प्रसृतानीह पिता बालानिवाऽऽत्मजान् ॥ २३८.१७ ॥
मनसश्चेन्द्रियाणां चाप्यैकाग्रयं परमं तपः ।
विज्ञेयः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥ २३८.१८ ॥
तानि सर्वाणि संधाय मनः षष्ठानि मेधया ।
आत्मतृप्तः स एवाऽऽसीद्बहुचिन्त्यमचिन्तयन् ॥ २३८.१९ ॥
गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि ।
तदा चैवाऽऽत्मनाऽऽत्मानं परं द्रक्ष्यथ शाश्वतम् ॥ २३८.२० ॥
सर्वात्मानं महात्मानं विधूममिव पावकम् ।
प्रपश्यन्ति महात्मानं ब्राह्मणा ये मनीषिणः ॥ २३८.२१ ॥
यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः ।
आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम् ॥ २३८.२२ ॥
एवमात्मा न जानीते क्व गमिष्ये कुतोऽन्वहम् ।
अन्यो ह्यस्यान्तरात्माऽस्ति यः सर्वमनुपश्यति ॥ २३८.२३ ॥
ज्ञानदीपेन दीप्तेमन पश्यत्यात्मानमात्मना ।
दृष्ट्वाऽऽत्मानं तथा यूयं विरागा भवत द्विजाः ॥ २३८.२४ ॥
विमुक्ताः सर्वपापेभ्यो मुक्तत्वच इवोरगाः ।
परां बुद्धिमवाप्येहाप्यचिन्ता विगतज्वराः ॥ २३८.२५ ॥
सर्वतः स्रोतसं घोरां नदीं लोकप्रवाहिणीम् ।
पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम् ॥ २३८.२६ ॥
लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम् ।
सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम् ॥ २३८.२७ ॥
अव्यक्तप्रभवां शीघ्रां कामक्रोधसमाकुलाम् ।
प्रतरध्वं नदीं बुद्ध्या दुस्तरामकृतात्मभिः ॥ २३८.२८ ॥
संसारसागरगमां योनिपातालदुस्तराम् ।
आत्मजन्मोद्भवां तां तु जिह्वावर्तदुरासदाम् ॥ २३८.२९ ॥
यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः ।
तां तीर्णः सर्वतो मुक्तो विधूतात्माऽऽत्मवाञ्शुचिः ॥ २३८.३० ॥
उत्तमां बुद्धिमास्थाय ब्रह्मभूयाय कल्पते ।
उत्तीर्णः सर्वसंक्लेशान्प्रसन्नात्मा विक्लमषः ॥ २३८.३१ ॥
भूयिष्ठानीव भूतानि सर्वस्थानान्निरीक्ष्य च ।
अक्रुध्यन्नप्रसीदंश्च ननृशंसमतिस्तथा ॥ २३८.३२ ॥
ततो द्रक्ष्यथ सर्वेषां भूतानां प्रभवाप्ययात् ।
एतद्वि सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः ॥ २३८.३३ ॥
धर्मं धर्मभृतां श्रेष्ठा मनुयः सत्यदर्शिनः ।
आत्मानो व्यापिनो विप्रा इति पुत्रानुशासनम् ॥ २३८.३४ ॥
प्रयताय प्रवक्तव्यं हितायानुगताय च ।
आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत् ॥ २३८.३५ ॥
अब्रवं यदहं विप्रा आत्मसाक्षिकमञ्जसा ।
नैव स्त्री न पुमानेवं न चैवेदं नपुंसकम् ॥ २३८.३६ ॥
अदुः खमसुखं ब्रह्म भूतभव्यभवात्मकम् ।
यथा मतानि सर्वाणि तथैतानि यथा तथा ।
कथितानि मया विप्रा भवन्ति न भवन्ति च ॥ २३८.३७ ॥
यथा मतानि सर्वाणि तथैतानि यथा तथा ।
कथितानि मया विप्रा भवन्ति न भवन्ति च ॥ २३८.३८ ॥
तत्प्रीतियुक्तेन गुणान्वितेन, पुत्रेण सत्पुत्रदयान्वितेन ।
दृष्ट्वा हितं प्रीतमना यदर्थं, ब्रूयात्सुतस्येह यदुक्तमेतत् ॥ २३८.३९ ॥
मुनय ऊचुः
मोक्षः पितामहेनोक्त उपायान्नानुपायतः ।
तमुपायं यथान्यायं श्रोतुमिच्छामहे मुने ॥ २३८.४० ॥
व्यास उवाच
अस्मासु तन्महाप्राज्ञा युक्तं निपुणदर्शनम् ।
यदुपायेन सर्वार्थान्मृगयध्वं सदाऽनघाः ॥ २३८.४१ ॥
घटोपकरणे बुद्धिर्घटोत्पत्तौ न सा मता ।
एवं धर्माद्युपायार्थ नान्यधर्मेषु कारणम् ॥ २३८.४२ ॥
पूर्वे समुद्रेयः पन्था न स गच्छति पश्चिमम् ।
एकः पन्था हि मोक्षस्य तच्छृणुध्वं ममानघाः ॥ २३८.४३ ॥
क्षमया क्रोधमुच्छिन्द्यात्कामं संकल्पवर्जनात् ।
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ॥ २३८.४४ ॥
अप्रमादाद्भयं रक्षेद्रक्षेत्क्षेत्रं च संविदम् ।
इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत् ॥ २३८.४५ ॥
निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित् ।
उपद्रवांस्तथा योगी हितजीर्णमिताशनात् ॥ २३८.४६ ॥
लोभं मोहं च संतोषाद्विषयांस्तत्त्वदर्शनात् ।
अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया ॥ २३८.४७ ॥
आयत्या च जयेदाशां सामर्थ्यं सङ्गवर्जनात् ।
अनित्यत्वेन च स्नेहं क्षुधां योगेन पण्डितः ॥ २३८.४८ ॥
कारुण्येनाऽऽत्मनाऽऽत्मानं तृष्णां च परितोषतः ।
उत्थानेन जयेत्तन्द्रां वितर्कं निश्चयाज्जयेत् ॥ २३८.४९ ॥
मौनेन बहुभाषां च शौर्येण च भयं जयेत् ।
यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा ॥ २३८.५० ॥
ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः ।
तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा ॥ २३८.५१ ॥
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ।
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ॥ २३८.५२ ॥
परित्यज्य निषेवेत यथावद्योगसाधनात् ।
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥ २३८.५३ ॥
शौचमाचारतः शुद्धिरिन्द्रियाणां च संयमः ।
एतैर्विवर्धते तेजः पाप्मानमुपहन्ति च ॥ २३८.५४ ॥
सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते ।
धूतपातः स तेजस्वी लघ्वाहारो जितेन्द्रियः ॥ २३८.५५ ॥
कामक्रोधौ वशे कृत्वा निर्विशेद्ब्रह्मणः पदम् ।
अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् ॥ २३८.५६ ॥
अदैन्यमनुदीर्णत्वमनुद्वेगो ह्यवस्थितिः ।
एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः ॥
तथा वाक्कायमनसां नियमाः कामतोऽव्ययाः ॥ २३८.५७ ॥
इति श्रीमहापुराणे आदिब्राह्मे सांख्ययोगनिरूपणं नाम
अष्टात्रिंशदधिकद्विशततमोऽध्यायः ॥ २३८ ॥
अध्यायः २३९ (१३१)
योगविधिनिरूपणम्
मुनय ऊचुः
सांख्यं योगस्य नो विप्र विशेषं वक्तुमर्हसि ।
तव धर्मज्ञ सर्वं हि विदितं मुनिसत्तम ॥ २३९.१ ॥
व्यास उवाच
सांख्यां सांख्यं प्रशंसन्ति योगान्योगविदुत्तमाः ।
वदन्ति कारणैः श्रेष्ठैः स्वपक्षोद्भवनाय वै ॥ २३९.२ ॥
अनीश्वरः कथं मुच्येदित्येवं मुनिसत्तमाः ।
वदन्ति कारणैः श्रेष्ठं योगं सम्यङ्मनीषिणः ॥ २३९.३ ॥
वदन्ति कारणं वेदं सांख्यं सम्यग्द्विजातयः ।
विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥ २३९.४ ॥
ऊर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा ।
एतदाहुर्महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम् ॥ २३९.५ ॥
स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् ।
शिष्टानां हि मतं ग्राह्यं भवद्भिः शिष्टसंमतैः ॥ २३९.६ ॥
प्रत्यक्षं हेतवो योगाः सांख्याः शास्त्रविनिश्चयाः ।
उभे चैते तत्त्वे समवेते द्विजोत्तमाः ॥ २३९.७ ॥
उभे चैते मते ज्ञाते मुनीन्द्राः शिष्टसंमते ।
अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥ २३९.८ ॥
तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघाः ।
व्रतानां धारणं तुल्यं दर्शनं त्वसमं तयोः ॥ २३९.९ ॥
मुनय ऊचुः
यदि तुल्यं व्रतं शौचं दया चात्र महामुने ।
तुल्यं तद्दर्शनं कस्मात्तन्नौ ब्रूहि द्विजोत्तम ॥ २३९.१० ॥
व्यास उवाच
रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् ।
योगास्थिरोदितान्दोषान्पञ्चैतान्प्राप्नुवन्ति तान् ॥ २३९.११ ॥
यथा वाऽनिमिषाः स्थूलं जालं छित्त्वा पुनर्जलम् ।
प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ २३९.१२ ॥
तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः ।
प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ २३९.१३ ॥
लोभजानि तथा विप्रा बन्धनानि बलान्वितः ।
छित्त्वा योगात्परं मार्गं गच्छन्ति विमलं शुभम् ॥ २३९.१४ ॥
अचलास्त्वाविला विप्रा वागुरासु तथाऽऽपरे ।
विनश्यन्ति न संदेहस्तद्वद्योगबलादृते ॥ २३९.१५ ॥
बलहीनाश्च विप्रेन्द्रा यथा जालं गता द्विजाः ।
बन्धं न गच्छन्त्यनघा योगास्ते तु सुदुर्लभाः ॥ २३९.१६ ॥
यथा च शकुनाः सूक्ष्मं प्राप्य जालमरिन्दमाः ।
तत्राशक्ता विपद्यन्ते मुच्यन्ते तु बलान्विताः ॥ २३९.१७ ॥
कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगपरा द्विजाः ।
अबला न विमुच्यन्ते मुच्यन्ते च बलान्विताः ॥ २३९.१८ ॥
अल्पकश्च यथा विप्रा वह्निः शाम्यति दुर्बलः ।
आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगबलः स्मृतः ॥ २३९.१९ ॥
स एव च तदा विप्रा वह्निर्जातबलः पुनः ।
समीरणगतः कृत्स्नां दहेत्क्षिप्रं महीमिमाम् ॥ २३९.२० ॥
