Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Vasavi Devi | Sahasranama Stotram 3 Lyrics in Hindi

Shri Vasavi Devi Sahasranamastotram 3 Lyrics in Hindi:

॥ श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रम् (३) ॥
ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेद्सर्वविघ्नोपशान्तये ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात्परब्रह्म तस्मै श्रीगुरवे नमः ॥

आयुर्देहि धनं देहि विद्यां देहि महेश्वरी ।
समस्तमखिलां देहि देहि मे कन्यकापरमेश्वरी ॥

वन्दे मातरं अम्बिकां भगवतीं वारीरमा सेवितां
कल्याणीं कमनीय कल्पलतिकां कैलासनाथप्रियाम् ।
वेदान्त प्रतिपाद्यमानविभवां विद्वन् मनोरञ्जनीं
श्रीचक्राङ्कित पद्मपीठनिलयां श्रीराजराजेश्वरी ॥

ॐ वासव्यै च विद्महे कुसुमपुत्र्यै च धीमहि तन्नो कन्यका प्रचोदयात् ॥

ध्यानम् –
सर्वसौभाग्यजननी नमोऽस्तुते ।
वैश्यवंशिकुलोद्भवि नमोऽस्तुते ।
तुलाश्रितकुलेदेवि नमोऽस्तुते ।
श्रीमत्कन्याशिरोमणि नमोऽस्तुते ।
पनुकोण्डापुरवासिनि नमोऽस्तुते ।
नित्यमहोत्सवविलासिनि नमोऽस्तुते ।
साम्राज्यसुखदायिनि नमोऽस्तुते ।
सर्वभक्तप्रपालिनि नमोऽस्तुते ॥

अथ श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रम् ।
ॐ श्रीकन्यकाम्बा च श्रीकन्यकापरमेश्वरी ।
कन्यका वासवी देवी माता वासवकन्यका ॥ १ ॥

मणिद्विभात्रिनेत्री मङ्गला मङ्गलायिनी ।
गौतमितीरभूमिस्था महागिरिनिवासिनी ॥ २ ॥

सर्वमन्त्रात्मिका चैव सर्वयन्त्रातिनायिका ।
सर्वतन्त्रमयी भद्रा सर्वमन्त्रार्थरूपिणी ॥ ३ ॥

सर्वज्ञा सर्वगा सर्वा ब्रह्मविष्णुसमर्चिता ।
नव्या दिव्या च सेव्या च भव्या सव्या स्तव्यया ॥ ४ ॥

चित्रकण्ठमदच्छेत्री चित्रलीलामहीशुभा ।
वेदातीता वराश्रीता विशालाक्षी शुभप्रदा ॥ ५ ॥

शम्भुश्रेष्ठी सुधाभूता विश्वविश्वाम्भरावनी ।
कन्या विश्वमयी पुण्या अगण्यारूपसुन्दरी ॥ ६ ॥

सगुणा निर्गुणा चैव निर्द्वन्द्वा निर्मलानघा ।
सत्या सत्यस्वरूपा च सत्यासत्यस्वरूपिणी ॥ ७ ॥

चराचरमयी चैव योगनिद्रा सयोगिनी ।
नित्यधर्मा निष्कला च नित्यधर्मपरायणा ॥ ८ ॥

कुसुमश्रेष्ठिपुत्री च कुसुमालयभूषणा ।
कुसुमाम्बाकुमारी च विरूपाक्षसहोदरी ॥ ९ ॥

कर्ममयी कर्महन्त्री कर्मबन्धविमोचनी ।
सर्मदा सर्मवर्माङ्गी निर्मला निस्तुलप्रभा ॥ १० ॥

इन्दीवरसमानाची(क्षी?) इन्दीम्प्रथमालका ।
कृपलिन्ता कृपावर्तिनिर्मणिनूपुरमण्डिता ॥ ११ ॥

त्रिमूर्तिपदवीदात्री त्रिजगत्रक्षणकादरा ।
सर्वभद्रस्वरूपा च सर्वभद्रप्रदायिनी ॥ १२ ॥

मणिकाञ्चनमञ्जीरा अरुणाङ्घ्रिसरोरुहा ।
शून्यमध्या सर्वमान्या धन्याऽनन्या समाद्भुता ॥ १३ ॥

विष्णुवर्धनसम्मोहकारिणी पापवारिणी ।
सर्वसम्पत्करी सर्वरोगशोकनिवारिणी ॥ १४ ॥

आत्मगौरवसौजन्यबोधिनी मानदायिनी ।
मानुषरक्षाकरी भुक्तिमुक्तिदात्री शिवप्रदा ॥ १५ ॥

