Shataka

Ananda Mandakini Lyrics in Hindi | Anandamandakini

Ananda Mandakini in Hindi:

॥ आनन्दमन्दाकिनी ॥
श्रीमधुसूदनसरस्वतीविरचिता
आनन्दमन्दाकिनी ।
वाग्देवीचतुरास्यपञ्चवदना नित्यं सहस्राननो-
ऽप्युच्चैर्यत्र जडात्मतामुपगताः केऽन्ये वराकाः सुराः ।
मर्त्याः स्वल्पधियः कथं नु कुशलास्तत्राप्यहं प्रज्ञया
हीनः किं करवाणि तां व्रजकुलोत्तंस प्रशंसां तव ॥ १ ॥

नित्यं ब्रह्मसुरेन्द्रशङ्करमुखैर्दत्तोपहाराय ते
विस्वादांस्तुषमिश्रतण्डुलकणान्विप्रः सुदामा ददौ ।
तद्वद्देव निरर्थकैः कतिपयै रूक्षाक्षरैर्निर्मितां
वागीशप्रमुखस्तुतस्य भवतः कुर्यां स्तुतिं निस्त्रपः ॥ २ ॥

शश्वद्ब्रह्मशिवेन्द्रदेवगुरुवाग्देवीफणीन्द्रादिभिः
स्तुत्यस्यापि हरे ममास्तु रचिता वाणी विनोदाय ते ।
चित्रालङ्कृतिशालिभिः सुललितैर्नित्यं कवीनां स्तवैः
सम्राजः समुपासितस्य शुकगीर्धत्ते प्रमोदं यथा ॥ ३ ॥

चित्राकारकिरीटकोटिविलसद्रत्नौघकान्तिच्छटा-
सङ्घट्टेन विचित्रमम्बरतलं कुर्वत्स्थितं मूर्धनि ।
जीयात्केकिशिखण्डमण्डनमिदं नीलाचलस्थायिनी
स्वर्णाद्रेः शिखरे पुरन्दरधनुर्व्यूहस्य निन्दावहम् ॥ ४ ॥

यत्पादान्तनखांशुचिन्तनवशादज्ञानमन्धं तमो-
ऽप्यन्तं याति मुकुन्द तस्य भवतो ध्वान्तानि किं मूर्धनि ।
ज्ञातं त्वां दयितं समेत्यजलदा ये केशतामाश्रिता-
स्ते बद्धाश्चपलागणैः प्रणयजक्रोधात्किरीटच्छलात् ॥ ५ ॥

त्वच्चक्षुः सवितुः सरोरुहरुचेः साक्षात्कथं गण्डयो-
र्भाले च व्रजनाथ नर्तनपरा ध्वान्तार्भकाः सन्ततम् ।
निर्णीतं मुखनेत्रपङ्कजवनीमाध्वीकपानान्मुहु-
र्माद्यन्तो मधुपा भ्रमन्ति परितो वक्त्रालकव्याजतः ॥ ६ ॥

त्वद्भाले निकषोपले विजयते काश्मीरगोरोचना-
सम्भूतस्तिलकः परीक्षणविधौ किं हेमरेखोद्गमः ।
चाञ्चल्यं चपला विहाय जलदं किं वा समालम्बते
किं वा मारकतस्थले समुदितः कन्दर्पवृक्षाङ्कुरः ॥ ७ ॥

त्वद्भूवल्लिमिषेण कार्मुकलतामाकृष्य पुष्पाशुगः
कृत्वा चम्पककोरकं च तिलकव्याजेन बाणं हरे ।
लक्ष्यं कुन्तलनीलकण्ठमतुलश्रीचन्द्रकं विध्यति
प्रायः शत्रुसमाननाम्न्यपिजने क्रोधो यदूर्जस्विनाम् ॥ ८ ॥

निःशेषप्रमदामनोमनसिजक्रीडामहामन्दिर-
व्रीडावज्रकपाटिकाविघटनप्रौढाकृतिः कुञ्चिका ।
दुर्मानग्रहिलत्रिलोकमहिलामानच्छिदाकर्तरी
श‍ृङ्गारद्रुममञ्जरी स्फुरति किं गोविन्द ते भ्रूलता ॥ ९ ॥

