Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Thyagaraja Muchukunda | Sahasranamavali Stotram Lyrics in Hindi

Shri Tyagaraja Muchukunda Sahasranamavali Lyrics in Hindi:

॥ श्रीत्यागराजमुचुकुन्दसहस्रनामावलिः ॥

ॐ श्रीगणेशाय नमः ।

ॐ श्रीमत्त्यागमहाराजाय नमः ।
श्रीमत्सिंहासनेश्वराय ।
श्रीराजराजाय ।
श्रीनाथहृदयाम्बुजमध्यगाय ।
श्रिया सहनिवासाय ।
श्रीनाथपरिपूजिताय ।
श्रीपुरैकनिवासिने ।
श्रीहंसनटनेश्वराय ।
श्रीविद्यात्मकरूपाय ।
श्रीपीठान्तर्निवासिने ।
श्रीविद्याच्छादित हृदयाय । आच्छाद्य
श्रीविद्याहंससम्पुटाय ।
श्रीविद्यापरिधानाख्याय ।
श्रीपूजितपदाम्बुजाय ।
श्रीमत्त्यागविनोदाख्यवासनैकबहुप्रियाय ।
श्रीशिवाय ।
श्रीशिवतराय ।
श्रीशिवायाः प्रियङ्कराय ।
श्रीविद्यायास्त्रिखण्डात्मसोमास्कन्दस्वरूपवते ।
श्रीमूलाधारनिलयाय नमः । २० ।

ॐ श्रीभारतीशिवाप्रियाय नमः ।
सच्चिदानन्दरूपाय ।
श्रीविद्यामोघवैभवाय ।
सदाशिवमहाकारसर्वागमविवेचिताय ।
सत्पूज्याय ।
सकलाय ।
सर्वातीतस्वरूपिणे ।
सर्वभूतान्तरात्मने ।
सर्वभूतलयङ्कर्त्रे ।
सर्वसान्निध्यकारकाय ।
सर्वमन्त्रमयाकृतये ।
सर्वमन्त्रेश्वराय ।
सर्वयन्त्रेश्वराधिपाय ।
महाकल्पमहाघोरमहाताण्डवनायकाय ।
अजपाताण्डवप्रियाय ।
हंसताण्डवसुप्रीताय ।
हादिविद्यास्वरूपिणे ।
अम्बिकागुहसंयुताय ।
अरिष्टमथनाय ।
सर्वारिष्टविनाशनाय नमः । ४० ।

ॐ सर्वभूतस्वरूपिणे नमः ।
सर्वभूताधिपेश्वराय ।
सर्वसङ्क्षोभहारिणे ।
सदाराध्याय ।
समाकृतिने । समाकृतये
सर्वशक्तिमयाय ।
सर्वसमानाधिकवर्जिताय ।
सर्वमङ्गलरूपाय ।
नमतां सद्गतिप्रदाय ।
मूलमन्त्रस्वरूपिणे ।
मुलविद्याजपप्रियाय ।
मूलश‍ृङ्गाटनिलयाय ।
मुक्तिमार्गप्रकाशकाय ।
रथप्रियाय ।
भूमिरथाय ।
चन्द्रभास्वच्चक्ररथाय । var चन्द्रभास्करचक्ररथाय
क्षोणीरथवरासीनाय । वरासनाय
महारथवरस्थिताय ।
चतुःषष्टिकलास्तम्भरथारूढमहारथाय ।
शतारचक्रसंयुक्तरथारोहणशोभनाय नमः । ६० ।

ॐ त्रितत्त्वरथसंस्थायिने नमः ।
शिवतत्त्वविमानगाय ।
श्रीगणाधीश्वरस्कन्दद्वारपद्रथभासुराय ।
var गणाधीश्वरसंयुक्त सरस्कन्द द्वारोद्यद्रथ भासुराय
अश्वायितचतुर्वेदाय ।
रथावनिपरायणाय ।
शरायितरमाकान्ताय ।
सारथीभूतविश्वसृजे ।
चापायितमहामेरवे ।
तूणीकृतमहार्णवाय ।
गुणीकृतफणीशानाय ।
शास्त्ररज्जुसमाकृताय ।
मार्ताण्डप्रतिमद्युतये ।
सोमसुन्दरविग्रहाय ।
मेरुतुल्यत्रिचक्रात्मरथेन त्रिदिवागताय ।
सौधसान्निध्यसम्पूर्णवीथीसञ्चारसुन्दराय ।
महाफणिमहारज्जुसमाकृष्टमहारथाय ।
मन्दस्मितमुखाम्भोजस्मितदग्धपुरासुराय ।
ललाटनयनज्वालाजालदग्धाङ्गमन्मथाय ।
पादप्रहारसङ्क्षुब्धवक्षःस्थलकृतान्तकाय ।
पादाग्रकल्पितात्युग्रचक्रच्छिन्नजलन्धराय नमः । ८० ।

ॐ पादान्तर्दर्शनार्थाय गजसंहारकर्मकृते नमः ।
दक्षयज्ञसमुत्पन्नशिवनिन्दानिवारकाय ।
विधिगर्वशिरोहारिकपालमालया युताय ।
अन्धकासुरविच्छेदजगद्ध्वान्तनिवारकाय ।
दशास्यभुजदर्पघ्नपादाङ्गुष्ठबलोज्ज्वलाय ।
कुण्डलिन्यधिदेवाय ।
कुलकुण्डालयस्थिताय ।
आधारकुण्डलिन्यस्तदक्षपादसरोरुहाय ।
पराशक्तिपराधीशपराख्याकुण्डलीश्वराय ।
कुटिलारूपकुण्डल्यारोपितस्वपदाम्बुजाय ।
श्रीमत्सहस्रपत्राख्यकुलकुण्डालयस्थिताय ।
कटकीकृतभोगीन्द्रकुण्डलीकृतपन्नगाय ।
पिङ्गलेडारज्जुबद्धकुण्डलीवृषभध्वजाय ।
कुण्डल्युपरिविन्यस्तकिङ्किणीपदशोभिताय ।
शब्दोपादानसर्वात्मशक्तिकुण्डलिभूषणाय ।
चलन्नूपुरपादाब्जाय ।
अज्ञानतिमिरारुणाय ।
पादपङ्कजविन्यस्तपञ्चशीर्षफणीश्वराय ।
प्राणायामपरप्राणाय ।
प्राज्ञाप्राणप्रकाशकाय नमः । १० ।० ।

ॐ सुषुम्नान्तरवासिने नमः ।
शिष्टेष्टसिद्धिदायकाय । var शिष्टदायकाय
शरभाश्लिष्टदेहाय ।
शरभाय ।
साल्वपक्षिराजे ।
नृसिंहगर्वसर्वस्वनिर्वापणधुरन्धराय ।
प्रलयानलसज्वालहालाहलविषाशनाय ।
सपिङ्गलसुशोभाभसूक्ष्माय । अवसूक्ष्मणाय
स्थूलगोपुराय ।
चतुर्वेदमयस्तम्भरङ्गमध्यस्थलस्थिताय ।
सहस्रदलपद्मस्थसुधासाराभिवर्षणाय ।
चतुर्योगयुगद्वारसदानन्दरसस्थिताय ।
चतुःषष्टिकला शोभिनिजालययुताय । षष्टिजाल
कलाषोडशकस्तम्भसहस्रस्थानमध्यगाय ।
सहस्रपादमाणिक्यमण्डपस्थाननायकाय ।
देवाश्रयमहारत्नमण्डपासीनदैवताय ।
पताकापटलै राजदग्रमण्डपशोभिताय ।
ताराकारसमाकारस्तूपीपञ्चकमध्यगाय ।
अष्टादशपुराणार्थवाङ्मनान्युतमन्दिराय ।
अष्टाविंशतिमन्त्रात्मफलकाकीलितासनाय नमः । १२० ।

