Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Pratyangira Devi | Sahasranama Stotram Lyrics in Hindi

Shri Pratyangira Sahasranamastotram Lyrics in Hindi:

॥ श्रीप्रत्यङ्गिरासहस्रनामस्तोत्रम् ॥
श्रीरुद्रयामलतन्त्रे दशविद्यारहस्ये

ईश्वर उवाच ।
श‍ृणु देवि प्रवक्ष्यामि साम्प्रतं त्वत्पुरःसरम् ।
सहस्रनाम परमं प्रत्यङ्गिरायाः सिद्धये ॥

सहस्रनामपाठे यः सर्वत्र विजयी भवेत् ।
पराभवो न चास्यास्ति सभायां वासने रणे ॥

तथा तुष्टा भवेद्देवी प्रत्यङ्गिरास्य पाठतः ।
यथा भवति देवेशि साधकः शिव एव हि ॥

अश्वमेधसहस्राणि वाजपेयस्य कोटयः ।
सकृत्पाठेन जायन्ते प्रसन्ना यत्परा भवेत् ॥

भैरवोऽस्य ऋषिश्छन्दोऽनुष्टुप् देवि समीरिता ।
प्रत्यङ्गिरा विनियोगः स्यात्सर्वसम्पत्ति हेतवे ॥

सर्वकार्येषु संसिद्धिः सर्वसम्पत्तिदा भवेत् ।
एवं ध्यात्वा पठेद्देवीं यदीछेदात्मनो हितम् ॥

अथ ध्यानम् ।
आशाम्बरा मुक्तकचा घनच्छविर्ध्येया सचर्मासिकरा विभूषणा ।
दंष्ट्रोग्रवक्त्रा ग्रसिताहिता त्वया प्रत्यङ्गिरा शङ्करतेजसेरिता ॥

ॐ अस्य श्रीप्रत्यङ्गिरासहस्रनाममहामन्त्रस्य,
भैरव ऋषिः, अनुष्टुप् छन्दः, श्रीप्रत्यङ्गिरा देवता,
ह्रीं बीजं, श्रीं शक्तिः, स्वाहा कीलकं
मम सर्वकार्यसिद्धयर्थे विद्यासिद्ध्यर्थे नामपारायणे विनियोगः ।
ॐ देवी प्रत्यङ्गिरा सेव्या शिरसा शशिशेखरा ।
समाऽसमा धर्मिणी च समस्तसुरशेमुषी ॥ १ ॥

सर्वसम्पत्तिजननी समदा सिन्धुसेविनी ।
शम्भुसीमन्तिनी सोमाराध्या च वसुधा रसा ॥ २ ॥

रसा रसवती वेला वन्या च वनमालिनी ।
वनजाक्षी वनचरी वनी वनविनोदिनी ॥ ३ ॥

वेगिनी वेगदा वेगबला स्थानबलाधिका ।
कला कलाप्रिया कौलि कोमला कालकामिनी ॥ ४ ॥

कमला कमलास्या च कमलस्था कलावती ।
कुलीना कुटिला कान्ता कोकिला कुलभाषिणी ॥ ५ ॥

कीरकेलिः कला काली कपालिन्यपि कालिका ।
केशिनी च कुशावर्ता कौशाम्बी केशवप्रिया ॥ ६ ॥

काशी काशापहा कांशीसङ्काशा केशदायिनी ।
कुण्डली कुण्डलीस्था च कुण्डलाङ्गदमण्डिता ॥ ७ ॥

कुशापाशी कुमुदिनी कुमुदप्रीतिवर्धिनी ।
कुन्दप्रिया कुन्दरुचिः कुरङ्गमदमोदिनी ॥ ८ ॥

कुरङ्गनयना कुन्दा कुरुवृन्दाभिनन्दिनी ।
कुसुम्भकुसुमा किञ्चित्क्वणत्किङ्किणिका कटुः ॥ ९ ॥

कठोरा करणा कण्ठा कौमुदी कम्बुकण्ठिनी ।
कपर्दिनी कपटिनी कठिनी कालकण्ठिका ॥ १० ॥

किब्रुहस्ता कुमारी च कुरुन्दा कुसुमप्रिया ।
कुञ्जरस्था कुञ्जरता कुम्भिकुम्भस्तनद्वया ॥ ११ ॥