नो कार्यं श्रुतिवर्त्मलङ्घनमिदं नालीकमुग्धाकृतिः
पर्यन्ताकलनं विधाय सहजस्वच्छेन भाव्यं सदा ।
अन्तः कृष्णमुपास्य तद्रुचिमता सम्भावना सर्वतः
कार्येत्यम्बुजलोचनाक्षियुगलं मानं दधौ ते सताम् ॥ १० ॥

सौन्दर्यामृतदीर्घ्हिके तव दृशौ पक्ष्मावलिश्चैतयोः
कूले कामकृषीवलेन रचिता श‍ृङ्गारसस्योन्नतिः ।
दृग्भङ्गीर्निगदन्ति यास्तु विबुधा रत्यम्भसां वीचय-
स्ताः स्युर्गोपवधूहृदम्बुजवनीदोलायिता यत्नतः ॥ ११ ॥

दूरे ब्रह्मशिवेन्द्रपूर्वदिविषद्वृन्दे नमस्कुर्वति
व्यावल्गद्व्रजबालकौघलगुडत्रुट्यत्किरीटे हठात् ।
सावज्ञा मधुमत्तसुन्दरदृशां शोभाद्विषः सालसाः
दृक्पातास्तव नन्दवंशतिलक स्वान्ते सदा सन्तु मे ॥ १२ ॥

मुक्तेरप्यतिदुर्लभा हिमगिरिप्रस्यन्दिमन्दाकिनी-
धारातोऽप्यतिशीतलातिमसृणा चान्द्रान्मयूखादपि ।
वाञ्छातोऽप्यतिविस्तृता विषयिणां त्वत्पादचिन्तापर-
स्वान्तादप्यतिनिर्मला मयि कृपादृष्टिस्तवास्तां हरे ॥ १३ ॥

कल्पान्ताग्निशिखोन्नतिर्दितिसुतव्राते प्रपन्ने जने
पीयूषद्रवसिन्धुवृद्धिरमरस्तोमे विभूत्यायतिः ।
सीमा प्रेमभरस्य गोपनिकरे कन्दर्पकाण्डाहति-
र्ब्रह्माण्डोदरसुन्दरीहृदि हरे जीयाद्दृशोस्ते द्युतिः ॥ १४ ॥

निर्बन्धेन यदीन्द्रनीलमहसा सम्पादितौ दर्पणौ
ताभ्यां किं तुलना कपोलतलयोः सम्भाव्यते वा न वा ।
एवं ज्ञातुमुपागते श्रुतिपथं नेत्रे त्रपाकुञ्चिते
शङ्के द्वैधवती त्वदीयवदनप्रान्तश्रियं पश्यतः ॥ १५ ॥

त्वां पादाङ्गदकङ्कणाङ्गदशिरोलङ्कारहाराम्बरैः
सम्पूज्य प्रददौ सुतामथ मणिं रत्नाकरः कौस्तुभम् ।
आस्ये तस्य सुतः सुधांशुरखिलां कान्तिं यदा दत्तवा-
न्स्वाकारं व्यतरंस्तदैव मकराः किं कुण्डलान्तस्तव ॥ १६ ॥

लावण्यामृतवाहिनी तव मुखस्येयं मनोज्ञाकृति-
स्तस्यामद्भुतबुद्बुदः समभवत्तत्रापि फेनोद्गमः ।
नासावंशगतं तमेव विशदं मुक्ताफलं ये विदु-
स्ते मान्या मधुसूदन त्वयि मनोवृत्त्यैव धन्या यतः ॥ १७ ॥

नेत्राम्भोजमुखेन्दुभालतिलकैर्नित्यं विवादो यतः
सौन्दर्यार्थमिति प्रतीत्य विधिना सीता कृता नासिका ।
तूणी वा कुसुमायुधस्य नृपतेर्यन्मल्लिकाकोरकः
काण्डस्तत्र चकास्ति मौक्तिकफलव्याजेन नन्दात्मज ॥ १८ ॥

योऽहं ते पदपङ्कजद्युतिलवं प्राप्याभवं पल्लवः
कल्पक्ष्मारुहमस्तकाभरणतां यातश्च राधापते ।
तं मां निन्दति बिम्बविद्रुमलताश्रीतस्करोऽयंश्रुता-
वेवं जल्पितुमागते किसलये स्थानेऽधरो रागवान् ॥ १९ ॥