तत्त्वज्ञानबलो विप्रा वह्निर्जातबलः पुनः ।
समीरणगतः कृत्स्नां दहेत्क्षिप्रं महीमिमाम् ॥ २३९.२१ ॥
दुर्बलश्च यथा विप्राः स्रोतसा ह्रियते नरः ।
बलहीनस्तथा योगी विषयैर्ह्रियते च सः ॥ २३९.२२ ॥
तदेव तु यथा स्रोतसा विष्कम्भयति वारणः ।
तद्वद्योगबलं लब्धवा न भवेद्विषयैर्हृतः ॥ २३९.२३ ॥
विशन्ति वा वशाद्वाऽथ योगाद्योगबलन्विताः ।
प्रजापतीन्मनून्सर्वान्महाभूतानि चेश्वराः ॥ २३९.२४ ॥
न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः ।
विशन्ते तद्द्विजाः सर्वे योगस्यामिततेजसः ॥ २३९.२५ ॥
आत्मनां च सहस्राणि बहूनि द्विजसत्तमाः ।
योगं कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥ २३९.२६ ॥
प्राप्नुयाद्विषयान्कश्चित्पुनश्चोग्रं तपश्चरेत् ।
संक्षिप्येच्च पुनर्विप्राः सूर्यस्तेजोगुणानिव ॥ २३९.२७ ॥
बलस्थस्य हि योगस्य बलार्थं मुनिसत्तमाः ।
विमोक्षप्रभवं विष्णुमुपपन्नमसंशयम् ॥ २३९.२८ ॥
बलानि योगप्रोक्तानि मयैतानि द्विजोत्तमाः ।
निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनर्द्विजाः ॥ २३९.२९ ॥
आत्मनश्च समाधाने धारणां प्रति वा द्विजाः ।
निदर्शनानि सूक्ष्माणि सूक्ष्माणि शृणुध्वं मुनिसत्तमाः ॥ २३९.३० ॥
अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः ।
युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम् ॥ २३९.३१ ॥
स्नेहपात्रे यथा पूर्णे मन आधाय निश्चलम् ।
पुरुषो युक्त आरोहेत्सोपानं युक्तमानसः ॥ २३९.३२ ॥
मुक्तस्तथाऽयमात्मानं योगं तद्वत्सुनिश्चलम् ।
करोत्यमलामात्मानं भास्करोपमदर्शने ॥ २३९.३३ ॥
यथा च नावं विप्रेन्द्राः कर्णधारः समाहितः ।
महार्णवगतां शीघ्रं नयेद्विप्रांस्तु पत्तनम् ॥ २३९.३४ ॥
तद्वदात्मसमाधानं युक्तो योगेन योगवित् ।
दुर्गमं स्थानमाप्नोति हित्वा देहमिमं द्विजाः ॥ २३९.३५ ॥
सारथिश्च यथा युक्तः सदश्वान्सुसमाहितः ।
प्राप्नोत्याशु परं स्थानं लक्ष्यमुक्त इवाऽऽशुगः ॥ २३९.३६ ॥
तथैव च द्विजा योगी धारणासु समाहितः ।
प्राप्नोत्यशु परं स्थानं लक्ष्यमुक्त इवाऽऽशुगः ॥ २३९.३७ ॥
आविश्याऽऽत्मनि चाऽऽत्मानं योऽवतिष्ठति सोऽचलः ।
पाशं वहत्वे मीनानां पदमाप्नोति सोऽजरम् ॥ २३९.३८ ॥
नाभ्यां शीर्षे च कुक्षौ च हृदि वक्षसि पार्श्वयोः ।
दर्शने श्रवणे वाऽपि घ्राणे चामितविक्रमः ॥ २३९.३९ ॥
स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः ।
आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्द्विजोत्तमाः ॥ २३९.४० ॥
सुशीघ्रमचलप्रख्यं कर्म दग्ध्वा शुभाशुभम् ।
उत्तमं योगमास्थाय यदीच्छति विमुच्यते ॥ २३९.४१ ॥
मुनय ऊचुः
आहारान्कीदृशान्कृत्वा कानि जित्वा च सत्तम ।
योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति ॥ २३९.४२ ॥
व्यास उवाच
कणानां भक्षणे युक्तः पिण्याकस्य च भो द्विजाः ।
स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥ २३९.४३ ॥
भुञ्जानो यावकं रूक्षं दीर्घकालं द्विजोत्तमाः ।
एकाहारी विशुद्धात्मा योगी बलमवाप्नुयात् ॥ २३९.४४ ॥
पक्षान्मासानृतूंश्चित्रान्संचरंश्च गुहास्तथा ।
अपः पीत्वा पयोमिश्रा योगी बलमावाप्नुयात् ॥ २३९.४५ ॥
अखण्डमपि वा मासं सततं मुनिसत्तमाः ।
उपोष्य सम्यक्षुद्धात्मा योगी बलमवाप्यनुयात् ॥ २३९.४६ ॥
कामं जित्वा तथा क्रोधं शीतोष्णं वर्षमेव च ।
भयं शोकं तथा स्वापं पौरुषीन्विषयांस्तथा ॥ २३९.४७ ॥
अरतिं दुर्जयां चैव घोरां दृष्ट्वा च भो द्विजाः ।
स्पर्शं निद्रां तथा तन्द्रां दुर्जयां मुनिसत्तमाः ॥ २३९.४८ ॥
दीपयन्ति महात्मानं सूक्ष्ममात्मानमात्मना ।
वीतरागा महाप्राज्ञा ध्यानाध्ययनसम्पदा ॥ २३९.४९ ॥
दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम् ।
यः कश्चिद्व्रजति क्षिप्रं क्षेमेण मुनिपुंगवाः ॥ २३९.५० ॥
यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम् ।
श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम् ॥ २३९.५१ ॥
अभक्तमटवीप्रायं दावदग्धमहीरुहम् ।
पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेत्तथा ॥ २३९.५२ ॥
योगमार्गं समासाद्य यः कश्चिद्व्रजते द्विजः ।
क्षेमेणोपरमेन्मार्गाद्बहुदोषोऽपि संमतः ॥ २३९.५३ ॥
आस्थेयं क्षुरधारासु निशितासु द्विजोत्तमाः ।
धारणा सा तु योगस्य दुर्गेयमकृतात्मभिः ॥ २३९.५४ ॥
विषमा धारणा विप्रा यान्ति वैन शुभां गतिम् ।
नेतृहीना यथा नावः पुरुषाणां तु वै द्विजाः ॥ २३९.५५ ॥
यस्तु तिष्ठति योगाधौ धारणासु यथाविधि ।
मरणं जन्मदुःखित्वं सुखित्वं स विशिष्यते ॥ २३९.५६ ॥
नानाशास्त्रेषु नियतं नानामुनिनिषेवितम् ।
परं योगस्य पन्थानं निश्चितं तं द्विजातिषु ॥ २३९.५७ ॥
परं हि तद्ब्रह्ममयं मुनीन्द्रा, ब्रह्मणमीशं वरदं च विष्णुम् ।
भवं च धर्मं च महानुभावं यद्ब्रह्मपुत्रान्सुमहानुभावान् ॥ २३९.५८ ॥
तमश्च कष्टं सुमहद्रजश्च, सत्त्वं च शुद्धं प्रकृतिं परां च ।
सिद्धिं च देवीं वरुणस्य पत्नीं, तेजश्च कृत्स्नं सुमहच्च धैर्यम् ॥
२३९.५९ ॥
ताराधिपं खे विमलं सुतारं, विश्वांश्च देवानुरगान्पितॄंश्च ।
शैलांश्च कृत्स्नानुदधींश्च वाऽचलान्नदीश्च सर्वाः सनगांश्च
नागान् ॥ २३९.६० ॥
साध्यांस्तथा यक्षगणान्दिशश्च, गन्धर्वसिद्धान्पुरुषान्स्त्रियश्च ।
परस्परं प्राप्य महान्महात्मा विशेत योगी नचिराद्विमुक्तः ॥ २३९.६१ ॥
कथा च या विप्रवराः प्रसक्ता, दैवे महावीर्यमतौ शुभेयम् ।
योगान्स सर्वाननुभूय मर्त्या, नारायणं तं द्रुतमाप्नुवन्ति ॥ २३९.६२ ॥
इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे योगविधिनिरूपणं नाम
एकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २३९ ॥
अध्यायः २४० (१३२)
सांख्यविधिनिरूपणम्
मुनय ऊचुः
सम्यक्क्रियेयं विप्रेन्द्र वर्णिता शिष्टसंमता ।
योगमार्गो यथान्यायं शिष्यायेह हितषिणा ॥ २४०.१ ॥
सांख्ये त्विदानीं धर्मस्य विधिं प्रब्रूहि तत्त्वतः ।
त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते ॥ २४०.२ ॥
व्यास उवाच
शृणुध्वं मुनयः सर्वमाख्यानं विदितात्मनाम् ।
विहितं यतिभिर्वृद्धैः कपिलादिभिरीश्वरैः ॥ २४०.३ ॥
यस्मिन्सुविभ्रामाः केचिद्दृश्यन्ते मुनिसत्तमाः ।
गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ॥ २४०.४ ॥
ज्ञानेन परिसंख्याय सदोषान्विषयान्द्विजाः ।
मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा ॥ २४०.५ ॥
विषयानौरगाञ्ज्ञात्वा गन्धर्वविषयांस्तथा ।
पितॄणां विषयाञ्ज्ञात्वा तिर्यक्त्वं चरतां द्विजाः ॥ २४०.६ ॥
सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा ।
महर्षिविषयांश्चैव राजर्षिविषयांस्तथा ॥ २४०.७ ॥
आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च ।
देवर्षिविषयाञ्ज्ञात्वा योगानामपि वै परान् ॥। २४०.८ ॥
विषयांश्च प्रमाणस्य ब्रह्मणो विषयांतथा ।
आयुषश्च परं कालं लोकैर्विज्ञाय तत्त्वतः ॥ २४०.९ ॥
सुखस्य च परं कालं विज्ञाय मुनिसत्तमाः ।
प्राप्तकाले च यद्दुःखं पततां विषयैषिणाम् ॥ २४०.१० ॥
तिर्यक्त्वे पततां विप्रास्तथैव नरकेषु यत् ।
स्वर्गस्य च गुणाञ्ज्ञात्वा दोषान्सर्वांश्च भो द्विजाः ॥ २४०.११ ॥
वेदवादे च ये दोषा गुणा ये चापि वैदिकाः ।
ज्ञानयोगे च ये दोषा ज्ञानयोगे च ये गुणाः ॥ २४०.१२ ॥
सांख्यज्ञाने च ये दोषांस्तथैव च गुणां तथा ।
षड्गुणं च नभो ज्ञात्वा तमश्च त्रिगुणं महत् ॥ २४०.१३ ॥
तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा ।
षड्गुणं च नभो ज्ञात्वा तपश्च त्रिगुणं महत् ॥ २४०.१४ ॥
द्विगुणं च रजो ज्ञात्वा सत्त्वं चैकगुणं पुनः ।
मार्गं विज्ञाय तत्त्वेन प्रलयप्रेक्षणेन तु ॥ २४०.१५ ॥
ज्ञानविज्ञानसम्पन्नाः कारणैर्भावितात्मभिः ।
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥ २४०.१६ ॥
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च ।
शब्दग्राह्यं तथा श्रोत्रं जिह्वां रसगुणेन च ॥ २४०.१७ ॥
त्वचं स्पर्शं तथा शक्यं वायुं चैव तदाश्रितम् ।
मोहं तमसि संयुक्तं लोभं मोहेषु संश्रिताः ॥ २४०.१८ ॥
विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथाऽनलम् ।
अप्सु देवीं समायुक्तामापस्तेजसि संश्रिताः ॥ २४०.१९ ॥
तेजो वायौ तु संयुक्तं वायुं नभसि चाऽऽश्रितम् ।