कुम्भिका करभोरुश्च कदलीदलशालिनी ।
कुपिता कोटरस्था च कङ्काली कन्दशेखरा ॥ १२ ॥

एकान्तवासिनी किञ्चित्कम्पमानशिरोरुहा ।
कादम्बरी कदम्बस्था कुङ्कुमी प्रेमधारिणी ॥ १३ ॥

कुटुम्बिनी प्रियायुक्ता क्रतुः क्रतुकरी क्रिया ।
कात्यायनी कृत्तिका च कार्तिकेयप्रवर्तिनी ॥ १४ ॥

कामपत्नी कामधात्री कामेशी कामवन्दिता ।
कामरूपा कामगतिः कामाक्षी काममोहिता ॥ १५ ॥

खड्गिनी खेचरी खञ्जा खञ्जरीटेक्षणा खला ।
खरगा खरनासा च खरास्या खेलनप्रिया ॥ १६ ॥

खरांशुः खेटिनी खरखट्वाङ्गधारिणी ।
खलखण्डिनि विख्यातिः खण्डिता खण्डवी स्थिरा ॥ १७ ॥

खण्डप्रिया खण्डखाद्या सेन्दुखण्डा च खञ्जनी ।
गङ्गा गोदावरी गौरी गोमत्यापि च गौतमी ॥ १८ ॥

गया गौर्गजी गगना गारुडी गरुडध्वजा ।
गीता गीतप्रिया गोत्रा गोत्रक्षयकरी गदा ॥ १९ ॥

गिरिभूपालदुहिता गोगा गोकुलवर्धिनी ।
घनस्तनी घनरुचिर्घनोरुर्घननिःस्वना ॥ २० ॥

घूत्कारिणी घूतकरी घुघूकपरिवारिता ।
घण्टानादप्रिया घण्टा घनाघोटप्रवाहिनी ॥ २१ ॥

घोररूपा च घोरा च घूनीप्रीति घनाञ्जनी ।
घृताची घनमुष्टिश्च घटाघण्टा घटामृता ॥ २२ ॥

घटास्या घटानादा च घातपातनिवारिणी ।
चञ्चरीका चकोरी च चामुण्डा चीरधारिणी ॥ २३ ॥

चातुरी चपला चारुश्चला चेला चलाचला ।
चतुश्चिरन्तना चाका चिया चामीकरच्छविः ॥ २४ ॥

चापिनी चपला चम्पूश्चित्तचिन्तामणिश्चिता ।
चातुर्वर्ण्यमयी चञ्चच्चौरा चापा चमत्कृतिः ॥ २५ ॥

चक्रवर्ति वधूश्चक्रा चक्राङ्गा चक्रमोदिनी ।
चेतश्चरी चित्तवृत्तिरचेता चेतनाप्रदा ॥ २६ ॥

चाम्पेयी चम्पकप्रीतिश्चण्डी चण्डालवासिनी । (चप्रिया चक्रिका)
चिरञ्जीवितदाचित्ता तरुमूलनिवासिनी ॥ २७ ॥

छुरिका छत्रमध्यस्था छिद्रा छेदकरी छिदा ।
छुच्छुन्दरीपलप्रीतिः छुन्दरीभनिभस्वना ॥ २८ ॥

छलिनी छलवच्छिन्ना छिटिका छेककृत्तथा ।
छद्मिनी छान्दसी छाया छायाकृच्छादिरित्यपि ॥ २९ ॥

जया च जयदा जातिर्जृम्भिणी जामलायुता ।
जयापुष्पप्रिया जाया जाप्या जाप्यजगज्जनिः ॥ ३० ॥

जम्बूप्रिया जयस्था च जङ्गमा जङ्गमप्रिया ।
जन्तुर्जन्तुप्रधाना च जरत्कर्णा जरद्गवा ॥ ३१ ॥