दृग्भङ्गीः स्फुरदिन्द्रनीलनिचयः पक्ष्माणि कस्तूरिका
जिह्वेयं तव पद्मरागनिकरः शोणाधरो विद्रुमः ।
दन्ताली गजमौक्तिकानि मधुजिन्मन्दस्मितं चन्दनं
पण्यस्थानमिदं मनोजवणिजो जाने तवास्ते मुखम् ॥ २० ॥

या रक्ता वदनेन्दुमण्डलगतं माधुर्यमुच्चैस्तरा-
मास्वाद्येह सरस्वती स्थितवती सत्यं रसज्ञेव सा ।
यत्सप्तस्वरमण्डलानि बहुधा त्वत्कण्ठदेशाद्बहिः
प्रादुर्भूय मुदं श्रुतौ सुकृतिनां यच्छन्ति नन्दात्मज ॥ २१ ॥

साम्यं त्वद्वदनस्य वाञ्छति विधुर्दोषाकरो यद्यपि
क्षिप्तोऽप्यम्बुनि पद्मरागशकलो दन्तच्छदं स्पर्धते ।
दृष्ट्वैवं कुशलः कुशेशयभवः क्लेशाद्यशोदात्मज
व्यक्तं त्वच्चिबुकं तथैव विदधे यत्तुल्यता न क्वचित् ॥ २२ ॥

माधुर्यं न लवं मधूनि दधति द्राक्षा तु साक्षाद्विषं
पीयूषान्यपि यान्ति निम्बसमतां के दुग्धखण्डादयः ।
प्रालेयानि न शीतलानि सरसं नो कोकिलाकूजितं
गोधुग्वंशवतंस जातु जयति त्वद्वाग्विलासोदये ॥ २३ ॥

वेदाश्चन्द्रमसं वदन्ति भवतः स्वान्तं कथं तद्वृथा-
कुर्वन्त्यत्र विवादमात्रकुशला गोविन्द नन्दादयः ।
तस्यैवामृतपङ्किलास्तव मुखादाविर्भवन्तो बहि-
र्ध्वान्तं यत्तिरयन्ति हन्त किरणा मन्दस्मितव्याजतः ॥ २४ ॥

यन्नामस्मरणादपि श्रवणतः प्रक्षीणरागाशया
यान्ति त्वत्परमं सदाशिवपदं यद्योगिनां दुर्लभम् ।
तस्याप्याननपङ्कजे तव जयत्युच्चैस्तरां रागिता
येनाभीरकुलप्रदीप तदलं ताम्बूलमास्तां मुदे ॥ २५ ॥

पीयूषद्रवसारसारघमधुद्रोणी त्वदीयाधरा-
स्वादायार्कसुतातटे श्रितवती सद्वंशजाता तपः ।
तत्पुण्यैर्मुरलीमिषेण रसिका माधुर्यमुच्चैस्तरा-
मास्येन्दोरनुभूय गोकुलपते गीतामृतं मुञ्चति ॥ २६ ॥

साफल्यं श्रुतिसम्पदां त्रिजगतां प्रालेयधाराप्रपा
पीयूषद्रवमाधुरी परिभवक्लेशाम्बुधेः शोषणम् ।
ब्रह्मानन्दतिरस्कृतिः कुलवधूधैर्याद्रिवज्राहतिः
कंसध्वंसन शंस किं न भवतो वंशीनिनादोदयः ॥ २७ ॥

धैर्यं धिक्कुरुते त्रपां विचिनुते कौलं यशः प्रोञ्छति
प्रत्येकं गुरुवर्गगञ्जनशतं विस्मारयत्यञ्जसा ।
साध्वीनाम निराकरोति भवनं भर्तुर्विधत्ते विषं
किं किं नो विदधाति हन्त सुदृशां वंशीनिनादस्तव ॥ २८ ॥

लावण्यैरखिलैस्त्वदास्यमुकुरं निर्माय घाता चिरा-
न्मुष्टिं मारकतं विधाय तदधः कण्ठस्थलव्याजतः ।
ध्यायं ध्यायमशेषवस्तुसुषमाधाराय रेखात्रयं
ब्रूते नास्ति बभूव नो न भविता सौन्दर्यमेतादृशम् ॥ २९ ॥