ॐ रत्नस्तम्भसहस्राढ्यकलासम्पूर्णमन्दिराय नमः ।
कलापञ्चकसंसिद्धभित्ति युक्तसभान्तराय । संसिद्धभक्ति
वीथीविटङ्करूपाय ।
स्वयम्भूतस्वरूपवते ।
विटङ्गविष्णुहृदयनिवासोत्सुकमानसाय ।
विटङ्कवीथीसम्भूतश्वासनिःश्वासरूपवते ।
विटङ्कवीथीसम्भूतव्यष्टिद्वारविनिर्गताय ।
विटङ्कविविधाकारवीथीसञ्चारमञ्जुलाय ।
विधिविष्णुविराड्विश्ववीथीविटङ्करूपवते ।
विटङ्कावयवाय ।
वीरखड्गद्वयान्विताय ।
अज्ञानतिमिरत्यागविज्ञानमयवेदनाय ।
कारणेशपरित्यागनित्यानन्दनिजासनाय ।
सर्वोपाधिपरित्यागसर्वत्यागरमान्विताय ।
त्यागवैभवसंयुक्तत्यागध्वजविराजिताय ।
विद्वज्जनधनत्यागिने ।
त्यागित्यागपरायणाय ।
सर्वबन्धपरित्यागिसर्वसंशुद्धिकारकाय ।
ब्रह्मादिकारणत्यागराजराजशिखामणये ।
कलिदोषपरित्यागकल्मषादिविवर्जिताय नमः । १४० ।

ॐ अध्वषट्कपरित्यागराजमानपदाम्बुजाय नमः ।
षडाघारपरित्यागपरमानन्दविग्रहाय ।
दुष्टदूरपरित्यागशिष्टमार्गप्रवर्तकाय ।
अशेषदुरितत्यागप्रभामण्डलमध्यगाय ।
प्रभामण्डलसत्यागराजमानमहेश्वराय ।
प्रपञ्चकालसत्यागराजमानतटित्प्रभाय ।
प्रमाणरीतिसत्यागप्रमाणैकशिरोमणये ।
कारणेशपरित्यागकल्पितात्ममहाकृतये ।
कलाषोडशसत्यागनादान्तलिखिताकृतये ।
पञ्चमन्त्रषडङ्गादिपरित्यागपदाम्बुजाय ।
मेधादिगोन्मनान्तादिपरित्यागविराजिताय ।
अशेषसारत्यागिने ।
अमृताम्भोधिमध्यगाय ।
परात्परतराय ।
परापरविवर्जिताय ।
सायाह्नज्वलनोद्भूतनीराजनविराजिताय ।
पुरत्रयजयोद्भूतनीराजनविराजिताय ।
इन्द्राणीहस्तविन्यस्तनीराजनविराजिताय ।
त्रितत्त्ववृत्तिनीराज्यनीराजनविराजिताय ।
कालभज्जनविश्रान्तिनीराजनविधिप्रियाय नमः । १६० ।

ॐ कालभञ्जनकालाग्निज्वालानीराजनप्रियाय नमः ।
कालभज्जनविश्रान्तिगौरीनीराजनप्रियाय ।
महाप्रलयकालान्तगौरीनीराजनप्रियाय ।
रमावाणीशचीमुख्यनीराजनबहुप्रियाय ।
त्रितत्ववृत्तिनीराज्यनीराजनसुरक्षिताय ।
उपसंहारसायाह्ननीराजनसुरक्षिताय ।
सायाह्नज्वलनोद्भूतक्षारक्षितविष्टपाय ।
संसारार्णवसम्मग्नसमुद्धरणपण्डिताय ।
देवलोकागताभौमपारिजातसुमार्चिताय ।
जवन्तीकुसुमाबद्धकृष्णागरुसुकर्णिकाय ।
मल्लिकामालतीजातीमृदुलाङ्गमनोहराय ।
रम्भापुष्पाञ्चलिप्रीताय ।
पञ्चाष्टकुसुमार्चिताय ।
कह्लारकुसुमप्रीताय ।
जवन्तीकुसुमोज्ज्वलाय ।
परशम्भूहृदुद्भूतजवन्तीकुसुमप्रियाय ।
पञ्चभूतात्मकोत्फुल्लमल्लिकादाममण्डिताय ।
जवन्तीमल्लिकाजातीकह्लारस्रङ्मनोहराय ।
चम्पकाशोकपुन्नागसौगन्धिकसुगन्धिताय ।
देववापीसमुद्भूतकह्लारकुसुमप्रियाय नमः । १८० ।

ॐ देवलोकागताभौमपुष्पमण्डपमण्डिताय नमः ।
सदाशिवमुखोद्भूतसौगन्धिकुसुमप्रियाय ।
मन्दारतरुसन्तानमहाराधनतत्पराय ।
गङ्गालङ्कृतमूर्ध्ने ।
ज्ञानचन्द्रकलाधराय ।
पूर्वाङ्गरम्यदेहाय ।
अपराङ्गमनोहराय ।
अत्यन्तसुन्दरतररसापाङ्गविरजिताय ।
अतिसुन्दरसर्वाङ्गाय ।
अम्बिकास्कन्दसुन्दराय ।
अशेषदुरितध्वंसिने ।
विशेषसुखदायकाय ।
अरिष्टमथनाय ।
सर्वारिष्टविनाशनाय ।
परित्यक्तदुराचाराय ।
शिष्टमार्गप्रकाशकाय ।
दुःखसागरनिर्मग्नसमुद्धरणपण्डिताय ।
अनन्तकालसत्यात्मने ।
स्थिरविद्युत्समप्रभाय ।
प्रमाणवेद्यरूपाय नमः । २० ।० ।

ॐ त्यागविद्याविनोदाय नमः ।
कवितारसिकाय ।
कवये ।
स्वहृदावेद्यचिद्घनाय ।
तेजोगर्भितमार्ताण्डचिदानन्दनिजार्चिताय ।
निष्कलाकारसदनसकलीकृतविग्रहाय ।
दिव्यचक्रगणाधीशाय ।
बीजचक्रपितामहाय ।
बिन्दुचक्रस्थविष्णवे ।
नादचक्रमहेश्वराय ।
शक्तिचक्रस्थजीवात्मने ।
शान्तिचक्रपरात्मकाय ।
शान्त्यतीतेन्दुबिम्बस्थगुरवे ।
परमचिन्मयाय ।
निष्कम्पाय ।
अचलमूर्तये ।
श्वासनिःश्वासकम्पिताय ।
अन्तर्यामिने ।
जगद्धात्रे ।
कर्त्रे ।
कारयित्रे नमः । २२० ।

ॐ वामरूपजगाद्धात्रे नमः ।
ज्येष्ठरूपजनार्दनाय ।
रौद्ररूपहराकाराय ।
महाबिन्द्वासनस्थिताय ।
अम्बिकारूपविलसच्छान्त्या समरसगताय ।
तुर्यातीतसमागम्यस्वानुभूतिप्रमाणगाय ।
आत्मतत्त्वाधिपब्रह्मणे ।
विद्यातत्त्वाधिपहरये ।
शिवतत्त्वाधिपरुद्राय ।
सर्वतत्त्वाधिपशिवाय ।
सर्वार्थसवशब्दात्मसर्वशब्दैककारणाय ।
सर्वभूतानुकम्पिने ।
सर्वापाशविमोचकाय ।
सर्वयोनिक्षोभकाय ।
सर्वबीजस्वरूपवते ।
सर्वभूतदयालवे ।
सर्वभूताभयप्रदाय ।
महाप्रकाशदिव्यात्मने ।
महानन्दमहानटाय ।
महामन्त्राय नमः । २४० ।

ॐ महायन्त्राय नमः ।
महावाच्याय ।
महावपुषे ।
महामन्त्रस्वरूपाय ।
महासौन्दर्यवारिधये ।
महाभैरवबेषाय ।
महाविज्ञानविग्रहाय ।
महाबलसमायुक्ताय ।
महामातङ्गमर्दनाय ।
हरिमोहनभिक्षाटसम्भवस्वात्मकैङ्कराय ।
note अत्र मोहिन्यवतारभृतो विष्णोः भिक्षाटावसरभृतश्च
शिवस्य पुत्रभूतस्य हरिहरपुत्रस्य द्राविड्यां “अय्यनार्”
इति ख्यातस्य निर्देशः ।

