Templesinindiainfo

Best Spiritual Website

108 Names of Shri Jayendra Saraswati | Ashtottara Shatanamavali Lyrics in Hindi

Jagadguru Sri Jayendra Saraswathi Shankaracharya or Subramanyam Mahadeva was born to Mahadeva Iyer and Saraswathi Ammal on 18 July 1935 and passed away on 28 February 2018. He was the 69th Shankaracharya Guru and head or pontiff of the Kanchi Kamakoti Peetham in 1994. Subramanyam Mahadeva Iyer was nominated by his predecessor, Chandrashekarendra Saraswati, as his successor and was given the pontifical title Sri Jayendra Saraswathi on 22 March 1954.

Sri Jayendrasarasvati Ashtottarashata Namavali Lyrics in Hindi:

॥ श्रीजयेन्द्रसरस्वती अष्टोत्तरशतनामावलिः ॥
॥ श्रीगुरुनामावलिः ॥

श्रीकाञ्चीकामकोटिपीठाधिपति जगद्गुरु श्रीजयेन्द्रसरस्वती
श्रीपादानामष्टोत्तरशतनामावलिः ।

जयाख्यया प्रसिद्धेन्द्रसरस्वत्यै नमो नमः ।
तमोऽपहग्रामरत्न सम्भूताय नमो नमः ।
महादेव महीदेवतनूजाय नमो नमः ।
सरस्वतीगर्भशुक्तिमुक्तारत्नाय ते नमः ।
सुब्रह्मण्याभिधानीतकौमाराय नमो नमः । ५ ।
मध्यार्जुनगजारण्याधीतवेदाय ते नमः ।
स्ववृत्तप्रणीताशेषाध्यापकाय नमो नमः ।
तपोनिष्ठगुरुज्ञातवैभवाय नमो नमः ।
गुर्वाज्ञापालनरतपितृदत्ताय ते नमः ।
जयाब्दे स्वीकृततुरीयाश्रमाय नमो नमः । १० ।
जयाख्यया स्वगुरुणा दीक्षिताय नमः ।
ब्रह्मचर्यादेव लब्धप्रव्रज्याय नमो नमः ।
सर्वतीर्थतटे लब्धचतुर्थाश्रमिणे नमः ।
काषायवासस्संवीतशरीराय नमो नमः ।
वाक्यज्ञाचार्योपदिष्टमहावाक्याय ते नमः । १५ ।
नित्यं गुरुपदद्वन्द्वनतिशीलाय ते नमः ।
लीलया वामहस्ताग्रधृतदण्डाय ते नमः ।
भक्तोपहृतबिल्वादिमालाधर्त्रे नमो नमः ।
जम्बीरतुलसीमालाभूषिताय नमो नमः ।
कामकोटिमहापीठाधीश्वराय नमो नमः । २० ।
सुवृत्तनृहृदाकाशनिवासाय नमो नमः ।
पादानतजनक्षेमसाधकाय नमो नमः ।
ज्ञानदानोक्तमधुरभाषणाय नमो नमः ।
गुरुप्रिया ब्रह्मसूत्रवृत्तिकर्त्रे नमो नमः ।
जगद्गुरुवरिष्ठाय महते महसे नमः । २५ ।
भारतीयसदाचारपरित्रात्रे नमो नमः ।
मर्यादोल्लङ्घिजनतासुदूराय नमो नमः ।
सर्वत्र समभावाप्तसौहृदाय नमो नमः ।
वीक्षाविवशिताशेषभावुकाय नमो नमः ।
श्रीकामकोटिपीठाग्र्यनिकेताय नमो नमः । ३० ।
कारुण्यपूरपूर्णान्तःकरणाय नमो नमः ।
श्रीचन्द्रशेखरचित्ताब्जाह्लादकाय नमो नमः ।
पूरितस्वगुरूत्तंससङ्कल्पाय नमो नमः ।
त्रिवारं चन्द्रमौलीशपूजकाय नमो नमः ।
कामाक्षीध्यानसंलीनमानसाय नमो नमः । ३५ ।
सुनिर्मितस्वर्णरथवाहिताम्बाय ते नमः ।
परिष्कृताखिलाण्डेशीताटङ्काय नमो नमः ।
रत्नभूषितनृत्येशहस्तपादाय ते नमः ।
वेङ्कटाद्रीशकरुणाऽऽप्लाविताय नमो नमः ।
काश्यां श्रीकामकोटीशालयकर्त्रे नमो नमः । ४० ।
कामाक्ष्यम्बालयस्वर्णच्छादकाय नमो नमः ।
कुम्भाभिषेकसन्दीप्तालयव्राताय ते नमः ।
कालट्यां शङ्करयशःस्तम्भकर्त्रे नमो नमः ।