जातीप्रिया जीवनस्था जीमूतसदृशच्छविः ।
जन्या जनहिता जाया जम्भजम्भिलशालिनी ॥ ३२ ॥

जवदा जववद्वाहा जमानी ज्वरहा ज्वरी ।
झञ्झा नीलमयी झञ्झाझणत्कारकराचला ॥ ३३ ॥

झिंटीशा झस्यकृत् झम्पा यमत्रासनिवारिणी ।
टङ्कारस्था टङ्कधरा टङ्कारकारणा टसी ॥ ३४ ॥ var टकारस्था
ठकुरा ठीकृतिश्चैव ठिण्ठीरवसनावृता ।
ठण्ठा नीलमयी ठण्ठा ठणत्कारकरा ठसा ॥ ३५ ॥

डाकिनी डामरा चैव डिण्डिमध्वनिनादिनी ।
ढक्काप्रियस्वना ढक्कातपिनी तापिनी तथा ॥ ३६ ॥

तरुणी तुन्दिला तुन्दा तामसी च तपःप्रिया ।
ताम्रा ताम्राम्बरा ताली तालीदलविभूषणा ॥ ३७ ॥

तुरङ्गा त्वरिता तोता तोतला तादिनी तुला ।
तापत्रयहरा तारा तालकेशी तमालिनी ॥ ३८ ॥

तमालदलवच्छाया तालस्वनवती तमी ।
तामसी च तमिस्रा च तीव्रा तीव्रपराक्रमा ॥ ३९ ॥

तटस्थातिलतैलाक्ता तारिणी तपनद्युतिः ।
तिलोत्तमा तिलककृत्तारकाधीशशेखरा ॥ ४० ॥

तिलपुष्पप्रिया तारा तारकेशकुटुम्बिनी ।
स्थाणुपत्नी स्थितिकरी स्थलस्था स्थलवर्धिनी ॥ ४१ ॥

स्थितिस्थैर्या स्थविष्ठा च स्थावतिः स्थूलविग्रहा ।
दन्तिनी दण्डिनी दीना दरिद्रा दीनवत्सला ॥ ४२ ॥

देवी देववधूर्दैत्यदमिनी दन्तभूषणा ।
दयावती दमवती दमदा दाडिमस्तनी ॥ ४३ ॥

दन्दशूकनिभा दैत्यदारिणी देवताऽऽनना ।
दोलाक्रीडा दयालुश्च दम्पती देवतामयी ॥ ४४ ॥

दशा दीपस्थिता दोषा दोषहा दोषकारिणी ।
दुर्गा दुर्गार्तिशमनी दुर्गमा दुर्गवासिनी ॥ ४५ ॥

दुर्गन्धनाशिनी दुःस्था दुःस्वप्नशमकारिणी ।
दुर्वारा दुन्दुभिध्वाना दूरगा दूरवासिनी ॥ ४६ ॥

दरदा दरहा दात्री दयादा दुहिता दशा ।
धुरन्धरा धुरीणा च धौरेयी धनदायिनी ॥ ४७ ॥

धीरा धीराधरित्री च धर्मदा धीरमानसा ।
धनुर्धरा च धमिनी धूर्ता धूर्तपरिग्रहा ॥ ४८ ॥

धूमवर्णा धूमपाना धूमला धूममोदिनी ।
नलिनी नन्दनी नन्दा नन्दिनी नन्दबालिका ॥ ४९ ॥

नवीना नर्मदा नर्मी नेमिर्नियमनिश्चया ।
निर्मला निगमाचरा निम्नगा नग्निका निमिः ॥ ५० ॥

नाला निरन्तरा निघ्नी निर्लेपा निर्गुणा नतिः ।
नीलग्रीवा निरीहा च निरञ्जनजनी नवी ॥ ५१ ॥

नवनीतप्रिया नारी नरकार्णवतारिणी ।
नारायणी निराकारा निपुणा निपुणप्रिया ॥ ५२ ॥

निशा निद्रा नरेन्द्रस्था नमिता नमितापि च ।
निर्गुण्डिका च निर्गुण्डा निर्मांसा नासिकाभिधा ॥ ५३ ॥

पताकिनी पताका च पलप्रीतिर्यशश्विनी ।
पीना पीनस्तना पत्नी पवनाशनशायिनी ॥ ५४ ॥

परा पराकला पाका पाककृत्यरतिप्रिया ।
पवनस्था सुपवना तापसी प्रीतिवर्धिनी ॥ ५५ ॥

पशुवृद्धिकरी पुष्टिः पोषणी पुष्पवर्धिनी ।
पुष्पिणी पुस्तककरा पुन्नागतलवासिनी ॥ ५६ ॥

