Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Vishnu | Sahasranama Stotram from Skandapurana Lyrics in Hindi

Skandapurana Vishnu Sahasranamastotram Lyrics in Hindi:

॥ श्रीविष्णुसहस्रनामस्तोत्रम् (स्कन्दपुराणोक्त)॥
श्रीगणेशाय नमः ।
श्रीलक्ष्मीनारायणाभ्यां नमः ।

देवा ऊचुः –
ब्रह्मन्केन प्रकारेण विष्णुभक्तिः परा भवेत् ।
तत्सर्वं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदां वर ॥ १ ॥

ब्रह्मोवाच –
श्रूयतां भोः सुरश्रेष्ठा विष्णुभक्तिमनुत्तमाम् ।
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ॥ २ ॥

प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ॥ ३ ॥

येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ।
अभीप्सितार्थसिद्ध्यर्थं पूज्यते यः सुरैरपि ॥ ४ ॥

सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ।
कल्पादौ सृष्टिकामेन प्रेरितोऽहं च शौरिणा ॥ ५ ॥

न शक्तो वै प्रजाः कर्तुं विष्णुध्यानपरायणः ।
एतस्मिन्नन्तरे सद्यो मार्कण्डेयो महाऋषिः ॥ ६ ॥

सर्वसिद्धेश्वरो दान्तो दीर्घायुर्विजितेन्द्रियः ।
मयादृष्टोऽथगत्वातं तदाहं समुपस्थितः ।
ततः प्रफुल्लनयनौ सत्कृत्य चेतरेतरम् ॥ ७ ॥

पृच्छमानौ परं स्वास्थ्यं सुखासीनौ सुरोत्तमाः ।
तदा मया स पृष्टो वै मार्कण्डेयो महामुनिः ॥ ८ ॥

भगवन्केन प्रकारेण प्रजा मेऽनामया भवेत् ।
तत्सर्वं श्रोतुमिच्छामि भगवन्मुनिवन्दित ॥ ९ ॥

श्रीमार्कण्डेय उवाच –
विष्णुभक्तिः परा नित्या सर्वार्तिदुःखनाशिनी ।
सर्वपापहरा पुण्या सर्वसुखप्रदायिनी ॥ १० ॥

एषा ब्राह्मी महाविद्या न देया यस्य कस्यचित् ।
कृतघ्नाय ह्यशिष्याय नास्तिकायानृताय च ॥ ११ ॥

ईर्ष्यकाय च रूक्षाय कामिकाय कदाचन ।
तद्गतं सर्वं विघ्नन्तियत्तद्धर्मं सनातनम् ॥ १२ ॥

एतद्गुह्यतमं शास्त्रं सर्वपापप्रणाशनम् ।
पवित्रं च पवित्राणां पावनानां च पावनम् ॥ १३ ॥

विष्णोर्नामसहस्रं च विष्णुभक्तिकरं शुभम् ।
सर्वसिद्धिकरं नृणां भुक्तिमुक्तिप्रदं शुभम् ॥ १४ ॥

अस्य श्रीविष्णुसहस्रनामस्तोत्रमन्त्रस्य मार्कण्डेय ऋषिः ।
विष्णुर्देवताः । अनुष्टुप्च्छन्दः । सर्वकामानवाप्त्यर्थे जपे विनियोगः ॥

अथ ध्यानम् ।
सजलजलदनीलं दर्शितोदारशीलं
करतलधृतशैलं वेणुवाद्ये रसालम् ।
व्रजजन कुलपालं कामिनीकेलिलोलं
तरुणतुलसिमालं नौमि गोपालबालम् ॥ १५ ॥

ॐ विश्वं विष्णुर्हृषीकेशः सर्वात्मा सर्वभावनः ।
सर्वगः शर्वरीनाथो भूतग्रामाऽऽशयाशयः ॥ १६ ॥

अनादिनिधनो देवः सर्वज्ञः सर्वसम्भवः ।
सर्वव्यापी जगद्धाता सर्वशक्तिधरोऽनघः ॥ १७ ॥

जगद्बीजं जगत्स्रष्टा जगदीशो जगत्पतिः ।
जगद्गुरुर्जगन्नाथो जगद्धाता जगन्मयः ॥ १८ ॥

सर्वाऽऽकृतिधरः सर्वविश्वरूपी जनार्दनः ।
अजन्मा शाश्वतो नित्यो विश्वाधारो विभुः प्रभुः ॥ १९ ॥