आशानागकरप्रसारिमहसा निःशेषवामभ्रुवा-
माशाभिस्त्रिदशेशनिर्भरशुभैः कंसादिनाशश्रिया ।
प्रेम्णा नन्दयशोदयोस्तनुजुषां निःसीमभाग्यैर्दृशां
सौभाग्यैर्व्रजसुभ्रुवां व्रजपते किं ते भुजौ निर्मितौ ॥ ३० ॥

कं यस्मादलमभ्युदेति भवतः सर्वाङ्गमेतादृशं
साम्यं वा भजतां कथं जलरुहे सर्वज्ञमध्यस्यतोः ।
मत्तर्कः पुनरत्र गोकुलपते त्रैलोक्यलक्ष्मी यत-
स्त्वत्पाण्योरिति तौ वदन्ति कमले सा यत्तदेकालया ॥ ३१ ॥

अङ्गुल्यस्तव हस्तयोर्मुरहर प्रायो रसालाङ्कुर-
श्रेणी यत्परितोऽङ्गुलीयकमिषस्निग्धालवालावलिः
किं वा पञ्चशरप्रचण्डतपसा पञ्चाशुगाः पञ्चतो-
त्तीर्णाः सत्फलिनः पुनर्भवरुचा पुष्णन्ति नेत्रोत्सवान् ॥ ३२ ॥

भक्तानुग्रहकातरेण भवता कृत्वा नृसिंहाकृतिं
रागान्धस्य पुरा हिरण्यकशिपोर्वक्षस्थली पाटिता ।
तेनाभूत्तव पाणिपङ्कजयुगे रागः स राधापते
गोपीनां कुचकुङ्कुमैर्द्विगुणितो नाद्यापि विश्राम्यति ॥ ३३ ॥

एतौ पञ्चशिरस्त्विषा दशदिशः सम्भावयन्तौ भृशं
दैत्यप्राणसमीरसंहतियमौ श्यामौ भुजङ्गोत्तमौ ।
तन्मौलिद्युतिशालिनी पुनरियं रत्नावली जृम्भते
यां प्राहुस्तव गोकुलेश नखरश्रेणीं करस्थां जनाः ॥ ३४ ॥

दोर्दण्डद्वयबन्धनानि विदधुर्नन्दोपनन्दादय-
स्तद्ग्रन्थित्रुटिशङ्कयातिचकिता गोवर्धनोद्धारणे ।
तान्येवाप्रतिमप्रभाणि हरितो विद्योतयन्त्यद्भुतं
विद्वांसस्तव कङ्कणाङ्गदतया गोविन्द यज्जानते ॥ ३५ ॥

श‍ृङ्गारद्रुमसारकण्डनवशात्त्रैलोक्यसीमन्तिनी-
क्रीडामन्दिरमण्डनाय विधिना स्तम्भौ प्रलम्बौ कृतौ ।
तन्मध्ये पुनरिन्द्रनीलमणिभिः सम्पादिता वेदिका
तौ बाहू मधुजिद्वदन्ति भवतो वक्षःस्थलीं तामपि ॥ ३६ ॥

यद्रक्तः कमलाकरं करतलेनालम्बते भास्कर-
स्त्वच्चक्षुर्मुखपाणिपादकमले जातस्ततः शोणिमा ।
तन्मित्रं पुनराकलय्य स धृतः कण्ठे त्वया कौस्तुभ-
व्याजेनेति मुकुन्द मादृशि जने तर्कः समुज्जृम्भते ॥ ३७ ॥

आलोक्याखिलवेदशास्त्रजलधेस्तत्त्वं यदेकान्ततः
कृत्वा सङ्कलितं स्वकीयनिलये क्षीराब्धिमध्ये धृतम् ।
सर्वार्थप्रतिभासकं व्रजकुलालङ्कार तत्कौस्तुभ-
व्याजाद्विस्मृतिशङ्कयेव भवता कण्ठे कृतं साम्प्रतम् ॥ ३८ ॥

यात्वा विष्णुपदं समाश्रितवती नक्षत्रमाला स्फुर-
द्दीप्तिर्योग्यमिदं कथं मुररिपो नक्तन्दिनं द्योतते ।
आं ज्ञातं दयितं तवाननविधुं यान्तीमिमां यामिनी
रोमश्रेणिमिषात्ततो धृतवती ज्ञात्वा सप्त्नीमियम् ॥ ३९ ॥