पुरन्दरप्रिया प्रीतिः पुरमार्गनिवासिनी ।
पेशा पाशकरा पाशबन्धहा पांशुलापशुः ॥ ५७ ॥

पटः पटाशा परशुधारिणी पाशिनी तथा ।
पापघ्नी पतिपत्नी च पतिताऽपतितापि च ॥ ५८ ॥

पिशाची च पिशाचघ्नी पिशिताशनतोषिता ।
पानदा पानपात्रा च पानदानकरोद्यता ॥ ५९ ॥

पेषा प्रसिद्धिः पीयूषा पूर्णा पूर्णमनोरथा ।
पतद्गर्भा पतद्गात्रा पौनःपुण्यपिवापुरा ॥ ६० ॥

पङ्किला पङ्कमग्ना च पामीपा पञ्जरस्थिता ।
पञ्चमा पञ्चयामा च पञ्चता पञ्चमप्रिया ॥ ६१ ॥

पञ्चमुद्रा पुण्डरीका पिङ्गला पिङ्गलोचना ।
प्रियङ्गुमञ्जरी पिण्डी पण्डिता पाण्डुरप्रभा ॥ ६२ ॥

प्रेतासना प्रियालुस्था पाण्डुघ्नी पीतसापहा ।
फलिनी फलदात्री च फलश्री फणिभूषणा ॥ ६३ ॥

फूत्कारकारिणी स्फारा फुल्ला फुल्लाम्बुजासना ।
फिरङ्गहा स्फीतमतिः स्फितिः स्फीतिकरी तथा ॥ ६४ ॥

वनमाया बलारातिर्बलिनी बलवर्धिनी ।
वेणुवाद्या वनचरी वीरा बीजमयी अपि ॥ ६५ ॥

विद्या विद्याप्रदा विद्याबोधिनी वेददायिनी ।
बुधमाता च बुद्धा च वनमालावती वरा ॥ ६६ ॥

वरदा वारुणी वीणा वीणावादनतत्परा ।
विनोदिनी विनोदस्था वैष्णवी विष्णुवल्लभा ॥ ६७ ॥

विद्या वैद्यचिकित्सा च विवशा विश्वविश्रुता ।
वितन्द्रा विह्वला वेला विरावा विरतिर्वरा ॥ ६८ ॥

विविधार्ककरा वीरा बिम्बोष्ठी बिम्बवत्सला ।
विन्ध्यस्था वीरवन्द्या च वरीयानपराचवित् ॥ ६९ ॥

वेदान्तवेद्या वैद्या च वेदस्य विजयप्रदा ।
विरोधवर्धिनी वन्ध्या वन्ध्याबन्धनिवारिणी ॥ ७० ॥

भगिनी भगमाला च भवानी भयभाविनी ।
भीमा भीमानना भैमी भङ्गुरा भीमदर्शना ॥ ७१ ॥

भिल्ली भल्लधरा भीरुर्भेरुण्डी भीर्भयापहा ।
भगसर्पिण्यपि भगा भगरूपा भगालया ॥ ७२ ॥

भगासना भगामोदा भेरी भङ्काररञ्जिता ।
भीषणा भीषणारावा भगवत्यपि भूषणा ॥ ७३ ॥

भारद्वाजी भोगदात्री भवघ्नी भूतिभूषणा ।
भूतिदा भूमिदात्री च भूपतित्वप्रदायिनी ॥ ७४ ॥

भ्रमरी भ्रामरी नीला भूपालमुकुटस्थिता ।
मत्ता मनोहरमना मानिनी मोहनी मही ॥ ७५ ॥ var भामिनी
महालक्ष्मीर्मदक्षीबा मदीय मदिरालया ।
मदोद्धता मतङ्गस्था माधवी मधुमादिनी ॥ ७६ ॥

मेधा मेधाकरी मेध्या मध्या मध्यवयस्थिता ।
मद्यपा मांसला मत्स्यमोदिनी मैथुनोद्धता ॥ ७७ ॥