सुवर्णवर्णरुचिराय ।
सुन्दराय ।
सुन्दरप्रियाय ।
सुन्दरेशस्य वैवाह्यस्थगय्यशासनीकृताय ।
note अत्र “तडुत्तु आट्कोण्डार्” stopped and accepted
इति द्राविडयुक्तेरनुवादः कृतः ।

सुन्दरप्रोक्तपद्यौघश्रवणोत्सुकमानसाय ।
सुन्दरप्रार्थनानाक्लृप्तदौत्यकर्मविहारवते ।
देवाश्रयसमायातभक्तपद्याद्यवाक्प्रदाय ।
भक्तसुन्दरसङ्गीतद्राविडस्तोत्रतोषिताय ।
वृद्धिक्षयविहीनेन्दुसुन्दरप्रियदर्शनाय ।
परवासुन्दरद्वन्द्वसन्धानक्षमपेशलाय नमः । २६० ।

ॐ परवागीतसन्तुष्टाय नमः ।
परवादौत्यकोविदाय ।
कृतवातपुरेशज्ञानदीक्षोपदेशाय ।
ज्ञानसम्बन्धपद्यौघश्रवणोत्सुकमानसाय ।
माणिक्यवाचकप्रोक्तश्रीवाचकबहुप्रियाय ।
एकविंशतिसङ्ख्यातपद्यद्राविडतोषिताय ।
वीरमुण्डमहाभक्तसंवदाद्भित्तिलीनकाय ।
प्रतिज्ञाभेदसङ्क्लृप्तस्वागमात्पदखण्डिताय ।
स्वभक्तवीरमुण्डस्य पाददर्शनमोक्षदाय ।
भक्तानां चित्तशुद्धयर्थं देवतीर्थजलाप्लुताय ।
वृद्धरूपौ समालोक्य सुन्दरस्नानतोत्थिताय ।
note प्रसिद्धां कामपि त्यागेशसुन्दरमूर्तिकथां परमृशति ।

बिन्दुनादकलाक्लृप्तसाङ्गोपाङ्गमनोहराय ।
चिद्गन्धदिव्यप्रसवमालावृतभुजान्तराय ।
महानुभावाय ।
महिताय ।
महातेजसे ।
महायशसे ।
महाबुद्धये ।
महासिद्धये ।
महामायापरिच्छदाय नमः । २८० ।

ॐ नानासिद्धान्तकर्त्रे नमः नमः ।
नानागमविधायकाय ।
नानागममहामोहव्यपनोदनपण्डिताय ।
दिव्यवेषाय ।
दिव्यतनवे ।
देवसिद्धौघवन्दिताय ।
भक्तहृत्पद्ममार्ताण्डाय ।
भक्तेन्दीवरचन्द्रमसे ।
उमास्कन्दमुखालोकिने ।
उमास्कन्दातिवत्सलाय ।
उमास्कन्दोल्लसत्पार्श्वाय ।
स्कन्दोमाप्रेमवर्धनाय ।
स्कन्दोमानयनानन्दविधानैकधुरन्धराय ।
स्कन्दोमावन्दिताय ।
देवाय ।
स्कन्दोमानन्दविग्रहाय ।
मुकुन्दमुचुकुन्देन्द्रविधिमुख्यैः समागताय ।
श्रीविद्यार्णाम्बरच्छन्नदिव्यावयवकान्तिमते ।
भक्तकल्पद्रुमसमाय ।
भक्तसर्वार्थसाधकाय नमः । ३० ।० ।

ॐ राहुग्रस्तात्मबालार्कमण्डलाकृतिभासुराय नमः ।
मन्दस्मितमुखाय ।
मन्दवातवातायनोत्सुकाय ।
दक्षवातायनायातनारीगीतश्रवणकौतुकाय ।
पञ्चाशद्वर्णज्योतिःप्रभामण्डलमध्यगाय ।
शुद्धपञ्चाक्षरज्योतिःसंस्थितानन्दविग्रहाय ।
प्रभाराशिमध्यगताय ।
ज्योतिषां ज्योतिषे ।
अव्ययाय ।
अखण्डानन्दचिन्मूर्तये ।
अपारकरुणानिधये ।
वरप्रासादचक्रस्थकलाकल्पितविग्रहाय ।
सप्तकोटिमहामन्त्रजनकाय ।
मन्त्ररूपवते ।
व्योमव्यापिमहामन्त्रवर्णितानेकशक्तिकाय ।
परापरमहामन्त्रनायकस्तुतवैभवाय ।
मन्त्राभिमानिमन्त्रज्ञाय ।
मन्त्रप्रकृत्यूर्जिताय ।
मन्त्राधिष्ठानरूपाय ।
मन्त्रमन्त्रेश्वराय ।
अथर्वणमहामन्त्रप्रोक्तमङ्गलविग्रहाय नमः । ३२० ।

ॐ हंसमन्त्रषडङ्गाभहंसव्यत्यासनर्तनाय नमः ।
ब्रह्माङ्गमन्त्रसम्पन्नगुप्तलास्यैकतत्पराय ।
सप्तकोटिमहामन्त्रनिषेवितपदाम्बुजाय ।
देवतागणपस्तुत्यध्वनिमन्त्रविशारदाय ।
मायामन्त्रमहामूलविद्यासम्भूततत्पराय ।
निगमागममन्त्रादिनिर्मितात्मस्वरूपवते ।
निरिन्धनमहासंविदग्नित्रिभुवनोज्ज्वलाय ।
यज्ञाय ।
यजमानाय ।
हविषे ।
होत्रे ।
यज्ञभृते ।
मृकण्डुसूनुरक्षार्थव्यसूकृतकृतान्तकाय ।
जनितात्मभुवश्रीमते ।
गोरूपिणे ।
गोसवप्रियाय ।
वत्सीकृतकृतान्तस्य रथचक्रमृतीकृताय ।
अनपायमहीपालभक्तिप्रकटनोद्यताय ।
अनपायपुरेशानाय ।
निरपायबलान्विताय नमः । ३४० ।

ॐ महात्मने नमः ।
महैश्वर्याय ।
महाबलपराक्रमाय ।
मुमुक्षुभिर्ज्ञेयरूपाय ।
अज्ञानामतिदुर्लभाय ।
श्रीमते आदिभिक्षवे । var आदिभिक्षेश्वराय
ईश्वराय ।
अनीश्वराय ।
वाच्यवाचकरूपाय ।
अवाच्याय ।
वाञ्छितार्थदाय ।
नवग्रहमयज्योतिषे ।
संसारभ्रमकारकाय ।
संसारभ्रमविच्छित्तिकारणज्ञानदायकाय ।
परब्रह्मस्वरूपिणे ।
पराशक्तिपरिग्रहाय ।
पाटलीमूलनिलयाय ।
श्रुङ्गारवनमध्यगाय ।
दूर्वासोमुचुकुन्दादिनिर्मितालयसंस्थिताय ।
दूर्वासोमुनिना क्लृप्तस्वागमार्चनपूजिताय ।
दूर्वासोमुनिना क्लृप्तस्वतन्त्रविषयाद्भुताय ।
देवेन्द्रपूजिताय नमः । ३६० ।

ॐ दिव्यदेवसङ्घप्रपूजिताय नमः ।
पुलोमजार्चितपुण्याय ।
पुरुहूतबहुप्रियाय ।
अप्सरोहस्तविन्यस्तचामरस्तोमवीजिताय ।
अशेषदेवताकॢप्तपुष्पवर्षौघवर्षिताय ।
ऐरावतसमानीतदेवसिन्धुजलाप्लुताय ।
जिह्वानाथेरितानेकगानप्रियदयानिधये ।
देवभाषाविशेषज्ञाय ।
देवगानप्रियाय ।
विभवे ।
मुचुकुन्दार्चिताय ।
मुख्याय ।
मुचुकुन्दवरप्रदाय ।
मुचुकुन्दस्वप्नवेलादर्शितस्वात्मविग्रहाय ।
मुचुकुन्द सप्तभेददर्शितस्वात्मरूपिणे ।
नववीरसमुपेत मुचुकुन्दसुवन्दिताय । नववीरसमानीत
षडङ्गहंसनटनसमूलास्थितविग्रहाय ।
सामऋग्यजुराथर्ववेदवेदितविग्रहाय ।
कुङ्कुमाङ्कितपादाब्जाय ।
कर्पूरालेपिताङ्गकाय नमः । ३८० ।

