Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Radhika | Sahasranama Stotram Lyrics in Hindi

Shri RadhikaSahasranamastotram Lyrics in Hindi:

॥ श्रीराधिकासहस्रनामस्तोत्रम् ॥

नारदपञ्चरात्रे ज्ञानामृतसारतः

श्रीपार्वत्युवाच –
देवदेव जगन्नाथ भक्तानुग्रहकारक ।
यद्यस्ति मयि कारुण्यं मयि यद्यस्ति ते दया ॥ १ ॥

यद्यत् त्वया निगदितं तत्सर्वं मे श्रुतं प्रभो ।
गुह्याद् गुह्यतरं यत्तु यत्ते मनसि काशते ॥ २ ॥

त्वया न गदितं यत्तु यस्मै कस्मै कदचन ।
तस्मात् कथय देवेश सहस्रं नाम चोत्तमम् ॥ ३ ॥

श्रीराधाया महदेव्या गोप्या भक्तिप्रसाधनम् ।
ब्रह्माण्डकर्त्री हर्त्री सा कथं गोपीत्वमागता ॥ ४ ॥

श्रीमहादेव उवाच –
श‍ृणु देवि विचित्रार्थां कथां पापहरां शुभाम् ।
नास्ति जन्मानि कर्माणि तस्या नूनं महेश्वरि ॥ ५ ॥

यदा हरिश्चरित्राणि कुरुते कार्यगोरवात् ।
तदा विधते रूपाणि हरिसान्निध्यसाधिनी ॥ ६ ॥

तस्या गोपीत्वभावस्यकारणं गदितं पुरा ।
इदानीं श‍ृणु देवेशि नाम्नां चैव सहस्रकम् ॥ ७ ॥

यन्मया कथितं नैव तन्त्रेष्वपि कदाचन ।
तव स्नेहात्प्रवक्ष्यामि भक्त्या धार्यं मुमुक्षुभिः ॥ ८ ॥

मम प्राणसमा विद्या भव्यते मे त्वहर्निशम् ।
श‍ृणुष्व गिरिजे नित्यं पठस्व च यथामति ॥ ९ ॥

यस्याः प्रसादात् कृष्णस्तु गोलोकेशः परः प्रभुः ।
अस्या नामसहस्रस्य ऋषिर्नारद एव च ।
देवी राधा परा प्रोक्ता चतुर्वर्गप्रसाधिनी ॥ १० ॥

॥अथ सहस्रनामस्तोत्रम् ॥

श्रीराधा राधिका कृष्णवल्लभा कृष्णसम्युता ।
वृन्दावनेश्वरी कृष्णप्रिया मदनमोहिनी ॥ ११ ॥

श्रीमती कृष्णकान्ता च कृष्णानन्दप्रदायिनी ।
यशस्विनी यशोगम्या यशोदानन्दवल्लभा ॥ १२ ॥

दामोदरप्रिया गोपी गोपानन्दकरी तथा ।
कृष्णाङ्गवासिनी हृद्या हरिकान्ता हरिप्रिया ॥ १३ ॥

प्रधानगोपिका गोपकन्या त्रैलोक्यसुन्दरी ।
वृन्दावनविहारिणी विकशितमुखाम्बुजा ॥ १४ ॥

गोकुलानन्दकर्त्री च गोकुलानन्ददायिनी ।
गतिप्रदा गीतगम्या गमनागमनप्रिया ॥ १५ ॥

विष्णुप्रिया विष्णुकान्ता विष्णोरङ्गनिवासिनी ।
यशोदानन्दपत्नी च यशोदानन्दगेहिनी ॥ १६ ॥

कामारिकान्ता कामेशी कामलालसविग्रहा ।
जयप्रदा जया जीवा जीवानन्दप्रदायिनी ॥ १७ ॥

नन्दनन्दनपत्नी च वृषभानुसुता शिवा ।
गणाध्यक्षा गवाध्यक्षा गवां गतिरनुत्तमा ॥ १८ ॥

काञ्चनाभा हेमगात्रा काञ्चनाङ्गदधारिणी ।
अशोका शोकरहिता विशोका शोकनाशिनी ॥ १९ ॥

गायत्री वेदमाता च वेदातीत विदुत्तमा ।
नीतिशास्त्रप्रिया नीतिगतिर्मतिरभीष्टदा ॥ २० ॥

वेदप्रिया वेदगर्भा वेदमार्गप्रवर्धिनी ।
वेदगम्या वेदपरा विचित्रकनकोज्ज्वला ॥ २१ ॥

तथोज्ज्वलप्रदा नित्या तथैवोज्ज्वलगात्रिका ।
नन्दप्रिया नन्दसुतारध्याऽऽनन्दप्रदा शुभा ॥ २२ ॥

शुभाङ्गी विमलाङ्गी च विलसिन्यपराजिता ।
जननी जन्मशून्या च जन्ममृत्युजरापहा ॥ २३ ॥

गतिर्गतिमतां धात्री धात्र्यानन्दप्रदायिनी ।
जगन्नाथप्रिया शैलवासिनी हेमसुन्दरी ॥ २४ ॥