मुद्रा मुद्रावती माता माया महिम मन्दिरा ।
महामाया महाविद्या महामारी महेश्वरी ॥ ७८ ॥

महादेववधूर्मान्या मधुरा वीरमण्डला ।
मेदस्विनी मीलदश्रीर्महिषासुरमर्दिनी ॥ ७९ ॥

मण्डपस्था मठस्था च मदिरागमगर्विता ।
मोक्षदा मुण्डमाला च माला मालाविलासिनी ॥ ८० ॥

मातङ्गिनी च मातङ्गी मतङ्गतनयापि च ।
मधुस्रवा मधुरसा मधूककुसुमप्रिया ॥ ८१ ॥

यामिनी यामिनीनाथभूषा यावकरञ्जिता ।
यवाङ्कुरप्रिया माया यवनी यवनाधिपा ॥ ८२ ॥

यमघ्नी यमकन्या च यजमानस्वरूपिणी ।
यज्ञा यज्वा यजुर्यज्वा यशोनिकरकारिणी ॥ ८३ ॥

यज्ञसूत्रप्रदा ज्येष्ठा यज्ञकर्मकरी तथा ।
यशस्विनी यकारस्था यूपस्तम्भनिवासिनी ॥ ८४ ॥

रञ्जिता राजपत्नी च रमा रेखा रवेरणी ।
रजोवती रजश्चित्रा रजनी रजनीपतिः ॥ ८५ ॥

रागिणी राज्यनीराज्या राज्यदा राज्यवर्धिनी ।
राजन्वती राजनीतिस्तथा रजतवासिनी ॥ ८६ ॥

रमणी रमणीया च रामा रामावती रतिः ।
रेतोवती रतोत्साहा रोगहृद्रोगकारिणी ॥ ८७ ॥

रङ्गा रङ्गवती रागा रागज्ञा रागकृद्रणा ।
रञ्जिका रञ्जिकारञ्जा रञ्जिनी रक्तलोचना ॥ ८८ ॥

रक्तचर्मधरा रञ्जा रक्तस्था रक्तवादिनी ।
रम्भा रम्भाफलप्रीति रम्भोरु राघवप्रिया ॥ ८९ ॥

रङ्गभृद्रङ्गमधुरा रोदसी रोदसीग्रहा ।
रोधकृद्रोधहन्त्री च रोगभृद्रोगशायिनी ॥ ९० ॥

वन्दी वदिस्तुता बन्धा बन्धूककुसुमाधरा ।
वन्दीत्रा वन्दितामाता विन्दुरा वैन्दवीविधा ॥ ९१ ॥

विङ्कि विङ्कपला विङ्का विङ्कस्था विङ्कवत्सला ।
वदिर्विलग्ना विप्रा च विधिर्विधिकरी विधा ॥ ९२ ॥

शङ्खिनी शङ्खवलया शङ्खमालावती शमी ।
शङ्खपात्राशिनी शङ्खाशङ्खा शङ्खगला शशी ॥ ९३ ॥

शंवी शरावती श्यामा श्यामाङ्गी श्यामलोचना ।
श्मशानस्था श्मशाना च श्मशानस्थलभूषणा ॥ ९४ ॥

शमदा शमहन्त्री च शाकिनी शङ्कुशेखरा ।
शान्तिः शान्तिप्रदा शेषा शेषस्था शेषदायिनी ॥ ९५ ॥

शेमुषी शोषिणी शीरी शौरिः शौर्या शरा शिरिः ।
शापहा शापहानीशा शम्पा शपथदायिनी ॥ ९६ ॥

श‍ृङ्गिणी श‍ृङ्गपलभुक् शङ्करी शङ्करी च या ।
शङ्का शङ्कापहा संस्था शाश्वती शीतला शिवा ॥ ९७ ॥

शिवस्था शवभुक्ता च शववर्णा शिवोदरी ।
शायिनी शावशयना शिंशपा शिशुपालिनी ॥ ९८ ॥

शवकुण्डलिनी शैवा शङ्करा शिशिरा शिरा ।
शवकाञ्ची शवश्रीका शवमाला शवाकृतिः ॥ ९९ ॥

शयनी शङ्कुवा शक्तिः शन्तनुः शीलदायिनी ।
सिन्धुः सरस्वती सिन्धुसुन्दरी सुन्दरानना ॥ १०० ॥