बहुरूपैकरूपश्च सर्वरूपधरो हरः ।
कालाग्निप्रभवो वायुः प्रलयान्तकरोऽक्षयः ॥ २० ॥

महार्णवो महामेघो जलबुद्बुदसम्भवः ।
संस्कृतो विकृतो मत्स्यो महामत्स्यस्तिमिङ्गिलः ॥ २१ ॥

अनन्तो वासुकिः शेषो वराहो धरणीधरः ।
पयःक्षीर विवेकाढ्यो हंसो हैमगिरिस्थितः ॥ २२ ॥

हयग्रीवो विशालाक्षो हयकर्णो हयाकृतिः ।
मन्थनो रत्नहारी च कूर्मो धरधराधरः ॥ २३ ॥

विनिद्रो निद्रितो नन्दी सुनन्दो नन्दनप्रियः ।
नाभिनालमृणाली च स्वयम्भूश्चतुराननः ॥ २४ ॥

प्रजापतिपरो दक्षः सृष्टिकर्ता प्रजाकरः ।
मरीचिः कश्यपो दक्षः सुरासुरगुरुः कविः ॥ २५ ॥

वामनो वाममार्गी च वामकर्मा बृहद्वपुः ।
त्रैलोक्यक्रमणो दीपो बलियज्ञविनाशनः ॥ २६ ॥

यज्ञहर्ता यज्ञकर्ता यज्ञेशो यज्ञभुग्विभुः ।
सहस्रांशुर्भगो भानुर्विवस्वान्रविरंशुमान् ॥ २७ ॥

तिग्मतेजाश्चाल्पतेजाः कर्मसाक्षी मनुर्यमः ।
देवराजः सुरपतिर्दानवारिः शचीपतिः ॥ २८ ॥

अग्निर्वायुसखो वह्निर्वरुणो यादसाम्पतिः ।
नैरृतो नादनोऽनादी रक्षयक्षोधनाधिपः ॥ २९ ॥

कुबेरो वित्तवान्वेगो वसुपालो विलासकृत् ।
अमृतस्रवणः सोमः सोमपानकरः सुधीः ॥ ३० ॥

सर्वौषधिकरः श्रीमान्निशाकरदिवाकरः ।
विषारिर्विषहर्ता च विषकण्ठधरो गिरिः ॥ ३१ ॥

नीलकण्ठो वृषी रुद्रो भालचन्द्रो ह्युमापतिः ।
शिवः शान्तो वशी वीरो ध्यानी मानी च मानदः ॥ ३२ ॥

कृमिकीटो मृगव्याधो मृगहा मृगलाञ्छनः ।
बटुको भैरवो बालः कपाली दण्डविग्रहः ॥ ३३ ॥

स्मशानवासी मांसाशी दुष्टनाशी वरान्तकृत् ।
योगिनीत्रासको योगी ध्यानस्थो ध्यानवासनः ॥ ३४ ॥

सेनानीः सैन्यदः(सेनदः) स्कन्दो महाकालो गणाधिपः ।
आदिदेवो गणपतिर्विघ्नहा विघ्ननाशनः ॥ ३५ ॥

ऋद्धिसिद्धिप्रदो दन्ती भालचन्द्रो गजाननः ।
नृसिंह उग्रदंष्ट्रश्च नखी दानवनाशकृत् ॥ ३६ ॥

प्रह्लादपोषकर्ता च सर्वदैत्यजनेश्वरः ।
शलभः सागरः साक्षी कल्पद्रुमविकल्पकः ॥ ३७ ॥

हेमदो हेमभागीच हिमकर्ता हिमाचलः ।
भूधरो भूमिदो मेरुः कैलासशिखरो गिरिः ॥ ३८ ॥

लोकालोकान्तरो लोकी विलोकी भुवनेश्वरः ।
दिक्पालो दिक्पतिर्दिव्यो दिव्यकायो जितेन्द्रियः ॥ ३९ ॥

विरूपो रूपवान्रागी नृत्यगीतविशारदः ।
हाहा हूहूश्चित्ररथो देवर्षिर्नारदः सखा ॥ ४० ॥

विश्वेदेवाः साध्यदेवा धृताशीश्च चलोऽचलः ।
कपिलो जल्पको वादी दत्तो हैहयसङ्घराट् ॥ ४१ ॥

वसिष्ठो वामदेवश्च सप्तर्षिप्रवरो भृगुः ।
जामदग्न्यो महावीरः क्षत्रियान्तकरो ह्यृषिः ॥ ४२ ॥