नभो महति संयुक्तं तमो महसि संस्थितम् ॥ २४०.२० ॥
रजः सत्त्वं तथा सक्तं सत्त्वं सक्तं तथाऽऽत्मनि ।
सक्तमात्मानमीशे च देवे नारायणे तथा ॥ २४०.२१ ॥
देवं मोक्षे च संयुक्तं ततो मोक्षं च न क्वचित् ।
ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर्गुणैः ॥ २४०.२२ ॥
स्वभावं भावनां चैव ज्ञात्वा देहसमाश्रिताम् ।
मध्यस्थमिव चाऽऽत्मानं पापं यस्मिन्न विद्यत ॥ २४०.२३ ॥
द्वितीयं कर्म वै ज्ञात्वा विप्रेन्द्रा विष्यैषिणाम् ।
इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् ॥ २४०.२४ ॥
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ।
प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ॥ २४०.२५ ॥
आद्यं चैवानिलं ज्ञात्वा प्रभवं चानिलं पुनः ।
सप्तधा तांस्तथा शेषासप्तधा विधिवत्पुनः ॥ २४०.२६ ॥
प्रजापतीनृषींश्चैव सर्गांश्च सुबहून्वरान् ।
सप्तर्षीश्च बहूञ्ज्ञात्वा राजर्षींश्च परंतपान् ॥ २४०.२७ ॥
सुरर्षीन्मरुतश्चान्यान्ब्रह्मर्षीन्सूर्यसंनिभान् ।
ऐश्वर्याच्च्यावितान्दृष्ट्वा कालेन महता द्विजाः ॥ २४०.२८ ॥
महतां भूतसंघानां श्रुत्वा नाशं च भो द्विजाः ।
गतिं वाचां शुभां ज्ञात्वा अर्चार्हाः पापकर्मणाम् ॥ २४०.२९ ॥
वैतरण्यां च यद्दुःखं पतितानां यमक्षये ।
योनिषु च विचित्रासु संचारानशुभांस्तथा ॥ २४०.३० ॥
जठरे चाशुभे वासं शोणितोदकभाजने ।
श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ॥ २४०.३१ ॥
शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे ।
शिरशतसमाकीर्णे नवद्वारे पुरेऽथ वै ॥ २४०.३२ ॥
विज्ञाय हितमात्मानं योगांश्च विविधान्द्विजाः ।
तामसानां च जन्तूनां रमणीयानृतात्मनाम् ॥ २४०.३३ ॥
सात्त्विकानां च जन्तूनां कुत्सितं मुनिसत्तमाः ।
गर्हिंतं महातामर्थे सांख्यानां विदितात्मनाम् ॥ २४०.३४ ॥
उपप्लवांस्तथा घोराञ्शशिनस्तेजस्तथा ।
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ॥ २४०.३५ ॥
द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं द्विजाः ।
अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ॥ २४०.३६ ॥
बाल्ये मोहं च विज्ञाय पक्षदेहस्य चाशुभम् ।
रागं मोहं च सम्प्राप्तं क्वचित्सत्त्वं समाश्रितम् ॥ २४०.३७ ॥
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः ।
दुर्लभत्वं च मोक्षस्य विज्ञानं श्रुतिपूर्वकम् ॥ २४०.३८ ॥
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः ।
विषयाणां च दौरात्म्यं विज्ञाय च पुनर्द्विजाः ॥ २४०.३९ ॥
गतासूनां च सत्त्वानां देहान्भित्त्वा तथा शुभान् ।
वासं कुलेषु जन्तूनां मरणाय धृतात्मनाम् ॥ २४०.४० ॥
सात्त्विकानां च जन्तूनां दुःखं विज्ञाय भो द्विजाः ।
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ॥ २४०.४१ ॥
सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् ।
गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥ २४०.४२ ॥
जननीषु च वर्तन्ते येन सम्यग्द्विजोत्तमाः ।
सदेवकेषु लोकेषु येन वर्तन्ति मानवाः ॥ २४०.४३ ॥
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् ।
तिर्यग्योनिगतानां च विज्ञाय च गतीः पृथक् ॥ २४०.४४ ॥
वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा ।
क्षयं संवत्सराणां च मासानां च क्षयं तथा ॥ २४०.४५ ॥
पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् ।
क्षय संवत्सराणां च मासानां च क्षयं तथा ॥ २४०.४६ ॥
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः ।
क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च ॥ २४०.४७ ॥
संयोगानां तथा दृष्ट्वा युगानां च विशेषतः ।
देहवैक्लव्यतां चैव सम्यग्विज्ञाय तत्त्वतः ॥ २४०.४८ ॥
आत्मदोषांश्च विज्ञाय सर्वानात्मनि संस्थितान् ।
स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभाम् ॥ २४०.४९ ॥
मुनय ऊचुः
कानुत्पातभवान्दोषान्पश्यति ब्रह्मवित्तम ।
एतं नः संशयं कृत्स्नं वक्तुमर्हस्यशेषतः ॥ २४०.५० ॥
व्यास उवाच
पञ्च दोषान्द्विजा देहे प्रवदन्ति मनीषिणः ।
मार्गज्ञाः कापिलाः सांख्याः शृणुध्वं मुनिसत्तमाः ॥ २४०.५१ ॥
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते ।
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥ २४०.५२ ॥
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् ।
सत्त्वसंसेवनान्निद्रामप्रमादाद्भयं तथा ॥ २४०.५३ ॥
छिन्दन्ति पञ्चमं श्वासमल्पाहारतया द्विजाः ।
गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि ॥ २४०.५४ ॥
हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः ।
अपां फेनोपमं लोकं विष्णोर्मायाशतैः कृतम् ॥ २४०.५५ ॥
चित्रभित्तिप्रतीकाशं नलसारमनर्थकम् ।
तमः संभ्रमितं दृष्ट्वा वर्षबुद्बुदसंनिभम् ॥ २४०.५६ ॥
नाशप्रायं सुखाधानं नाशोत्तरमहाभयम् ।
रजस्तमसि संमग्नं पङ्के द्विपमिवावशम् ॥ २४०.५७ ॥
सांख्या विप्रा महाप्राज्ञास्त्यक्त्वा स्नेहं प्रजाकृतम् ।
ज्ञानज्ञेयेन सांख्येन व्यापिना महता द्विजाः ॥ २४०.५८ ॥
राजसानशुभान्गन्धांस्तामसांश्च तथाविधान् ।
पुण्यांश्च सात्त्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् ॥ २४०.५९ ॥
छित्त्वाऽऽमज्ञानशस्त्रेण तपोदण्डेन सत्तमाः ।
ततो दुःखादिकं घोरं चिन्ताशोकमहाह्रदम् ॥ २४०.६० ॥
व्याधिमत्युमहाघोरं महाभयमहोरगम् ।
ततः कूर्मं रजोमीनं प्रज्ञया संतरन्त्युत ॥ २४०.६१ ॥
स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपं द्विजोत्तमाः ।
कर्मागाधं सत्यतीरं स्थितं व्रतमनीषिणः ॥ २४०.६२ ॥
हर्षसंघमहावेगं नानारससमाकुलम् ।
नानाप्रीतिमहारत्नं दुःखज्वरसमीरितम् ॥ २४०.६३ ॥
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहारुजम् ।
अस्थिसंघातसंघट्टं श्लेष्मयोगं द्विजोत्तमाः ॥ २४०.६४ ॥
दानमुक्ताकरं घोरं शोणितोद्गारविद्रुमम् ।
हसितोत्क्रुष्टनिर्घोषं नानाज्ञासुदुष्करम् ॥ २४०.६५ ॥
रोदनाश्रुमलक्षारं सङ्गयोगपरायणम् ।
प्रलब्ध्वा जन्मलोको यं पुत्रबान्धवपत्तनम् ॥ २४०.६६ ॥
अहिंसासत्यमर्यादं प्राणयोगमयोर्मिलम् ।
वृन्दानुगामिनं क्षीरं सर्वभूतपयोदधिम् ॥ २४०.६७ ॥
मोक्षदुर्लभविषयं वाडवासुखसागरम् ।
तरन्ति यतयः सिद्धा ज्ञानयोगेन चानघाः ॥ २४०.६८ ॥
तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः ।
ततस्तान्सुकृतीञ्ज्ञात्वा सूर्यो वहतिरश्मिभिः ॥ २४०.६९ ॥
पद्मतन्तुवदाविश्य प्रवहन्विषयान्द्विजाः ।
तत्र तान्प्रवहो वायुः प्रतिगृह्णाति चानघाः ॥ २४०.७० ॥
वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान् ।
सूक्ष्मः शीतः सुगन्धश्च सुखस्पर्शश्च भो द्विजाः ॥ २४०.७१ ॥
सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान् ।
स तान्वहति विप्रेन्द्रा नभसः परमां गतिम् ॥ २४०.७२ ॥
नभो वहति लोकेशान्रजसः परमां गतिम् ।
रजो वहति विप्रेन्द्राः सत्त्वस्य परमांगतिम् ॥ २४०.७३ ॥
सत्त्वं वहति शुद्धात्मा परं नारायणं प्रभुम् ।
प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥ २४०.७४ ॥
परमात्मानमासाद्य तद्भूता यतयोऽमलाः ।
अमृतत्वाय कल्पन्ते न निवर्तन्ति च द्विजाः ॥ २४०.७५ ॥
परमा सा गतिर्विप्रा निर्द्वन्द्वानां महात्मनाम् ।
सत्यार्जवरतानां वै सर्वभूतदयावताम् ॥ २४०.७६ ॥
मुनय ऊचुः
स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः ।
आजन्ममरणं वा ते रमन्ते तत्र वा न वा ॥ २४०.७७ ॥
यदत्र तथ्यं तत्त्वं नो यथावद्वक्तुमर्हसि ।
त्वदृते मानवं नान्यं प्रष्टुमर्हाम सत्तम ॥ २४०.७८ ॥
मोक्षदोषो महानेष प्राप्य सिद्धिं गतानृषीन् ।
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥ २४०.७९ ॥
प्रवृत्तिलक्षणं धर्मं पश्याम परमं द्विज ।
मग्नस्य हि परे ज्ञाने किंतु दुःखान्तरं भवेत् ॥ २४०.८० ॥
व्यास उवाच
यथानायायं मुनिश्रेष्ठाः प्रश्नः पृष्टश्च संकटः ।
बुधानामपि संमोहः प्रश्नेऽस्मिन्मुनिसत्तमाः ॥ २४०.८१ ॥
अत्रापि तत्त्वं परमं शृणुध्वं वचनं मम ।
बुद्धिश्च परमा यत्र कपिलानां महात्मनाम् ॥ २४०.८२ ॥
इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनां द्विजाः ।
करणान्यात्मनस्तानि सूक्ष्मं पश्यन्ति तैस्तु सः ॥ २४०.८३ ॥