साधुः सिद्धिः सिद्धिदात्री सिद्धा सिद्धसरस्वती ।
सन्ततिः सम्पदा सम्पत्संवित्सरतिदायिनी ॥ १०१ ॥

सपत्नी सरसा सारा सरस्वतिकरी स्वधा ।
सरःसमा समाना च समाराध्या समस्तदा ॥ १०२ ॥

समिद्धा समदा सम्मा सम्मोहा समदर्शना ।
समितिः समिधा सीमा सवित्री सविधा सती ॥ १०३ ॥

सवता सवनादारा सावना समरा समी ।
सिमिरा सतता साध्वी सघ्रीची च सहायिनी ॥ १०४ ॥

हंसी हंसगतिर्हंसा हंसोज्ज्वलनिचोलुयुक् ।
हलिनी हलदा हाला हरश्रीर्हरवल्लभा ॥ १०५ ॥

हेला हेलावती हेषा ह्रेषस्था ह्रेषवर्धिनी ।
हन्ता हन्तिर्हता हत्या हा हन्त तापहारिणी ॥ १०६ ॥

हङ्कारी हन्तकृद्धङ्का हीहा हाता हताहता ।
हेमप्रदा हंसवती हारी हातरिसम्मता ॥ १०७ ॥

होरी होत्री होलिका च होमा होमो हविर्हरिः ।
हारिणी हरिणीनेत्रा हिमाचलनिवासिनी ॥ १०८ ॥

लम्बोदरी लम्बकर्णा लम्बिका लम्बविग्रहा ।
लीला लोलावती लोला ललनी लालिता लता ॥ १०९ ॥ var लोका
ललामलोचना लोच्या लोलाक्षी लक्षणा लला ।
लम्पती लुम्पती लम्पा लोपामुद्रा ललन्तिनी ॥ ११० ॥

लन्तिका लम्बिका लम्बा लघिमा लघुमध्यमा ।
लघीयसी लघुदयी लूता लूतानिवारिणी ॥ १११ ॥

लोमभृल्लोमलोप्ता च लुलुती लुलुसंयती ।
लुलायस्था च लहरी लङ्कापुरपुरन्दरी ॥ ११२ ॥

लक्ष्मीर्लक्ष्मीप्रदा लक्ष्म्या लक्षाबलमतिप्रदा ।
क्षुण्णा क्षुपा क्षणा क्षीणा क्षमा क्षान्तिः क्षणावती ॥ ११३ ॥

क्षामा क्षामोदरी क्षीमा क्षौमभृत्क्षत्रियाङ्गना ।
क्षया क्षयकरी क्षीरा क्षीरदा क्षीरसागरा ॥ ११४ ॥

क्षेमङ्करी क्षयकरी क्षयदा क्षणदा क्षतिः ।
क्षुरन्ती क्षुद्रिका क्षुद्रा क्षुत्क्षामा क्षरपातका ॥ ११५ ॥

॥ फलश्रुतिः ॥

मातुः सहस्रनामेदं प्रत्यङ्गिर्या वरप्रदम् ॥ १ ॥

यः पठेत्प्रयतो नित्यं स एव स्यान्महेश्वरः ।
अनाचान्तः पठेन्नित्यं दरिद्रो धनदो भवेत् ॥ २ ॥

( var यः पठेत्प्रयतो नित्यं दरिद्रो धनदो भवेत्)
मूकः स्याद्वाक्पतिर्देवि रोगी निरोगतां व्रजेत् ।
अपुत्रः पुत्रमाप्नोति त्रिषु लोकेषु विश्रुतम् ॥ ३ ॥

वन्ध्यापि सूते तनयान् गावश्च बहुदुग्धदाः ।
राजानः पादनम्राः स्युस्तस्यदासा इव स्फुटाः ॥ ४ ॥

अरयः सङ्क्षयं यान्ति मनसा संस्मृता अपि ।
दर्शनादेव जायन्ते नरा नार्योऽपि तद्वशाः ॥ ५ ॥