किशोरी कमला पद्मा पद्महस्ता पयोददा ।
पयस्विनी पयोदात्री पवित्री सर्वमङ्गला ॥ २५ ॥

महाजीवप्रदा कृष्णकान्ता कमलसुन्दरी ।
विचित्रवासिनी चित्रवासिनी चित्ररूपिणी ॥ २६ ॥

निर्गुणा सुकुलीना च निष्कुलीना निराकुला ।
गोकुलान्तरगेहा च योगानन्दकरी तथा ॥ २७ ॥

वेणुवाद्या वेणुरतिः वेणुवाद्यपरायणा ।
गोपालस्यप्रिया सौम्यरूपा सौम्यकुलोद्वहा ॥ २८ ॥

मोहामोहा विमोहा च गतिनिष्ठा गतिप्रदा ।
गीर्वाणवन्द्या गिर्वाणा गिर्वाणगणसेविता ॥ २९ ॥

ललिता च विशोका च विशाखा चित्रमालिनी ।
जितेन्द्रिया शुद्धसत्त्वा कुलीना कुलदीपिका ॥ ३० ॥

दीपप्रिया दीपदात्री विमला विमलोदका ।
कान्तारवासिनी कृष्णा कृष्णचन्द्रप्रिया मतिः ॥ ३१ ॥

अनुत्तरा दुःखहन्त्री दुःखकर्त्री कुलोद्वहा ।
मतिर्लक्ष्मीर्धृतिर्लज्जा कान्तिः पुष्टिः स्मृतिः क्षमा ॥ ३२ ॥

क्षीरोदशायिनी देवी देवारिकुलमर्दिनी ।
वैष्णवी च महालक्ष्मीः कुलपूज्या कुलप्रिया ॥ ३३ ॥

संहर्त्री सर्वदैत्यानां सावित्री वेदगामिनी ।
वेदातीता निरालम्बा निरालम्बगणप्रिया ॥ ३४ ॥

निरालम्बजनैः पूज्या निरालोका निराश्रया ।
एकाङ्गी सर्वगा सेव्या ब्रह्मपत्नी सरस्वती ॥ ३५ ॥

रासप्रिया रासगम्या रासाधिष्ठातृदेवता ।
रसिका रसिकानन्दा स्वयम् रासेश्वरी परा ॥ ३६ ॥

रासमण्डलमध्यस्था रासमण्डलशोभिता ।
रासमण्डलसेव्या च रासक्रीडा मनोहरा ॥ ३७ ॥

पुण्डरीकाक्षनिलया पुण्डरीकाक्षगेहिनी ।
पुण्डरीकाक्षसेव्या च पुण्डरीकाक्षवल्लभा ॥ ३८ ॥

सर्वजीवेश्वरी सर्वजीववन्द्या परात्परा ।
प्रकृतिः शम्भुकान्ता च सदाशिवमनोहरा ॥ ३९ ॥

क्षुत्पिपासा दया निद्रा भ्रान्तिः श्रान्तिः क्षमाकुला ।
वधूरूपा गोपपत्नी भारती सिद्धयोगीनी ॥ ४० ॥

सत्यरूपा नित्यरूपा नित्याङ्गी नित्यगेहिनी ।
स्थानदात्री तथा धात्री महालक्ष्मीः स्वयम्प्रभा ॥ ४१ ॥

सिन्धुकन्याऽऽस्थानदात्री द्वारकावासिनी तथा ।
बुद्धिः स्थितिः स्थानरूपा सर्वकारणकारणा ॥ ४२ ॥

भक्तप्रिया भक्तगम्या भक्तानन्दप्रदायिनी ।
भक्तकल्पद्रुमातीता तथातीतगुणा तथा ॥ ४३ ॥

मनोऽधिष्ठातृदेवी च कृष्णप्रेमपरायणा ।
निरामया सौम्यदात्री तथा मदनमोहिनी ॥ ४४ ॥

एकानंशा शिवा क्षेमा दुर्गा दुर्गतिनाशिनी ।
ईश्वरी सर्ववन्द्या च गोपनीया शुभङ्करी ॥ ४५ ॥

पालिनीसर्वभूतानां तथा कामाङ्गहारिणी ।
सद्योमुक्तिप्रदा देवी वेदसारा परात्परा ॥ ४६ ॥

हिमालयसुता सर्वा पार्वती गिरिजा सती ।
दक्षकन्या देवमाता मन्दलज्जा हरेस्तनुः ॥ ४७ ॥

वृन्दारण्यप्रिया वृन्दा वृन्दावनविलासिनी ।
विलासिनी वैष्णवी च ब्रह्मलोकप्रतिष्ठिता ॥ ४८ ॥

रुक्मिणी रेवती सत्यभामा जाम्बवती तथा ।
सुलक्ष्मणा मित्रविन्दा कालिन्दी जह्नुकन्यका ॥ ४९ ॥

परिपूर्णा पूर्णतरा तथा हैमवती गतिः ।
अपूर्वा ब्रह्मरूपा च ब्रह्माण्डपरिपालिनी ॥ ५० ॥