हिरण्यकशिपुश्चैव हिरण्याक्षो हरप्रियः ।
अगस्तिः पुलहो दक्षः पौलस्त्यो रावणो घटः ॥ ४३ ॥

देवारिस्तापसस्तापी विभीषणहरिप्रियः ।
तेजस्वी तेजदस्तेजी ईशो राजपतिः प्रभुः ॥ ४४ ॥

दाशरथी राघवो रामो रघुवंशविवर्धनः ।
सीतापतिः पतिः श्रीमान्ब्रह्मण्यो भक्तवत्सलः ॥ ४५ ॥

सन्नद्धः कवची खड्गी चीरवासा दिगम्बरः ।
किरीटी कुडली चापी शङ्खचक्री गदाधरः ॥ ४६ ॥

कौसल्यानन्दनोदारो भूमिशायी गुहप्रियः ।
सौमित्रो भरतो बालः शत्रुघ्नो भरताऽग्रजः ॥ ४७ ॥

लक्ष्मणः परवीरघ्नः स्त्रीसहायः कपीश्वरः ।
हनुमानृक्षराजश्च सुग्रीवो वालिनाशनः ॥ ४८ ॥

दूतप्रियो दूतकारी ह्यङ्गदो गदतां वरः ।
वनध्वंसी वनी वेगो वानरध्वज लाङ्गुली ॥ ४९ ॥

रविदंष्ट्री च लङ्काहा हाहाकारो वरप्रदः ।
भवसेतुर्महासेतुर्बद्धसेतू रमेश्वरः ॥ ५० ॥ ( var रामेश्वरः)
जानकीवल्लभः कामी किरीटी कुण्डली खगी ।
पुण्डरीकविशालाक्षो महाबाहुर्घनाकृतिः ॥ ५१ ॥

चञ्चलश्चपलः कामी वामी वामाङ्गवत्सलः ।
स्त्रीप्रियः स्त्रीपरः स्त्रैणः स्त्रियो वामाड्गवासकः ॥ ५२ ॥

जितवैरी जितकामो जितक्रोधो जितेन्द्रियः ।
शान्तो दान्तो दयारामो ह्येकस्त्रीव्रतधारकः ॥ ५३ ॥

सात्त्विकः सत्त्वसंस्थानो मदहा क्रोधहा खरः ।
बहुराक्षस सम्वीतः सर्वराक्षसनाशकृत् ॥ ५४ ॥

रावणारी रणक्षुद्र दशमस्तकच्छेदकः ।
राज्यकारी यज्ञकारी दाता भोक्ता तपोधनः ॥ ५५ ॥

अयोध्याधिपतिः कान्तो वैकुण्ठोऽकुण्ठविग्रहः ।
सत्यव्रतो व्रती शूरस्तपी सत्यफलप्रदः ॥ ५६ ॥

सर्वसाक्षीः सर्वगश्च सर्वप्राणहरोऽव्ययः ।
प्राणश्चाथाप्यपानश्च व्यानोदानः समानकः ॥ ५७ ॥

नागः कृकलः कूर्मश्च देवदत्तो धनञ्जयः ।
सर्वप्राणविदो व्यापी योगधारकधारकः ॥ ५८ ॥

तत्त्ववित्तत्त्वदस्तत्त्वी सर्वतत्त्वविशारदः ।
ध्यानस्थो ध्यानशाली च मनस्वी योगवित्तमः ॥ ५९ ॥

ब्रह्मज्ञो ब्रह्मदो बह्मज्ञाता च ब्रह्मसम्भवः ।
अध्यात्मविद्विदो दीपो ज्योतीरूपो निरञ्जनः ॥ ६० ॥

ज्ञानदोऽज्ञानहा ज्ञानी गुरुः शिष्योपदेशकः ।
सुशिष्यः शिक्षितः शाली शिष्यशिक्षाविशारदः ॥ ६१ ॥

मन्त्रदो मन्त्रहा मन्त्री तन्त्री तन्त्रजनप्रियः ।
सन्मन्त्रो मन्त्रविन्मन्त्री यन्त्रमन्त्रैकभञ्जनः ॥ ६२ ॥

मारणो मोहनो मोही स्तम्भोच्चाटनकृत्खलः ।
बहुमायो विमायश्च महामायाविमोहकः ॥ ६३ ॥

मोक्षदो बन्धको बन्दी ह्याकर्षणविकर्षणः ।
ह्रीङ्कारो बीजरूपी च क्लीङ्कारः कीलकाधिपः ॥ ६४ ॥