निस्समा निराधिका चैव योगमाया ह्यनुत्तमा ।
महामाया महाशक्तिर्हरिवर्गापहारिणी ॥ १६ ॥

भानुकोटिसहस्राभा मल्लिचम्पकगन्धिका ।
रत्नकाञ्चनकोटीरचन्द्रकण्ठयुदालका ॥ १७ ॥

चन्द्रबिम्बसमास्याङ्गा मृगनापि विशेषका ।
रागस्वरूपा पाषाद्या अग्निपूज्या चतुर्भुजा ॥ १८ ॥

नासचाम्पेयपुष्पा च नासामौक्तिकसूज्ज्वला ।
गुरुविन्दकपोला च इन्दुरोचिस्मिताञ्चिता ॥ १९ ॥

वीणा निश्वनसल्लाभा अग्निसुत्तां शुकाञ्चिता ।
गूढकुल्पा जगन्माया मणिसिंहासनस्थिता ॥ २० ॥

अप्रमेया स्वप्रकाशा शिष्टेष्टा शिष्टपूजिता ।
चित्शक्तिचेतनाकारा मनोवाचामगोचरा ॥ २१ ॥

चतुर्दशविद्यारूपा चतुर्दशकलामयी ।
महाचतुष्षष्टिकोटियोगिनी गणसेविता ॥ २२ ॥

चिन्मयी परमानन्दा विज्ञानगणरूपिणी ।
ध्यानरूपा ध्येयाकारा धर्माधर्मविदायिनी ॥ २३ ॥

चारुरूपा चारुहासा चारुचन्द्रकलाधरा ।
चराचरजगन्नेत्री चक्रराजनिकेतना ॥ २४ ॥

ब्रह्मादिकसृष्टिकर्त्री गोप्त्री तेजस्वरूपिणी ।
भानुमण्डलमध्यस्था भगवती सदाशिवा ॥ २५ ॥

आब्रह्मकोटिजननी पुरुषार्थप्रदाम्बिका ।
आदिमध्यान्तरहिता हरिर्ब्रह्मेश्वरार्चिता ॥ २६ ॥

नारायणी नादरूपा सम्पूर्णा भुवनेश्वरी ।
राजराजार्चिता रम्या रञ्चनी मुनिरञ्चिनी ॥ २७ ॥

कल्याणी लोकवरदा करुणारसमञ्जुला ।
वरदा वामनयना महाराज्ञी निरीश्वरी ॥ २८ ॥

रक्षाकरी राक्षसघ्नी तुष्टराजामदापहा ।
विधात्री वेदजननी रागचन्द्रसमानना ॥ २९ ॥

तन्त्ररूपा तन्त्रिणी च तन्त्रवेद्या तन्त्रिका ।
शास्त्ररूपा शास्त्रधारा सर्वशास्त्रस्वरूपिणी ॥ ३० ॥

रागभाषा मनश्चाभा पञ्चभूतमयी तथा ।
पञ्चतन्मात्रसायका क्रोधाकारा कुशाञ्चिता ॥ ३१ ॥

निजकान्तिपराचाण्डमण्डला अखण्डलार्चिता ।
कदम्बमयताटङ्का पद्मचाम्पेयकन्दिला ॥ ३२ ॥

सर्वविद्याङ्कुराशङ्क्यदन्तपङ्क्तीत्वयाञ्चिता ।
सरसल्लाभमाधुर्यजितवाणीविपञ्चिका ॥ ३३ ॥

क्रैवेयमणिचिन्ताककूर्मपृष्ठपदत्वया ।
नखकान्तिपरिच्छिन्ना समत्रावाततमोगुणा ॥ ३४ ॥

मणिकिङ्किणिका दिव्यतृष्णा दामभूषिता ।
रम्भास्तम्भमनोज्ञाती मनोज्ञारुत्याञ्चिता ॥ ३५ ॥

पदशोभा जिताम्भोजा महागिरिपुरीश्वरी ।
देवरत्नगृहान्तस्था सर्वब्रह्मासमस्थिता ॥ ३६ ॥