ॐ कृष्णागरुकृतामोदनासायुगलमण्डिताय नमः नमः ।
कृष्णगन्धप्रियाय ।
कुष्णगन्धगन्धितकर्णिकाय ।
प्रलयकालप्रवीणप्रगल्भानन्दताण्डवाय ।
प्रणवध्वनिगम्भीरमृगासक्तकराम्बुजाय ।
प्रलयानलधिक्कारप्रवीणपरशुभृते ।
वरप्रदाननिपुणवामपाणिसरोरुहाय ।
चिन्मुद्राञ्चितदक्षपाणये ।
चित्प्रदाय ।
चित्प्रबोधकाय ।
मोक्षविज्ञापनोद्भासिलम्बमानपदाम्बुजाय ।
वीरासनान्यपादाब्जकृतकिल्बिषसंहृतये ।
आनन्दनृत्तव्यापारस्कन्दगौरीसमन्विताय ।
शङ्खकाहलसंयुक्ततालमद्दलनर्तकाय ।
वीणावेणुमृदङ्गादिवाद्यश्रवणलोलुपाय ।
प्रणवान्तर्गतज्योतिषे ।
काहलप्रणवध्वनये ।
तालमद्दलवाद्यौघध्वनिसाम्याजपानटनाय ।
विरिञ्चिविष्णुसन्ताड्यतालमद्दलजध्वनये ।
काहलीमङ्गलारावसम्पूरितदिगन्तराय नमः । ४० ।० ।

ॐ कौसुम्भवसनप्रीताय नमः ।
दुकूलवसनान्विताय ।
अनेकपुष्पविलसच्चीनाम्बरसमावृताय ।
विचित्ररेखासंयुक्तवसनाय ।
व्याघ्रचर्मभृते ।
सप्तसागरवेलाढ्यस्वात्मवस्त्रपरिच्छदाप ।
स्वच्छवस्त्रपरीधानसर्वाभरणभूषिताय ।
वर्णन्यग्रोधमूलस्थदक्षिणामूर्तिसंज्ञिताय ।
शिवज्ञानामृतनिधये ।
मुनिवृन्दनिषेविताय ।
विश्वन्यग्रोधमूलस्थविश्वव्यापारशक्तिमते ।
अन्तर्यजनसुप्रीताय ।
ध्यानैकनिरतोत्सुकाय ।
मातृकावर्णपीठस्थाय ।
मातृकावर्णविग्रहाय ।
महापद्मोन्मनारूपकर्णिकाबिन्दुमध्यगाय ।
मूलादिद्वादशान्तस्थमन्त्रसिंहासनस्थिताय ।
गोसृष्टिस्थितिसंहारस्वापकालप्रवर्तकाय ।
विद्यारूपप्रकाशात्मने ।
जन्ममृत्युजरापहाय नमः । ४२० ।

ॐ कालातीताय नमः ।
कालहन्त्रे ।
देहाहङ्कारकर्त्त्रे ।
मृत्युहन्त्रे ।
मृत्युवाहाय ।
मृत्युञ्जयमयाकृतये ।
स्कन्दोमामुखसौन्दर्यालोकनोत्सुकलोचनाय ।
सर्वज्वालाप्रभासीनाय ।
अतिनिर्मलदेहाय ।
सामगानानुरञ्जिताय ।
सोमसूर्याग्निरूपवते ।
कार्यकारणरूपवते ।
सोमसूर्याग्निलोचनाय ।
विश्वनेत्राय ।
विश्वगर्भाय ।
विश्वेशाय ।
विश्वविग्रहाय ।
षट्छक्तिव्यक्तमूर्तये ।
षडङ्गावरणोज्ज्वलाय ।
वेदवेदाङ्गकर्त्रे ।
त्रयीयुवतिसुन्दराय ।
शब्दब्रह्मात्मरूपाय ।
शब्दब्रह्मैकनूपुराय ।
सर्वाधारादिरूपाय ।
सर्वशब्दैककारणाय नमः । ४४० ।

ॐ लिङ्गत्रयात्मकाय नमः ।
महालिङ्गमहातनवे ।
समांशकमहालिङ्गाय ।
स्वात्मलिङ्गसमुद्भवाय ।
आढ्यलिङ्गाकृतये ।
सुरलिङ्गाकृतये ।
स्वयम्भूबाणलिङ्गात्मने ।
परलिङ्गपरात्पराय ।
अग्निष्टोमात्मलिङ्गाय ।
मातृकालिङ्गाय ।
स्थूललिङ्गमहामेरवे ।
सूक्ष्मकैलासलिङ्गकृते ।
पञ्चलिङ्गमयस्वात्मने ।
पञ्चलिङ्गमयाकृतये ।
सर्वलिङ्गमयाकाराय ।
सहस्रलिङ्गस्वरूपिणे ।
विश्वाकारमहामेरोः स्वात्मलिङ्गमयोद्भवाय ।
श्यामरत्नसितज्योतिर्ज्योतिर्लिङ्गमहातनवे ।
पातालबुद्बुदाकारतेजोलिङ्गमहाकृतये ।
विद्याराज्ञीसप्तकोशाय नमः । ४६० ।

ॐ विद्याराज्ञीसमर्चिताय नमः ।
घोराय ।
शान्तमहाविष्णवे ।
सर्वतोऽनन्तवक्त्रकाय ।
सर्वतोऽनन्तपादाय ।
सर्वतोऽनन्तहस्ताय ।
असङ्ख्यभुजपादाय ।
असङ्ख्यातगुणनिधये ।
क्रमाक्रमसमुत्पत्तिरक्षासंहारकारकाय ।
सर्वदा सुप्रदर्शिने ।
मानतर्काद्यगोचराय ।
असङ्ख्यदलसंराजत्कमलालयमध्यगाय ।
घृतायितजलोद्भूतदीपदीप्तदिनान्तराय ।
चमत्कारपुराधीशाय ।
चमत्कारनृपाधिपाय ।
चमत्कारमहीपालभक्त्युद्भूताचलेश्वराय ।
दीपच्छायाप्रत्ययकृते ।
हाटकक्षेत्रनायकाय ।
अन्तर्गतेश्वराय ।
अन्तर्मुखमनोहराय नमः । ४८० ।

ॐ वम्रिरूपेन्द्रसञ्छिन्नसज्याविष्णुशिरोधृताय नमः ।
महालक्ष्मीवराल्लभ्यस्वमाङ्गल्यपतीसुताय ।
पुत्रार्थिविष्णुसङ्कॢप्तसिद्धिसम्पत्तिसाधकाय ।
श्रीविष्णुतपसा प्राप्तस्वात्मवल्मीकसम्भवाय ।
विराड्विष्णुसमुत्पन्नविटङ्कात्मस्वरूपवते ।
विराड्विष्णुसमुत्पन्नविष्णुहृत्पद्मवासभुवे ।
क्षीरसागरवैकुण्ठश्रीविष्णुस्वात्मपूजिताय ।
सहस्रपद्मैकशून्यहरिनेत्रसमर्चिन्ताय ।
महासुरजयोद्युक्तविष्णुचक्रप्रदायकाय ।
हरिलक्ष्मीविधिवाणीगौरीशचीन्द्रपूजिताय ।
पादाब्जपालिताजस्रमुसलासुरशिक्षकाय ।
कबन्धकबलप्राप्तकपर्दाङ्कितमस्तकाय ।
कुरुक्षेत्रमहायज्ञकोपोद्धृतस्वकार्मुकाय ।
अध्यात्मदृष्टिसन्दृश्याय ।
अध्यात्मज्ञानिवत्सलाय ।
चमत्कारकलाकर्त्रे ।
चमत्कारवचःपटवे ।
षट्छताधिकविंशैकसहस्राजपयान्विताय ।
सफल्गुन्यजपासीनताण्डवाडम्बरोत्सुकाय ।
पुरन्दरमहायातमुकुन्दपरिवन्दिताय नमः । ५० ।० ।