सौङ्कार शक्तिमाञ्च्छक्तिः सर्वशक्तिधरो धरः । ( var शक्तियाञ्च्छक्तिः)
अकारोकार ओङ्कारश्छन्दोगायत्रसम्भवः ॥ ६५ ॥

वेदो वेदविदो वेदी वेदाध्यायी सदाशिवः ।
ऋग्यजुःसामाथर्वेशः सामगानकरोऽकरी ॥ ६६ ॥

त्रिपदो बहुपादी च शतपथः सर्वतोमुखः ।
प्राकृतः संस्कृतो योगी गीतग्रन्थप्रहेलिकः ॥ ६७ ॥

सगुणो विगुणश्छन्दो निःसङ्गो विगुणो गुणी ।
निर्गुणो गुणवान्सङ्गी कर्मी धर्मी च कर्मदः ॥ ६८ ॥

निष्कर्मा कामकामी च निःसङ्गः सङ्गवर्जितः ।
निर्लोभो निरहङ्कारी निष्किञ्चनजनप्रियः ॥ ६९ ॥

सर्वसङ्गकरो रागी सर्वत्यागी बहिश्चरः ।
एकपादो द्विपादश्च बहुपादोऽल्पपादकः ॥ ७० ॥

द्विपदस्त्रिपदोऽपादी विपादी पदसङ्ग्रहः ।
खेचरो भूचरो भ्रामी भृङ्गकीटमधुप्रियः ॥ ७१ ॥

क्रतुः सम्वत्सरो मासो गणितार्कोह्यहर्निशः ।
कृतं त्रेता कलिश्चैव द्वापरश्चतुराकृतिः ॥ ७२ ॥

दिवाकालकरः कालः कुलधर्मः सनातनः ।
कला काष्ठा कला नाड्यो यामः पक्षः सितासितः ॥ ७३ ॥

युगो युगन्धरो योग्यो युगधर्मप्रवर्तकः ।
कुलाचारः कुलकरः कुलदैवकरः कुली ॥ ७४ ॥

चतुराऽऽश्रमचारी च गृहस्थो ह्यतिथिप्रियः ।
वनस्थो वनचारी च वानप्रस्थाश्रमोऽश्रमी ॥ ७५ ॥

बटुको ब्रह्मचारी च शिखासूत्री कमण्डली ।
त्रिजटी ध्यानवान्ध्यानी बद्रिकाश्रमवासकृत् ॥ ७६ ॥

हेमाद्रिप्रभवो हैमो हेमराशिर्हिमाकरः ।
महाप्रस्थानको विप्रो विरागी रागवान्गृही ॥ ७७ ॥

नरनारायणोऽनागो केदारोदारविग्रहः ।
गङ्गाद्वारतपः सारस्तपोवन तपोनिधिः ॥ ७८ ॥

निधिरेष महापद्मः पद्माकरश्रियालयः । ( var निधिरेव)
पद्मनाभः परीतात्मा परिव्राट् पुरुषोत्तमः ॥ ७९ ॥

परानन्दः पुराणश्च सम्राड्राज विराजकः । ( var सम्राट् राज)
चक्रस्थश्चक्रपालस्थश्चक्रवर्ती नराधिपः ॥ ८० ॥

आयुर्वेदविदो वैद्यो धन्वन्तरिश्च रोगहा ।
औषधीबीजसम्भूतो रोगी रोगविनाशकृत ॥ ८१ ॥

चेतनश्चेतकोऽचिन्त्यश्चित्तचिन्ताविनाशकृत् ।
अतीन्द्रियः सुखस्पर्शश्चरचारी विहङ्गमः ॥ ८२ ॥

गरुडः पक्षिराजश्च चाक्षुषो विनतात्मजः ।
विष्णुयानविमानस्थो मनोमयतुरङ्गमः ॥ ८३ ॥

बहुवृष्टिकरो वर्षी ऐरावणविरावणः ।
उच्चैःश्रवाऽरुणो गामी हरिदश्वो हरिप्रियः ॥ ८४ ॥

प्रावृषो मेघमाली च गजरत्नपुरन्दरः ।
वसुदो वसुधारश्च निद्रालुः पन्नगाशनः ॥ ८५ ॥

शेषशायी जलेशायी व्यासः सत्यवतीसुतः ।
वेदव्यासकरो वाग्ग्मी बहुशाखाविकल्पकः ॥ ८६ ॥

स्मृतिः पुराणधर्मार्थी परावरविचक्षणः ।
सहस्रशीर्षा सहस्राक्षः सहस्रवदनोज्ज्वलः ॥ ८७ ॥