महापद्मवनस्थाना कदम्बवनवासिनी ।
निजांषभागसरोल्लसी लक्ष्मी गौरी सरस्वती ॥ ३७ ॥

मञ्जुकुञ्जनमणिमञ्जिरा अलङ्कृतपदाम्बुजा ।
हंसिका मन्दगमना महासौदर्यवारधी ॥ ३८ ॥

अनवद्यारुणकन्या च अकन्या गुणतूरगा ।
सम्पद्दात्रा विश्वनेयौकदेवव्रातासुसेविता ॥ ३९ ॥

गेयचक्ररथारूढा मन्त्रिन्यम्बा समर्चिता ।
कामदा अनवत्याङ्गी देवर्षिस्तुतवैभवा ॥ ४० ॥

विघ्न्यन्त्रसमूभेत्री करोत्यनैकमादवा ।
सङ्कल्पमात्रनिर्धूता विष्णुवर्धनवैभवा ॥ ४१ ॥

मूर्तित्रया सदासेव्या समयस्था निरामया ।
मूलाधारभवाब्रह्मग्रन्थिसम्भेदिनी परा ॥ ४२ ॥

मणिपूरान्तरावासा विष्णुग्रन्थिविभेदिनी ।
अज्ञाचक्रागतामाया रुद्रग्रन्थिविमोक्षदा ॥ ४३ ॥

सहस्रारसमारूढा सुधासारप्रवर्षिणी ।
दशत्रेकासमाभासा षट्चक्रोपरिवासिनी ॥ ४४ ॥

भक्तिवस्या भक्तिगम्या भक्तरक्षणकादरा ।
भक्तिप्रिया भद्रमूर्ती भक्तसन्तोषदायिनी ॥ ४५ ॥

सर्वदाकुण्डलिन्यम्बा सारदेव्या च शर्मदा ।
साध्वी श्रीकरीयुतारा च श्रीकरी शम्भुमोदिता ॥ ४६ ॥

शरच्चन्द्रमुखी शिष्टा निराकारा निराकुला ।
निर्लेपा निस्तुला चैव निरवद्या निरन्तरा ॥ ४७ ॥

निष्कारणा निष्कलङ्का नित्यबुद्धा निरीश्वरी ।
नीरागा रागमदना निर्मदा मदनाशिनी ॥ ४८ ॥

निर्ममा समया चान्य अनन्या जगदीश्वरी ।
नीरोगा निरूपाधिश्च निरानन्दा निराष्रया ॥ ४९ ॥

नित्यमुक्ता निगममा नित्यशुद्धा निरुत्तमा ।
निर्व्याधी च व्याधिमदना निष्क्रीया निरुपप्लवा ॥ ५० ॥

निरहङ्कारा च निश्चिन्ता निर्मोहा मोहनाशिनी ।
निर्पादा ममताहन्त्री निष्पापा पापानाशिनी ॥ ५१ ॥

अभेदा च साक्षिरूपा निर्भेदा भेदनाशिनी ।
निर्नाशा नाशमथनी निष्पापापापहारिणी ॥ ५२ ॥

नीलवेणी निरालम्बा निरपाया भवापहा ।
निःसन्देहा संशयज्ञी निर्लोपा लोपहारिणी ॥ ५३ ॥

शुकप्रदा दुष्टदूरा निर्विकल्पा निरद्यया ।
सर्वज्ञाना दुःखहन्त्री समानाधिकवर्जिता ॥ ५४ ॥

सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी सर्वत्वस्वरूपिणी ॥ ५५ ॥

महामाया महाशक्तिः महासत्वा महाबला ।
महावीर्या महाबुद्धिर्महेश्वर्यमहागतिः ॥ ५६ ॥

मनोन्मणिमहादेवी महापातकनाशिनी ।
महापूज्या महासिद्धिः महायोगीश्वरेश्वरी ॥ ५७ ॥

महातन्त्रा महामन्त्रा महायन्त्रा महासना ।
महायागक्रमाराध्या महायोगसमर्चिता ॥ ५८ ॥

प्रकृतिर्विकृतिर्विद्या सर्वभूतहितप्रदा ।
सुचिस्वाहा च धन्या च स्वधा सुधा हिरण्मयी ॥ ५९ ॥

मान्या श्रद्धा विभूतिश्च ब्रह्मविष्णुशिवात्मिका ।
दीप्ता कान्ता च कामाक्षी नित्यपुष्टा विभावरी ॥ ६० ॥

अनुग्रहप्रदा रामा अनका लोकवल्लभा ।
अमृता च शोकमूर्तिर्लोकदुःखविनाशिनी ॥ ६१ ॥

करुणाधर्मनिलया पद्मिनी पद्मकन्दिनी ।
ह्लादजननी पुष्टा पद्ममालाधराद्भुता ॥ ६२ ॥

पद्माक्षी पद्ममुखी च लोकमातेन्दुशीतला ।
सुप्रसन्ना पुण्यकन्ता प्रसादापि मुखिप्रभा ॥ ६३ ॥