ॐ हस्ताद्युत्तराषाढान्तषट्त्रिंशद्दिवसोत्सवाय नमः ।
षट्त्रिंशत्तत्त्वबन्धघ्नसाङ्गोपाङ्गमहोत्सवाय ।
महार्द्रोत्सवसम्प्राप्तजनानुग्रहकारकाय ।
दिनान्तसुप्रसन्नात्मदीपसन्दर्शनोत्सुकाय ।
हंसकीकृतभीगीन्द्राय ।
हंसताण्डवसुप्रीताय ।
पतञ्जलिव्याघ्रपादमुनिमानसहंसकाय ।
कलासहस्रसम्पूर्णमहादीपावलोकवते ।
कर्पूरधूलीमिलितधवलावयवोज्जलाय ।
सायाह्नदीपसन्द्रष्टृभक्ताभीष्टप्रदायकाय ।
भक्तिमत्पापतूलग्नये ।
भक्तिमत्सुलभाभयाय ।
अनन्तपुण्यफलदाय ।
अनन्तामृतवारिधये ।
दिनाष्टकनिविष्टात्मने ।
पाशाष्टकविनाशनाय नमः । ५२० ।

ॐ महास्वापे जागरूकाय नमः ।
महासन्ध्यासुवन्दिताय ।
महादिवससंस्थायिने ।
महासंहारकारकाय ।
मध्यावान्तरसंहारसृष्टिस्थितिविधायकाय ।
महाविष्णुमहारुद्रश्रीकण्ठानन्दविग्रहाय ।
महास्वापसमुद्भूतपञ्चकृत्यपरायणाय ।
रत्नसिंहासनासीनाय ।
रत्नप्रासादमध्यगाय ।
नवरत्नसभाधीशाय ।
रत्नप्राकारमध्यगाय ।
पञ्चाशत्पीठशक्तिसपरिवारपरीवृताय ।
कामरूपमहापीठपरमानन्दविग्रहाय ।
श्रीपीठमध्यवासिने ।
श्रीकण्ठादिभिरावृताय ।
नवरत्नगृहज्योतिर्मातृकाक्षरमालिकाय ।
कामेश्वरीवल्लभाय ।
महाकामेश्वराकृतये ।
आसीनोत्थाननटननानाताण्डवपण्डिताय ।
ऊर्ध्वताण्डवसंवादिने नमः । ५४० ।

ॐ पादव्यत्यासताण्डवाय नमः ।
सप्तसागरपरिखाभभूमिदुर्गपरिच्छदाय ।
ज्योतिष्मतीशिखावाससर्वदेवगणावृताय ।
यशोवतीपुरीशानाय ।
मनोवाक्यविधिस्तुताय ।
भूबिम्बस्थमहामायालिपिवृत्तसमाश्रयाय ।
पञ्चकोशान्तरप्राप्तत्रिकोणस्थितमध्यगाय ।
अजपावर्णवाच्याय ।
अजपाजपसुप्रीताय ।
समस्तजनहृत्पद्मज्वलद्दीपसमाकृतये ।
देशकालानवच्छिन्नाय ।
देशकालप्रवर्तकाय ।
महाभोगिने ।
महायोगिने ।
महास्यन्दनसुन्दराय ।
तिरोभावक्रियाशक्तिसंसर्गपशुबन्धकृते ।
अनुग्रहपराशक्तिलीलाकलनलोलुपाय ।
नाडीत्रयान्तविलसत्सुधासाराभिवर्षणाय ।
नानाविधरसास्वादमहानुभवशक्तिमते ।
सोमसूर्याग्निपाद्यार्घ्यसुधाबिन्दुसमर्चिताय नमः । ५६० ।

ॐ अपराधसहिष्णवे नमः ।
शरणागतवत्सलाय ।
श्रीमद्देवरखण्डात्मने ।
देवतासार्वभौमाय ।
वीरखड्गाभिरामाय ।
सर्ववीराधिनायकाय ।
वीरसिंहासनारूढाय ।
महावीरासनस्थिताय ।
विराठृदयपद्मस्थाय ।
वीर्योद्भूतविनायकाय ।
आधारपद्मवल्मीकनाथाय ।
घोषस्वनात्मकाय ।
सकुलान्तमहापद्मसंराजत्समनाकृतये ।
ब्रह्मरन्ध्रमहापद्मकोटिशीतांशुसन्निभाय ।
हृत्पद्मध्यसंस्थानसूर्यबिम्बोपमद्युतये ।
तिथिसङ्ख्यफणादीप्तमहाकुण्डलिभूषणाय ।
त्रुट्यदिकालपवनफूत्कारफणिभूषणाय ।
उमाकुमारसहिताय ।
श्रीकण्ठपुरनायकाय ।
अनाश्रितादिकालाग्निरुद्रान्तभुवनाधिपाय नमः । ५८० ।

ॐ एकाशमहाकोटिरुद्रावरणसंस्थिताय नमः नमः ।
अनेकद्वादशादित्यमण्डलान्तसमुज्ज्वलाय ।
अष्टकोटिवसुप्राज्ञपुष्पपूजितपादुकाय ।
महापूरचतुःषष्टिमण्डलाधिपतीश्वराय ।
सप्तलोकान् समालोक्य स्वात्मप्रतिमतेजसे ।
सर्वलोकमहापुण्यप्रदर्शितमहात्मने ।
विरिञ्चियज्ञसम्भूतकपालमालयायुताय ।
ऋणत्रयविनाशाय ।
स्वर्णामलकवर्षिणे ।
देवतीर्थसकृत्स्नानदेवत्ववरदायकाय ।
जननान्मोक्षदानेन जितचण्डकृतान्तकाय ।
मरणान्मोक्षदानेन मृत्युवाहनतत्पराय ।
जननान्मोक्षसन्दायिक्षितिमूलनिवासिने ।
कृतमृत्युक्रियाविष्ट-मृत्युञ्जयमयाकृतये ।
जन्ममृत्युजरातप्तजनविश्रान्तिदायकाय ।
मुनिपक्षिमृगेन्द्रादिमुक्तिमार्गैकतत्पराय ।
पिष्टार्थमृद्भृतो मूर्ध्नि वेत्रप्रहरचिह्निताय ।
प्रकृत्याकारसगुणसकलीकृतविग्रहाय ।
असङ्ख्यरूपसङ्ख्यात्मने ।
सर्वनाम्ने ।
सर्वगाय नमः । ६० ।० ।

ॐ सर्वप्रज्ञानिवासाय नमः ।
सर्वसङ्केतजन्मभुवे ।
सर्वसङ्केतसमयकारकाय ।
करुणानिधये ।
जगद्भ्रात्रे ।
जगद्बान्धवाय ।
जगन्मात्रे ।
जगत्पित्रे ।
कालज्ञाय ।
कालकर्त्रे ।
महाकालप्रवर्तकाय ।
अष्टादशाधिकशतमहारुद्रप्रपूजितय ।
सौगन्धिकलसत्पुष्पस्रगन्वितभुजान्तराय ।
सर्वसौन्दर्यनिलयाय ।
सर्वसम्पत्समृद्धिमते ।
दुग्धसम्मितवागीशज्ञानदुग्धाब्धिवासभुवे ।
श्रुतिस्मृतिपुराणैक्यगम्यविग्रहरूपवते ।
चिद्घनसुमहारुद्रगुरुमन्त्रेशनायकाय ।
श्यामोमारुणस्कन्दवामभागमनोहराय ।
पश्यन्तीमध्यमाभिख्यवैखर्याश्रितविग्रहाय नमः । ६२० ।

ॐ घोषमेघविद्युदाभमहापद्मासनप्रभवे नमः ।
वसन्तवातविलसद्बृहत्पुष्पावतंसकाय ।
प्राणापानागमप्राज्ञाय ।
विश्वातीतस्वरूपगाय । सुभुजोद्दण्डदौर्भाग्यहरणेऽतिनिपुणाय ।
दुरितारण्यदावाग्नये ।
दुष्टदूरतरस्थिताय ।
अशेषदेवताधीशविष्णुहृत्पद्मवासभुवे ।
स्वपादहंसकोद्भूतप्रत्याहारार्थसूत्रकाय ।
स्वपादकिङ्किणीजातनवव्याकरणावलये ।
कामिकाद्यागमाकाराय ।
सर्वावयववर्जिताय ।
सर्वावयवसम्पन्नाय ।
द्वात्रिंशल्लक्षणान्विताय ।
सर्वलक्षणसम्पन्नाय ।
अनौपम्यशुभाकाराय ।
निस्तुलाय ।
निरहङ्कृतये ।
निराधारात्मसर्वविदे ।
सर्वज्ञाय ।
सर्वगोचराय नमः । ६४० ।