सहस्रबाहुः सहस्रांशुः सहस्रकिरणो नरः ।
बहुशीर्षैकशीर्षश्च त्रिशिरा विशिराः शिरी ॥ ८८ ॥

जटिलो भस्मरागी च दिव्याम्बरधरः शुचिः ।
अणुरूपो बृहद्रूपो विरूपो विकराकृतिः ॥ ८९ ॥

समुद्रमाथको माथी सर्वरत्नहरो हरिः ।
वज्रवैडूर्यको वज्री चिन्तामणिमहामणिः ॥ ९० ॥

अनिर्मूल्यो महामूल्यो निर्मूल्यः सुरभिः सुखी ।
पिता माता शिशुर्बन्धुर्धाता त्वष्टार्यमा यमः ॥ ९१ ॥

अन्तःस्थो बाह्यकारी च बहिःस्थो वै बहिश्चरः ।
पावनः पावकः पाकी सर्वभक्षी हुताशनः ॥ ९२ ॥

भगवान्भगहा भागी भवभञ्जो भयङ्करः ।
कायस्थः कार्यकारी च कार्यकर्ता करप्रदः ॥ ९३ ॥

एकधर्मा द्विधर्मा च सुखी दूत्योपजीवकः ।
बालकस्तारकस्त्राता कालो मूषकभक्षकः ॥ ९४ ॥

सञ्जीवनो जीवकर्ता सजीवो जीवसम्भवः ।
षड्विंशको महाविष्णुः सर्वव्यापी महेश्वरः ॥ ९५ ॥

दिव्याङ्गदो मुक्तमाली श्रीवत्सो मकरध्वजः ।
श्याममूर्तिर्घनश्यामः पीतवासाः शुभाननः ॥ ९६ ॥

चीरवासा विवासाश्च भूतदानववल्लभः ।
अमृतोऽमृतभागी च मोहिनीरूपधारकः ॥ ९७ ॥

दिव्यदृष्टिः समदृष्टिर्देवदानववञ्चकः ।
कबन्धः केतुकारी च स्वर्भानुश्चन्द्रतापनः ॥ ९८ ॥

ग्रहराजो ग्रही ग्राहः सर्वग्रहविमोचकः ।
दानमानजपो होमः सानुकूलः शुभग्रहः ॥ ९९ ॥

विघ्नकर्ताऽपहर्ता च विघ्ननाशो विनायकः ।
अपकारोपकारी च सर्वसिद्धिफलप्रदः ॥ १०० ॥

सेवकः सामदानी च भेदी दण्डी च मत्सरी ।
दयावान्दानशीलश्च दानी यज्वा प्रतिग्रही ॥ १०१ ॥

हविरग्निश्चरुस्थाली समिधश्चानिलो यमः ।
होतोद्गाता शुचिः कुण्डः सामगो वैकृतिः सवः ॥ १०२ ॥

द्रव्यं पात्राणि सङ्कल्पो मुशलो ह्यरणिः कुशः ।
दीक्षितो मण्डपो वेदिर्यजमानः पशुः क्रतुः ॥ १०३ ॥

दक्षिणा स्वस्तिमान्स्वस्ति ह्याशीर्वादः शुभप्रदः ।
आदिवृक्षो महावृक्षो देववृक्षो वनस्पतिः ॥ १०४ ॥

प्रयागो वेणुमान्वेणी न्यग्रोधश्चाऽक्षयो वटः ।
सुतीर्थस्तीर्थकारी च तीर्थराजो व्रती वतः ॥ १०५ ॥

वृत्तिदाता पृथुः पुत्रो दोग्धा गौर्वत्स एव च ।
क्षीरं क्षीरवहः क्षीरी क्षीरभागविभागवित् ॥ १०६ ॥

राज्यभागविदो भागी सर्वभागविकल्पकः ।
वाहनो वाहको वेगी पादचारी तपश्चरः ॥ १०७ ॥

गोपनो गोपको गोपी गोपकन्याविहारकृत् ।
वासुदेवो विशालाक्षः कृष्णोगोपीजनप्रियः ॥ १०८ ॥