ब्रह्माण्डभाण्डमद्यस्था ब्रह्माण्डभाण्डरूपिणी ।
अण्डरूपाण्डमध्यस्था तथाण्डपरिपालिनी ॥ ५१ ॥

अण्डबाह्याण्डसंहर्त्री शिवब्रह्महरिप्रिया ।
महाविष्णुप्रिया कल्पवृक्षरूपा निरन्तरा ॥ ५२ ॥

सारभूता स्थिरा गौरी गौराङ्गी शशिशेखरा ।
श्वेतचम्पकवर्णाभा शशिकोटिसमप्रभा ॥ ५३ ॥

मालती माल्यभूषाढ्या मालतीमाल्यधारिणी ।
कृष्णस्तुता कृष्णकान्ता वृन्दावनविलासिनी ॥ ५४ ॥

तुलस्यधिष्ठातृदेवी संसारार्णवपारदा ।
सारदाऽऽहारदाम्भोदा यशोदा गोपनन्दिनी ॥ ५५ ॥

अतीतगमना गौरी परानुग्रहकारिणी ।
करुणार्णवसम्पूर्णा करुणार्णवधारिणी ॥ ५६ ॥

माधवी माधवमनोहारिणी श्यामवल्लभा ।
अन्धकारभयध्वस्ता मङ्गल्या मङ्गलप्रदा ॥ ५७ ॥

श्रीगर्भा श्रीप्रदा श्रीशा श्रीनिवासाच्युतप्रिया ।
श्रीरूपा श्रीहरा श्रीदा श्रीकामा श्रीस्वरूपिणी ॥ ५८ ॥

श्रीदामानन्ददात्री च श्रीदामेश्वरवल्लभा ।
श्रीनितम्बा श्रीगणेशा श्रीस्वरूपाश्रिता श्रुतिः ॥ ५९ ॥

श्रीक्रियारूपिणी श्रीला श्रीकृष्णभजनान्विता ।
श्रीराधा श्रीमती श्रेष्ठा श्रेष्ठरूपा श्रुतिप्रिया ॥ ६० ॥

योगेशी योगमाता च योगातिता युगप्रिया ।
योगप्रिया योगगम्या योगिनीगणवन्दिता ॥ ६१ ॥

जवाकुसुमसङ्कासा दाडिमीकुसुमोपमा ।
नीलाम्बरधरा धीरा धैर्यरूपधरा धृतिः ॥ ६२ ॥

रत्नसिंहासनस्था च रत्नकुण्डलभूषिता ।
रत्नालङ्कारसम्युक्ता रत्नमालाधरा परा ॥ ६३ ॥

रत्नेन्द्रसारहाराढ्या रत्नमालाविभूषिता ।
इन्द्रनीलमणिन्यस्तपादपद्मशुभा शुचिः ॥ ६४ ॥

कार्त्तिकी पौर्णमासी च अमावस्या भयापहा ।
गोविन्दराजगृहिनी गोविन्दगणपूजिता ॥ ६५ ॥

वैकुण्ठनाथगृहिणी वैकुण्ठपरमालया ।
वैकुण्ठदेवदेवाढ्या तथा वैकुण्ठसुन्दरी ॥ ६६ ॥

महालसा वेदवती सीता साध्वी पतिव्रता ।
अन्नपूर्णा सदानन्दरूपा कैवल्यसुन्दरी ॥ ६७ ॥

कैवल्यदायिनी श्रेष्ठा गोपीनाथमनोहरा ।
गोपीनाथेश्वरी चण्डी नायिकानयनान्विता ॥ ६८ ॥

नायिका नायकप्रीता नायकानन्दरूपिणी ।
शेषा शेषवती शेषरूपिणी जगदम्बिका ॥ ६९ ॥

गोपालपालिका माया जायाऽऽनन्दप्रदा तथा ।
कुमारी यौवनानन्दा युवती गोपसुन्दरी ॥ ७० ॥

गोपमाता जानकी च जनकानन्दकारिणी ।
कैलासवासिनी रम्भा वैराग्याकुलदीपिका ॥ ७१ ॥

कमलाकान्तगृहिनी कमला कमलालया ।
त्रैलोक्यमाता जगतामधिष्ठात्री प्रियाम्बिका ॥ ७२ ॥

हरकान्ता हररता हरानन्दप्रदायिनी ।
हरपत्नी हरप्रीता हरतोषणतत्परा ॥ ७३ ॥

हरेश्वरी रामरता रामा रामेश्वरी रमा ।
श्यामला चित्रलेखा च तथा भुवनमोहिनी ॥ ७४ ॥

सुगोपी गोपवनिता गोपराज्यप्रदा शुभा ।
अङ्गावपूर्णा माहेयी मत्स्यराजसुता सती ॥ ७५ ॥

कौमारी नारसिंही च वाराही नवदुर्गिका ।
चञ्चला चञ्चलामोदा नारी भुवनसुन्दरी ॥ ७६ ॥

दक्षयज्ञहरा दाक्षी दक्षकन्या सुलोचना ।
रतिरूपा रतिप्रीता रतिश्रेष्ठा रतिप्रदा ॥ ७७ ॥