यः पाशेन यशोदया नियमितो येनापराधं विना
तस्मिन्नस्ति वलिस्त्रिधा मयि पुरः सोऽयं बलिध्वंसिनः ।
एवं चिन्तनतत्परः कृशतरस्त्वन्मध्यदेशो भृशं
याशोदेय स शोकमुद्गिरति ते रोमावलिव्याजतः ॥ ४० ॥

सृष्ट्यादौ प्रकृतिर्गुणत्रयमयी या स्वीकृताऽऽसीत्त्वया
सेयं सत्त्वमयी सुखाय जगतां हाराकृतिस्ते भुवि ।
गुञ्जादाममिषान्मुकुन्द दधती रागाद्रजोविग्रहं
नाभीसीम्नि तमोमयी पुनरियं रोमावली राजते ॥ ४१ ॥

सौन्दर्यामृतवारिधौ स्मरमहायादःसमारम्भतः
सम्भूता भ्रमिरम्भसां सुललिता जातास्ततो वीचयः ।
तां जाने स्फुरदिन्द्रनीलघटितश्रीसम्पुटार्धद्युतिं
त्वन्नाभीमपि तां वलित्रयमिति श्यामाभिरामाकृते ॥ ४२ ॥

नीलाम्भोरुहवल्लिरुल्लसति ते नाभीसरस्यां ध्रुवं
यच्छ्रीवत्समिषाद्बिभर्ति कुसुमं नालं च रोमावली ।
यं वा वक्षसि कौस्तुभं बुधजना जानन्ति नन्दात्मज
प्रायः सोऽप्यनुराग एव भविता त्रैलोक्यवामभ्रुवाम् ॥ ४३ ॥

नीरूपोऽपि घनद्युतिर्मुनिमनोमात्रैकपात्रीकृतो-
ऽप्याभीरीगणसङ्गतः सुखघनोऽप्यानन्दितो बन्धवैः ।
ज्ञानात्माप्यतिमुग्धतामुपगतो वामभ्रुवां विभ्रमै-
रित्थं ते त्रिवलीमिषान्मुरहर त्रय्यस्ति चित्रार्पिता ॥ ४४ ॥

देव्यः पल्लवसम्पदा विदधते सौभाग्यलक्ष्मीं श्रुतौ
स्वच्छन्दं सुमनःफलानि विबुधा विन्दन्ति ते सेवया ।
वेदेनापि निगद्यते मुरहर त्वं भक्तकल्पद्रुमः
प्रायः कल्पलता ततः श्रितवती त्वां वैजयन्तीछलात् ॥ ४५ ॥

विश्वानन्दकदम्बसम्पदमतिस्निग्धं तमालद्युतिं
दृष्ट्वा निर्भरविभ्रमं घन इति त्वां सङ्गता विद्युतः ।
त्वद्रूपामृतसिन्धुसङ्गमवशात्प्राप्याम्बरप्रच्यवं
चाञ्चल्यात्किमु नन्दनन्दन भवत्पीताम्बरत्वं दधुः ॥ ४६ ॥

काञ्ची ते धृतयोगसम्पदभितो जाता विशालाकृति-
र्यावन्ती मधुरा ध्वनिं विदधती पश्चादयोध्याभवत् ।
मायाद्वारवती शिवाधिवसतिः सा काशिका दृश्यते
तच्चित्रं न वदामि माधव यतस्त्वां सा सदा संश्रिता ॥ ४७ ॥

जानीमः सहजां त्वदङ्गमिलितामालोक्य पद्मालयां
तत्सङ्गस्थितिभङ्गकातरतमौ कल्पद्रुमैरावतौ ।
आद्यः पल्लवसम्पदं करपदे बिम्बाधरे चापरः
शुण्डादण्डगुणं तवोरुयुगले येनादधे माधव ॥ ४८ ॥

रम्भास्तम्भयुगं न तद्यदुपरि स्थूलं तथोरुद्वयं
तूणीरौ मकरध्वजस्य सुमनोमोदेन विद्मो वयम् ।
हा कष्टं मधुकैटभौ स्फुटमदौ किं कैटभारे हठा-
न्निष्पिष्टौ शतकोटिकोटिकठिनौ तस्मिन्स्थले कोमले ॥ ४९ ॥