राजराजाख्यचोलस्य स्वर्णमौलिकृते नमः ।
गोशालानिर्मितिकृतगोरक्षाय नमो नमः । ४५ ।
तीर्थेषु भगवत्पादस्मृत्यालयकृते नमः ।
सर्वत्र शङ्करमठनिर्वहित्रे नमो नमः ।
वेदशास्त्राधीतिगुप्तिदीक्षिताय नमो नमः ।
देहल्यां स्कन्दगिर्याख्यालयकर्त्रे नमो नमः ।
भारतीयकलाचारपोषकाय नमो नमः । ५० ।
स्तोत्रनीतिग्रन्थपाठरुचिदाय नमो नमः ।
युक्त्या हरिहराभेददर्शयित्रे नमो नमः ।
स्वभ्यस्तनियमोन्नीतध्यानयोगाय ते नमः ।
परधाम पराकाशलीनचित्ताय ते नमः ।
अनारततपस्याप्तदिव्यशोभाय ते नमः । ५५ ।
शमादिषड्गुणयत स्वचित्ताय नमो नमः ।
समस्तभक्तजनतारक्षकाय नमो नमः ।
स्वशरीरप्रभाधूतहेमभासे नमो नमः ।
अग्नितप्तस्वर्णपट्टतुल्यफालाय ते नमः ।
विभूतिविलसच्छुभ्रललाटाय नमो नमः । ६० ।
परिव्राड्गणसंसेव्यपदाब्जाय नमो नमः ।
आर्तार्तिश्रवणापोहरतचित्ताय ते नमः ।
ग्रामीणजनतावृत्तिकल्पकाय नमो नमः ।
जनकल्याणरचनाचतुराय नमो नमः ।
जनजागरणासक्तिदायकाय नमो नमः । ६५ ।
शङ्करोपज्ञसुपथसञ्चाराय नमो नमः ।
अद्वैतशास्त्ररक्षायां सुलग्नाय नमो नमः ।
प्राच्यप्रतीच्यविज्ञानयोजकाय नमो नमः ।
गैर्वाणवाणीसंरक्षाधुरीणाय नमो नमः ।
भगवत्पूज्यपादानामपराकृतये नमः । ७० ।
स्वपादयात्रया पूतभारताय नमो नमः ।
नेपालभूपमहितपदाब्जाय नमो नमः ।
चिन्तितक्षणसम्पूर्णसङ्कल्पाय नमो नमः ।
यथाज्ञकर्मकृद्वर्गोत्साहकाय नमो नमः ।
मधुराभाषणप्रीतस्वाश्रिताय नमो नमः । ७५ ।
सर्वदा शुभमस्त्वित्याशंसकाय नमो नमः ।
चित्रीयमाणजनतासन्दृष्टाय नमो नमः ।
शरणागतदीनार्तपरित्रात्रे नमो नमः ।
सौभाग्यजनकापाङ्गवीक्षणाय नमो नमः ।
दुरवस्थितहृत्तापशामकाय नमो नमः । ८० ।
दुर्योज्यविमतव्रातसमन्वयकृते नमः ।
निरस्तालस्यमोहाशाविक्षेपाय नमो नमः ।
अनुगन्तृदुरासाद्यपदवेगाय ते नमः ।
अन्यैरज्ञातसङ्कल्पविचित्राय नमो नमः ।
सदा हसन्मुखाब्जानीताशेषशुचे नमः । ८५ ।
नवषष्टितमाचार्यशङ्कराय नमो नमः ।
विविधाप्तजनप्रार्थ्यस्वगृहागतये नमः ।
जैत्रयात्राव्याजकृष्टजनस्वान्ताय ते नमः ।
वसिष्ठधौम्यसदृशदेशिकाय नमो नमः ।
असकृत्क्षेत्रतीर्थादियात्रातृप्ताय ते नमः । ९० ।
श्रीचन्द्रशेखरगुरोः एकशिष्याय ते नमः ।
गुरोर्हृद्गतसङ्कल्पक्रियान्वयकृते नमः ।
गुरुवर्यकृपालब्धसमभावाय ते नमः ।
योगलिङ्गेन्दुमौलीशपूजकाय नमो नमः ।
वयोवृद्धानाथजनाश्रयदाय नमो नमः । ९५ ।
अवृत्तिकोपद्रुतानां वृत्तिदाय नमो नमः ।
स्वगुरूपज्ञया विश्वविद्यालयकृते नमः ।
विश्वराष्ट्रीयसद्ग्रन्थकोशागारकृते नमः ।
विद्यालयेषु सद्धर्मबोधदात्रे नमो नमः ।
देवालयेष्वर्चकादिवृत्तिदात्रे नमो नमः । १०० ।
कैलासे भगवत्पादमूर्तिस्थापकाय ते नमः ।
कैलासमानससरोयात्रापूतहृदे नमः ।
असमे बालसप्ताद्रिनाथालयकृते नमः ।
शिष्टवेदाध्यापकानां मानयित्रे नमो नमः ।
महारुद्रातिरुद्रादि तोषितेशाय ते नमः । १०५ ।
असकृच्छतचण्डीभिरर्हिताम्बाय ते नमः ।
द्रविडागमगातॄणां ख्यापयित्रे नमो नमः ।
शिष्टशङ्करविजयस्वर्च्यमानपदे नमः । १०८ ।