रतिर्लक्ष्मणगेहस्था विरजा भुवनेश्वरी ।
शङ्कास्पदा हरेर्जाया जामातृकुलवन्दिता ॥ ७८ ॥

बकुला बकुलामोदधारिणी यमुना जया ।
विजया जयपत्नी च यमलार्जुनभञ्जिनी ॥ ७९ ॥

वक्रेश्वरी वक्ररूपा वक्रवीक्षणवीक्षिता ।
अपराजिता जगन्नाथा जगन्नाथेश्वरी यतिः ॥ ८० ॥

खेचरी खेचरसुता खेचरत्वप्रदायिनी ।
विष्णुवक्षःस्थलस्था च विष्णुभावनतत्परा ॥ ८१ ॥

चन्द्रकोटिसुगात्री च चन्द्राननमनोहरी ।
सेवासेव्या शिवा क्षेमा तथा क्षेमकारी वधूः ॥ ८२ ॥

यादवेन्द्रवधूः सेव्या शिवभक्ता शिवान्विता ।
केवला निष्फला सूक्ष्मा महाभीमाऽभयप्रदा ॥ ८३ ॥

जीमूतरूपा जैमूती जितामित्रप्रमोदिनी ।
गोपालवनिता नन्दा कुलजेन्द्रनिवासिनी ॥ ८४ ॥

जयन्ती यमुनाङ्गी च यमुनातोषकारिणी ।
कलिकल्मषभङ्गा च कलिकल्मषनाशिनी ॥ ८५ ॥

कलिकल्मषरूपा च नित्यानन्दकरी कृपा ।
कृपावती कुलवती कैलासाचलवासिनी ॥ ८६ ॥

वामदेवी वामभागा गोविन्दप्रियकारिणी ।
नरेन्द्रकन्या योगेशी योगिनी योगरूपिणी ॥ ८७ ॥

योगसिद्धा सिद्धरूपा सिद्धक्षेत्रनिवासिनी ।
क्षेत्राधिष्ठातृरूपा च क्षेत्रातीता कुलप्रदा ॥ ८८ ॥

केशवानन्ददात्री च केशवानन्ददायिनी ।
केशवा केशवप्रीता केशवी केशवप्रिया ॥ ८९ ॥

रासक्रीडाकरी रासवासिनी राससुन्दरी ।
गोकुलान्वितदेहा च गोकुलत्वप्रदायिनी ॥ ९० ॥

लवङ्गनाम्नी नारङ्गी नारङ्गकुलमण्डना ।
एलालवङ्गकर्पूरमुखवासमुखान्विता ॥ ९१ ॥

मुख्या मुख्यप्रदा मुख्यरूपा मुख्यनिवासिनी ।
नारायणी कृपातीता करुणामयकारिणी ॥ ९२ ॥

कारुण्या करुणा कर्णा गोकर्णा नागकर्णिका ।
सर्पिणी कौलिनी क्षेत्रवासिनी जगदन्वया ॥ ९३ ॥

जटिला कुटिला नीला नीलाम्बरधरा शुभा ।
नीलाम्बरविधात्री च नीलकण्ठप्रिया तथा ॥ ९४ ॥

भगिनी भागिनी भोग्या कृष्णभोग्या भगेश्वरी ।
बलेश्वरी बलाराध्या कान्ता कान्तनितम्बिनी ॥ ९५ ॥

नितम्बिनी रूपवती युवती कृष्णपीवरी ।
विभावरी वेत्रवती सङ्कटा कुटिलालका ॥ ९६ ॥

नारायणप्रिया शैला सृक्कणीपरिमोहिता ।
दृक्पातमोहिता प्रातराशिनी नवनीतिका ॥ ९७ ॥

नवीना नवनारी च नारङ्गफलशोभिता ।
हैमी हेममुखी चन्द्रमुखी शशिसुशोभना ॥ ९८ ॥

अर्धचन्द्रधरा चन्द्रवल्लभा रोहिणी तमिः ।
तिमिङ्ग्लकुलामोदमत्स्यरूपाङ्गहारिणी ॥ ९९ ॥

कारिणी सर्वभूतानां कार्यातीता किशोरिणी ।
किशोरवल्लभा केशकारिका कामकारिका ॥ १०० ॥

कामेश्वरी कामकला कालिन्दीकूलदीपिका ।
कलिन्दतनयातीरवासिनी तीरगेहिनी ॥ १०१ ॥

कादम्बरीपानपरा कुसुमामोदधारिणी ।
कुमुदा कुमुदानन्दा कृष्णेशी कामवल्लभा ॥ १०२ ॥

तर्काली वैजयन्ती च निम्बदाडिमरूपिणी ।
बिल्ववृक्षप्रिया कृष्णाम्बरा बिल्वोपमस्तनी ॥ १०३ ॥

बिल्वात्मिका बिल्ववपुर्बिल्ववृक्षनिवासिनी ।
तुलसीतोषिका तैतिलानन्दपरितोषिका ॥ १०४ ॥