कर्ता हर्ता स्वयंवीरो जायते नात्रसंशयः ।
यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥ ६ ॥

दुरितं न च तस्यास्ते नास्ति शोकाः कदाचन ।
चतुष्पथेऽर्धरात्रे च यः पठेत्साधकोत्तमः ॥ ७ ॥

एकाकी निर्भयो धीरो दशावर्तं स्तवोत्तमम् ।
मनसा चिन्तितं कार्यं तस्य सिधिर्न संशयः ॥ ८ ॥

विना सहस्रनाम्ना यो जपेन्मन्त्रं कदाचन ।
न सिद्धो जायते तस्य मन्त्रः कल्पशतैरपि ॥ ९ ॥

कुजवारे श्मशाने च मध्यान्हे यो जपेदथ ।
शतावर्त्या सर्जयेत कर्ता हर्ता नृणामिह ॥ १० ॥

रोगान्तर्धो निशायान्ते पठितामसि संस्थितः ।
सद्यो नीरोगतामेति यदि स्यान्निर्भयस्तदा ॥ ११ ॥

अर्धरात्रे श्मशाने वा शनिवारे जपेन्मनुम् ।
अष्टोत्तरसहस्रं तद्दशवारं जपेत्ततः ॥ १२ ॥

सहस्रनाम चेत्तद्धि तदा याति स्वयं शिवा ।
महापवनरूपेण घोरगोमायुनादिनी ॥ १३ ॥

तदा यदि न भीतिः स्यात्ततो द्रोहीति वा भवेत् ।
तदा पशुबलिं दद्यात्स्वयं गृण्हाति चण्डिका ॥ १४ ॥

यथेष्टं च वरं दत्त्वा याति प्रत्यङ्गिरा शिवा ।
रोचनागुरुकस्तूरी कर्पूरमदचन्दनः ॥ १५ ॥

कुङ्कुमप्रथमाभ्यां तु लिखितं भूर्जपत्रके ।
शुभनक्षत्रयोगे तु कृत्रिमाकृतसत्क्रियः ॥ १६ ॥

कृतसम्पातनासिद्धिर्धारयेद्दक्षिणे करे ।
सहस्रानाम स्वर्णस्थं कण्ठे वापी जितेन्द्रियः ॥ १७ ॥

तदा यन्त्रे नमेन्मन्त्री क्रुद्धा सम्म्रियते नरः ।
यस्मै ददाति यः स्वस्ति स भवेद्धनदोपमः ॥ १८ ॥

दुष्टश्वापदजन्तूनां न भीः कुत्रापि जायते ।
बालकानामिमां रक्षां गर्भिणीनामपि ध्रुवम् ॥ १९ ॥

मोहनं स्तम्भनाकर्षमारणोच्चाटनानि च ।
यन्त्रधारणतो नूनं जायन्ते साधकस्य तु ॥ २० ॥

नीलवस्त्रे विलिखतं ध्वजायां यदि तिष्ठति ।
तदा नष्टा भवत्येव प्रचण्डा परिवाहिनी ॥ २१ ॥

एतज्जप्तं महाभस्म ललाटे यदि धारयेत् ।
तद्दर्शनत एव स्युः प्राणिनस्तस्य किङ्कराः ॥ २२ ॥

राजपत्न्योऽपि वशगाः किमन्याः परयोषितः ।
एतज्जप्तं पिबेत्तोयं मासैकेन महाकविः ॥ २३ ॥

पण्डितश्च महादीक्षो जायते नात्रसंशयः ।
शक्तिं सम्पूज्य देवेशि पठेत्स्तोत्रं वरं शुभम् ॥ २४ ॥

इह लोके सुखम्भुक्त्वा परत्र त्रिदिवं व्रजेत् ।
इति नामसहस्रं तु प्रत्यङ्गिरा मनोहरम् ॥ २५ ॥

गोप्यं गुप्ततमं लोके गोपनीयं स्वयोनिवत् ॥ २६ ॥

॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये
श्रीप्रत्यङ्गिरासहस्रनमस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Sri Maha Pratyangira Devi:

1000 Names of Sri Pratyangira Devi | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Pratyangira Devi | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top