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु ।
विनश्यन्ति न संदेहो वेला इव महार्णवे ॥ २४०.८४ ॥
इन्द्रियैः सह सुप्तस्य देहिनो द्विजसत्तमाः ।
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥ २४०.८५ ॥
स पश्यति यथान्यायं स्मृत्वा स्पृशति चानघाः ।
बुध्यमानो यथापूर्वमखिलेनेह भो द्विजाः ॥ २४०.८६ ॥
इन्द्रियाणि ह सर्वाणि स्वे स्वे स्थाने यथाविधि ।
अनीशत्वात्प्रलीयन्ते सर्पा विषहता इव ॥ २४०.८७ ॥
इन्द्रियाणि ह सर्वाणि स्वस्थानेष्वेव सर्वशः ।
आक्रम्य गतयः सूक्ष्माव(श्च)रत्यात्मा न संशयः ॥ २४०.८८ ॥
सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः ।
गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च सत्तमाः ॥ २४०.८९ ॥
गुणांश्च मनसश्चापि नभसश्च गुणांस्तथा ।
गुणान्वायोश्च सर्वज्ञाः स्नेहजांश्च गुणान्पुनः ॥ २४०.९० ॥
अपां गुणास्तथा विप्राः पार्थिवांश्च गुणानपि ।
सर्वानेव गुणैर्व्याप्य क्षेत्रज्ञेषु द्विजोत्तमाः ॥ २४०.९१ ॥
आत्मा चरति क्षेत्रज्ञः कर्मणा च शुभाशुभे ।
शिष्या इवमहात्मानमिन्द्रियाणि च तं द्विजाः ॥ २४०.९२ ॥
प्रकृतिं चाप्यतिक्रम्य सुद्धं सूक्ष्मं परात्परम् ।
नारायणं महात्मानं निर्विकारं परात्परम् ॥ २४०.९३ ॥
विमुक्तं सर्वपापेक्ष्यः प्रविष्टं च ह्यनामयम् ।
परमात्मानमगुणं निर्वृतं तं च सप्तमाः ॥ २४०.९४ ॥
श्रेष्ठं तत्र मनो विप्रा इन्द्रियाणि च भोः द्विजाः ।
आगच्छन्ति यथाकालं गुरोः संदेशकारिणः ॥ २४०.९५ ॥
शक्यं वाऽल्पेन कालेन शान्तिं प्राप्तुं गुणांस्तथा ।
एवमुक्तेन विप्रेन्द्राः सांख्य योगेन मोक्षिणीम् ॥ २४०.९६ ॥
सांख्या विप्रा महाप्राज्ञा गच्छन्ति परमां गतिम् ।
ज्ञानेनानेन विप्रेन्द्रास्तुल्यं ज्ञानं न विद्यते ॥ २४०.९७ ॥
अत्र वः संशयो मा भूज्ज्ञानं सांख्यं परं मतम् ।
अक्षरं ध्रुवमेवोक्तं पूर्वं ब्रह्म सनातनम् ॥ २४०.९८ ॥
अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् ।
कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ॥ २४०.९९ ॥
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
एवं शंसन्ति शास्त्रेषु प्रवक्तारो महर्षयः ॥ २४०.१०० ॥
सर्वे विप्राश्च वेदाश्च तथा सामविदो जनाः ।
ब्रह्मण्यं परमं देवमनन्तं परमाच्युतम् ॥ २४०.१०१ ॥
प्रर्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः ।
सम्यगुक्तास्तथा योगाः सांख्याश्चामितदर्शनाः ॥ २४०.१०२ ॥
अमूर्तिस्तस्य विप्रेन्द्राः सांख्यं मूर्तिरिति श्रुतिः ।
अभिज्ञानानि तस्याऽऽहुर्महान्ति मुनिसत्तमाः ॥ २४०.१०३ ॥
द्विविधानि हि भूतानि पृथिव्यां द्विजसत्तमाः ।
अगम्यगम्यसंज्ञानि गम्यं तत्र विशिष्यते ॥ २४०.१०४ ॥
ज्ञानं महद्वै महतश्च विप्रा, वेदेषु सांख्येषु तथैव योगे ।
यच्चापि दृष्टं विधिवत्पुराणे, सांख्यागतं तन्निखिलं मुनीन्द्राः ॥ २४०.१०५ ॥
यच्चेतिहासेषु महत्सु दृष्टं, यथार्थशास्त्रेषु विशिष्टदृष्टम् ।
ज्ञानं च लोके यदिहास्ति किंचित्सांख्यागतं तच्च महामुनीन्द्राः ॥ २४०.१०६ ॥
समस्तदृष्टं परमं बलं च, ज्ञानं च मोक्षश्च यथावदुक्तम् ।
तपांसि सूक्ष्माणि च यानि चैव, सांख्यं यथावद्विहितानि विप्राः ॥ २४०.१०७ ॥
विपर्ययं तस्य हितं सदैव, गच्छन्ति सांख्याः सततं सुखेन ।
तांश्चापि संधार्य ततः कृतार्थाः, पतन्ति विप्रायतनेषु भूयः ॥ २४०.१०८ ॥
हित्वा च देहं प्रविशन्ति मोक्षं दिवौकसश्चापि च योगसांख्याः ।
अतोऽधिकं तेऽभिरता महार्हे, साख्ये द्विजा भो इह शिष्टजुष्टे ॥ २४०.१०९ ॥
तेषां तु तिर्यग्गमनं हि दृष्टं, नाधो गतिः पापकृतां निवासः ।
न वा प्रधाना अपि ते द्विजातयो, ये ज्ञानमेतन्मुनयो न सक्ताः ॥ २४०.११० ॥
सांख्यां विशालं परमं पुराणं, महार्णवं विमलमुदारकान्तम् ।
कृत्स्नं हि सांख्या मुनया महात्मनारायणे धारयथाप्रमेयम् ॥ २४०.१११ ॥
एतन्मयोक्तं परमं हि तत्त्वं, नारायणाद्विश्वमिदं पुराणम् ।
स सर्गकाले च करोति सर्गं, संहारकाले च हरेत भूयः ॥ २४०.११२ ॥
इति श्रीमहापुराणे आदिब्राह्मे व्यासऋषिसंवादे सांख्यविधिनिरूपणं
नामैकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४० ॥
अध्यायः २४१ (१३३)
वसिष्ठकरालजनकसंवादे क्षराक्षरविचारनिरूपणम्
मुनय ऊचुः
किं तदक्षरमित्युक्तं यस्मान्नाऽऽवर्तते पुनः ।
किंस्वित्तत्क्षरमित्युक्तं यस्मादावर्तते पुनः ॥ २४१.१ ॥
अक्षराक्षरयोर्व्यक्तिं पृच्छामस्त्वां महामुने ।
उपलब्धुं मुनिश्रेष्ठ तत्त्वेन मुनिपुंगव ॥ २४१.२ ॥
त्वं हि ज्ञानविदां श्रेष्ठः प्रोच्यसे वेदपारगैः ।
ऋषिभिश्च महाभागैर्यतिभिश्च महात्मभिः ॥ २४१.३ ॥
तदेतच्छ्रोतुमिच्छास्त्वत्तः सर्वं महामते ।
न तृप्तिमधिगच्छामः शृण्वन्तोऽमृतमुत्तमम् ॥ २४१.४ ॥
व्यास उवाच
अत्र वो वर्णयिष्यामि इतिहासं पुरातनम् ।
वसिष्ठस्य च संवादं करालजनकस्य च ॥ २४१.५ ॥
वसिष्ठं श्रेष्ठमासीनमृषीणां भास्करद्युतिम् ।
पप्रच्छ जनको राजा ज्ञानं नैःश्रेयसं परम् ॥ २४१.६ ॥
परमात्मनि कुशलमध्यात्मगतिनिश्चयम् ।
मैत्रावरुणमिमासीनमभिवाद्य कृताञ्जलिः ॥ २४१.७ ॥
स्वच्छन्दं सुकृतं चैव मधुरं चाप्यनुल्बणम् ।
पप्रच्छर्षिवरं राजा करालजनकः पुरा ॥ २४१.८ ॥
करालजनक उवाच
भगवञ्श्रोतुमिच्छामि परं ब्रह्म सनातनम् ।
यस्मिन्न पुनरावृत्तिं प्राप्नुवन्ति मनीषिणः ॥ २४१.९ ॥
यच्च तत्क्षरमित्युक्तं यत्रेदं क्षरते जगत् ।
यच्चाक्षरमिति प्रोक्तं शिवं क्षेममनामयम् ॥ २४१.१० ॥
वसिष्ठ उवाच
श्रूयतां पृथिवीपाल क्षरतीदं यथा जगत् ।
यत्र क्षरति पूर्वेण यावत्कालेन चाप्यथ ॥ २४१.११ ॥
युगं द्वादशसाहस्रं कल्पं विद्धि चतुर्युगम् ।
दशकल्पशतावर्तंमहस्तद्ब्राह्मुच्यते ॥ २४१.१२ ॥
रात्रिश्चैतावती राजन्यस्यन्ते प्रतिबुध्यते ।
सृजत्यनन्तकर्माणि महान्तं भूतमग्रजम् ॥ २४१.१३ ॥
मूर्तिमन्तममूर्तात्मा विश्वं शंभुः स्वयंभुवः ।
यत्रोत्पत्तिं प्रवक्ष्यामि मूलतो नृपसत्तम ॥ २४१.१४ ॥
अणिमा लघिमा प्राप्तिरीशानं ज्योतिरव्ययम् ।
सर्वतःपाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ॥ २४१.१५ ॥
सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।
हिरण्यगर्भो भगवानेष बुद्धिरिति स्मृतिः ॥ २४१.१६ ॥
महानिति च योगेषु विरिञ्चिरिति चाप्यथ ।
सांख्ये च पठ्यते शास्त्रे नामभिर्बहुधात्मकः ॥ २४१.१७ ॥
विचित्ररूपो विश्वात्मा एकाक्षर इति श्रुतः ।
धृतमेकात्मकं येन कृत्स्नं त्रैलोक्यमात्मना ॥ २४१.१८ ॥
तथैव बहुरूपत्वाद्विश्वरूप इति श्रुतः ।
एष वै विक्रियापन्नः सृजत्यात्मानमात्मना ॥ २४१.१९ ॥
प्रधानं तस्य संयोगादुत्पन्नं सुमहत्पुरम् ।
अहंकारं महातेजाः प्रजापतिनमस्कृतम् ॥ २४१.२० ॥
अव्यक्ताद्व्यक्तिमापन्नं विद्यासर्गं वदन्ति तम् ।
महान्तं चाप्यहंकारमविद्यासर्ग एव च ॥ २४१.२१ ॥
अचरश्च चरश्चैव समुत्पन्नौ तथैकतः ।
विद्याऽविद्योति विख्याते श्रुतिशास्त्रानुचिन्तकैः ॥ २४१.२२ ॥
भूतसर्गमहंकारत्तृतीयं विद्धि पार्थिव ।
अहंकारेषु नृपते चतुर्थं विद्धि वैकृतम् ॥ २४१.२३ ॥
वायुर्ज्योतिरथाऽऽकाशमापोऽथ पृथिवी तथा ।
शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च ॥ २४१.२४ ॥
एवं युगपदुत्पन्नं दशवर्गमसंशयम् ।
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गमर्थकृत् ॥ २४१.२५ ॥
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणमेव च पञ्चमम् ।
वाघस्तौ चैव पादौ च पायुर्मेढ्रं तथैव च ॥ २४१.२६ ॥
बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च ।
संभूतानीह युगपन्मनसा सह पार्थिव ॥ २४१.२७ ॥
एषा तत्त्वचतुर्विंशा सर्वाऽऽकृतिः प्रवर्तते ।
यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः ॥ २४१.२८ ॥
एवमेतत्समुत्पन्नं त्रैलोक्यमिदमुत्तमम् ।
वेदितव्यं नरश्रेष्ठ सदैव नरकार्णवे ॥ २४१.२९ ॥
सयक्षभूतगन्धर्वे सकिंनरमहोरगे ।
सचारणपिशाचे वै सदेवर्षिनिशाचरे ॥ २४१.३० ॥
सदंशकीटमशके सपूतिकृमिमूषके ।
शुनि श्वपाके चैणेये सचाण्डाले सपुल्कसे ॥ २४१.३१ ॥
हस्त्यश्वखरशार्दूले सवृके गवि चैव ह ।
या च मूर्तिश्च यत्किंचित्सर्वत्रैतन्निदर्शनम् ॥ २४१.३२ ॥
जले भुवि तथाऽऽकाशे नान्यत्रेति विनिश्चयः ।
स्थानं देहवतामासीदित्येवनुशुश्रुम ॥ २४१.३३ ॥
कृत्स्नमेतावतस्तात क्षरते व्यक्तसंज्ञकः ।