अर्धचन्द्रसूडाला च चारा वैश्यसहोदरी ।
वैश्यसौख्यप्रदातुष्टिः शिवा दारिद्र्यनाशिनी ॥ ६४ ॥

शिवादात्री च विमला स्वामिनी प्रीतिपुष्कला ।
आर्याव्यामासती सौम्या श्रीदा मङ्गलदायिनी ॥ ६५ ॥

भक्तकेहपरानन्दा सिद्धिरूपा वसुप्रदा ।
भास्करी ज्ञाननिलया ललिताङ्गी यशस्विनी ॥ ६६ ॥

त्रिकालज्ञोऽरुसम्पन्ना सर्वकालस्वरूपिणी ।
दारिद्र्यध्वंसिनी कान्ती सर्वोऽभद्रनिवारिणी ॥ ६७ ॥

अन्नदा अन्नदात्री च अच्युतानन्दकारिणी ।
अनन्ताच्युता व्युप्ता व्यक्ताव्यक्तस्वरूपिणी ॥ ६८ ॥

शारदाम्भोज प्रत्यक्षी शरच्चन्द्ररुचिस्थिता ।
जया जयापकाशा अवकाशस्वरूपिणी ॥ ६९ ॥

आकाशमयपद्मस्था अनाद्या सत्यो निजा ।
अपलां चण्डिका अगाधा आत्मज्ञा च आत्मगोचरा ॥ ७० ॥

आद्यानद्यादिदेवी च आदित्याचयभास्वरा ।
कर्तस्वरमनोज्ञाङ्गी कालकण्ठनिभास्वरा ॥ ७१ ॥

आत्मनो आत्मदयिता आधाराचात्मरूपिणी ।
आनीशाकाष्यभैशानी ईश्वरैश्वर्यदायिनी ॥ ७२ ॥

इन्द्रसूरिन्दुमाता च इन्द्रिया इन्दुमण्डिता ।
इन्दुबिम्बसमाश्रिया इन्द्रियाणां वशङ्करी ॥ ७३ ॥

एका चैक वीरा च एकाकारैकवैभवा ।
एकत्रयसुपूज्या च एकनूरेकदायिनी ॥ ७४ ॥

वर्णात्मा वर्णनिलया षोडषस्वररूपिणी ।
कन्या कृत्वा महारात्रीर्मोहरात्री सुलोचना ॥ ७५ ॥

कमनीया कलाधारा कामधू वर्णमालिनी ।
काश्मीरत्रवलिप्ताङ्गी काम्या च कमलार्चिता ॥ ७६ ॥

माणिक्यभास्वलङ्कारा कणगा कणगप्रदा ।
कम्बूग्रीवा कृपायुक्ता किशोरी च ललाटिनी ॥ ७७ ॥

कालस्था च निमेषा च कालदात्री कलावती ।
कालज्ञा कालमाता च कालवेत्री कलावनी ॥ ७८ ॥

कालदा कालहा कीर्तिः कीर्तिस्था कीर्तिवर्धिनी ।
कीर्तिज्ञा कीर्तितगुणा केशवानन्दकारिणी ॥ ७९ ॥

कुमारी कुमुदाभा च कर्मदा कर्मभञ्जनी ।
कौमुदी कुमुदानन्दा कालाङ्गी कालभूषणा ॥ ८० ॥

कपर्दिनी कोमलाङ्गी कृपासिन्धुः कृपामयी ।
कञ्जस्था कञ्जवदना कूटस्थोरुगिरीश्वरी ॥ ८१ ॥

कुण्डचुस्था च कौवेरी कलिकल्मषनाशिनी ।
काष्यपी कामरूपा च कञ्जकञ्जल्कचर्चिता ॥ ८२ ॥

कञ्हनध्वन्त्व नेत्री च खेसरी कट्कयुक्करी ।
सिद्धज्ञा सिद्धितपदा चिन्तस्था चिन्तस्वरूपिणी ॥ ८३ ॥

चञ्चकाभमनोयाङ्गी चारुचम्पकमालिनी ।
चण्डी च चण्डरूपा च चैतन्यकणगेहिनी ॥ ८४ ॥

चिदानन्दा चिदाहातारा चिदाकारा चिदालया ।
चपलाम्बाङ्गलतिका चन्द्रकोटिशुभाकरा ॥ ८५ ॥