ॐ लौकिकागमकर्त्रे नमः ।
वैदिकोक्तफलप्रदाय ।
अध्यात्मज्ञानकर्त्रे ।
अतिमार्गप्रवर्तकाय ।
स्वशक्तिज्वालाकल्पाय ।
स्वशक्तिकिरणोज्ज्वलाय ।
स्वशक्तये ।
लीनविग्रहाय ।
लोकातिशयसौन्दर्यनिधये ।
अन्तर्बहिर्गताय ।
साम्ना शक्त्येकाशीतिपादुकाय ।
परमार्थदाय ।
वरप्रासादचक्रस्थद्रुमवर्णत्रयात्मकाय ।
शुद्धप्रपञ्चसृष्ट्यादिकर्तृसिद्धान्तबोधकाय ।
महत्परादिसम्बन्धगुरुसन्तानबोधकाय ।
धर्माधिष्ठानचक्रस्थभूतग्रामविवर्तकाय ।
निष्प्रपञ्चाय ।
निराकाराय ।
ध्यातृमानसमन्दिराय ।
महामायासुधासिन्धवे ।
परानन्दामृतोदधये ।
अशेषदुःखतरणज्ञानानन्दसुबोधकाय ।
विराण्मूलालयाम्भोजमहामन्दिरमध्यगाय नमः । ६६० ।

ॐ परमानन्दसन्दोहमन्दस्मितमुखाम्बुजाय नमः ।
करोटिमालाकलितहरिगर्वनिवारकाय ।
ललाटनेत्रदहनभस्मीकृतमनोभवाय ।
कवचीकृतषट्चक्रतिरोधानमहेश्वराय ।
बाह्यदृष्ट्यप्रमेयाङ्गाय ।
ज्ञानदृष्ट्यवलोकिताय ।
पञ्चमूर्धफणीशानतिरोहितपदाम्बुजाय ।
त्रिलोकसंरक्षणार्थाय राजवेषघराय ।
पुष्यात्मरथसम्प्रीताय ।
पुण्यभूमिनिवेशिताप ।
पुरुहूतार्चितपुण्याय ।
पुरुहूताघमोचनाय ।
सौन्दर्यसिन्धुसम्भूतनिशाकरसमाकृतये ।
जघन्यजन्मविच्छेत्त्रे ।
देवेन्द्रस्य वरप्रदाय ।
पुरन्दरमहाघोरचण्डालत्वविमोचकाय ।
कृतपाणिग्रहोदारगुणेन्द्राणीपुरन्दराय ।
देवराजमहाघोरगुल्मरोगनिवारकाय ।
पुरन्दरमहाशापपुरोगमसमुत्सुकाय ।
शिलादजात्मजेनाशु नन्दिकेशाधिकारिताय नमः । ६८० ।

ॐ सुमेरुश‍ृङ्गमूलस्थविश्वसृष्ट्याद्यकारकाय नमः ।
आमूलद्वादशान्ताद्याधारादिषु वासिताय ।
अद्वितीयचिदानन्दघनकल्याणसुन्दराय ।
अशेषकलुषारण्यदावानलशिखायुताय ।
दशप्राणमहाभूतप्राणायामकचिन्मयाय ।
आनन्दचित्सभाशैलाद्विनिर्गतविभावसवे ।
तेजोमण्डलमध्यस्थचिदानन्ददिवाकराय ।
भानुमण्डलमध्यस्थाय ।
चन्द्रमण्डलमध्यगाय ।
तेजोमण्डलमध्यस्थाय ।
तेजस्विने ।
तेजसां निधये ।
कालाधिदैवताय ।
कालाय ।
अवस्थानीतमूर्तिमते ।
कालहन्त्रे ।
कालरूपिणे ।
सर्वकालप्रवर्तकाय ।
चतुरन्तायतमूर्तये ।
सर्वावस्थाप्रवर्तकाय नमः । ७० ।० ।

ॐ चतुराम्नायमूर्तये नमः ।
षडङ्गावरणोज्ज्वलाय ।
मीमांसामांसलांसाय ।
तर्कशास्त्रकशेरुकाय ।
पुराणेन्द्रियसंयुक्ताय ।
धर्मशास्त्रात्मचेतनाय ।
षट्स्मृतिचतुर्वेदधनुर्वेदप्रतापवते ।
गान्धर्ववेदगानाढ्याय ।
आयुर्वेदारोग्यविदे ।
अवर्णविग्रहज्योतिषे ।
नाट्यकादिरसान्विताय ।
चतुःषष्टिकलारूपसर्वावयवसुन्दराय ।
मनोवाङ्मयदेहाय ।
शब्दब्रह्मस्वरूपवते ।
भक्तेष्टचित्तशुद्ध्यर्थं शाकीकृतशिशूत्सवाय ।
उमास्कन्दादिसहितमहाचण्डालवेषभृते ।
सोमयाजिमहायागप्रवेशव्यग्रविग्रहाय ।
सोमपूज्यसोमयुतसोमसुन्दरविग्रहाय ।
सोमयाजिमहाभक्तिव्यक्तिसन्तुष्टमानसाय ।
पदद्वयैर्नटत्सोमहविर्भागप्रतिग्रहाय नमः । ७२० ।

ॐ सोमसूर्याग्निनाड्यन्तर्वीथीसञ्चारसुन्दराय नमः नमः ।
हंसमन्त्राक्षरद्वन्द्ववाच्याय ।
विश्वाघमोचकाय ।
दिग्देशकालरहितानन्याय ।
अचिन्त्यरूपवते ।
शतोपनिषदुद्घुष्टनित्याखण्डप्रकाशकृते ।
कलापञ्चककालादित्यागराजतटित्प्रभवे ।
सुप्रसन्नेन्द्रियग्रामाय ।
सर्वप्रत्यक्षदर्शनाय ।
कृशानुरेतसे ।
सर्वात्मने ।
ऊर्ध्वरेतसे ।
जितेन्द्रियाय ।
समस्तगुणसम्पन्नाय ।
सर्वापगुणवर्जिताय ।
निष्प्रपञ्चाय ।
प्रपञ्चात्मने ।
सेन्द्रियाय ।
निरिन्द्रियाय ।
शान्त्यादिषङ्गुणोपेताय नमः । ७४० ।

ॐ मोहाद्यखिलदोषहृते नमः ।
निर्मलाय ।
मलध्वंसिने ।
शान्तशाश्वतविग्रहाय ।
सुषुम्नान्तःसमुदितनादरूपिणे ।
नटाधिपाय ।
निःश्वासलीलासञ्जातनिगमागमसन्ततये ।
देशिकादिष्टमार्गैकदृश्याय ।
देशिकपुङ्गवाय ।
वक्त्रे ।
वाचालकाय ।
वाच्याय ।
कैवर्तरूपोद्वहाय ।
ज्ञानज्ञातृज्ञेयरूपाय ।
अज्ञानज्ञानगोचराय ।
कृशानुभानुचन्द्रात्मने ।
त्रेताग्निपवनाकृतये ।
दिवासन्ध्यानिशाऽऽकाराय ।
सन्ध्यात्रयनिषेविताय ।
गायत्रीमन्त्रवेद्याय नमः । ७६० ।