अहन्यहनि भूतात्मा यच्चाक्षर इति स्मृतम् ॥ २४१.३४ ॥
ततस्तत्क्षरमित्युक्तं क्षरतीदं यथा जगत् ।
जगन्मोहात्मकं चाऽऽहुरव्यक्ताद्व्यक्तसंज्ञकम् ॥ २४१.३५ ॥
महांश्चैवाक्षरो नित्यमेतत्क्षरविवर्जनम् ।
कथितं ते महाराज यस्मान्नाऽऽवर्तते पुनः ॥ २४१.३६ ॥
पञ्चविंशतिकोऽमूर्तः स नित्यस्तत्त्वसंज्ञकः ।
सत्त्वसंश्रयणात्तत्वं सत्त्वमाहुर्मनीषिणः ॥ २४१.३७ ॥
यदमूर्तिः सृजद्व्यक्तं तन्मूर्तिमधितिष्ठति ।
चतुर्विंशतिमो व्यक्तो ह्यमूर्तिः पञ्चविंशकः ॥ २४१.३८ ॥
स एव हृदि सर्वासु मूर्तिष्वातिष्ठताऽऽत्मवान् ।
चेतयंश्चेतनीं नित्यं सर्वमूर्तिरमूर्तिमान् ॥ २४१.३९ ॥
सर्गप्रलयधर्मेण स सर्गप्रलयात्मकः ।
गोचरे वर्तते नित्यं निर्गुणो गुणसंज्ञितः ॥ २४१.४० ॥
एवमेष महात्मा च सर्गप्रलयकोटिशः ।
विकुर्वाणः प्रकृतिमान्नाभिमन्येत बुद्धिमान् ॥ २४१.४१ ॥
तमःसत्त्वरजोयुक्तस्तासु तास्विह योनिषु ।
लीयते प्रतिबुद्धत्वादबुद्धजनसेवनात् ॥ २४१.४२ ॥
सहवासनिवासत्वाद्बालोऽहमिति मन्यते ।
योऽहं न सोऽहमित्युक्ते गुणानेवानुवर्तते ॥ २४१.४३ ॥
तमसा तामसान्भावन्विविधान्प्रतिपद्यते ।
रजसा राजसांश्चैव सात्त्विकान्सत्त्वसंक्षयात् ॥ २४१.४४ ॥
शुक्ललोहितकृष्णानि रूपाण्येतानि त्रीणि तु ।
सर्वाण्येतानि रूपाणि जानीहि प्राकृतानि तु ॥ २४१.४५ ।
तामसा निरयं यान्ति राजसा मानुषानथ ।
सात्त्विका देवलोकाय गच्छन्ति सुखभागिनः ॥ २४१.४६ ॥
निष्केवलेन पापेन तिर्यग्योनिमवाप्नुयात् ।
पुण्यपापेषु मानुष्यं पुण्यमात्रेण देवताः ॥ २४१.४७ ॥
एवमव्यक्तविषयं मोक्षमाहुर्मनीषिणः ।
पञ्चविंशतिमो योऽयं ज्ञानादेव प्रवर्तते ॥ २४१.४८ ॥
इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे
क्षराक्षरविचारनिरूपणं नाम एकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४१ ॥
अध्यायः २४२ (१३४)
वशिष्ठकरालजनकसंवादवर्णनम्
वसिष्ठ उवाच
एवमप्रतिबुद्धत्वादबुद्धमनुवर्तते ।
देहाद्देहसहस्राणि तथा च न स भिद्यते ॥ २४२.१ ॥
तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि ।
उत्पद्यति तपोयोगाद्गुणैः सह गुणक्षयात् ॥ २४२.२ ॥
मनुष्यत्वाद्दिवं याति देवो मानुष्यमेति च ।
मानुष्यान्निरयस्थानमालयं प्रतिपद्यते ॥ २४२.३ ॥
कोषकारो यथाऽऽत्मानं कीटः समभिरुन्धति ।
सूत्रतन्तुगुणैर्नित्यं तथाऽयमगुणो गुणैः ॥ २४२.४ ॥
द्वंद्वंमेति च निर्द्वंद्वस्तासु तास्विह योनिषु ।
शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे ॥ २४२.५ ॥
जलोदरेऽतिसारे च गण्डमालविचर्चिके ।
श्वत्रकुष्ठेऽग्निदग्धे च सिध्मापस्मारयोरपि ॥ २४२.६ ॥
यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिणाम् ।
उत्पद्यन्ते विचित्राणि तान्येवाऽऽत्माऽभिमन्यते ॥ २४२.७ ॥
अभिमानातिमानानां तथैव सुकृतान्यपि ।
एकवासाश्चतुर्वासाः शायी नित्यमधस्तथा ॥ २४२.८ ॥
मण्डूकशायी च तथा वीरासनगतस्तथा ।
वीरमासनमाकाशे तथा शयनमेव च ॥ २४२.९ ॥
इष्टकाप्रस्तरे चैव चक्रकप्रस्तरे तथा ।
भस्माप्रस्तरशायी च भूमिशय्यानुलेपनः ॥ २४२.१० ॥
वीरस्थानाम्बुपाके च शयनं फलकेषु च ।
विविधासु च शय्यासु फलगृह्यान्वितासु च ॥ २४२.११ ॥
उद्याने खललाग्ने तु क्षौमकृष्णाजिनान्वितः ।
मणिवालपरीधानो व्याघ्रचर्मपरिच्छदः ॥ २४२.१२ ॥
सिंहचर्मपरीधानः पट्टवासास्तथैव च ।
फलकं(?)परिधानश्च तथा कटकवस्त्रधृक् ॥ २४२.१३ ॥
कटैकवसनश्चैव चीरवासास्तथैव च ।
वस्त्राणि चान्यानि बहून्यभिमत्य य बुद्धिमान् ॥ २४२.१४ ॥
भोजनानि विचित्राणि रत्नानि विविधानि च ।
एकरात्रान्तराशित्वमेककालिभोजनम् ॥ २४२.१५ ॥
चतुर्थाष्टमकालं च षष्ठकालिकमेव च ।
षड्रात्रभोजनश्चैव तथा चाष्टाहभोजनः ॥ २४२.१६ ॥
मासोपवासी मूलाशी फलाहारस्तथैव च ।
वायुभक्षश्च पिण्याकदधिगोमयभोजनः ॥ २४२.१७ ॥
गोमूत्रभोजनश्चैव काशपुष्पाशनस्तथा ।
शैवालभोजनश्चैव तथा चान्येन वर्तयन् ॥ २४२.१८ ॥
वर्तयञ्शीर्मपर्णैश्च प्रकीर्णफलभोजनः ।
विविधानि च कृच्छ्राणि सेवते सिद्धिकाङ्क्षया ॥ २४२.१९ ॥
चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च ।
चातुराश्रम्ययुक्तानि धर्माधर्माश्रयाण्यपि ॥ २४२.२० ॥
उपाश्रयानप्यपरान्पाखण्डान्विविधानपि ।
विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च ॥ २४२.२१ ॥
पुलिनानि विविक्तानि विविधानि तपांसि च ।
यज्ञांश्च विविधाकारान्विद्याश्च विविधास्तथा ॥ २४२.२२ ॥
नियमान्विविधांश्चापि विविधानि तपांसि च ।
यज्ञांश्च विविधाकारान्विद्याश्च विविधास्तथा ॥ २४२.२३ ॥
वणिक्पथं द्विजक्षत्रवैश्यशूद्रांस्तथैव च ।
दानां च विविधाकारं दीनान्धकृपणादिषु ॥ २४२.२४ ॥
अभिमन्येत संधातुं तथैव विविधान्गुणान् ।
सत्त्वं रजस्तमश्चैव धर्मार्थै काम एव च ॥ २४२.२५ ॥
यजनाध्ययने दानं तथैवाऽऽहुः प्रतिग्रहम् ।
याजनाध्यापने चैव तथाऽन्यदपि किंचन ॥ २४२.२६ ॥
यजनाध्ययने दानं तथैवाऽऽहुः प्रतिग्रहम् ।
याजनाध्यापने चैव तथाऽन्यदपि किंचन ॥ २४२.२७ ॥
जन्ममृत्युविधानेन तथा विशसनेन च ।
शुभाशुभमयं सर्वमेतदाहुः सनातनम् ॥ २४२.२८ ॥
प्रकृतिः कुरुते देवी भयं प्रलयमेव च ।
दिवसान्ते गुणानेतानतीत्यैकोऽवतिष्ठते ॥ २४२.२९ ॥
रश्मिजालमिवाऽऽदित्यस्तत्कालं संनियच्छति ।
एवमेवैष तत्सर्वं क्रीडार्थमभिमन्यते ॥ २४२.३० ॥
आत्मरूपगुणानेतान्विविधान्हृदयप्रियान् ।
एवमेतां प्रकुर्वाणः सर्गप्रलयधर्मिणीम् ॥ २४२.३१ ॥
क्रियां क्रियापथे रक्तस्त्रिगुणस्त्रिगुणाधिपः ।
क्रियाक्रियापतोपेतस्तथा तदिति मन्यते ॥ २४२.३२ ॥
प्रकृत्या सर्वमेवेदं जगदन्धीकृतं विभो ।
रजसा तमसा चैव व्याप्तं सर्वमनेकधा ॥ २४२.३३ ॥
एवं द्वंद्वान्यतीतानि मम वर्तन्ति नित्यशः ।
मत्त एतानि जायन्ते प्रलये यान्ति मामपि ॥ २४२.३४ ॥
निस्तर्तव्याण्थैतानि सर्वाणीति नराधिप ।
मन्यते पक्षबुद्धत्वात्तथैव सुकृतान्यपि ॥ २४२.३५ ॥
भोक्तव्यानि ममैतानि वेवलोकगतेन वै ।
इहैव चैनं भोक्ष्यामि शुभासुभफलोदयम् ॥ २४२.३६ ॥
सुखमेवं तु कर्तव्यं सकृत्कृत्वा सुखं मम ॥
यावदेव तु मे सौख्यं जात्यां जात्यां भविष्यति ॥ २४२.३७ ॥
भविष्यति न मे दुःखं कृतेनेहाप्यनन्तकम् ।
सुखदुःखं हि मानुष्यं निरये चापि मज्जनम् ॥ २४२.३८ ॥
निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः ।
मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः ॥ २४२.३९ ॥
मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति ।
एष एवं द्विजातीनामात्मा वै स गुणैर्वृतः ॥ २४२.४० ॥
तेन देवमनुष्येषु निरयं चोपपद्यते ।
ममत्वेनाऽऽवृतो नित्यं तत्रैव परिवर्तते ॥ २४२.४१ ॥
सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु ।
य एवं कुरुते कर्म शूभाशुभफलात्मकम् ॥ २४२.४२ ॥
स एव फलमाप्नोति त्रिषु लोकेषु मूर्तिमान् ।
प्रकृतिः कुरुते कर्मशुभशुभफलात्मकम् ॥ २४२.४३ ॥
प्रकृतिश्व तथाऽऽनोति त्रिषु लोकेषु कामणा ।
तिर्यग्योनिमनुष्यत्वले देवलोके तथैव च ॥ २४२.४४ ॥
त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानि ह ।
अलिङ्गप्रकृतित्वाच्च लिङ्गैरप्यनुमीयते ॥ २४२.४५ ॥
तथैव पौरुषं लिङ्गमनुमानाद्धि मन्यते ।
स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम् ॥ २४२.४६ ॥
व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते ।
श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाण्यथ ॥ २४२.४७ ॥
रागादीनि प्रवर्तन्ते गुणेष्विह गुणैः सह ।
अहमेतानि वै कुर्वन्ममैतानीन्द्रियाणिह ॥ २४२.४८ ॥
निरिन्द्रियो हि मन्येत व्रणवानस्मि निर्व्रणः ।
अलिङ्गो लिङ्गमात्मानमकालं कालमात्मनः ॥ २४२.४९ ॥
असत्त्वं सत्त्वमात्मानममृतं मृतमात्मनः ।
अमृत्युं मृत्युमात्मात्मानमभवं भवमात्मनः ॥ २४२.५० ॥
अक्षेत्रं क्षेत्रमात्मानमसङ्गं सङ्गमात्मनः ।
अतत्त्वं तत्त्वमात्मानमभवं भवमात्मनः ॥ २४२.५१ ॥
अक्षरं क्षरमात्मानमबुद्धत्वाद्धि मन्यते ।
एवमप्रतिबुद्धत्वादबुद्धजनसेवनात् ॥ २४२.५२ ॥
सर्गकोटिसहस्राणि पतनान्तानि गच्छति ।
जन्मान्तरसहस्राणि मरणान्तानि गच्छति ॥ २४२.५३ ॥
तिर्यग्योनिमनुष्यत्वे देवलोके तथैव च ।
चन्द्रमा इव कोशानां पुनस्तत्र सहस्रशः ॥ २४२.५४ ॥
नीयतेऽप्रतिबुद्धत्वादेवमेव कुबुद्धिमान् ।
कला पञ्चदशी योनिस्तद्धाम इति पठ्यते ॥ २४२.५५ ॥