चिन्तामणिगुणाधारा चिन्तामणिविभूषिता ।
भक्तचिन्तामणिलता चिन्तामणिसुमन्तिरा ॥ ८६ ॥

चारुचन्दनलिप्ताङ्गी चतुरा चतुरानना ।
चक्रदा चक्रधारी च चारुचामरविजिता ॥ ८७ ॥

भक्तानां छत्ररूपा च छत्रच्छायाकृतालया ।
जगजीवा जगद्दात्री जगदानन्दकारिणी ॥ ८८ ॥

जननी च यज्ञरता जयन्ती जपयज्ञपरायणा ।
यज्ञदा यज्ञफलदा यज्ञस्थापकृतालया ॥ ८९ ॥

यज्ञभोत्री यज्ञरूपा यज्ञविघ्नविनाशिनी ।
कर्मयोगा कर्मरुपा कर्मविघ्नविनाशिनी ॥ ९० ॥

कर्मदा कर्मफलदा कर्मस्थानकृतालया ।
कालुश्या भेदसारिद्रा सर्वकर्मसमञ्चिता ॥ ९१ ॥

जयस्था जयदा जैत्री जीविता जयकारिणी ।
यशोदायकसाम्राज्यनी यशोदानन्दकारिणी ॥ ९२ ॥

ज्वलिनी ज्वालिनी ज्वाला ज्वलत्भावगसन्निभा ।
ज्वालामुखी जनानन्दा जम्बूद्वीपकृतालया ॥ ९३ ॥

जन्मदा जन्महा जन्मा जन्मपूर्जन्मरञ्जिनी ।
जम्बूनाथसमानङ्गी जम्बूनाथविभूषणा ॥ ९४ ॥

ज्ञातिता जातिता जाती ज्ञानदा ज्ञाऱ्नगोचरा ।
ज्ञानहा ज्ञानरूपा च ज्ञानविज्ञानशालिनी ॥ ९५ ॥

जपापुष्पसमानोष्ट्या जपाकुसुमशोभिता ।
जिनजैत्री जिनातारा जिन्माता जिनेश्वरी ॥ ९६ ॥

तीर्थङ्करी निराधारा अमलाम्बरधारिणी ।
शम्भुकोटिदुराधर्शा विष्णुवर्धनमर्दिनी ॥ ९७ ॥

समुद्रकोटिगम्भीरा वायुकोटिमहाबला ।
सूर्यकोटिप्रतीकासा यमकोटिपराक्रमा ॥ ९८ ॥

कामधुक्कोटिफलदा चक्रकोटिसुराज्युता ।
रतिकोटिसुलावण्या पद्मकोटिनिभानना ॥ ९९ ॥

पृथ्वीकोटिजनाधारा अग्निकोटिभयङ्करी ।
ईशनादी सत्शक्तिर्धनदौघधनप्रदा ॥ १०० ॥

अणिमामहिमाप्राप्तिर्गरिमालकिमा तथा ।
प्रकाम्यातावशकरी ईशिका सिद्धिदा तथा ॥ १०१ ॥

महिमादिगुणैर्युक्ता अणिमात्यष्टसिद्धिदा ।
यवनङ्कन् जनादीना अजरा च जरापहा ॥ १०२ ॥

धारिणी धारकाकारा त्रिगुणा तुलसीनदा ।
त्रिविद्या च त्रयी त्रिग्मी तुरिया त्रिगुणेश्वरी ॥ १०३ ॥

त्रिविधात्री दशाराध्या त्रिमूर्तिर्जननीत्वरा ।
त्रिवर्णा च त्रैलोक्या च त्रित्वा च त्रैलोक्यधारिणी ॥ १०४ ॥

त्रिमूर्तिश्च त्रिजननी त्रिपूस्तारा तपस्विनी ।
तरुणी च तपोनिष्टा तप्तकाञ्चनसन्न्निभा ॥ १०५ ॥

तरुणा त्रिवेशानी तपसी तररूपिणी ।
तरुणार्कप्रतिकाश तापघ्नी च तमोपहा ॥ १०६ ॥

तार्तिका तर्कविद्या च त्रैलोक्यव्यापिनीश्वरी ।
त्रिपुष्करा त्रिकालाज्ञा तापत्रयविनाशिनी ॥ १०७ ॥