देवकीनन्दनो नन्दी नन्दगोपगृहाऽऽश्रमी ।
यशोदानन्दनो दामी दामोदर उलूखली ॥ १०९ ॥

पूतनारिः पदाकारी लीलाशकटभञ्जकः ।
नवनीतप्रियो वाग्ग्मी वत्सपालकबालकः ॥ ११० ॥

वत्सरूपधरो वत्सी वत्सहा धेनुकान्तकृत् ।
बकारिर्वनवासी च वनक्रीडाविशारदः ॥ १११ ॥

कृष्णवर्णाकृतिः कान्तो वेणुवेत्रविधारकः ।
गोपमोक्षकरो मोक्षो यमुनापुलिनेचरः ॥ ११२ ॥

मायावत्सकरो मायी ब्रह्ममायापमोहकः ।
आत्मसारविहारज्ञो गोपदारकदारकः ॥ ११३ ॥

गोचारी गोपतिर्गोपो गोवर्धनधरो बली ।
इन्द्रद्युम्नो मखध्वंसी वृष्टिहा गोपरक्षकः ॥ ११४ ॥

सुरभित्राणकर्ता च दावपानकरः कली ।
कालीयमर्दनः काली यमुनाह्रदविहारकः ॥ ११५ ॥

सङ्कर्षणो बलश्लाघ्यो बलदेवो हलायुधः ।
लाङ्गली मुसली चक्री रामो रोहिणिनन्दनः ॥ ११६ ॥

यमुनाकर्षणोद्धारो नीलवासा हलो हली ।
रेवती रमणो लोलो बहुमानकरः परः ॥ ११७ ॥

धेनुकारिर्महावीरो गोपकन्याविदूषकः ।
काममानहरः कामी गोपीवासोऽपतस्करः ॥ ११८ ॥

वेणुवादी च नादी च नृत्यगीतविशारदः ।
गोपीमोहकरो गानी रासको रजनीचरः ॥ ११९ ॥

दिव्यमाली विमाली च वनमालाविभूषितः ।
कैटभारिश्च कंसारिर्मधुहा मधुसूदनः ॥ १२० ॥

चाणूरमर्दनो मल्लो मुष्टी मुष्टिकनाशकृत् ।
मुरहा मोदका मोदी मदघ्नो नरकान्तकृत् ॥ १२१ ॥

विद्याध्यायी भूमिशायी सुदामा सुसखा सुखी ।
सकलो विकलो वैद्यः कलितो वै कलानिधिः ॥ १२२ ॥

विद्याशाली विशाली च पितृमातृविमोक्षकः ।
रुक्मिणीरमणो रम्यः कालिन्दीपतिः शङ्खहा ॥ १२३ ॥

पाञ्चजन्यो महापद्मो बहुनायकनायकः ।
धुन्धुमारो निकुम्भघ्नः शम्बरान्तो रतिप्रियः ॥ १२४ ॥

प्रद्युम्नश्चानिरुद्धश्च सात्वतां पतिरर्जुनः ।
फाल्गुनश्च गुडाकेशः सव्यसाची धनञ्जयः ॥ १२५ ॥

किरीटी च धनुष्पाणिर्धनुर्वेदविशारदः ॥

शिखण्डी सात्यकिः शैब्यो भीमो भीमपराक्रमः ॥ १२६ ॥

पाञ्चालश्चाभिमन्युश्च सौभद्रो द्रौपदीपति ।
युधिष्ठिरो धर्मराजः सत्यवादी शुचिव्रतः ॥ १२७ ॥

नकुलः सहदेवश्च कर्णो दुर्योधनो घृणी ।
गाङ्गेयोऽथगदापाणिर्भीष्मो भागीरथीसुतः ॥ १२८ ॥

प्रज्ञाचक्षुर्धृतराष्ट्रो भारद्वाजोऽथगौतमः ।
अश्वत्थामा विकर्णश्चजह्नुर्युद्धविशारदः ॥ १२९ ॥

सीमन्तिको गदी गाल्वो विश्वामित्रो दुरासदः ।
दुर्वासा दुर्विनीतश्च मार्कण्डेयो महामुनिः ॥ १३० ॥

लोमशो निर्मलोऽलोमी दीर्घायुश्च चिरोऽचिरी ।
पुनर्जीवी मृतो भावी भूतो भव्यो भविष्यकः ॥ १३१ ॥

त्रिकालोऽथ त्रिलिङ्गश्च त्रिनेत्रस्त्रिपदीपतिः ।
यादवो याज्ञवल्क्यश्च यदुवंशविवर्धनः ॥ १३२ ॥