नित्यमेव विजानीहि सोमं वै षोडशांशकैः ।
कलया जायतेऽजस्रं पुनः पुनरबुद्धिमान् ॥ २४२.५६ ॥
धीमांश्चायं न भवति नृप एवं हि जायते ।
षोडशी तु कला सूक्ष्मा स सोम उपधार्यताम् ॥ २४२.५७ ॥
न तूपयूज्यते देवैर्दैवानपि युनक्ति सः ।
ममत्वं क्षपयित्वा तु जायते नृपसत्तम ॥
प्रकृतेस्त्रिगुणायास्तु स एव त्रिगुणो भवेत् ॥ २४२.५८ ॥
इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे
द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४२ ॥
रह्मपुराणम्
अध्यायः २४३ (१३५)
वशिष्ठं प्रति मोक्षधर्मविषयको जनकप्रश्नः
जनक उवाच
अक्षरक्षरयोरेष द्वयोः संबन्ध इष्यते ।
स्त्रीपुंसयोर्वा सम्बन्ध स वै पुरुष उच्यते ॥ २४३.१ ॥
ऋते तु पुरुषं नेह स्त्री गर्भान्धारयत्युत ।
ऋते स्त्रियं न पुरुषो रूपं निर्वर्तते तथा ॥ २४३.२ ॥
अन्योन्यस्याभिसंबन्धानयोन्यगुणसंश्रयात् ।
रूपं निर्वर्तयेदेतदेवं सर्वासु योनिषु ॥ २४३.३ ॥
रत्यर्थमतिसंयोगादन्योन्यगुमसंश्रयात् ।
ऋतौ निर्वर्तते रूपं तद्वक्ष्यामि निदर्शनम् ॥ २४३.४ ॥
ये गुणाः परुषस्येह ये च मातुर्गुणास्तथा ।
अस्थि स्नायु च मज्जा च जानीमः पितृतो द्विज ॥ २४३.५ ॥
त्वङ्मासशोणितं चेति मातृजान्यनुशुश्रुम ।
एवमेतद्द्विजश्रेष्ठ वेदशास्त्रेषु पठ्यते ॥ २४३.६ ॥
प्रमाणं यच्च वेदोक्तं शास्त्रोक्तं यच्च पठ्यते ।
वेदशास्त्रप्रमाणं च प्रमाणं तत्सनातनम् ॥ २४३.७ ॥
एवमेवाभिसम्बन्धौ नित्यं प्रकृतिपूरुषौ ।
यच्चापि भगवंस्तस्मान्मोक्षधर्मो न विद्यते ॥ २४३.८ ॥
अथवाऽनन्तरकृतं किंचिदेव निदर्शनम् ।
तन्ममाऽऽचक्ष्व तत्त्वेन प्रत्यक्षो ह्यसि सर्वदा ॥ २४३.९ ॥
मोक्षकामा वयं चापि काङ्क्षामो यदनामयम् ।
अजेयमजरं नित्यमतीन्द्रियमनीश्वरम् ॥ २४३.१० ॥
वसिष्ठ उवाच
यदेतदुक्तं भवता वेदशास्त्रनिदर्शनम् ।
एवमेतद्यता वक्ष्ये तत्त्वग्राही यथा भवान् ॥ २४३.११ ॥
धार्यते हि त्वाया ग्रन्थ उभयोर्वेदशास्त्रयोः ।
न च ग्रन्थस्य तत्त्वज्ञो यथातत्त्वं नरेश्वर ॥ २४३.१२ ॥
यो हि वेदे च शास्त्रे च ग्रान्थधारणतत्परः ।
न च ग्रन्तार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा ॥ २४३.१३ ॥
भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः ।
यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो वृथा ॥ २४३.१४ ॥
ग्रन्थस्यार्थं स पृष्टस्तु मादृशो वक्तुमर्हति ।
यथातत्त्वाभिगमनादर्थं तस्य स विन्दति ॥ २४३.१५ ॥
न यः समुत्सुकः कश्चिद्ग्रन्थार्थं स्थूलबुद्धिमान् ।
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥ २४३.१६ ॥
अज्ञात्वा ग्रन्थतत्त्वानि वादं यः कुरुते नरः ।
लोभाद्वाऽप्यथवा दम्भात्स पापी नरकं व्रजेत् ॥ २४३.१७ ॥
निर्णयं चापि च्छिद्रात्मा न तद्वक्ष्यति तत्त्वतः ।
सोऽपीहास्यार्थतत्त्वज्ञो यस्मान्नैवाऽऽत्मवानपि ॥ २४३.१८ ॥
तस्मात्त्वं शृणु राजेन्द्र यथैतदनुदृश्यते ।
यथा तत्त्वेन सांख्येषु योगेषु च महात्मसु ॥ २४३.१९ ॥
यदेव योगाः पश्यन्ति सांख्यं तदनुगम्यते ।
एकं सांख्यां च योगं च यः यपश्यति स बुद्धिमान् ॥ २४३.२० ॥
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जाऽस्थि स्नायु च ।
एतदैन्द्रियकं तात यद्भवानित्थमात्थ माम् ॥ २४३.२१ ॥
द्रव्याद्द्रव्यस्य निर्वृत्तिरिन्द्रियादिन्द्रियं तथा ।
देहाद्देहमवाप्नोति बीजाद्बीजं तथैव च ॥ २४३.२२ ॥
निरिन्द्रियस्य बीजस्य निर्द्रव्यस्यापि देहिनः ।
कथं गुणा भविष्यन्ति निर्गुणत्वान्महात्मनः ॥ २४३.२३ ॥
गुणा गुणेषु जायन्ते तत्रैव विरमन्ति च ।
एवं गुणाः प्रकृतिजा जायन्ते न च यान्ति च ॥ २४३.२४ ॥
त्वङ्मांसं रुधिरं मेदः पित्तं मज्जाऽस्ति स्नायु च ।
अष्टौ तान्यथ शुक्रेण जानीहि प्राकृतेन वै ॥ २४३.२५ ॥
पुमांश्चैवापुमांस्चैव स्त्रीलिङ्गं प्राकृतं स्मृतम् ।
वायुरेष पुमांश्चैव रस इत्यभिधीयते ॥ २४३.२६ ॥
अलिङ्गा प्रकृतिर्लिङ्गैरुपलभ्यति साऽऽत्मजैः ।
यथा पुष्पफलैर्नित्यं मूर्तं चामूर्तयस्तथा ॥ २४३.२७ ॥
एवमप्यनुमानेन स लिङ्गमुपलभ्यते ।
पञ्चविंशतिकस्तात लिङ्गेषु नियतात्मकः ॥ २४३.२८ ॥
अनादिनिधनोऽनन्तः सर्वदर्शनकेवलः ।
केवलं त्वभिमानित्वाद्गुणेषु गुण उच्यते ॥ २४३.२९ ॥
गुणा गुणवतः सन्ति निर्गुणस्य कुतो गुणाः ।
तस्मादेवं विजानन्ति ये जना गुणदर्शिनः ॥ २४३.३० ॥
यदा त्वेष गुणानेतान्प्राकृतानभिमन्यते ।
तदा स गुणवानेव गुणभेदान्प्रपश्यति ॥ २४३.३१ ॥
यत्तद्बुद्धेः परं प्राहुः सांख्ययोगं च सर्वशः ।
बुध्यमानं महाप्राज्ञाः प्रबुद्धपरिवर्जनात् ॥ २४३.३२ ॥
अप्रबुद्धं यथा व्यक्तं स्वगुणैः प्राहुरीश्वरम् ।
निर्गुणं चेश्वरं नित्यमधिष्ठातारमेव च ॥ २४३.३३ ॥
प्रकृतेश्च गुणानां च पञ्चविंशतिकं बुधाः ।
सांख्ययोगे च कुशला बुध्यन्ते परमैषिणः ॥ २४३.३४ ॥
यदा प्रबुद्धमव्यक्तमवस्थात(प)ननी(भी)रवः ।
बुध्यमानं न बुध्यन्तेऽवगच्छन्ति समं तदा ॥ २४३.३५ ॥
एतन्नदर्शनं सम्यङ्न सम्यगनुदर्शनम् ।
बुध्यमानं प्रबुध्यन्ते द्वाभ्यां पृथगरिंदम ॥ २४३.३६ ॥
परस्परेणैतदुक्तं क्षराक्षरनिदर्शनम् ।
एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम् ॥ २४३.३७ ॥
पञ्चविंशतिनिष्ठोऽयं तदा सम्यक्प्रचक्षते ।
एकत्वदर्शनं चास्य नानात्वं चास्य दर्शनम् ॥ २४३.३८ ॥
तत्त्ववित्तत्त्वयोरेव पृथगेतन्निदर्शनम् ।
पञ्चविंसतिभिस्तत्त्वं तत्त्वमाहुर्मनीषिणः ॥ २४३.३९ ॥
निस्तत्त्वं पञ्चविंशस्य परमाहुर्मषिणः ।
वर्ज्यस्य वर्ज्यमाचारं तत्त्वं तत्त्वात्सनातनम् ॥ २४३.४० ॥
करालजनक उवाच
नानात्वैकत्वमित्युक्तं त्वयैतद्द्विजसत्तम ।
पश्यतस्तद्वि संदिग्धमेतयोर्वै निदर्शनम् ॥ २४३.४१ ॥
तथा बुद्धप्रबुद्धाभ्यां बुध्यमानस्य चानघ ।
स्थूलबुद्ध्या न पश्यामि तत्त्वमेतन्न संशयः ॥ २४३.४२ ॥
अक्षरक्षरयोरुक्तं त्वया यदपि कारणम् ।
तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मेऽनघ ॥ २४३.४३ ॥
तदेतच्छ्रोतुमिच्छामि नानात्वैकत्वदर्शनम् ।
द्वंद्वं चैवानिरुद्धं च बुध्यमानं च तत्त्वतः ॥ २४३.४४ ॥
विद्याविद्ये च भगवन्नक्षरं क्षरमेव च ।
सांख्ययोगं च कृत्स्नेन बुद्धाबुद्धिं पृथक्पृथक् ॥ २४३.४५ ॥
वसिष्ठ उवाच
हन्त ते सम्प्रवक्ष्यामि यदेतदनुपृच्छसि ।
योगकृत्यं महाराज पृथगेव शृणुष्व मे ॥ २४३.४६ ॥
योगकृत्यं तु योगानां ध्यानमेव परं बलम् ।
तच्चापि द्विविधं ध्यानमाहुर्विद्याविदो जनाः ॥ २४३.४७ ॥
एकग्रता च मनसः प्राणायामस्तथैव च ।
प्राणायामस्तु सगुणो निर्गुणो मानसस्तथा ॥ २४३.४८ ॥
मूत्रोत्सर्गे पुरीषे च भोजने च नराधिप(?) ।
द्विकालं नोपभृञ्जीत शेषं भुञ्जीत तत्परः ॥ २४३.४९ ॥
इन्द्रियाणीन्द्रियार्थेभ्यो निवर्त्य मनसा मुनिः ।
दशद्वादशभिर्वाऽपि चतुर्विंशात्परं यतः ॥ २४३.५० ॥
स चोदनाभिर्मतिमान्नात्मानं चोदयेदथ ।
तिष्ठन्तमजरं तं तु यत्तदुक्तं मनीषिभिः ॥ २४३.५१ ॥
विश्वात्मा सततं ज्ञेय इत्येवमनुसुश्रुम ।
द्रव्यं ह्यहीनमनसो नान्यथेति विनिश्चयः ॥ २४३.५२ ॥
विमुक्तः सर्वसङ्गेभ्यो लवाहारो जितेन्द्रियः ।
पूर्वरात्रे पार्धे च धारयीत मनो हृदि ॥ २४३.५३ ॥
स्थिरीकृत्येन्द्रियग्रामं मनसा मिथिलेश्वर ।
मनो बुद्ध्या स्थिरं कृत्वा पाषाण इव निश्चलः ॥ २४३.५४ ॥
स्थाणुवच्चाप्यकम्प्यः स्याद्दारुवच्चापि निश्चलः ।
बुद्ध्या विधिविधानज्ञास्ततो युक्तं प्रचक्षते ॥ २४३.५५ ॥
न शृणोति न चाऽऽघ्राति न च पश्यति किंचन ।
न च सपर्शं विजानाति न च संकल्पते मनः ॥ २४३.५६ ॥
न चापि मन्यते किंचिन्न च बुध्येत काष्ठवत् ।
तदा प्रकृतिमापन्नं युक्तमाहुर्मनीषिणः ॥ २४३.५७ ॥
न भाति हि यथा दीपो दीप्तिस्तद्वच्च दृश्यते ।
निलिङ्गस्चाधश्चोर्ध्वं च तिर्यग्गतिमवाप्नुयात् ॥ २४३.५८ ॥
तदा तदुपपन्नश्च यस्मिन्दृष्टे च कथ्यते ।
हृदयस्थोऽन्तरात्मेति ज्ञेयो ज्ञस्तात मद्विधैः ॥ २४३.५९ ॥
निर्धूम इव सप्तार्चिरादित्य इव रश्मिवान् ।
वैद्युतोऽग्निरिवाऽकाशे पस्यत्यात्मानमात्मनि ॥ २४३.६० ॥
यं पस्यन्ति महात्मानो धृतिमन्तो मनीषिणः ।
ब्राह्मणा ब्रह्मयोनिस्था ह्ययोनिममृतात्मकम् ॥ २४३.६१ ॥
तदेवाऽऽहुरणुभ्योऽणु तन्महद्भ्यो महत्तरम् ।
सर्वत्र सर्वभूतेषु ध्रुवं तिष्ठन्न दृश्यते ॥ २४३.६२ ॥
बुद्धिद्रव्येण दृश्येन मनोदीपेन लोककृत् ।
महतस्तमसस्ततात पारे तिष्ठन्न तामसः ॥ २४३.६३ ॥