गुणाढ्या च गुणातीता तपस्सिद्धिप्रदायिनी ।
कारिका तीर्थरूपा च तीर्थ तीर्थकरी तथा ॥ १०८ ॥

दारिद्र्यदुःखनाशिनी अदीना दीनवत्सला ।
दीननाथप्रिया दीर्घा दयापूर्णा दयात्मिका ॥ १०९ ॥

देवदानवसम्पूज्या देवानां मोदकारिणी ।
देवसू दक्षिणा दक्षा देवी दुर्गतिनाशिनी ॥ ११० ॥

आनन्दोधती मध्यस्था अघोरा अट्टहासिनी ।
घोराग्निताकदमनी दुःखदुःस्वप्ननिवारिणी ॥ १११ ॥

श्रीमती श्रीमयी श्रेषा श्रीकरी श्रीविभावनी ।
श्रीदा श्रीशा श्रीनिवासा श्रीयुता श्रीमतिकती ॥ ११२ ॥

धनदा दामिनी दान्ता धर्मदा धनशालिनी ।
दाडिमीबीजरदना धनकारा धनञ्जया ॥ ११३ ॥

धरिणी धारिणी धैर्या धरा दात्री च धैर्यता ।
दया दोक्त्री धर्मिणी च दमनी च दुरासदा ॥ ११४ ॥

नानारत्नविचित्राङ्गी नानाभरणमण्डिता ।
नीरजास्या निरादङ्का नवलावण्यसुन्दरी ॥ ११५ ॥

प्रमिता प्राज्ञा च पूर्वा पावनपावनी ।
सर्वप्रिया सर्ववरदा पावना पापनाशिनी ॥ ११६ ॥

वासव्यंशपाका च परञ्ज्योतिस्वरूपिणी ।
परेशी पारगापारा परासिद्धिर्परागतिः ॥ ११७ ॥

पिता माता च पशुता पशुभागविनाशिनी ।
पद्मगन्धा च पद्माक्षी पद्मकेशरमन्दिरा ॥ ११८ ॥

परब्रह्मस्वरूपा च परब्रह्मनिवासिनी ।
परमानन्दमुदिता पूर्णपीठनिवासिनी ॥ ११९ ॥

परमेशी च पृथ्वी च परचक्रविनाशिनी ।
परापरा पराविद्या परमानन्ददायिनी ॥ १२० ॥

वाग्रूपा वाङ्मयी वाक्दा वाज्ञेत्री वाक्विशारदाः ।
धीरूपा धीमयी धीरा धीधात्री धीविशारदा ॥ १२१ ॥

वृन्दारका वृन्दवन्द्या वैश्यवृन्दसहोदरी ।
परमश्री व्रातविनुता पिनाकी परिकीर्तिता ॥ १२२ ॥

फणिभूषा फाला पूज्या प्राणरूपा प्रियंवदा ।
भवाराद्या भवेशी च भवा चैव भवेश्वरी ॥ १२३ ॥

भवमाता भवागम्या भवखण्डकनाशिनी ।
भवानन्दा भावनीया भूतपञ्चकवासिनी ॥ १२४ ॥

भगवती भूतदात्री भूतेशी भूतरूपिणी ।
भूतस्था भूतमाता च भूतज्ञी भवमोचिनी ॥ १२५ ॥

भक्तशोकतमोहर्त्री भवपाशविनाशिनी । भवभारविनाशिनी
भूगोपचारकुशला भिसादात्री च भूचरी ॥ १२६ ॥

भीतिहा च भक्तिरम्या भक्तानामिष्टदायिनी ।
भक्तानुकम्पिनी भीमा भक्तानामार्त्तिनाशिनी ॥ १२७ ॥

भास्वरा भास्वती भीतिः भास्वदुत्तानशालिनी ।
भूतिदा भूतिरूपा च भूतिका भुवनेश्वरी ॥ १२८ ॥

महाजिह्वा महादंष्ट्रा मणिपुरनिवासिनी ।
माञसा मानदाभीमान्या मनश्चक्षूरगोचरा ॥ १२९ ॥

महाकुण्डलिनी मधुरा महाविघ्नविनाशिनी ।
महामोहान्धकाराज्ञी महामोक्षप्रदायिनी ॥ १३० ॥

महाशक्तिर्महावीर्या महासुरविमर्दिनी ।
शक्तिर्मेधा च मतिदा महावैभववर्धिनी ॥ १३१ ॥

महापातकसंहर्त्री मुक्तिकाम्यार्थसिद्धिदा ।
महाव्रता महामूर्ती महाभयविनाशिनी ॥ १३२ ॥