शल्यक्रीडी विक्रीडश्च यादवान्तकरः कलिः ।
सदयो हृदयो दायो दायदो दायभाग्दयी ॥ १३३ ॥

महोदधिर्महीपृष्ठो नीलपर्वतवासकृत ।
एकवर्णो विवर्णश्च सर्ववर्णबहिश्चरः ॥ १३४ ॥

यज्ञनिन्दी वेदनिन्दी वेदबाह्यो बलो बलिः ।
बौद्धारिर्बाधको बाधो जगन्नाथो जगत्पतिः ॥ १३५ ॥

भक्तिर्भागवतो भागी विभक्तो भगवत्प्रियः ।
त्रिग्रामोऽथ नवारण्यो गुह्योपनिषदासनः ॥ १३६ ॥

शालिग्रामः शिलायुक्तो विशालो गण्डकाश्रयः ।
श्रुतदेवः श्रुतः श्रावी श्रुतबोधः श्रुतश्रवाः ॥ १३७ ॥

कल्किः कालकलः कल्को दुष्टम्लेच्छविनाश कृत् ।
कुङ्कुमी धवलो धीरः क्षमाकरो वृषाकपिः ॥ १३८ ॥

किङ्करः किन्नरः कण्वः केकी किम्पुरुषाधिपः ।
एकरोमा विरोमा च बहुरोमा बृहत्कविः ॥ १३९ ॥

वज्रप्रहरणो वज्री वृत्रघ्नो वासवानुजः ।
बहुतीर्थकरस्तीर्थः सर्वतीर्थजनेश्वरः ॥ १४० ॥

व्यतीपातोपरागश्च दानवृद्धिकरः शुभः ।
असङ्ख्येयोऽप्रमेयश्च सङ्ख्याकारो विसङ्ख्यकः ॥ १४१ ॥

मिहिकोत्तारकस्तारो बालचन्द्रः सुधाकरः ।
किम्वर्णः कीदृशः किञ्चित्किंस्वभावः किमाश्रयः ॥ १४२ ॥

निर्लोकश्च निराकारी बह्वाकारैककारकः ।
दौहित्रः पुत्रिकः पौत्रो नप्ता वंशधरो धरः ॥ १४३ ॥

द्रवीभूतो दयालुश्च सर्वसिद्धिप्रदो मणिः ॥ १४४ ॥

आधारोऽपि विधारश्च धरासूनुः सुमङ्गलः ।
मङ्गलो मङ्गलाकारो माङ्गल्यः सर्वमङ्गलः ॥ १४५ ॥

नाम्नां सहस्रं नामेदं विष्णोरतुलतेजसः ।
सर्वसिद्धिकरं काम्यं पुण्यं हरिहरात्मकम् ॥ १४६ ॥

यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः ।
यश्चेदं श‍ृणुयान्नित्यं नरो निश्चलमानसः ॥ १४७ ॥

त्रिसन्ध्यं श्रद्धया युक्तः सर्वपापैः प्रमुच्यते ।
नन्दते पुत्रपौत्रैश्च दारैर्भृत्यैश्च पूजितः ॥ १४८ ॥

प्राप्नुते विपुलां लक्ष्मीं मुच्यते सर्वसङ्कटात् ।
सर्वान्कामानवाप्नोति लभते विपुलं यशः ॥ १४९ ॥

विद्यावाञ्जायते विप्रः क्षत्रियो विजयी भवेत् ।
वैश्यश्च धनलाभाढ्यः शूद्रः सुखमवाप्नुयात् ॥ १५० ॥

रणे घोरे विवादे च व्यापारे पारतन्त्रके ।
विजयी जयमाप्नोति सर्वदा सर्वकर्मसु ॥ १५१ ॥

एकधा दशधा चैव शतधा च सहस्रधा ।
पठते हि नरो नित्यं तथैव फलमश्नुते ॥ १५२ ॥

पुत्रार्थी प्राप्नुते पुत्रान्धनार्थी धनमव्ययम् ।
मोक्षार्थी प्राप्नुते मोक्षं धर्मार्थी धर्मसञ्चयम् ॥ १५३ ॥

कन्यार्थी प्राप्नुते कन्यां दुर्लभां यत्सुरैरपि ।
ज्ञानार्थी जायते ज्ञानी योगी योगेषु युज्यते ॥ १५४ ॥