ॐ गायत्रीत्रिपदात्मकाय नमः ।
वाग्बीजकामराजाख्यपराबीजत्रयाभिधाय ।
षड्विधैक्यानुसन्धानपरदेशिकदर्शिताय ।
षड्विधार्थस्वरूपेण षडक्षरमयाकृतये ।
त्रयीदर्शितमूर्त्यात्ममन्त्रमूर्तिमहातनवे ।
शब्दार्थमात्रसामान्यबिन्दुमूर्तित्रयोज्ज्वलाय ।
सन्ध्यात्रयात्मस्वरूपत्रिसन्ध्यापरिवर्जिताय ।
विश्वात्मवेद्यवेदान्तत्रयीसिद्धान्तदर्शिताय ।
सच्चिदानन्दविधृतसोमास्कन्दमहेश्वराय ।
समस्तजननिध्यातचित्ताम्बुजसुखासनाय ।
पुरुषार्थप्रदाय ।
पूर्णाय ।
हेयोपादेयवर्जिताय ।
सविमर्शप्रकाशात्मसहजानन्दविग्रहाय ।
शिवशक्तिस्वरूपात्मशक्तिशक्तिमदाकृतये ।
तत्पदर्थैकस्वरूपात्मतत्त्वम्पदसुलक्षिताय ।
आवृत्तित्रयसम्पूज्यत्रिलोकीपरिरक्षिताय ।
रत्नस्तम्भसहस्राढ्यकलासम्पूर्णमन्दिराय ।
आसीनस्पन्दनटनपरशम्भुपरासखाय ।
सहस्रभानुसदृशाय ।
चन्द्रकोटिसुशीतलाय नमः । ७८० ।

ॐ अपारकरुणासिन्धवे नमः ।
असङ्ख्यमहिमार्णवाय ।
सर्वज्ञतादिषाड्गुण्यसंयुतस्वात्मवैभवाय ।
पञ्चाशाद्वर्णमध्यस्थपराप्रासादमन्त्रगाय ।
पञ्चाशद्वर्णराज्ञीभिः स्तुतशाम्भववैभवाय ।
तेजःपञ्चकबिम्बोद्यद्दीपज्वालावलोकनाय ।
सोमसूर्याग्निनक्षत्रविद्युत्प्रतिमतेजसे ।
श्रीविद्याराज्ञीकराम्भोजकृतकौतुकमङ्गलाय ।
मेघध्वनिसमालापाय ।
वल्मीकसाध्वसध्वनये ।
यज्ञेश्वराय ।
यज्ञमयाय ।
महायज्ञक्रमावृताय ।
जपयज्ञक्रियाज्ञानतोषितध्वनये ।
मन्त्रविदे ।
वागर्थरूपाय ।
वागीशाय ।
त्रिकालप्रणवाभिधाय ।
भक्तोत्सुकाय ।
भक्तिगम्याय ।
भक्ति गीतस्तवोन्मुखाय नमः । ८० ।० ।

ॐ दृष्टादृष्टानेकमूर्तये नमः ।
दुष्टारिबलमर्दनाय ।
शिवोत्तमाय ।
शिवतमाय ।
शिवदात्रे ।
शिवाप्रियाय ।
शिवानन्दमयाकाराय ।
शिवाप्रेमविधायकाय ।
शिवामृताब्धिशीतांशवे ।
शिवानन्दामृतार्णवाय ।
शिवाक्षरपरञ्जयोतिषे ।
शिवाङ्गाधिकसुन्दराय ।
शिवासंसक्तहृदयाय ।
शिवातोषितमानसाय ।
शिवाक्षरद्वयाकाराय ।
शिवागममुखाम्बुजाय ।
शिवश‍ृङ्गारवेषाढ्याय ।
शिवाकल्याणसुन्दराय ।
शिवागमैकनिलयाय ।
शिवोऽहम्भावना-प्रीताय नमः । ८२० ।

ॐ शिवजीवात्मबोधकाय नमः ।
शिवमन्त्रोपदेशकाय ।
शिवागमोक्तनियमाय । गमाय
शिवागमनदीपकाय ।
शिवमन्त्रज्ञमुक्तिदाय ।
शिवमन्त्रजपप्रियाय ।
भूताधिपाय ।
भूथनाथाय ।
भूतवाहनसुन्दराय ।
भूतनाट्योत्सुकाय ।
भूतसन्दोहसुप्रियाय ।
भूतचक्राराधिताय ।
भूतसङ्घसमावृताय ।
भूतादिकालवेत्रे ।
भूतिभूषितविग्रहाय ।
भूतसङ्घप्रपूजिताय ।
भूतपञ्चकविग्रहाय ।
लक्षकोटिमहाभूतगणसंरक्षकावृताय ।
कोटिकोटिमहाभूतरक्षिताण्डबहिःस्थलाय ।
पुण्यापुण्यविनिर्मुक्तपुण्यापुण्यसमेक्षणाय नमः । ८४० ।

ॐ सकृत्सन्दर्शनादेव सुरेन्द्रपददायकाय नमः ।
पुण्यश्रवणकीर्त्यात्मने ।
पुण्यापुण्यफलप्रदाय ।
करालमुखकृष्णाङ्गाय ।
कृष्णाजिनसुलाञ्छिताय ।
कोटिचन्द्रप्रभाकारपूर्णचन्द्रनिभाननाय ।
महाकैरातवेषाढ्यपार्थप्रहरमूर्धकाय ।
महापाशुपतास्त्रेशदानतोषितपाण्डवाय ।
महागणेशविध्वस्तविघ्नसिद्धौघवन्दिताय ।
महाप्रलयंसभूतसर्वप्राण्युपसंहृतये ।
महाप्रलयकालान्तसृष्टिस्थितिविधायकाय ।
मूलात्मकोषःकालस्थमुद्गान्नप्रियमानसाय ।
स्वाधिष्ठानात्मकप्रातर्दध्यन्नप्रियमानसाय ।
मणिपूरात्ममध्याह्नघृतमुद्गान्नमानसाय ।
अनाहतात्मसायाह्नगुळान्नप्रियमानसाय ।
विशुद्धयात्मनिशासन्ध्यापायसान्नप्रियात्मकाय ।
आज्ञात्मकार्धयामस्थसर्वान्नप्रियमानसाय ।
समुद्गशर्कराज्यान्नमाषापूपरसप्रियाय ।
समुद्गचोचकैर्मिश्रसूचीघनबहुप्रियाय ।
नानाकोणमधुच्छिद्रनानाभक्ष्यबहुप्रियाय नमः । ८६० ।

ॐ लीलामात्रकृतानेकजगदुत्पत्तिनाशनाय नमः ।
अव्याजकरुणामूर्तये ।
अज्ञानध्वान्तभास्कराय ।
मार्ताण्डभैरवाराध्यवीरखड्गविराजिताय ।
वीरभद्रसमाराध्यवृषभेन्द्रविलासिताय ।
वेदमार्गैकनिपुणाय ।
वेदान्तपरिनिष्ठिताय ।
वैदिकाचारसम्पन्नाय ।
वामदेववरप्रदाय ।
ऊर्ध्वस्वायम्भुवादृश्याय ।
दिव्यस्वायम्भुवात्मकाय ।
मन्वात्मने ।
शैवसम्पन्नाय ।
सकृत्सन्तानबोधकाय ।
कमलापतिसंसेव्यकमलासनपूजिताय ।
उक्षपताकापतये ।
हराय ।
आरूढवृषध्वजाय ।
अजय्यगोपदीप्यग्राय ।
महाकारुणिकोत्तमाय ।
जगत्प्रदीपरूपिणे ।
लोकत्रयविभावनाय नमः । ८८० ।

ॐ जगद्धितैषिणे नमः ।
दिव्यात्मने ।
श्रीमते अमितविग्रहाय ।
महाग्रासाय ।
महामानिने ।
क्षयद्वीराय ।
शाश्वताय ।
श्रीक्षेत्रभैरवाय ।
कैवर्तकन्यकोद्वहाय ।
नृसिंहहन्त्रे ।
कामारये ।
विष्णुमायान्तकाय ।
त्र्यम्बकाय ।
शिपिविष्टाय ।
मखारये ।
नीललोहिताय ।
महाप्राणाय ।
महाजीवाय ।
प्राणापानप्रवर्तकाय ।
व्योमव्यापिने ।
व्योमरूपाय नमः । ९० ।० ।