गजमुक्ता महामुक्ता महामुक्तिफलप्रदा ।
अनङ्गमोहिनी शक्तिरूपा शक्तिस्वरूपिणी ॥ १०५ ॥

पञ्चशक्तिस्वरूपा च शैशवानन्दकारिणी ।
गजेन्द्रगामिनी श्यामलताऽनङ्गलता तथा ॥ १०६ ॥

योषिच्छ्क्तिस्वरूपा च योषिदानन्दकारिणी ।
प्रेमप्रिया प्रेमरूपा प्रेमानन्दतरङ्गिणी ॥ १०७ ॥

प्रेमहारा प्रेमदात्री प्रेमशक्तिमयी तथा ।
कृष्णप्रेमवती धन्या कृष्णप्रेमतरङ्गिणी ॥ १०८ ॥

प्रेमभक्तिप्रदा प्रेमा प्रेमानन्दतरङ्गिणी ।
प्रेमक्रीडापरीताङ्गी प्रेमभक्तितरङ्गिणी ॥ १०९ ॥

प्रेमार्थदायिनी सर्वश्वेता नित्यतरङ्गिणी ।
हावभावान्विता रौद्रा रुद्रानन्दप्रकाशिनी ॥ ११० ॥

कपिला श‍ृङ्खला केशपाशसम्बन्धिनी घटी ।
कुटीरवासिनी धूम्रा धूम्रकेशा जलोदरी ॥ १११ ॥

ब्रह्माण्डगोचरा ब्रह्मरूपिणी भवभाविनी ।
संसारनाशिनी शैवा शैवलानन्ददायिनी ॥ ११२ ॥

शिशिरा हेमरागाढ्या मेघरूपातिसुन्दरी ।
मनोरमा वेगवती वेगाढ्या वेदवादिनी ॥ ११३ ॥

दयान्विता दयाधारा दयारूपा सुसेविनी ।
किशोरसङ्गसंसर्गा गौरचन्द्रानना कला ॥ ११४ ॥

कलाधिनाथवदना कलानाथाधिरोहिणी ।
विरागकुशला हेमपिङ्गला हेममण्डना ॥ ११५ ॥

भाण्डीरतालवनगा कैवर्ती पीवरी शुकी ।
शुकदेवगुणातीता शुकदेवप्रिया सखी ॥ ११६ ॥

विकलोत्कर्षिणी कोषा कौषेयाम्बरधारिणी ।
कोषावरी कोषरूपा जगदुत्पत्तिकारिका ॥ ११७ ॥

सृष्टिस्थितिकरी संहारिणी संहारकारिणी ।
केशशैवलधात्री च चन्द्रगात्री सुकोमला ॥ ११८ ॥

पद्माङ्गरागसंरागा विन्ध्याद्रिपरिवासिणी ।
विन्ध्यालया श्यामसखी सखी संसाररागिणी ॥ ११९ ॥

भूता भविष्या भव्या च भव्यगात्रा भवातिगा ।
भवनाशान्तकारिण्याकाशरूपा सुवेशिनी ॥ १२० ॥

रतिरङ्गपरित्यागा रतिवेगा रतिप्रदा ।
तेजस्विनी तेजोरूप कैवल्यपथदा शुभा ॥ १२१ ॥

भक्तिहेतुर्मुक्तिहेतुलङ्घिनी लङ्घनक्षमा ।
विशालनेत्रा वैसाली विशालकुलसम्भवा ॥ १२२ ॥

विशालगृहवासा च विशालबदरीरतिः ।
भक्त्त्यतीता भक्तगतिर्भक्तिका शिवभक्तिदा ॥ १२३ ॥

शिवशक्तिस्वरूपा च शिवार्धाङ्गविहारिणी ।
शिरीषकुसुमामोदा शिरीषकुसुमोज्ज्वला ॥ १२४ ॥

शिरीषमृद्धी शैरीषी शिरीषकुसुमाकृतिः ।
वामाङ्गहारिणी विष्णोः शिवभक्तिसुखान्विता ॥ १२५ ॥

विजिता विजितामोदा गणगा गणतोषिता ।
हयास्या हेरम्बसुता गणमाता सुखेश्वरी ॥ १२६ ॥

दुःखहन्त्री दुःखहरा सेवितेप्सितसर्वदा ।
सर्वज्ञत्वविधात्री च कुलक्षेत्रनिवासिनी ॥ १२७ ॥

लवङ्गा पाण्डवसखी सखीमध्यनिवासिनी ।
ग्राम्यगीता गया गम्या गमनातीतनिर्भरा ॥ १२८ ॥

सर्वाङ्गसुन्दरी गङ्गा गङ्गाजलमयी तथा ।
गङ्गेरिता पूतगात्रा पवित्रकुलदीपिका ॥ १२९ ॥

पवित्रगुणशीलाढ्या पवित्रानन्ददायिनी ।
पवित्रगुणशीलाढ्या पवित्रकुलदीपिनी ॥ १३० ॥

कल्पमाना कंसहरा विन्ध्याचलनिवासिनी ।
गोवर्धनेश्वरी गोवर्धनहास्या हयाकृतिः ॥ १३१ ॥

मीनावतारा मिनेशी गगनेशी हया गजी ।
हरिणी हरिणी हारधारिणी कनकाकृतिः ॥ १३२ ॥

विद्युत्प्रभा विप्रमाता गोपमाता गयेश्वरी ।
गवेश्वरी गवेशी च गवीशी गविवासिनी ॥ १३३ ॥

गतिज्ञा गीतकुशला दनुजेन्द्रनिवारिणी ।
निर्वाणदात्री नैर्वाणी हेतुयुक्ता गयोत्तरा ॥ १३४ ॥

पर्वताधिनिवासा च निवासकुशला तथा ।
संन्यासधर्मकुशला संन्यासेशी शरन्मुखी ॥ १३५ ॥

शरच्चन्द्रमुखी श्यामहारा क्षेत्रनिवासिनी ।
वसन्तरागसंरागा वसन्तवसनाकृतिः ॥ १३६ ॥

चतुर्भुजा षड्भुजा द्विभुजा गौरविग्रहा ।
सहस्रास्या विहास्या च मुद्रास्या मददायिनी ॥ १३७ ॥

प्राणप्रिया प्राणरूपा प्राणरूपिण्यपावृता ।
कृष्णप्रीता कृष्णरता कृष्णतोषणतत्परा ॥ १३८ ॥

कृष्णप्रेमरता कृष्णभक्ता भक्तफलप्रदा ।
कृष्णप्रेमा प्रेमभक्ता हरिभक्तिप्रदायिनी ॥ १३९ ॥

चैतन्यरूपा चैतन्यप्रिया चैतन्यरूपिणी ।
उग्ररूपा शिवक्रोडा कृष्णक्रोडा जलोदरी ॥ १४० ॥

महोदरी महादुर्गकान्तारसुस्थवासिनी ।
चन्द्रावली चन्द्रकेशी चन्द्रप्रेमतरङ्गिणी ॥ १४१ ॥

समुद्रमथनोद्भूता समुद्रजलवासिनी ।
समुद्रामृतरुपा च समुद्रजलवासिका ॥ १४२ ॥

केशपाशरता निद्रा क्षुधा प्रेमतरङ्गिका ।
दूर्वादलश्यामतनुर्दूर्वादलतनुच्छविः ॥ १४३ ॥

नागरा नागरिरागा नागरानन्दकारिणी ।
नागरालिङ्गनपरा नागराङ्गनमङ्गला ॥ १४४ ॥

उच्चनीचा हैमवती प्रिया कृष्णतरङ्गदा ।
प्रेमालिङ्गनसिद्धाङ्गी सिद्धा साध्यविलासिका ॥ १४५ ॥

मङ्गलामोदजननी मेखलामोदधारिणी ।
रत्नमञ्जीरभूषाङ्गी रत्नभूषणभूषणा ॥ १४६ ॥

जम्बालमालिका कृष्णप्राणा प्राणविमोचना ।
सत्यप्रदा सत्यवती सेवकानन्ददायिका ॥ १४७ ॥

जगद्योनिर्जगद्बीजा विचित्रमणिभूषणा ।
राधारमणकान्ता च राध्या राधनरूपिणी ॥ १४८ ॥

कैलासवासिनी कृष्णप्राणसर्वस्वदायिनी ।
कृष्णावतारनिरता कृष्णभक्तफलार्थिनी ॥ १४९ ॥

याचकायाचकानन्दकारिणी याचकोज्ज्वला ।
हरिभूषणभुषाढ्याऽऽनन्दयुक्ताऽऽर्द्रपदगा ॥ १५० ॥

हैहैतालधरा थैथैशब्दशक्तिप्रकाशिनी ।
हेहेशब्दस्वरुपा च हिहिवाक्यविशारदा ॥ १५१ ॥

जगदानन्दकर्त्री च सान्द्रानन्दविशारदा ।
पण्डिता पण्डितगुणा पण्डितानन्दकारिणी ॥ १५२ ॥

परिपालनकर्त्री च तथा स्थितिविनोदिनी ।
तथा सम्हारशब्दाढ्या विद्वज्जनमनोहरा ॥ १५३ ॥

विदुषां प्रीतिजननी विद्वत्प्रेमविवर्धिनी ।
नादेशी नादरूपा च नादबिन्दुविधारिणी ॥ १५४ ॥

शून्यस्थानस्थिता शून्यरूपपादपवासिनी ।
कार्त्तिकव्रतकर्त्री च वसनाहारिणी तथा ॥ १५५ ॥

जलशाया जलतला शिलातलनिवासिनी ।
क्षुद्रकीटाङ्गसंसर्गा सङ्गदोशविनाशिनी ॥ १५६ ॥

कोटिकन्दर्पलावण्या कन्दर्पकोटिसुन्दरी ।
कन्दर्पकोटिजननी कामबीजप्रदायिनी ॥ १५७ ॥

कामशास्त्रविनोदा च कामशास्त्रप्रकाशिनी ।
कामप्रकाशिका कामिन्यणिमाद्यष्टसिद्धिदा ॥ १५८ ॥

यामिनी यामिनीनाथवदना यामिनीश्वरी ।
यागयोगहरा भुक्तिमुक्तिदात्री हिरण्यदा ॥ १५९ ॥

कपालमालिनी देवी धामरूपिण्यपूर्वदा ।
कृपान्विता गुणा गौण्या गुणातीतफलप्रदा ॥ १६० ॥

कुष्माण्डभूतवेतालनाशिनी शरदान्विता ।
शीतला शवला हेला लीला लावण्यमङ्गला ॥ १६१ ॥

विद्यार्थिनी विद्यमाना विद्या विद्यास्वरूपिणी ।
आन्वीक्षिकी शास्त्ररूपा शास्त्रसिद्धान्तकारिणी ॥ १६२ ॥

नागेन्द्रा नागमाता च क्रीडाकौतुकरूपिणी ।
हरिभावनशीला च हरितोषणतत्परा ॥ १६३ ॥

हरिप्राणा हरप्राणा शिवप्राणा शिवान्विता ।
नरकार्णवसंहन्त्री नरकार्णवनाशिनी ॥ १६४ ॥

नरेश्वरी नरातीता नरसेव्या नराङ्गना ।
यशोदानन्दनप्राणवल्लभा हरिवल्लभा ॥ १६५ ॥

यशोदानन्दनारम्या यशोदानन्दनेश्वरी ।
यशोदानन्दनाक्रिडा यशोदाक्रोडवासिनी ॥ १६६ ॥

यशोदानन्दनप्राणा यशोदानन्दनार्थदा ।
वत्सला कौशला काला करुणार्णवरूपिणी ॥ १६७ ॥

स्वर्गलक्ष्मीर्भूमिलक्ष्मीर्द्रौपदी पाण्डवप्रिया ।
तथार्जुनसखी भौमी भैमी भीमकुलोद्भवा ॥ १६८ ॥

भुवना मोहना क्षीणा पानासक्ततरा तथा ।
पानार्थिनी पानपात्रा पानपानन्ददायिनी ॥ १६९ ॥

दुग्धमन्थनकर्माढ्या दुग्धमन्थनतत्परा ।
दधिभाण्डार्थिनी कृष्णक्रोधिनी नन्दनाङ्गना ॥ १७० ॥

घृतलिप्ता तक्रयुक्ता यमुनापारकौतुका ।
विचित्रकथका कृष्णहास्यभाषणतत्परा ॥ १७१ ॥

गोपाङ्गनावेष्टिता च कृष्णसङ्गार्थिनी तथा ।
रासासक्ता रासरतिरासवासक्तवासना ॥ १७२ ॥

हरिद्रा हरिता हारिण्यानन्दार्पितचेतना ।
निश्चैतन्या च निश्चेता तथा दारुहरिद्रिका ॥ १७३ ॥

सुबलस्य स्वसा कृष्णभार्या भाषातिवेगिनी ।
श्रीदामस्य शखी दामदामिनी दामधारिणी ॥ १७४ ॥

कैलासिनी केशिनी च हरिदम्बरधारिणी ।
हरिसान्निध्यदात्री च हरिकौतुकमङ्गला ॥ १७५ ॥

हरिप्रदा हरिद्वारा यमुनाजलवासिनी ।
जैत्रप्रदा जितार्थी च चतुरा चातुरी तमी ॥ १७६ ॥

तमिस्राऽऽतापरूपा च रौद्ररूपा यशोऽर्थिनी ।
कृष्णार्थिनी कृष्णकला कृष्णानन्दविधायिनी ॥ १७७ ॥

कृष्णार्थवासना कृष्णरागिनी भवभाविनी ।
कृष्णार्थरहिता भक्ता भक्तभक्तिशुभप्रदा ॥ १७८ ॥

श्रीकृष्णरहिता दीना तथा विरहिणी हरेः ।
मथुरा मथुराराजगेहभावनभावना ॥ १७९ ॥

श्रीकृष्णभावनामोदा तथोऽन्मादविधायिनी ।
कृष्णार्थव्याकुला कृष्णसारचर्मधरा शुभा ॥ १८० ॥

अलकेश्वरपूज्या च कुवेरेश्वरवल्लभा ।
धनधान्यविधात्री च जाया काया हया हयी ॥ १८१ ॥

प्रणवा प्रणवेशी च प्रणवार्थस्वरूपिणी ।
ब्रह्मविष्णुशिवार्धाङ्गहारिणी शैवशिंशपा ॥ १८२ ॥

राक्षसीनाशिनी भूतप्रेतप्राणविनाशिनी ।
सकलेप्सितदात्री च शची साध्वी अरुन्धती ॥ १८३ ॥

पतिव्रता पतिप्राणा पतिवाक्यविनोदिनी ।
अशेषसाधनी कल्पवासिनी कल्परूपिणी ॥ १८४ ॥

॥ फलश्रुती ॥

श्रीमहादेव उवाच –
इत्येतत् कथितं देवि राधानामसहस्रकम् ।
यः पठेत् पाठयद्वापि तस्य तुष्यति माधवः ॥ १८५ ॥

किं तस्य यमुनाभिर्वा नदीभिः सर्वतः प्रिये ।
कुरुक्षेत्रादितीर्थैश्च यस्य तुष्टो जनार्दनः ॥ १८६ ॥

स्तोत्रस्यास्य प्रसादेन किं न सिध्यति भूतले ।
ब्राह्मणो ब्रह्मवर्चाः स्यात् क्षत्रियो जगतिपतिः ॥ १८७ ॥

वैश्यो निधिपतिर्भूयात् शूद्रो मुच्येत जन्मतः ।
ब्रह्महत्यासुरापानस्तेयादेरतिपातकात् ॥ १८८ ॥

सद्यो मुच्येत देवेशि सत्यं सत्यं न संशयः ।
राधानामसहस्रस्य समानं नास्ति भूतले ॥ १८९ ॥

स्वर्गे वाप्यथ पाताले गिरौ व जलतोऽपि वा ।
नातः परं शुभं स्तोत्रम् तीर्थं नातः परं परम् ॥ १९० ॥

एकादश्यां शुचिर्भूत्वा यः पठेत् सुसमाहितः ।
तस्य सर्वार्थसिद्धिः स्याच्छृणुयाद् वा सुशोभने ॥ १९१ ॥

द्वादश्यां पौर्णमास्यां वा तुलसीसन्निधौ शिवे ।
यः पठेत् श‍ृणुयाद्वापि तस्य तत्तत् फलं श‍ृणु ॥ १९२ ॥

अश्वमेधं राजसूयं बार्हस्पत्यं तथाऽऽत्रिकम् ।
अतिरात्रं वाजपेयमग्निष्टोमं तथा शुभम् ॥ १९३ ॥

कृत्वा यत् फलमाप्नोति श्रुत्वा तत् फलमाप्नुयात् ।
कार्त्तिके चाष्टमीं प्राप्य पठेद्वा श‍ृणुयादपि ॥ १९४ ॥

सहस्रयुगकल्पान्तं वैकुण्ठवसतिं लभेत् ।
ततश्च ब्रह्मभवने शिवस्य भवने पुनः ॥ १९५ ॥

सुराधिनाथभवने पुनर्याति सलोकताम् ।
गङ्गातीरं समासाद्य यः पठेत् श‍ृणुयादपि ॥ १९६ ॥

विष्णोः सारूप्यमायाति सत्यं सत्यं सुरेश्वरि ।
मम वक्त्रगिरेर्जाता पार्वतीवदनाश्रिता ॥ १९७ ॥

राधानाथसहस्राख्या नदी त्रैलोक्यपावनी ।
पठ्यते हि मया नित्यं भक्त्या शक्त्या यथोचितम् ॥ १९८ ॥

मम प्राणसमं ह्यन्यत्त् तव प्रीत्या प्रकाशितम् ।
नाभक्ताय प्रदातव्यं पाखण्डाय कदाचन ॥ १९९ ॥

नास्तिकायाविरागाय रागयुक्ताय सुन्दरि ।
तथा देयं महास्तोत्रं हरिभक्ताय शङ्करि ॥ २०० ॥

वैष्णवेषु यथाशक्ति दात्रे पुण्यार्थशालिने ।
राधानामसुधावारि मम वक्त्रसुधाम्बुधेः ॥ २०१ ॥

उद्धृतासौ त्वया यत्नात् यतस्त्वं वैष्णवाग्रणीः ॥ २०२ ॥

विशुद्धसत्त्वाय यथार्थवादिने द्विजस्य सेवानिरताय मन्त्रिणे ।
दात्रे यथाशक्ति सुभक्तिमानसे राधापदध्यानपराय शोभने ॥ २०३ ॥

हरिपादाङ्कमधुपमनोभूताय मानसे ।
राधापादसुधास्वादशालिने वैष्णवाय च ॥ २०४ ॥

दद्यात् स्तोत्रं महापुण्यं हरिभक्तिप्रसाधनम् ।
जन्मान्तरं न तस्यास्ति राधाकृष्णपदार्थिनः ॥ २०५ ॥

मम प्राणा वैष्णवा हि तेषां रक्षार्थमेव हि ।
शूलं मया धर्यते हि नान्यथा मेऽत्र कारणम् ॥ २०६ ॥

हरिभक्तिद्विषामर्थे शूलं सन्धर्यते मया ।
श‍ृणु देवि यथार्थं मे गदितं त्वयि सुव्रते ॥ २०७ ॥

भक्तासि मे प्रियासि त्वमतः स्नेहात् प्रकाशितम् ।
कदापि नोच्यते देवि मया नामसहस्रकम् ॥ २०८ ॥

इति नारदपञ्चरात्रे ज्ञानामृतसारतः
श्रीराधिकासहस्रनामस्तोत्र सम्पूर्णम् ।

Also Read 1000 Names of Shri Radhika:

1000 Names of Sri Radhika | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Radhika | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top