स्तम्भद्वैतमिदं पयोनिधिसुतागेहस्य मन्दाकिनी-
स्यन्दामन्दमरन्दिताङ्घ्रिकमलद्वन्द्वस्य नालायुगम् ।
त्वज्जङ्घायुगलं विमुक्तिकलशीनिर्माणदण्डद्वयं
सम्पत्तिद्विपसङ्घयन्त्रणविधावालानयुग्मं भजे ॥ ५० ॥

विद्वान् सोऽपि कथं कठोरकमठीपृष्ठेन तुल्यं वद-
न्नीदृक्पादयुगं कथं नु कमलावक्षोजशैले दधत् ।
धिङ्मन्दां वसुधामिदं मधुरिपो गोचारणे सञ्चरत्-
पाषाणाङ्कुरकण्टकादिषु हठाद्दृष्ट्वा विदीर्णा न यत् ॥ ५१ ॥

यद्रत्नौघमरीचयोऽपि समताव्यावर्तनं विश्वतः
कृत्वा दिग्वलयं भ्रमन्ति महिता नादैर्मधुस्यन्दिभिः ।
यच्च ब्रह्मशिवेन्द्रवन्दितपदद्वन्द्वोपरि द्योतते
तत्कृष्णस्य पदाङ्गदद्वयमतः किं वर्ण्यतां मादृशैः ॥ ५२ ॥

शेते यत्कमलालया तव पदाम्भोजद्वये संगता
धाता तत्र तनूपधान्युगलं गुल्फच्छलान्निर्ममे ।
किं वा मन्मथकारुणा विरचिते तस्या मुदे कन्दुके
सा यत्क्रीडति पाणिपङ्कजतले कृत्वा सखीभिः सह ॥ ५३ ॥

या रक्ता दशलोकपालमुकुटप्रान्तत्विषः सन्ततं
कल्पक्ष्मारुहपुष्पसम्भृतरुचस्त्वत्पादमूले बभुः ।
ता दीव्यन्नखराञ्चिताङ्गुलितया जानन्ति सत्यं जनाः
स्वस्मिन्नेव सदाधरेण दधते लेखा यदूर्ध्वश्रियम् ॥ ५४ ॥

पीयुषद्युतिबिम्बमम्बरतले विद्योतमानं पुरः
प्रेक्ष्योत्फुल्लदृशा त्वया मुहुरिदं देहीति यद्भाषितम् ।
तन्मन्ये तव पङ्कजेक्षण महच्चित्रं यशोदार्थनं
यत्त्वत्पादसरोजयोर्नखमणिव्याजेन शीतांशवः ॥ ५५ ॥

सत्यं यद्विबुधा वदन्ति पदयोर्द्वन्द्वं तवाम्भोरुहे
गोधूलिच्छलतः स्थितानि परितो हंसालिचेतांस्यलम् ।
पीत्वैतन्मकरन्दबिन्दुमसकृद्वृन्दावनीभूपते
मञ्जीरद्वयमञ्जुशिञ्जितमिषादञ्चन्ति यत्पञ्चमम् ॥ ५६ ॥

आकृप्याखिलवस्तुतः प्रथमतो रागं मुनीन्द्रैस्ततः
कृत्वा मानसपङ्कजे तव पदद्वन्द्वं स तस्मिन्धृतैः ।
येनास्मिन्नरविन्दलोचन पुनस्तत्केसराणां द्युति-
स्तोमेनापि समञ्चितः समुदयत्युच्चैस्तरां शोणिमा ॥ ५७ ॥

हंसास्त्वामुपनीय मानससरोजन्मप्रदेशेऽनिशं
क्रीडन्तः कमलालयेन भवता सार्धं प्रमोदं दधुः ।
स त्वं लोचनलोहिताधरपदद्योतः श्रितो हंसतां var लोहितलोचना
तत्सम्पर्कवशादिति व्रजकुलालङ्कार शङ्कामहे ॥ ५८ ॥

क्षुद्रात्मा नितरां किमुन्नततरः काठिन्यवान्निर्भयं
किं या केवलकोमलः श्रयति चेत्किञ्चिन्मदीयं पदम् ।
धन्यः सोऽयमितीव लोकमखिलं सम्बोधयन्माधव
त्वं धत्से पदयोर्यवं ध्वजवरं दम्भोलिमम्भोरुहम् ॥ ५९ ॥