तमसो दूर इत्युक्तस्तत्त्वज्ञैर्वेदपारगैः ।
विमलो विमतश्चैव निर्लिङ्गोऽलिङ्गसंज्ञकः ॥ २४३.६४ ॥
योग एष हि लोकानां किमन्यद्योगलक्षणम् ।
एवं पश्यन्प्रपश्येन आत्मानमजरं परम् ॥ २४३.६५ ॥
योगदर्शनमेतावदुक्तं ते तत्त्वतो मया ।
सांख्यज्ञानं प्रवक्ष्यामि परिसंख्यानिदर्शनम् ॥ २४३.६६ ॥
अव्यक्तमाहुः प्रख्यानं परां प्रकृतिमात्मनः ।
तस्मान्महात्समुत्पन्नं द्वितीयं राजसत्तम ॥ २४३.६७ ॥
अहंकारस्तु महतस्तृतीय इति नः श्रुतम् ।
पञ्चभूतान्यहंकारादाहुः सांख्यात्मदर्शिनः ॥ २४३.६८ ॥
एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश ।
पञ्च चैव विशेषाश्च तथा पञ्चेन्द्रियाणि च ॥ २४३.६९ ॥
एतावदेव तत्त्वानां सांख्यमाहुर्मनीषिणः ।
सांख्ये सांख्यविधानज्ञा नित्यं सांख्यपथे स्थिताः ॥ २४३.७० ॥
यस्माद्यदभिजायेत तत्तत्रैव प्रलीयते ।
लीयन्ते प्रतिलोमानि गृह्यन्ते चान्तरात्मना ॥ २४३.७१ ॥
आनुलोम्येन जायन्ते लीयन्ते प्रतिलोमतः ।
गुणा गुणेषु सततं सागरस्योर्मयो यथा ॥ २४३.७२ ॥
सर्गप्रलय एतावान्प्रकृतेर्नृपसत्तम ।
एकत्वं प्रलये चास्य बहुत्वं च तथा सृजि ॥ २४३.७३ ॥
एवमेव च राजेन्द्र विज्ञेयं ज्ञानकोविदैः ।
अधिष्ठातारमव्यक्तमस्याप्येतन्निदर्शनम् ॥ २४३.७४ ॥
एकत्वं च बहुत्वं च प्रकृतेरनुतत्त्ववान् ।
एक्तंव प्रलये चास्य बहुत्वं च प्रवर्तनात् ॥ २४३.७५ ॥
बहुलाऽऽत्मा राजेन्द्र प्रोच्यते यतिसत्तमैः ।
अधिष्ठानादधिष्ठाता क्षेत्राणामिति नः श्रुतम् ॥ २४३.७६ ॥
अधिष्ठातेति राजेन्द्र प्रोच्यते यतिसत्तमैः ।
अधिष्ठानादधिष्ठाता क्षेत्राणामिति नःश्रुतम् ॥ २४३.७७ ॥
क्षेत्रं जानाति चाव्यक्तं ज्ञेत्रज्ञ इति चोच्यते ।
अव्यक्तिके पुरे शेते पुरुषश्चेति कथ्यते ॥ २४३.७८ ॥
अन्यदेव च क्षेत्रं स्यादन्यः क्षेत्रज्ञ उच्यते ।
क्षेत्रमव्यक्त इत्युक्तं ज्ञातारं पञ्चविंशकम् ॥ २४३.७९ ॥
अन्यदेव च ज्ञानं स्यादन्यज्ज्ञेयं तदुच्यते ।
ज्ञानमव्यक्तमित्युक्तं ज्ञेयो वै पञ्चविंशकम् ॥ २४३.८० ॥
अव्यक्तं क्षेत्रमित्युक्तं तथा सत्त्वं तथेश्वरम् ।
अनीश्वरमतत्त्वं च तत्त्वं तत्पञ्चविंशकम् ॥ २४३.८१ ॥
सांक्यदर्शनमेतावत्परिसंख्या न विद्यते ।
संख्यां प्रकुरुते चैव प्रकृतिं च प्रवक्ष्यते ॥ २४३.८२ ॥
चत्वारिंशच्चतुर्विंशत्प्रतिसंख्याय तत्त्वतः ।
संख्या सहस्रकृत्या तु निस्तत्त्वः पञ्चविंशकः ॥ २४३.८३ ॥
पञ्चविंशत्प्रबुद्धात्मा बुध्यमान इति श्रुतः ।
यदा बुध्यति आत्मानं तदा भवति केवलः ॥ २४३.८४ ॥
सम्यग्दर्शनमेतावद्भाषितं तव तत्त्वतः ।
एवमेतद्विजानन्तः साम्यतां प्रतियान्त्युत ॥ २४३.८५ ॥
सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा ।
गुणवत्त्वाद्यथैतानि निर्गुणेभ्यस्तथा भवेत् ॥ २४३.८६ ॥
सम्यङ्निदर्शनं नाम प्रत्यक्षं प्रकृतेस्तथा ।
गुणवत्त्वाद्यथैतानि निर्गुणेभ्यस्तथा भवेत् ॥ २४३.८७ ॥
पश्यन्त्यमतयो ये नच सम्यक्तेषु च दर्शनम् ।
ते व्यक्तिं प्रतिपद्यन्ते पुनः पुनररिंदम ॥ २४३.८८ ॥
सर्वमेतद्विजानन्तो न सर्वस्य प्रबोधनात् ।
व्यक्तिभूता भविष्यन्ति व्यक्तस्यैवानुवर्तनात् ॥ २४३.८९ ॥
सर्वमव्यक्तमित्युक्तमसर्वः पञ्चविंशकः ।
य एवमभिजानन्ति न भयं तेषु विद्यते ॥ २४३.९० ॥
इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे
त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४३ ॥
अध्यायः २४४ (१३६)
विद्याविद्ययोःस्वरूपकथनम्
वसिष्ठ उवाच
सांख्यदर्शनमेतावदुक्तं ते नृपसत्तम ।
विद्याविद्ये त्विदानीं मे त्वं निबोधानुपूर्वशः ॥ २४४.१ ॥
अभेद्यमाहुरव्यक्तं सर्गप्रलयधर्मिणः ।
सर्गप्रलय इत्युक्तं विद्याविद्ये च विंशकः ॥ २४४.२ ॥
परस्परस्य विद्या वै तन्निबोधानुपूर्वशः ।
यथोक्तमृषिभिस्तात सांख्यस्यातिनिदर्शनम् ॥ २४४.३ ॥
कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं स्मृतम् ।
बुद्धीन्द्रियाणां च तथा विशषा इति नः श्रुतम् ॥ २४४.४ ॥
विषयाणां मनस्तेषां विद्यामाहुर्मनीषिणः ।
मनसः पञ्च भूतानि विद्या इत्यभिचक्षते ॥ २४४.५ ॥
अहंकारस्तु भूतानां पञ्चानां नात्र संशयः ।
अहंकारस्तथा विद्या बुद्धिर्विद्या नरेश्वर ॥ २४४.६ ॥
बुद्ध्या प्रकृतिरव्यक्तं तत्त्वानां परमेश्वरः ।
विद्या ज्ञेया नरश्रेष्ठ विधिश्च परमः स्मृतः ॥ २४४.७ ॥
अव्यक्तमपरं प्राहुर्विद्या वै पञ्चविंशकः ।
सर्वस्य सर्वमित्युक्तं ज्ञेयज्ञानस्य पारगः ॥ २४४.८ ॥
ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंसकम् ।
तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः ॥ २४४.९ ॥
विद्याविद्ये तु तत्त्वेन मयोक्ते वै विशेषतः ।
अक्षरं च क्षरं चैव यदुक्तं तन्निबोध मे ॥ २४४.१० ॥
उभावेतौ क्षरावुक्तौ उभावेतावन(था)क्षरौ ।
कारणं तु प्रवक्ष्यामि यथाज्ञानं तु ज्ञानतः ॥ २४४.११ ॥
अनादिनिधनावेतौ उभावेवेश्वरौ मतौ ।
तत्तवसंज्ञावुभावेव प्रोच्यते ज्ञानचिन्तकैः ॥ २४४.१२ ॥
सर्गप्रलयधर्मित्वादव्यक्तं प्राहुरव्ययम् ।
तदेतद्गुणसर्गाय विकुर्वाणं पुनः पुनः ॥ २४४.१३ ॥
गुणानां महदादीनामुत्पद्यति परस्परम् ।
अधिष्ठानं क्षेत्रमाहुरेतद्वै पञ्चविंशकम् ॥ २४४.१४ ॥
यदन्तर्गुणजालं तु तद्व्यक्तात्मनि संक्षिपेत् ।
तदहं तद्गुणैस्तस्तु पञ्चविंशे विलीयते ॥ २४४.१५ ॥
गुणा गुणेषु लीयन्ते तदेका प्रकृतिर्भवेत् ।
क्षेत्रज्ञोऽपि तदा तावत्क्षेत्रज्ञः सम्प्रणीयते ॥ २४४.१६ ॥
यदाऽक्षरं प्रकृतिर्यं गच्छते गुणसंज्ञिता ।
निर्गुणत्वं च वै देहे गुणेषु परिवर्तनात् ॥ २४४.१७ ॥
एवमेव च क्षेत्रज्ञः क्षेत्रज्ञानपरिक्षयात् ।
प्रकृत्या निर्गुणस्त्वेष इत्येवमनुशुश्रुम ॥ २४४.१८ ॥
क्षरो भवत्येष यदा गुणवती गुणेष्वथ ।
प्रकृतिं त्वथ जनाति निर्गुणत्वं तथात्मनः ॥ २४४.१९ ॥
तथा विशुद्धो भवति प्रकृते परिवर्जनात् ।
अन्योऽहमन्येयमिति यदा बुध्यति बुद्धिमान् ॥ २४४.२० ॥
तदैषोऽव्यथतामेति न च मिश्रत्वमाव्रजेत् ।
प्रकृत्या चैष राजेन्द्र मिश्रोऽन्योऽन्यस्य दृश्यते ॥ २४४.२१ ॥
यदा तु गुणजालं तत्प्राकृतं विजुगुप्सते ।
पश्यते च परं पश्यंस्तदा पश्यंस्तदा पश्यन्नु संसृजेत् ॥ २४४.२२ ॥
किं मया कृतमेतावद्योऽहं कालनिमज्जनः ।
यथा मत्स्यो ह्यभिज्ञानादनुवर्तितवाञ्जलम् ॥ २४४.२३ ॥
अहमेव हि संमोहादन्यमन्यं जनाज्जनम् ।
मत्स्यो यथोदकज्ञानादनुवर्तितवानिह ॥ २४४.२४ ॥
मत्स्योऽन्यत्वमथाज्ञानादुदकान्नाभिमन्यते ।
आत्मानं तदवज्ञानादन्यं चैव न वेद्म्यहम् ॥ २४४.२५ ॥
ममास्तु धिक्कुबुद्धस्य योऽहं मग्न इमं पुनः ।
अनुवर्तितवान्मोहादन्यमन्यं जनाज्जनम् ॥ २४४.२६ ॥
अयमनुभवेद्बन्धुरनेन सह मे भयम् ।
साम्यमेकत्वातं यातो यादृशस्तादृशस्त्वहम् ॥ २४४.२७ ॥
तुल्यतामिह पश्यामि सदृशोऽहमनेन वै ।
अयं हि विमलो व्यक्तमहमीदृशकस्तदा ॥ २४४.२८ ॥
योऽहमज्ञानसंमोहादज्ञया सम्प्रवृत्तवान् ।
संसर्गादतिसंसर्गात्स्थितः कालमिमं त्वहम् ॥ २४४.२९ ॥
सोऽहमेवं वशीभूतः कालमेतं न बुद्धवान् ।
उत्तमाधममध्यानां तामहं कथमावसे ॥ २४४.३० ॥
समानमायया चेह सहवासमहं कथम् ।
गच्छाम्यबुद्धभावत्वादिहेदीनीं स्थिरो व ॥ २४४.३१ ॥
सहवासं न यास्यामि कालमेतं विवञ्चनात् ।
वञ्चितो ह्यनया यद्धि निर्विकारो विकारया ॥ २४४.३२ ॥
न तत्तदपराद्दं स्यादपराधो ह्ययं मम ।
योऽहमत्रभवं सक्तः पराङ्मुखमुपस्थितः ॥ २४४.३३ ॥
ततोऽस्मिन्बहुरूपोऽथ स्थितो मूर्तिरमूर्तिमान् ।
अमूर्तिश्चाप्यमूर्तात्मा ममत्वेन प्रधर्षितः ॥ २४४.३४ ॥
प्रकृत्या च तया तेन तासु तास्विह योनिषु ।
निर्ममस्य ममत्वेन विकृतं तासु तासु च ॥ २४४.३५ ॥
योनिषु वर्तमानेन नष्टसंज्ञेन चेतसा ।
समता न मया काचिदहंकारे कृता मया ॥ २४४.३६ ॥
आत्मानं बहुधा कृत्वा सोऽयं भूयो युनक्ति माम् ।
इदानीमवबुद्धोऽस्मि निर्ममो निरहंकृतः ॥ २४४.३७ ॥
ममत्वं मनसा नित्यमहंकारकृतात्मकम् ।
अपलग्नामिमां हित्वा संश्रयिष्ये निरामयम् ॥ २४४.३८ ॥
अनेन साम्यं यास्यामि नानयाऽहमचेतसा ।
क्षेमं मम सहानेन नैवैकमनया सह ॥ २४४.३९ ॥
एवं परमसंबोधात्पञ्चविंशोऽनुबुद्धवान् ।
अक्षरत्वं निगच्छति त्यक्त्वा क्षरमनामयम् ॥ २४४.४० ॥
अव्यक्तं व्यक्तधर्माणं सगुणं निर्गुणं तथा ।
निर्गुणं प्रथमं दृष्ट्वा तादृग्भवति मैथिल ॥ २४४.४१ ॥
अक्षरक्षरयोरेतदुक्तं तव निदर्शनम् ।