महानीया माननीया मत्तमातङ्गकामिनी ।
मुक्तहारलतोपेता महाचोरभयापहा ॥ १३३ ॥

महाघोरा मन्त्रमाता मकराकृतिकुण्टला ।
मालिनी मानिनी माध्वी महासुष्मा महाप्रभा ॥ १३४ ॥

महाचिन्त्य महारूपा महामन्त्र महोसती ।
मणिमण्डपमध्यस्था मणिमालाविराजिता ॥ १३५ ॥

मनोरमा रमामाता राज्ञी राजीवलोचना ।
विद्यानी विष्णुरूपा च विशालनयनोत्पला ॥ १३६ ॥

वीरेश्वरी च वरदा वीरसू वीरनन्दिनी ।
विश्वभू वीरविद्या च विष्णुमायाविमोहिनी ॥ १३७ ॥

विश्वेश्वरी विशालाक्षी विख्याता विलचत्कशा ।
ब्रह्मेशी च ब्रह्मविद्या ब्रह्माणी ब्रह्मरूपिणी ॥ १३८ ॥

विश्वा च विश्ववन्द्या च विश्वशक्तिर्विचक्षणा ।
वीरा च बिन्दुस्था चैव विश्वभागविमोचिनी ॥ १३९ ॥

शिशुसुप्रिया वैद्यविद्या शीलाशीलप्रदायिनी ।
क्षेत्रा क्षेमङ्करी वैश्या आर्यवैश्यकुलेश्वरी ॥ १४० ॥

कुसुमश्रेष्ठी सत्पुत्री कुसुमाम्बा कुमारिका ।
भालनगर सम्पूज्या विरूपाक्षसहोदरी ॥ १४१ ॥

सर्वसिद्धेश्वरआराध्या सर्वेश्वरफलप्रदा ।
सर्वदुष्टप्रशमनी सर्वरक्षास्वरूपिणी ॥ १४२ ॥

विभुदा विष्णुसङ्कल्पा विज्ञानघनरूपिणी ।
विचित्रिणी विष्णुपूज्या विश्वमायाविलासिनी ॥ १४३ ॥

वैश्यधात्री वैश्यगोत्रा वैश्यगोत्रविवर्धिनी ।
वैश्यभोजनसन्तुष्टा विष्णुरूपविनोदिनी ॥ १४४ ॥

सङ्कल्परूपिणी सन्ध्या सत्यज्ञानप्रबोधिनी ।
विहाररहिता वेद्या विजया विशालाक्षिणी ॥ १४५ ॥

तत्त्वज्ञा च तत्कारा च तत्त्वार्थस्वरूपिणी ।
तपस्वाध्यायनिरता तपस्वीजनसन्नुता ॥ १४६ ॥

विन्ध्यवासिन्यर्चिता च नगरेश्वरमानिता ।
कमलादेविसम्पूज्या जनार्दनसुपूजिता ॥ १४७ ॥

वन्दिता वररूपा च वरा च वरवर्धिनी ।
वारिताकारसुकशा वैश्यलोकवशङ्करी ॥ १४८ ॥

सत्कीर्तीगुणसम्पन्ना तद्यवाचा तपोबला ।
तरुणादित्यसङ्काशा तपोलोकनिवासिनी ॥ १४९ ॥

तन्त्रसारा तन्त्रमाता तन्त्रमार्गप्रदर्शिनी ।
तत्त्वा तन्त्रविदानज्ञा तन्त्रस्था तन्त्रसाक्षिणी ॥ १५० ॥

सर्वसम्पत्तिजननी सत्पदा सकलेष्टदा ।
अनुमाना सामदेवी समर्हा सकलस्तुता ॥ १५१ ॥

सनकादिमुनिध्येया सर्वशास्त्रार्थगोचरा ।
सदाशिवासमुत्तीर्णा सहस्रदलपद्मगा ॥ १५२ ॥

सर्ववेदान्तनिलया समया सर्वतोमुखी ।
सात्त्विका सम्भ्रमा चैव सर्वचैतन्यरूपिणी ॥ १५३ ॥

सर्वोपातविनिर्मुक्ता सच्चिदानन्दरूपिणी ।
सर्वविश्वाम्भरा वन्द्या सर्वज्ञानविशारदा ॥ १५४ ॥

विद्या विद्याकरिविद्या विद्याविद्यप्रबोधिनी ।
विमला विभवा वेद्या विश्वस्था विविधोज्ज्वलाः ॥ १५५ ॥

वीरहद्याप्रशमनी विनम्रजनपालिनी ।
वीरमध्या विराट्रूपा वितन्त्रा विश्वनायिका ॥ १५६ ॥

विश्वाम्बरासमाराध्या विक्रमा विश्वमङ्गला ।
विनायकी विनोदस्था विश्वविभ्रमकारिणी ॥ १५७ ॥

विवाहरहिताऽऽवेला वीरगोष्ठिविवर्धिनी ।
तुम्बुरातिस्तुतिप्रीता महागिरिपुरीश्वरी ॥ १५८ ॥

दुष्टा च दुष्टी जननी दुष्टलोकविनाशिनी ।
तुलाधारा तुलमध्या तुलस्था तुल्यदूरगा ॥ १५९ ॥

धुरीयत्वा सुगम्भीरा तुरियारावस्वरूपिणी ।
तुरियविद्या नृत्यतुष्टा तुरियविद्यार्थवादिनी ॥ १६० ॥

तुरियशास्त्रतत्त्वज्ञा तुरियवादविनोदिनी ।
तुरियनादान्तनिलया तुरियानन्दस्वरूपिणी ॥ १६१ ॥

तुरियभक्तजननी तुरियमार्गप्रदर्शिनी ।
वरेण्यवरिष्ठा चैव वेदशास्त्रप्रदर्शिनी ॥ १६२ ॥

विकल्पसमनी वाणी वाञ्छितार्थफलप्रदा ।
वन्दिनी वादिनी वश्या वयोवस्थातिविवर्जिता ॥ १६३ ॥

वसिष्ठवामदेवादिवन्द्या वन्द्यस्वरूपिणी ।
वसुप्रदा वासुदेवी वषट्कारी वसुन्धरा ॥ १६४ ॥

वासवार्चितपादश्रीर्वासवारिविनाशिनी ।
वशिनी वाक्यहस्ता च वाहीस्वरर्यर्चितप्रभा ॥ १६५ ॥

रविमण्डलमध्यस्था रमणी रविलोचना ।
रम्भातिशायिलावण्या रङ्गमण्डलमध्यगा ॥ १६६ ॥

वर्णिता वैश्यजननी वर्ण्यापर्वेन्दुमध्यगा ।
राविणी राकिणी रञ्ज्या राजराजेश्वरार्चिता ॥ १६७ ॥

राजस्वती राजनीतीर्वैश्यनीतीर्वरप्रदा ।
अपाङ्गा भङ्गभङ्गा च भङ्गदूरात्वभङ्गुरा ॥ १६८ ॥

राघवार्चितपादश्री रत्नद्वीपनिवासिनी ।
रत्नप्रकारमध्यस्था रत्नमण्डपमध्यगा ॥ १६९ ॥

रत्नाभिषेकसन्तुष्टा रत्नाङ्गी रत्नदायिनी ।
नीवारसुखवद्धन्वी पीतापा स्वत्वनूपमा ॥ १७० ॥

नीलतो यतमध्यस्थात् विद्युल्लेखेवभास्वरा ।
कवयिन्त्री निर्जरी च विश्वार्चीर्विश्वतोमुखी ॥ १७१ ॥

सर्वानन्दमयी नव्या सर्वरक्षास्वरूपिणी ।
सर्वसिद्धेश्वरैर्वन्द्या सर्वमङ्गलमङ्गला ॥ १७२ ॥

नित्योत्सवा नित्यपूज्या नित्यानन्दस्वरूपिणी ।
निर्गुणास्था निष्चिन्ता च नित्यमङ्गलरूपिणी ॥ १७३ ॥

निरोहा निमिषो नारी निखिलागमवेदिनी ।
निस्संशया निर्लोपा च नित्यकर्मफलप्रदा ॥ १७४ ॥

सर्वमङ्गलमाङ्गल्या भक्तसर्वार्थसाधका ।
वैश्यापच्चमुहर्त्री च वैश्यसम्पत्प्रदायिनी ॥ १७५ ॥

महाशैलपुरी गेहा सर्ववैश्यशुभप्रदा ।
त्वयत्तशतगोत्रार्या वैश्यसौख्यप्रद्यायिनी ॥ १७६ ॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥

इति श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रं सम्पूर्णं ।

Also Read 1000 Names of Sri Vasavi Devi 3:

1000 Names of Sri Vasavi Devi | Sahasranama Stotram 3 Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Vasavi Devi | Sahasranama Stotram 3 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top