परित्यज्य मौनं वटाधःस्थितिं च
व्रजन् भारतस्य प्रदेशात्प्रदेशम् ।
मधुस्यन्दिवाचा जनान्धर्ममार्गे
नयन् श्रीजयेन्द्रो गुरुर्भाति चित्ते

॥ श्रीगुरु श्रीचन्द्रशेखरेन्द्रसरस्वती श्रीचरणस्मृतिः ॥

श्रीजगद्गुरु श्रीकाञ्चीकामकोटिपीठाधिपति श्रीशङ्कराचार्य
श्रीजयेन्द्रसरस्वती श्रीचरणैः प्रणीता ।

अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् ।
श्रीचन्द्रशेखरगुरुं प्रणमामि मुदान्वहम् ॥ १ ॥

लोकक्षेमहितार्थाय गुरुभिर्बहुसत्कृतम् ।
स्मृत्वा स्मृत्वा नमामस्तान् जन्मसाफल्यहेतवे ॥ २ ॥

गुरुवारसभाद्वारा शास्त्रसंरक्षणं कृतम् ।
अनूराधासभाद्वारा वेदसंरक्षणं कृतम् ॥ ३ ॥

मार्गशीर्षे मासवरे स्तोत्रपाठप्रचारणम् ।
वेदभाष्यप्रचारार्थं रत्नोसवनिधिः कृतः ॥ ४ ॥

कर्मकाण्डप्रचाराय वेदधर्मसभा कृता ।
वेदान्तार्थविचाराय विद्यारण्यनिधिः कृतः ॥ ५ ॥

शिलालेखप्रचारार्थमुट्टङ्कित निधिः कृतः ।
गोब्राह्मणहितार्थाय वेदरक्षणगोनिधिः ॥ ६ ॥

गोशाला पाठशाला च गुरुभिस्तत्र निर्मिते ।
बालिकानां विवाहार्थं कन्यादाननिधिः कृतः ॥ ७ ॥

देवार्चकानां साह्यार्थं कच्चिमूदूर्निधिः कृतः ।
बालवृद्धातुराणां च व्यवस्था परिपालने ॥ ८ ॥

अनाथप्रेतसंस्कारादश्वमेधफलं भवेत् ।
इति वाक्यानुसारेण व्यवस्था तत्र कल्पिता ॥ ९ ॥

यत्र श्रीभगवत्पादैः क्षेत्रपर्यटनं कृतम् ।
तत्र तेषां स्मारणाय शिलामूर्तिनिवेशिता ॥ १० ॥

भक्तवाञ्छाभिसिद्ध्यर्थं नामतारकलेखनम् ।
राजतं च रथं कृत्वा कामाक्ष्याः परिवाहणम् ॥ ११ ॥

कामाक्ष्यम्बाविमानस्य स्वर्णेनावरणं कृतम् ।
मूलस्योत्सवकामाक्ष्याः स्वर्णवर्म परिष्कृतिः ॥ १२ ॥

ललितानामसाहस्रस्वर्णमालाविभूषणम् ।
श्रीदेव्याः पर्वकालेषु सुवर्णरथचालनम् ॥ १३ ॥

चिदम्बरनटेशस्य सद्वैदूर्यकिरीटकम् ।
करेऽभयप्रदे पादे कुञ्चिते रत्नभूषणम् ॥ १४ ॥

मुष्टितण्डुलदानेन दरिद्राणां च भोजनम् ।
रुग्णालये भगवतः प्रसादविनियोजनम् ॥ १५ ॥

जगद्धितैषिभिर्दीनजनावनपरायणैः ।
गुरुभिश्चरिते मार्गे विचरेम मुदा सदा ॥ १६ ॥

Also Read 108 Names of Sri Jayendra Saraswathi:

108 Names of Shri Jayendra Saraswati | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shri Jayendra Saraswati | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top