मयेह ज्ञानसम्पन्नं यथा श्रुतिनिद्रशनात् ॥ २४४.४२ ॥
निःसंदिग्धं च सूक्ष्मं च विशुद्धं विमलं तथा ।
प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम् ॥ २४४.४३ ॥
सांख्ययोगो मया प्रोक्तः शास्त्रद्वयनिदर्शनात् ।
यदेव सांक्यशास्त्रोक्तं योगदर्शनमेव तत् ॥ २४४.४४ ॥
प्रबोधनपरं ज्ञानं सांख्यानामवनीपते ।
विस्पष्टं प्रोच्यते तत्र शिष्याणां हितकाम्यया ॥ २४४.४५ ॥
बृहच्चैवमिदं शास्त्रमित्याहुर्विदुषो जनाः ।
अस्मिंश्च शास्त्रे योगानां पुनर्भवपुरःसरम् ॥ २४४.४६ ॥
पञ्चविंशात्परं तत्त्वं पठ्यते च नराधिप ।
सांख्यानां तु परं तत्त्वं यथावदनुवर्णितम् ॥ २४४.४७ ॥
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ।
बुध्यमानं च बुद्धत्वं प्राहुर्योगनिदर्शनम् ॥ २४४.४८ ॥
बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ।
बुध्यमानं च बुद्धत्वं प्राहुर्योगनिदर्शनम् ॥ २४४.४९ ॥
इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादे
चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४४ ॥
अध्यायः २४५ (१३७)
अजस्यापि विक्रियया नानाभवनम्
वसिष्ठ उवाच
अप्रबुद्धमथाव्यक्तमिमं गुणनिधिं सदा ।
गुणानां धार्यतां तत्त्वं सृजत्याक्षिपते तथा ॥ २४५.१ ॥
अजो हि क्रीडया भूप विक्रियां प्राप्त इत्युत ।
आत्मानं बहुधा कृत्वा नानेन प्रतिचक्षते ॥ २४५.२ ॥
एतदेवं विकुर्वाणो बुध्यमानो न बुध्यते ।
गुणानाचरते ह्येष सृजत्याक्षिपते तथा ॥ २४५.३ ॥
अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि ।
न त्वेवं बुध्यतेऽव्यक्तं सगुणं तात निर्गुणम् ॥ २४५.४ ॥
कदाचित्त्वेव खल्वेतत्तदाहुः प्रतिबुद्धकम् ।
बुध्यते यदि चाव्यक्तमेतद्वै पञ्चविंशकम् ॥ २४५.५ ॥
बुध्यमानो भवत्येष ममात्मक इति क्षुतः ।
अन्योन्यप्रतिबुद्धेन वदन्त्यव्यक्तमच्युतम् ॥ २४५.६ ॥
अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत ।
पञ्चविंशं महात्मनां न चासावपि बुध्यते ॥ २४५.७ ॥
षड्विंशं विमलं बुद्धमप्रमेयं महाद्युते ।
सततं पञ्चविंशं तु चतुर्विंशं विबुध्यते ॥ २४५.८ ॥
दृश्यादृश्ये ह्यनुगततत्स्वभावे महाद्युते ।
अव्यक्तं चैव तद्ब्रह्म बुध्यते तात केवलम् ॥ २४५.९ ॥
पञ्चविंशं चतुर्विंशमात्मानमनुपश्यति ।
बुध्यमानो यदाऽऽत्मानमन्याऽहमिति मन्यते ॥ २४५.१० ॥
तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः ।
बुध्यते च परां बुद्धिं विशुद्धाममलां यथा(दा) ॥ २४५.११ ॥
षड्विंशं राजशार्दूल तदा बुद्धः कृतो व्रजेत् ।
ततस्त्यजति सोऽव्यक्तसर्गप्रलयधर्मिणम् ॥ २४५.१२ ॥
निर्गुणां प्रकृतिं वेद गुणयुक्तामचेतनाम् ।
ततः केवलधर्माऽसौ भवत्यव्यक्तदर्शनात् ॥ २४५.१३ ॥
केवलेन समागम्य विमुक्तात्मानमाप्नुयात् ।
एतत्तु तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् ॥ २४५.१४ ॥
तत्त्वसंश्रवणादेव तत्त्वज्ञो जायते नृप ।
पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥ २४५.१५ ॥
न चैव तत्त्ववांस्तात संसारेषु निमज्जति ।
एषामुपैति तत्त्वं हि क्षिप्रं बुध्यस्व लक्षणम् ॥ २४५.१६ ॥
षड्विंशोऽयमिति प्राज्ञो गृह्यमाणोऽजरामरः ।
केवलेन बलेनैव समतां यात्यसंशयम् ॥ २४५.१७ ॥
षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान् ।
एतन्नानात्वमित्युक्तं सांख्यश्रुतिनिदर्शनात् ॥ २४५.१८ ॥
चेतनेन समेतस्य पञ्चविंशतिकस्य ह ।
एकत्वं वै भवेत्तस्य यदा बुद्ध्याऽनुबुध्यते ॥ २४५.१९ ॥
बुध्यमानेन बुद्धेन समतां याति मैतिल ।
सङ्गधर्मा भवत्येष निःसङ्गात्मा नराधिप ॥ २४५.२० ॥
निःसङ्गात्मानमासाद्य षड्विंशं कर्मज विदुः ।
विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यते ॥ २४५.२१ ॥
चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात् ।
एष ह्यप्रतिबुद्धश्च बुध्यमानस्तु तेऽनघ ॥ २४५.२२ ॥
उक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् ।
मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः(कता) ॥ २४५.२३ ॥
मत्स्योदकं यथा तद्वदन्यत्पमुपलभ्यते ।
एवमेव च गन्तव्यं नानात्वैकत्वमेतयोः ॥ २४५.२४ ॥
एतावन्मोक्ष इत्युक्तो ज्ञानविज्ञानसंज्ञितः ।
पञ्चविंशतिकस्याऽऽशु योऽयं देहे प्रवर्तते ॥ २४५.२५ ॥
एष मोक्षयितव्येति प्राहुरव्यक्तगोचरात् ।
सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः ॥ २४५.२६ ॥
परश्च परधर्मा च भवत्येव समेत्य वै ।
विशुद्धधर्माशुद्धेन नाशुद्धेन च बुद्धिमान् ॥ २४५.२७ ॥
विमुक्तधर्मा बुद्धेन समेत्य पुरुषर्षभ ।
वियोगधर्मिणा चैव विमुक्तात्मा भवत्यथ ॥ २४५.२८ ॥
विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् ।
शुचिकर्मा शुचिश्चैव भवत्यमितबुद्धिमान् ॥ २४५.२९ ॥
विमलात्मा च भवति समेत्य विमलात्मना ।
केवलात्मा तथा चैव केवलेन समेत्य वै ॥
स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्यते ॥ २४५.३० ॥
एतावदेतत्कथितं मया ते तथ्यं महाराज यथार्थतत्त्वम् ।
अमत्सरस्त्वं प्रतिगृह्य बुद्ध्या, सनातनं ब्रह्म विशुद्धमाद्यम् ॥ २४५.३१ ॥
तद्वेदनिष्ठस्य जनस्य राजन्, प्रदेयमेतत्परमं त्वया भवेत् ।
विधित्सामानाय निबोधकारकं, प्रबोधहेतोः प्रणतस्य शासनम् ॥ २४५.३२ ॥
न देयमेतच्च यथाऽनृतात्मने, शठाय क्लीबाय न जिह्मबुद्धये ।
न पण्डितज्ञानपरोपतापिने, देयं तथा शिष्यविबोधनाय ॥ २४५.३३ ॥
श्रद्धान्वितायाथ गुणान्विताय, परापवादाद्विरताय नित्यम् ।
विशुद्धयोगाय बुधाय चैव, कृपावतेऽथ क्षमिणे हिताय ॥ २४५.३४ ॥
विविक्तशीलाय विधिप्रिययाय, विवादहीनाय बहुश्रुताय ।
विनीतवेशाय नहैतुकात्मने, सदैव गृह्यं त्विदमेव देयम् ॥ २४५.३५ ॥
एतैर्गुणैर्हीनतमे न देयमेतत्परं ब्रह्म विशुद्धमाहुः ।
न श्रेयसे योक्ष्यति तादृशे कृतं, धर्मप्रवक्तारमपात्रदानात् ॥ २४५.३६ ॥
पृथ्वीमिमां वा यदि रत्नपूर्णां,दद्याददेयं त्विदमव्रताय ।
जितेन्द्रियाय प्रयताय देयं, देयं परं तत्त्वविदे नरेन्द्र ॥ २४५.३७ ॥
कराल मा ते भयमस्ति किंचिदेतच्च्रुतं ब्रह्म परं त्वयाऽद्य ।
यथावदुक्तं परमं वपित्रं, विशोकमत्यन्तमनादिमध्यम् ॥ २४५.३८ ॥
अगाधमेतदजरामरं च, निरामयं वीतभयं शिवं च ।
समीक्ष्य मोहं परवादसंज्ञमेतस्य तत्त्वार्थमिमं विदित्वा ॥ २४५.३९ ॥
अवाप्तमेतद्धि पुरा सनातनाद्धिरण्यगर्भाद्धि ततो नराधिप ।
प्रसाद्य यत्नेन तमुग्रतेजसं, सनातनं ब्रह्म यथा त्वयैतत् ॥ २४५.४० ॥
पृष्टस्त्वया चाऽस्मि यथा नरेन्द्र, तथा मयेदं त्वयि नोक्तमन्यत् ।
यथाऽवाप्नं ब्रह्मणो मे नरेन्द्र, महाज्ञानं मोक्षविदां परायणम् ॥ २४५.४१ ॥
एतदुक्तं परं ब्रह्म यस्मान्नाऽवर्तते पुनः ।
पञ्चविशं मुनिश्रेष्ठा वसिष्ठेन यथा पुरा ॥ २४५.४२ ॥
पुनरावृत्तिमाप्नोति परमं ज्ञानमव्ययम् ।
नाति बुध्यति तत्त्वेन बुध्यमानोऽजरामरम् ॥ २४५.४३ ॥
एतन्निःश्रेयसकरं ज्ञानं परमं मया ।
कथितं तत्त्वतो विप्राः श्रुत्वा देवर्षितो द्विजाः ॥ २४५.४४ ॥
हिरण्यगर्भादृषिणा वसिष्ठेन समाहृतम् ।
वसिष्ठादृषिसार्दूलो नारदोऽवाप्तवानिदम् ॥ २४५.४५ ॥
नारदाद्विदितं मह्यमेतदुक्तं सनातनम् ।
मा शुचध्वं मुनिश्रेष्ठाः श्रुत्वैतत्परमं पदम् ॥ २४५.४६ ॥
येन क्षराक्षरे भिन्ने न भयं तस्य विद्यते ।
विद्यते तु भयं यस्य यो नैनं वेत्ति तत्त्वतः ॥ २४५.४७ ॥
अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवान् ।
प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ॥ २४५.४८ ॥
देवलोकं तथा तिर्यङ्मानुष्यमपि चाश्नुते ।
यदि वा मुच्यते वाऽपि तस्मादज्ञानसागरात् ॥ २४५.४९ ॥
अज्ञानसागरे घोरे ह्यव्यक्तागाध उच्यते ।
अहन्यहनि मज्जन्ति यत्र भूतानि भो द्विजाः ॥ २४५.५० ॥
तस्मादगाधादव्यक्तादुपक्षीणात्सनातनात् ।
तस्माद्युयं विरजसका वितमस्काश्च भो द्विजाः ॥ २४५.५१ ॥
एवं मया मुनिश्रेष्ठाः सारात्सारतरं परम् ।
कथितं परमं मोक्षं यं ज्ञात्वा न निवर्तते ॥ २४५.५२ ॥
न नास्तिकाय दातव्य नाभक्ताय कदाचन ।
न दुष्टमतये विप्रा न श्रद्धाविमुखाय च ॥ २४५.५३ ॥
इति श्रीमहापुराणे आदिब्राह्मे वसिष्ठकरालजनकसंवादसमाप्तिनिरूपणं नाम
पञ्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ २४५ ॥
Also Read:
Vyasagita from Brahma Purana Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil