Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Rama | Sahasranamavali 3 Lyrics in Hindi

Shri Rama Sahasranamavali 3 Lyrics in Hindi:

॥ श्रीरामसहस्रनामावलिः ३ ॥
(अकारादिज्ञकारान्त)
॥श्रीः ॥

सङ्कल्पः –
यजमानः, आचम्य, प्राणानायम्य, हस्ते जलाऽक्षतपुष्पद्रव्याण्यादाय,
अद्येत्यादि-मास-पक्षाद्युच्चार्य एवं सङ्कल्पं कुर्यात् ।
शुभपुण्यतिथौ अमुकप्रवरस्य अमुकगोत्रस्य अमुकनाम्नो मम
यजमानस्य सकुटुम्बस्य श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं
त्रिविधतापोपशमनार्थं सकलमनोरथसिद्ध्यर्थं
श्रीसीतारामचन्द्रप्रीत्यर्थं च श्रीरामसहस्रनामावलिः पाठं
करिष्ये । अथवा कौशल्यानन्दवर्द्धनस्य
श्रीभरतलक्ष्मणाग्रजस्य स्वमताभीष्टसिद्धिदस्य श्रीसीतासहितस्य
मर्यादापुरुषोत्तमश्रीरामचन्द्रस्य सहस्रनामभिः श्रीरामनामाङ्कित-
तुलसीदलसमर्पणसहितं पूजनमहं करिष्ये । अथवा सहस्रनमस्कारान्
करिष्ये ॥

विनियोगः –
ॐ अस्य श्रीरामचन्द्रसहस्रनामस्तोत्रमन्त्रस्य भगवान् शिव ऋषिः,
अनुष्टुप् छन्दः, श्रीरामसीतालक्ष्मणा देवताः,
चतुर्वर्गफलप्राप्त्ययर्थं पाठे (तुलसीदलसमर्पणे, पूजायां
नमस्कारेषु वा) विनियोगः ॥

करन्यासः –
श्रीरामचन्द्राय, अङ्गुष्ठाभ्यां नमः ।
श्रीसीतापतये, तर्जनीभ्यां नमः ।
श्रीरघुनाथाय, मध्यमाभ्यां नमः ।
श्रीभरताग्रजाय, अनामिकाभ्यां नमः ।
श्रीदशरथात्मजाय, कनिष्ठिकाम्यां नमः ।
श्रीहनुमत्प्रभवे, करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः –
श्रीरामचन्द्राय, हृदयाय नमः ।
श्रीसीतापतये, शिरसे स्वाहा ।
श्रीरघुनाथाय शिखायै वषट् ।
श्रीभरताग्रजाय कवचाय हुम् ।
श्रीदशरथात्मजाय नेत्रत्रयाय वौषट् ।
श्रीहनुमत्प्रभवे, अस्त्राय फट् ॥

ध्यानम् –
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।
वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं
नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥ १॥ var मण्डलं
नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ २॥

मानस-पञ्चोपचार-पूजनम्-
१ ॐ लं पृथिव्यात्मने गन्धं परिकल्पयामि ।
२ ॐ हं आकाशात्मने पुष्पं परिकल्पयामि ।
३ ॐ यं वाय्वात्मने धूपं परिकल्पयामि ।
४ ॐ रं वह्न्यात्मने दीपं परिकल्पयामि ।
५ ॐ वं अमृतात्मने नैवेद्यं परिकल्पयामि ।

ॐ अनादये नमः । अधिवासाय । अच्युताय । आधाराय ।
आत्मप्रचालकाय । आदये । आत्मभुजे । इच्छाचारिणे ।
इभबन्धारिणे । इडानाडीश्वराय । इन्द्रियेशाय । ईश्वराय ।
ईतिविनाशकाय । उमाप्रियाय । उदारज्ञाय । उमोत्साहाय ।
उत्साहाय । उत्कटाय । उद्यमप्रियाय । ऊनसत्त्वबलप्रदाय नमः ॥ २० ॥

ॐ ऊधाब्धिदानकर्त्रे नमः । ऋणदुःखविमोचकाय ।
ऋणमुक्तिकराय । एकपत्नये । एकबाणधृषे । ऐद्रजालिकाय ।
ऐश्वर्यभोक्त्रे । ऐश्वर्याय । ओषधिरसप्रदाय । ओण्ड्रपुष्पाभिलाषिणे ।
औत्तानपादिसुखप्रियाय । औदार्यगुणसम्पन्नाय । औदराय ।
औषधाय । अंसिने । अङ्कूरकाय । काकुत्स्थाय । कमलानाथाय ।
कोदण्डिने । कामनाशनाय नमः ॥ ४० ॥

ॐ कार्मुकिने । काननस्थाय । कौसल्यानन्दवर्धनाय ।
कोदण्डभञ्जनाय । काकध्वंसिने । कार्मुकभञ्जनाय । कामारिपूजकाय ।
कर्त्रे । कर्बूरकुलनाशनाय । कबन्धारये । क्रतुत्रात्रे । कौशिकाह्लाद-
कारकाय । काकपक्षधराय । कृष्णाय । कृष्णोत्पलदलप्रभाय ।
कञ्जनेत्राय । कृपामूर्तये । कुम्भकर्णविदारणाय । कपिमित्राय ।
कपित्रात्रे नमः ॥ ६० ॥

ॐ कपिकालाय नमः । कपीश्वराय । कृतसत्याय ।
कलाभोगिने । कलानाथमुखच्छवये । काननिने । कामिनीसङ्गिने ।
कुशताताय । कुशासनाय । कैकेयीयशःसंहर्त्रे । कृपासिन्धवे ।
कृपामयाय । कुमाराय । कुकुरत्रात्रे । करुणामयविग्रहाय ।
कारुण्याय । कुमदानन्दाय । कौसल्यागर्भसेवनाय ।
कन्दर्पनिन्दिताङ्गाय । कोटिचद्रनिभाननाय नमः ॥ ८० ॥

ॐ कमलापूजिताय नमः । कामाय । कमलापरिसेविताय ।
कौसल्येयाय । कृपाधात्रे । कल्पद्रुमनिषेविताय । खड्गहस्ताय ।
खरध्वंसिने । खरसैन्यविदारणाय । खरपुत्रप्राणहर्त्रे ।
खण्डितासुरजीवनाय । खलान्तकाय । खस्थवराय । रवण्डितेशधनुषे ।
खेदिने । खेदहराय । खेददायकाय । खेदवारणाय । खेदघ्ने ।
खरघ्ने नमः ॥ १०० ॥

ॐ खड्गिने क्षिप्रप्रसाददायकाय नमः ।
खेलत्खञ्जननेत्राय । खेलत्सरसिजाननाय ।
खगचञ्चुसुनासाय । खञ्जनेशसुलोचनाय । खञ्जरीटपतये ।
खञ्जरीटविचञ्चलाय । गुणाकराय । गुणानन्दाय ।
गञ्जितेशधनुषे । गुणसिन्धवे । गयावासिने । गयाक्षेत्रप्रकाशकाय ।
गुहमित्राय । गुहत्रात्रे । गुहपूज्याय । गुहेश्वराय ।
गुरुगौरवकर्त्रे । गुरुगौरवरक्षकाय । गुणिने नमः ॥ १२० ॥

ॐ गुणप्रियाय नमः । गीताय । गर्गाश्रमनिषेवकाय ।
गवेशाय । गवयत्रात्रे । गवाक्षामोददायकाय । गन्धमादनपूज्याय ।
गन्धमादनसेविताय । गौरभार्याय । गुरुत्रात्रे । गुरुयज्ञाधिपालकाय ।
गोदावरीतीरवासिने । गङ्गास्नायिने । गणाधिपाय । गरुत्मद्रथिने ।
गुर्विणे । गुणात्मने । गुणेश्वराय । गरुडिने । गण्डकीवासिने नमः ॥ १४० ॥

ॐ गण्डकीतीरचारणाय नमः । गभर्वासनियन्त्रे । गुरुसेवा-
परायणाय । गीष्पतिस्तूयमानाय । गीर्वाणत्राणकारकाय । गौरीश-
पूजकाय । गौरीहृदयानन्दवर्धनाय । गीतप्रियाय । गीतरताय ।
गीर्वाणवन्दिताय । घनश्यामाय । घनानन्दाय । घोरराक्षसघातकाय ।
घनविघ्नविनाशाय । घननादविनाशकाय । घनानन्दाय । घनानादिने ।
घनगर्जिनिवारणाय । घोरकाननवासिने । घोरशस्त्रविनाशकाय नमः ॥ १६० ॥

ॐ घोरबाणधराय । घोराय । घोरधन्वने । घोरपराक्रमाय ।
घर्मबिन्दुमुखश्रीमते । घर्मबिन्दुविभूषिताय । घोरमारीचहन्त्रे ।
घोरवीरविघातकाय । चन्द्रवक्त्राय । चञ्चलाक्षाय । चन्द्रमूर्तये ।
चतुष्कलाय । चन्द्रकान्तये । चकोराक्षाय । चकोरीनयनप्रियाय ।
चण्डबाणाय । चण्डधन्वने । चकोरीप्रियदर्शनाय । चतुराय ।
चातुरीयुक्ताय नमः ॥ १८० ॥

ॐ चातुरीचित्तचारकाय नमः । चलत्खड्गाय ।
चलद्बाणाय । चतुरङ्गबलान्विताय । चारुनेत्राय । चारुवक्त्राय ।
चारुहासाय । चारुप्रियाय । चिन्तामणिविभूषाङ्गाय । चिन्तामणि-
मनोरथिने । चिन्तामणिमणिप्रियाय । चित्तहर्त्रे । चित्तरूपिणे ।
चलच्चित्ताय । चिताञ्चिताय । चराचरभयत्रात्रे ।
चराचरमनोहराय । चतुर्वेदमयाय । चिन्त्याय ।
चिन्तादूराय नमः ॥ २०० ॥

ॐ चिन्तासागरवारणाय नमः । चण्डकोदण्डधारिणे ।
चण्डकोदडखण्डनाय । चण्डप्रतापयुक्ताय । चण्डेषवे । चण्डविक्रमाय ।
चतुर्विक्रमयुक्ताय । चतुरङ्गबलापहाय । चतुराननपूज्याय ।
चतुःसागरशासित्रे । चमूनाथाय । चमूभर्त्रे । चमूपूज्याय ।
चमूयुताय । चमूहर्त्रे । चमूभञ्जिने । चमूतेजोविनाशकाय ।
चामरिणे । चारुचरणाय । चरणारुणशोभनाय नमः ॥ २२० ॥

ॐ चर्मिणे नमः । चर्मप्रियाय । चारुमृगचर्मविभूषिताय ।
चिद्रूपिणे । चिदानन्दाय । चित्स्वरूपिणे । चराचराय । छन्नरूपिणे ।
छत्रसङ्गिने । छात्रगणविभूषिताय । छात्राय । छत्रप्रियाय । छत्रिणे ।
छत्रमोहार्तपालकाय । छत्रचामरयुक्ताय । छत्रचामरमण्डिताय ।
छत्रचामरहर्त्रे । छत्रचामरदायकाय । छत्रधारिणे ।
छत्रहर्त्रे नमः ॥ २४० ॥

ॐ छत्रत्यागिने नमः । छत्रदाय । छत्ररूपिणे । छलत्यागिने ।
छलात्मने । छलविग्रहाय । छिद्रहर्त्रे । छिद्ररूपिणे ।
छिद्रौघविनिषूदनाय । छिन्नशत्रवे । छिन्नरोगाय । छिन्नधन्वने ।
छलापहाय । छिन्नच्छत्रप्रदाय । छेदकारिणे । छलापघ्ने ।
जनकीशाय । जितामित्राय । जानकीहृदयप्रियाय ।
जानकीपालकाय नमः ॥ २६० ॥

ॐ जेत्रे नमः । जितशत्रवे । जितासुराय । जानक्युद्धारकाय ।
जिष्णवे । जितसिन्धवे । जयप्रदाय । जानकीजीवनानन्दाय ।
जानकीप्राणवल्लभाय । जानकीप्राणभर्त्रे । जानकीदृष्टिमोहनाय ।
जानकीचित्तहर्त्रे । जानकीदुःखभञ्जनाय । जयदाय । जयकर्त्रे ।
जगदीशाय । जनार्दनाय । जनप्रियाय । जनानन्दाय ।
जनपालाय नमः ॥ २८० ॥

ॐ जनोत्सुकाय नमः । जितेन्द्रियाय । जितक्रोधाय ।
जीवेशाय । जीवनप्रियाय । जटायुमोक्षदाय । जीवत्रात्रे ।
जीवनदायकाय । जयन्तारये । जानकीशाय । जनकोत्सवदायकाय ।
जगत्त्रात्रे । जगत्पात्रे । जगत्कर्त्रे । जगत्पतये । जाड्यघ्ने ।
जाड्यहर्त्रे । जाड्येन्धनहुताशनाय । जगन्मूर्तये । जगत्कर्त्रे नमः ॥ ३०० ॥

ॐ जगतां पापनाशनाय नमः । जगच्चिन्त्याय । जगद्वन्द्याय ।
जगज्जेत्रे । जगत्प्रभवे । जनकारिविहर्त्रे । जगज्जाड्यविनाशकाय ।
जटिने । जटिलरूपाय । जटाधारिणे । जटावहाय । झर्झरप्रियवाद्याय ।
झञ्झावातनिवारकाय । झञ्झारवस्वनाय । झान्ताय । झार्णाय ।
झार्णविभूषिताय । टङ्कारये । टङ्कदात्रे ।
टीकादृष्टिस्वरूपधृषे नमः ॥ ३२० ॥

ॐ ठकारवर्णनियमाय नमः । डमरुध्वनिकारकाय ।
ढक्कावाद्यप्रियाय । ढार्णाय । ढक्कावाद्यमहोत्सुकाय । तीर्थसेविने ।
तीर्थवासिने । तरवे । तीर्थतीरनिवासकाय । तालभेत्त्रे ।
तालघातिने । तपोनिष्ठाय । तपःप्रभवे । तापसाश्रमसेविने ।
तपोधनसमाश्रयाय । तपोवनस्थिताय । तपसे । तापसपूजिताय ।
तन्वीभार्याय । तनूकर्त्रे नमः ॥ ३४० ॥

ॐ त्रैलोक्यवशकारकाय नमः । त्रिलोकीशाय । त्रिगुणकाय ।
त्रिगुण्याय । त्रिदिवेश्वराय । त्रिदिवेशाय । त्रिसर्गेशाय । त्रिमूर्तये ।
त्रिगुणात्मकाय । तन्त्ररूपाय । तन्त्रविज्ञाय । तन्त्रविज्ञानदायकाय ।
तारेशवदनोद्योतिने । तारेशमुखमडलाय । त्रिविक्रमाय ।
त्रिपादूर्ध्वाय । त्रिस्वराय । त्रिप्रवाहकाय । त्रिपुरारिकृतभक्तये ।
त्रिपुरारिप्रपूजिताय नमः ॥ ३६० ॥

ॐ त्रिपुरेशाय नमः । त्रिसर्गाय । त्रिविधाय । त्रितनवे ।
तूणिने । तूणीरयुक्ताय । तूणबाणधराय । ताटकावधकर्त्रे ।
ताटकाप्राणघातकाय । ताटकाभयकर्त्रे । ताटकादर्पनाशकाय ।
थकारवर्णनियमाय । थकारप्रियदर्शनाय । दीनबन्धवे । दयासिन्धवे ।
दारिद्र्यापद्विनाशकाय । दयामयाय । दयामूर्तये । दयासागराय ।
दिव्यमूर्तये नमः ॥ ३८० ॥

ॐ दीर्घबाहवे नमः । दीर्घनेत्राय । दुरासदाय । दुराधर्षाय ।
दुराराध्याय । दुर्मदाय । दुर्गनाशनाय । दैत्यारये । दनुजेन्द्रारये ।
दानर्वेद्रविनाशनाय । दूर्वादलश्याममूर्तये । दूर्वादलघनच्छवये ।
दूरदर्शिने । दीर्घदर्शिने । दुष्टारिबलहारकाय ।
दशग्रीववधाकाङ्क्षिणे । दशकन्धरनाशकाय ।
दूर्वादलश्यामकान्तये । दूर्वादलसमप्रभाय । दात्रे नमः ॥ ४०० ॥

ॐ दानपराय नमः । दिव्याय । दिव्यसिंहासनस्थिताय ।
दिव्यदोलासमासीनाय । दिव्यचामरमण्डिताय । दिव्यच्छत्र-
समायुक्ताय । दिव्यालङ्कारमण्डिताय । दिव्याङ्गनाप्रमोदाय ।
दिलीपान्वयसम्भवाय । दूषणारये । दिव्यरूपिणे । देवाय ।
दशरथात्मजाय । दिव्यदाय । दधिभुजे । दात्रे । दुःखसागरभञ्जनाय ।
दण्डिने । दण्डधराय । दान्ताय नमः ॥ ४२० ॥

ॐ दन्तुराय नमः । दनुजापहाय । धैर्याय । धीराय ।
धरानाथाय । धनेशाय । धरणीपतये । धन्विने । धनुष्मते ।
धे(धा)नुष्काय । धनुर्भङ्क्त्रे । धनाधिपाय । धार्मिकाय । धर्मशीलाय ।
धर्मिष्ठाय । धर्मपालकाय । धर्मपात्रे । धर्मयुक्ताय ।
धर्मनिन्दकवर्जकाय । धर्मात्मने नमः ॥ ४४० ॥

ॐ धरणीत्यागिने । धर्मयूपाय । धनार्थदाय । धर्मारण्यकृतावासाय ।
धर्मारण्यनिषेवकाय । धरोद्धर्त्रे । धरावासिने । धैर्यवते ।
धरणीधराय । नारायणाय । नराय । नेत्रे । नन्दिकेश्वरपूजिताय ।
नायकाय । नृपतये । नेत्रे । नेयाय । नटाय । नरपतये ।
नरेशाय नमः ॥ ४६० ॥

ॐ नगरत्यागिने नमः । नन्दिग्रामकृताश्रयाय । नवीनेन्दुकलाकान्तये ।
नौपतये । नृपतेःपतये । नीलेशाय । नीलसन्तापिने । नीलदेहाय ।
नलेश्वराय । नीलाङ्गाय । नीलमेघाभाय । नीलाञ्जनसमद्युतये ।
नीलोत्पलदलप्रख्याय । नीलोत्पलदलेक्षणाय ।
नवीनकेतकीकुन्दाय । नूत्नमालावृन्दविराजिताय । नारीशाय ।
नागरीप्राणाय । नीलबाहवे । नदिने नमः ॥ ४८० ॥

ॐ नदाय नमः । निद्रात्यागिने । निद्रिताय । निद्रालवे ।
नदबन्धकाय । नादाय । नादस्वरूपाय । नादात्मने । नादमण्डिताय ।
पूर्णानन्दाय । परब्रह्मणे । परस्मै तेजसे । परात्पराय । परस्मै धाम्ने ।
परस्मै मूर्तये । परहंसाय । परावराय । पूर्णाय । पूर्णोदराय ।
पूर्वाय नमः ॥ ५०० ॥

ॐ पूर्णारिविनिषूदनाय नमः । प्रकाशाय । प्रकटाय । प्राप्याय ।
पद्मनेत्राय । परात्पराय । पूर्णब्रह्मणे । पूर्णमूर्तये । पूर्णतेजसे ।
परस्मै वपुषे । पद्मबाहवे । पद्मवक्त्राय । पञ्चाननप्रपूजिताय ।
प्रपञ्चाय । पञ्चपूताय । पचाम्नायाय । परप्रभवे ।
पराय । पद्मेशाय । पद्मकोशाय नमः ॥ ५२० ॥

ॐ पद्माक्षाय नमः । पद्मलोचनाय । पद्मापतये । पुराणाय ।
पुराणपुरुषाय । प्रभवे । पयोधिशयनाय । पालाय । पालकाय ।
पृथिवीपतये । पवनात्मजवन्द्याय । पवनात्मजसेविताय । पञ्चप्राणाय ।
पञ्चवायवे । पञ्चाङ्गाय । पञ्चसायकाय । पञ्चबाणाय ।
पूरकाय । प्रपञ्चनाशकाय । प्रियाय नमः ॥ ५४० ॥

ॐ पातालाय नमः । प्रमथाय । प्रौढाय । पाशिने । प्रार्थ्याय ।
प्रियंवदाय । प्रियङ्कराय । पण्डितात्मने । पापघ्ने । पापनाशनाय ।
पाण्ड्येशाय । पूर्णशीलाय । पद्मिने । पद्मसमर्चिताय । फणीशाय ।
फणिशायिने । फणिपूज्याय । फणान्विताय । फलमूलप्रभोक्त्रे ।
फलदात्रे नमः ॥ ५६० ॥

ॐ फलेश्वराय नमः । फणिरूपाय । फणिभर्त्रे । फणिभुग्वाहनाय ।
फल्गुतीर्थसदास्नायिने । फल्गुतीर्थप्रकाशकाय । फलाशिने ।
फलदाय । फुल्लाय । फलकाय । फलभक्षकाय । बुधाय ।
बौद्धप्रियाय । बुद्धाय । बुद्धाचारनिवारकाय । बहुदाय । बलदाय ।
ब्रह्मणे । ब्रह्मण्याय । ब्रह्मदायकाय नमः ॥ ५८० ॥

ॐ भरतेशाय नमः । भारतीशाय । भरद्वाजप्रपूजिताय ।
भर्त्रे । भगवते । भोक्त्रे । भीतिघ्ने । भयनाशनाय । भवाय ।
भीतिहराय । भव्याय । भूपतये । भूपवन्दिताय । भूपालाय ।
भवनाय । भोगिने । भावनाय । भुवनप्रियाय । भारताराय ।
भारहर्त्रे नमः ॥ ६०० ॥

ॐ भारभृते नमः । भरताग्रजाय । भूभुजे । भुवनभर्त्रे ।
भूनाथाय । भूतिसुन्दराय । भेद्याय । भेदकराय । भेत्रे ।
भूतासुरविनाशनाय । भूमिदाय । भूमिहर्त्रे । भूमिदात्रे । भूमिपाय ।
भूतेशाय । भूतनाशाय । भूतेशपरिपूजिताय । भूधराय ।
भूधराधीशाय । भूधरात्मने नमः ॥ ६२० ॥

ॐ भयापहाय नमः । भयदाय । भयदात्रे । भवहर्त्रे । भयावहाय ।
भक्षाय । भक्ष्याय । भवानन्दाय । भवमूर्तये । भवोदयाय ।
भवाब्धये । भारतीनाथाय । भरताय । भूमये । भूधराय ।
मारीचारये । मरुत्त्रात्रे । माधवाय । मधुसूदनाय ।
मन्दोदरीस्तूयमानाय नमः ॥ ६४० ॥

ॐ मधुगद्गदभाषणाय नमः । मन्दाय । मन्दरारये । मन्त्रिणे ।
मङ्गलाय । मतिदायकाय । मायिने । मारीचहन्त्रे । मदनाय ।
मातृपालकाय । महामायाय । महाकायाय । महातेजसे ।
महाबलाय । महाबुद्धये । महाशक्तये । महादर्पाय । महायशसे ।
महात्मने । माननीयाय नमः ॥ ६६० ॥

ॐ मूर्ताय नमः । मरकतच्छवये । मुरारये । मकराक्षारये ।
मत्तमातङ्गविक्रमाय । मधुकैटभहन्त्रे । मातङ्गवनसेविताय ।
मदनारिप्रभवे । मत्ताय । मार्तण्डवंशभूषणाय । मदाय । मदविनाशिने ।
मर्दनाय । मुनिपूजकाय । मुक्तिदाय । मरकताभाय । महिम्ने ।
मननाश्रयाय । मर्मज्ञाय । मर्मघातिने नमः ॥ ६८० ॥

ॐ मन्दारकुसुमप्रियाय नमः । मन्दरस्थाय । मुहूर्तात्मने ।
मङ्गलाय । मङ्गलालकाय । मिहिराय । मण्डलेशाय । मन्यवे । मन्याय ।
महोदधये । मारुताय । मारुतेयाय । मारुतीशाय । मरुते । यशस्याय ।
यशोराशये । यादवाय । यदुनन्दनाय । यशोदाहृदयानन्दाय ।
यशोदात्रे नमः ॥ ७०० ॥

ॐ यशोहराय नमः । युद्धतेजसे । युद्धकर्त्रे । योधाय ।
युद्धस्वरूपकाय । योगाय । योगीश्वराय । योगिने । योगेन्द्राय ।
योगपावनाय । योगात्मने । योगकर्त्रे । योगभृते । योगदायकाय ।
योधाय । योधगणासङ्गिने । योगकृते । योगभूषणाय । यूने ।
युवतीभर्त्रे नमः ॥ ७२० ॥

ॐ युवभ्रात्रे नमः । युवाजकाय । रामभद्राय । रामचन्द्राय ।
राघवाय । रघुनन्दनाय । रामाय । रावणहन्त्रे । रावणारये । रमापतये ।
रजनीचरहन्त्रे । राक्षसीप्राणहारकाय । रक्ताक्षाय । रक्तपद्माक्षाय ।
रमणाय । राक्षसान्तकाय । राघवेन्द्राय । रमाभर्त्रे । रमेशाय ।
रक्तलोचनाय नमः ॥ ७४० ॥

ॐ रणरामाय नमः । रणासक्ताय । रणाय । रक्ताय ।
रणात्मकाय । रङ्गस्थाय । रङ्गभूमिस्थाय । रङ्गशायिने । रणार्गलाय ।
रेवास्नायिने । रमानाथाय । रणदर्पविनाशनाय । राजराजेश्वराय ।
राशे । राजमण्डलमण्डिताय । राज्यदाय । राज्यहर्त्रे । रमणीप्राण-
वल्लभाय । राज्यत्यागिने । राज्यभोगिने नमः ॥ ७६० ॥

ॐ रसिकाय नमः । रघूद्वहाय । राजेन्द्राय । रघुनाथाय ।
रक्षोघ्ने । रावणान्तकाय । लक्ष्मीकान्ताय । लक्ष्मीनाथाय । लक्ष्मीशाय ।
लक्ष्मणाग्रजाय । लक्ष्मणत्राणकर्त्रे । लक्ष्मणप्रतिपालकाय ।
लीलावताराय । लङ्कारये । केशाय । लक्ष्मणेश्वराय । लक्ष्मण-
प्राणदाय । लक्ष्मणप्रतिपालकाय । लङ्केशघातकाय । लङ्केशप्राण-
हारकाय नमः ॥ ७८० ॥

ॐ लङ्कानाथवीर्यहर्त्रे नमः । लाक्षारसविलोचनाय । लवङ्ग-
कुसुमासक्ताय । लवङ्गकुसुमप्रियाय । ललनापालनाय । लक्षाय ।
लिङ्गरूपिणे । लसत्तनवे । लावण्यरामाय । लावण्याय । लक्ष्मी-
नारायणात्मकाय । लवणाम्बुधिबन्धाय । लवणाम्बुधिसेतुकृते । लीला-
मयाय । लवणजिते । लीलाय । लवणजित्प्रियाय । वसुधापालकाय ।
विष्णवे । विदुषे नमः ॥ ८०० ॥

ॐ विद्वज्जनप्रियाय नमः । वसुधेशाय । वासुकीशाय ।
वरिष्ठाय । वरवाहनाय । वेदाय । विशिष्टाय । वक्त्रे । वदान्याय ।
वरदाय । विभवे । विधये । विधात्रे । वासिष्ठाय । वसिष्ठाय ।
वसुपालकाय । वसवे । वसुमतीभर्त्रे । वसुमते । वसुदायकाय नमः ॥ ८२० ॥

ॐ वार्ताधारिणे नमः । वनस्थाय । वनवासिने । वनाश्रयाय
विश्वभर्त्रे । विश्वपात्रे । विश्वनाथाय । विभावसवे । विभवे ।
विभज्यमानाय । विभक्ताय । वधबन्धनाय । विविक्ताय । वरदाय ।
वन्द्याय । विरक्ताय । वीरदर्पघ्ने । वीराय । वीरगुरवे ।
वीरदर्पध्वंसिने नमः ॥ ८४० ॥

ॐ विशाम्पतये नमः । वानरारये । वानरात्मने । वीराय ।
वानरपालकाय । वाहनाय । वाहनस्थाय । वनाशिने ।
विश्वकारकाय । वरेण्याय । वरदात्रे । वरदाय । वरवञ्चकाय ।
वसुदाय । वासुदेवाय । वसवे । वन्दनाय । विद्याधराय ।
विद्याविन्ध्याय । विन्ध्याचलाशनाय नमः ॥ ८६० ॥

ॐ विद्याप्रियाय नमः । विशिष्टात्मने । वाद्यभाण्डप्रियाय ।
वन्द्याय । वसुदेवाय । वसुप्रियाय । वसुप्रदाय । श्रीदाय । श्रीशाय ।
श्रीनिवासाय । श्रीपतये । शरणाश्रयाय । श्रीधराय । श्रीकराय ।
श्रीलाय । शरण्याय । शरणात्मकाय । शिवार्चिताय । शिवप्राणाय ।
शिवदाय नमः ॥ ८८० ॥

ॐ शिवपूजकाय नमः । शिवकर्त्रे । शिवहर्त्रे । शिवात्मने ।
शिववाञ्छकाय । शायकिने । शङ्करात्मने । शङ्करार्चनतत्पराय ।
शङ्करेशाय । शिशवे । शौरये । शाब्दिकाय । शब्दरूपकाय । शब्द-
भेदिने । शब्दहर्त्रे । शायकाय । शरणार्तिघ्ने । शर्वाय ।
शर्वप्रभवे । शूलिने नमः ॥ ९०० ॥

ॐ शूलपाणिप्रपूजिताय नमः । शार्ङ्गिणे । शङ्करात्मने । शिवाय ।
शकटभञ्जनाय । शान्ताय । शान्तये । शान्तिदात्रे । शान्तिकृते ।
शान्तिकारकाय । शान्तिकाय । शङ्खधारिणे । शङ्खिने ।
शङ्खध्वनिप्रियाय । षट्चक्रभेदनकराय । षड्गुणाय ।
षडूर्मिकाय । षडिन्द्रियाय । षडङ्गाय । षोडशाय नमः ॥ ९२० ॥

ॐ षोडशात्मकाय नमः । स्फुरत्कुण्डलहाराढ्याय । स्फुरन्मरकतच्छवये ।
सदानन्दाय । सतीभर्त्रे । सर्वेशाय । सज्जनप्रियाय । सर्वात्मने ।
सर्वकर्त्रे । सर्वपात्रे । सनातनाय । सिद्धाय । साध्याय ।
साधकेन्द्राय । साधकाय । साधकप्रियाय । सिद्धेशाय । सिद्धिदाय ।
साधवे । सत्कर्त्रे नमः ॥ ९४० ॥

ॐ सदीश्वराय नमः । सद्गतये । सच्चिदानन्दाय । सद्ध्रह्मणे ।
सकलात्मकाय । सतीप्रियाय । सतीभार्याय । स्वाध्यायाय ।
सतीपतये । सत्कवये । सकलत्रात्रे । सर्वपापप्रमोचकाय ।
सर्वशास्त्रमयाय । सर्वाम्नायनमस्कृताय । सर्वदेवमयाय ।
सर्वयज्ञस्वरूपकाय । सर्वाय । सङ्कटहर्त्रे । साहसिने ।
सगुणात्मकाय नमः ॥ ९६० ॥

ॐ सुस्निग्धाय । सुखदात्रे । सत्त्वाय । सत्त्वगुणाश्रयाय ।
सत्याय । सत्यव्रताय । सत्यवते । सत्यपालकाय । सत्यात्मने ।
सुभगाय । सौभाग्याय । सगरान्वयाय । सीतापतये । ससीताय ।
सात्त्वताय । सात्त्वताम्पतये । हरये । हलिने । हलाय ।
हरकोदण्डखण्डनाय नमः ॥ ९८० ॥

ॐ हुङ्कारध्वनिकर्त्रे नमः । हुङ्कारध्वनिपूरणाय ।
हुङ्कारध्वनिसम्भवाय । हर्त्रे । हरये । हरात्मने ।
हारभूषणभूषिताय । हरकार्मुकभङ्क्त्रे । हरपूजापरायणाय ।
क्षोणीशाय । क्षितिभुजे । क्षमापराय । क्षमाशीलाय । क्षमायुक्ताय ।
क्षोदिने । क्षोदविमोचनाय । क्षेमङ्कराय । क्षेमाय ।
क्षेमप्रदायकाय । ज्ञानप्रदाय नमः ॥ १००० ॥

इति श्रीरामसहस्रनामावलिः ३ समाप्ता ।

Also Read 1000 Names of Rama Sahasranamavali 3:

1000 Names of Sri Rama | Sahasranamavali 3 Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Rama | Sahasranamavali 3 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top