महोत्पातेषु घोरेषु दुर्भिक्षे राजविग्रहे ।
महामारीसमुद्भूते दारिद्र्ये दुःखपीडिते ॥ १५५ ॥

अरण्ये प्रान्तरे वाऽपि दावाग्निपरिवारिते ।
सिंहव्याघ्राभिभूतेऽपि वने हस्तिसमाकुले ॥ १५६ ॥

राज्ञा क्रुद्धेन चाज्ञप्ते दस्युभिः सह सङ्गमे ।
विद्युत्पातेषु घोरेषु स्मर्तव्यं हि सदा नरैः ॥ १५७ ॥

ग्रहपीडासु चोग्रासु वधबन्धगतावपि ।
महार्णवे महानद्यां पोतस्थेषु न चापदः ॥ १५८ ॥

रोगग्रस्तो विवर्णश्च गतकेशनखत्वचः ।
पठनाच्छवणाद्वापि दिव्यकाया भवन्ति ते ॥ १५९ ॥

तुलसीवनसंस्थाने सरोद्वीपे सुरालये ।
बद्रिकाश्रमे शुभे देशे गङ्गाद्वारे तपोवने ॥ १६० ॥

मधुवने प्रयागे च द्वारकायां समाहितः ।
महाकालवने सिद्धे नियताः सर्वकामिकाः ॥ १६१ ॥

ये पठन्ति शतावर्तं भक्तिमन्तो जितेन्द्रियाः ।
ते सिद्धाः सिद्धिदा लोके विचरन्ति महीतले ॥ १६२ ॥

अन्योन्यभेदभेदानां मैत्रीकरणमुत्तमम् ।
मोहनं मोहनानां च पवित्रं पापनाशनम् ॥ १६३ ॥

बालग्रहविनाशाय शान्तीकरणमुत्तमम् ।
दुर्वृत्तानां च पापानां बुद्धिनाशकरं परम् ॥ १६४ ॥

पतद्गर्भा च वन्ध्या च स्राविणी काकवन्ध्यका ।
अनायासेन सततं पुत्रमेव प्रसूयते ॥ १६५ ॥

पयःपुष्कलदा गावो बहुधान्यफला कृषिः ।
स्वामिधर्मपरा भृत्या नारी पतिव्रता भवेत् ॥ १६६ ॥

अकालमृत्युनाशाय तथा दुःस्वप्नदर्शने ।
शान्तिकर्मणि सर्वत्र स्मर्तव्यं च सदा नरैः ॥ १६७ ॥

यः पठत्यन्वहं मर्त्यः शुचिष्मान्विष्णुसन्निधौ ।
एकाकी च जिताहारो जितक्रोधो जितेन्द्रियः ॥ १६८ ॥

गरुडारोहसम्पन्नः पीतवासाश्चतुर्भुजः ।
वाञ्छितं प्राप्य लोकेऽस्मिन्विष्णुलोके स गच्छति ॥ १६९ ॥

एकतः सकला विद्या एकतः सकलं तपः ।
एकतः सकलो धर्मो नाम विष्णोस्तथैकतः ॥ १७० ॥

यो हि नामसहस्रेण स्तोतुमिच्छति वै द्विजः ।
सोऽयमेकेन श्लोकेन स्तुत एव न संशयः ॥ १७१ ॥ ( var सोऽहमेकेन)
सहस्राक्षः सहस्रपात्सहस्रवदनोज्ज्वलः ।
सहस्रनामानन्ताक्षः सहस्रबाहुर्नमोऽस्तु ते ॥ १७२ ॥

विष्णोर्नामसहस्रं वै पुराणं वेदसम्मतम् ।
पठितव्यं सदा भक्तैः सर्वमङ्गलमङ्गलम् ॥ १७३ ॥

इति स्तवाभियुक्तानां देवानां तत्र वै द्विज ।
प्रत्यक्षं प्राह भगवान्वरदो वरदार्चितः ॥ १७४ ॥

श्रीभगवानुवाच –
व्रियतां भोः सुराः सर्वैर्वरोऽस्मत्तोभिवाञ्छितः ।
तत्सर्वं सम्प्रदास्यामि नाऽत्र कार्या विचारणा ॥ १७५ ॥

इति श्रीस्कन्दमहापुराणे आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये विष्णुसहस्रनामोऽध्यायः ॥

Also Read 1000 Names of Skandapurana Vishnu:

1000 Names of Sri Vishnu | Sahasranama Stotram from Skandapurana Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Vishnu | Sahasranama Stotram from Skandapurana Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top