ॐ व्योमसूक्ष्माय नमः ।
विराण्मयाय ।
एकाधिपत्यसाम्राज्यप्रदाय ।
एकान्तपूजिताय ।
द्विरूपशिवशक्त्यात्मने ।
हंसदिव्याक्षराभिधाय ।
त्रिमात्रप्रणवध्येयाय ।
त्र्यक्षाय ।
त्रिजगदीश्वराय ।
चतुर्मुखादिसंसेव्याय ।
चतुर्वर्गफलप्रदाय ।
पञ्चाक्षरपरञ्ज्योतिषे ।
पञ्चाक्षरमयाकृतये ।
पञ्चाक्षरप्राणरूपाय ।
पञ्चाक्षरजपप्रियाय ।
पञ्चाक्षरग्रहाधीशाय ।
पञ्चाक्षरतिरोहिताय ।
पञ्चाक्षरसदाव्यापिने ।
पञ्चाक्षरपुरेश्वराय ।
पञ्चाक्षरप्रमाणज्ञाय नमः । ९२० ।

ॐ पञ्चाक्षरकमुक्तिदाय नमः ।
पञ्चाक्षरविदीप्ताय ।
पञ्चाक्षरफलप्रदाय ।
पञ्चाक्षरनिवासीनक्षीरार्णवमणये ।
नटाय ।
पञ्चाक्षरमहामन्त्रशब्दब्रह्माक्षरोज्ज्वलाय ।
चतुःषष्टिकलातीर्थदेवताकोटिसंश्रिताय ।
श्रीमत्स्वात्मकलामूर्ध्नि जटागङ्गाकलाधराय ।
श्रीमद्भगीरथेन्द्राय भूवाराणसिदर्शकाय ।
श्रीमत्कात्यायनीमुख्यशक्तिपाणिग्रहोत्सुकाय ।
षडङ्गसंस्थिताय ।
सप्तकोटीश्वरनिषेविताय ।
अष्टमूर्तये ।
अनेकात्मने ।
अष्टैश्वर्यफलप्रदाय ।
नवतत्वातीतमूर्तये ।
नवाक्षरजपप्रियाय ।
दशायुधाय ।
दशभुजाय ।
दशदिग्व्याप्तविग्रहाय ।
एकादशमहारुद्ररूपिणे ।
सर्वजगत्प्रभवे ।
भूलोकजनपुण्यौघसम्प्राप्तकमलालयाय ।
शुद्धस्फटिकसङ्काशस्मितशोभिमुखाम्बुजाय ।
दयातरङ्गितापाङ्गविलोकनविलासवते नमः । ९४० ।

ॐ वरदाभीतिपरशुमृगासक्तकराम्बुजाय नमः ।
कोटिकन्दर्पलावण्यपुण्यसर्वाङ्गसुन्दराय ।
सौन्दर्यलहरीपूर्णराजकुम्भेशविग्रहाय ।
निजावयवगन्धश्रीसुगन्धितदिगन्तराय ।
श्रवणानन्दसन्दायिसौन्दर्यमृदुभाषणाय ।
कर्पूरधूलिमिलितभस्मोद्धूलितपाण्डराय ।
महामृगमदोद्दामकृष्णगन्धसुगन्धिताय ।
कर्पूरकुङ्कुमाद्यष्टचन्दनद्रवचर्चिताय ।
कालागरुकृतानेकधूपामोदसुमोदिताय ।
गव्यनिर्वर्तितानेकप्रदीपावलिभासुराय ।
समुद्रगरलभ्राजद्गलस्थलसुशोभिताय ।
तिलोत्तमोर्वशीरम्भाकल्पितारात्रिकक्रमाय ।
सायन्तनमहादीपमङ्गलाराधनक्रमाय ।
दर्पणान्तर्गतस्वात्मप्रतिबिम्बनिभेक्षणाय ।
चन्द्रमण्डलसङ्काशश्वेतच्छत्रविराजिताय ।
पार्श्वद्वयपरिभ्राजच्चामरावलिराजिताय ।
तापिञ्छनीलपिञ्छौघच्छायासञ्छादिताम्बराय ।
मयूरव्यजनोद्भूतमन्दमारुतसन्ततये ।
ऋग्यजुःसामजस्तोत्रश्रवणोत्सुकमानसाय ।
तरुणीभिः समारब्धशुद्धनृत्तेक्षणप्रियाय नमः । ९६० ।

ॐ पञ्चब्रह्मषडङ्गार्णपञ्चब्रह्मषडङ्गकाय नमः ।
एकमन्त्रषडङ्गार्णपञ्चव्रह्मषडङ्गवते ।
अष्टत्रिंशत्कलाकॢप्ततनुवीक्षणवैभवाय ।
व्योमव्यापिमहामन्त्रवर्णितनेकशक्तिकाय ।
अनन्तादिशिवध्याननन्दिभृङ्ग्यादिसेविताय ।
दशायुधादिदिक्पालैर्दिक्पतिद्विदशावृताय ।
शतरुद्रावृतप्रान्तसहस्रगणपावृताय ।
सिद्धगन्धर्वयक्षादिदेवसङ्घनिषेविताय ।
अनेकजन्मसंसिद्धपुण्यलभ्यपदाम्बुजाय ।
नित्यतृप्तानादिबोधस्वतन्त्त्रालुप्त्यनन्तकाय ।
प्रत्युप्तनवरत्नैघसिंहासनवरस्थिताय ।
भक्ताभीष्टप्रदाय ।
साक्षात्सकलीकृतविग्रहाय ।
वसन्तवातसन्तुष्टाय ।
वसन्तनर्तनोत्सुकाय ।
श्रीनीलोत्पलनायक्याःपाणिग्रहणभास्वराय ।
संसारतापविच्छेत्त्रे ।
महासंसारकारकाय ।
ईषणारहितोद्युक्तशिवज्ञानप्रदायकाय ।
हाटकक्षेत्रसम्भूतजीवन्मुक्तिप्रदायकाय ।
हाटकाभरणाबद्धसर्वावयवशेभिताय नमः । ९८० ।

ॐ शेखरीकृतशीतांशुजाह्नवीबद्धमस्तकाय नमः ।
शरच्चन्द्रसमाकारवदनाय ।
मञ्जुलस्वनाय ।
प्रलयाग्निसमाकारहालाहलविषाशनाय ।
अनेककोटिब्रह्माण्डनायकाय ।
नीलकन्धराय ।
कनकाङ्गदकेयूरकमनीयभुजान्विताय ।
झलञ्झलितशब्दौघकटकाबद्धपादुकाय ।
व्याघ्रचर्मधराय ।
व्याघ्रपादपूजितपादुकाय ।
आनन्दवनमध्यस्थाय ।
सर्वानन्दविधायकाय ।
सिद्धेश्वराय ।
सर्वसिद्धपूजिताय ।
परमाद्भुताय ।
षष्टित्रिंशत्सङ्ख्यातलीलाकल्पितविग्रहाय ।
लोकसंरक्षणार्थाय राजवेषधराय ।
नानाविचित्रवेषाढ्याय ।
नानासिद्धान्तवेदिने ।
दिव्यश‍ृङ्गारवेषाढ्याय ।
नामरूपविवर्जिताय नमः । १००० ।

ॐ दिगम्बराय नमः ।
अव्ययाय ।
श‍ृङ्गारवनमध्यगाय ।
भूदाररूपवैकुण्ठपरिमृग्यपदाम्बुजाय ।
हंसरूपहंसवाहादृष्टशिरसे ।
लेलिहानमहाघोरमहातेजःस्वरूपवते ।
चन्द्रहासद्वययुतचन्द्रहासमुखान्विताय ।
वीथीविटङ्कसाम्बाय ।
स्वात्मपूजनतत्पराय ।
महाभिषेकनैवेद्यमहापूजनतत्पराय ।
विराडाधारमूलस्थत्यागाराजमहेश्वराय ।
श्रीसोमास्कन्दवीथीविटङ्कसाम्बपरमेश्वराय नमः । १०१० ।
श्रीत्यागराजाय ।
कृपानिधये ।
दयानिधये नमः ।

इति श्रीत्यागराज-मुचुकुन्द-सहस्रनामावली समाप्ता ।

Also Read 1000 Names of Tyagaraja Muchukunda:

1000 Names of Sri Thyagaraja Muchukunda | Sahasranamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Thyagaraja Muchukunda | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top