त्वां नित्यं समुपास्य दास्यविधया स्थास्याम इत्याशया
ब्रह्मेन्द्राद्यमरैस्त्वदीयपदयोः स्वीया धृताः सम्पदः ।
तासामङ्कुशनीरजाशनिलसच्छत्रध्वजाद्याकृतिं
बिभ्राणा विजयश्रियं त्रिजगतां वन्द्यारविन्दालया ॥ ६० ॥

त्वत्पादाम्बुजसङ्गमात्त्रिजगतां वन्द्यारविन्दालया
स्थाने स्थानगुणाद्भवन्ति हि जनाः प्रायः पदं सम्पदाम् ।
किं त्वेकं शतपत्रलोचन महच्चित्रं यदस्मादधः
पाता पुण्यतमा विमुक्तिनगरीनिःश्रेणिका स्वर्धुनी ॥ ६१ ॥

यत्पादाम्बु विधाय मूर्धनि चितावासः शिवत्वं हठा-
त्प्राप्तो भक्षितकालकूटनिकरो मृत्युजयत्वं ययौ ।
दिग्वासा नृकपालमात्रविभवश्चाविन्ददीशानतां
स त्वं नन्दसि यस्य मन्दिरगतो नन्दाय तस्मै नमः ॥ ६२ ॥

धूलीधूसरितं मुखं तव शरत्पूर्णेन्दुनिन्दावहं
व्यालोलालककुण्डलद्युति चलन्नेत्रश्रिया प्रोल्लसत् ।
यालोक्यार्द्रविलोचना स्मितमुखी प्रस्यन्दमानस्तनी
पाणिभ्यामवलम्ब्य चुम्बितवती तां नन्दजायां भजे ॥ ६३ ॥

पीत्वा स्तन्यविषं सहासुपवनैः सम्पातिते पूतना-
देहे वै भवता जनार्दन तृणावर्ते च नीते क्षयम् ।
राहून्मुक्तसुधामयूखसुषमा यादृक्चकोरालिभि-
र्याभिस्त्वद्वदनद्युतिश्चुलुकिता ता गोपकन्याः स्तुमः ॥ ६४ ॥

यद्बन्धस्य विधित्सयापि विवशः कीनाशपाशैर्दृढं
बद्धः सानुगपुत्रबान्धवजनो दुर्योधनोऽन्तं गतः ।
तं त्वां येन निबध्य नन्ददयिता वृन्दारकैर्वन्दिता
जाताऽऽनन्दमयी मुकुन्द महते भावाय तस्मै नमः ॥ ६५ ॥

निर्भिन्ने यमलार्जुनेऽतिचकितास्तूर्णं गृहान्निर्गताः
पीत्वा दृक्चषकैस्त्वदक्षततनूरूपामृतं निर्वृताः ।
त्वामादाय विधाय नेत्रसलिलैः सिक्तं त्वरामाश्रिता
ये वृन्दावनमागताः कृतधियस्तान्गोपवृद्धान्स्तुमः ॥ ६६ ॥

कृत्वा कालियदन्दशूकदमनं त्वय्यास्थिते ताण्डवं
तस्योत्तब्धसमस्तमस्तकमणिस्तोमे समुत्तस्थुषि ।
येनालम्भि विभातभास्करसुरप्राग्भारशोभास्फुर-
द्रत्नाम्भोजयुगद्युतिः प्रतिपदं तत्तेऽङ्घ्रियुग्मं भजे ॥ ६७ ॥

उत्फुल्लैः परिपीय कर्णपुटकैर्वंशीनिनादामृतं
तच्च घ्राणमुदस्य दत्तकवलं प्रोद्भिन्नरोमाङ्कुरम् ।
निःस्पन्दैर्नयनैरमन्दमधुरैः श्यामं महस्तावकं
येनोद्वीक्षितमम्बुजेक्षण भजे तद्गोकदम्बं तव ॥ ६८ ॥

जम्मारेः स्फुरदायुधस्य भवता दम्भाद्रिविद्रावणं
कृत्वा वामभुजेन सप्तदिवसान्योऽसौ धृतः पर्वतः ।
सोऽस्तु स्निग्धतमालसारघटितस्तम्भैकसम्भावित-
प्रासादद्युतिनिन्दकः प्रतिपदं भव्याय गोवर्धनः ॥ ६९ ॥

त्वद्बाहूद्धृतपर्वतार्पितदृशः प्रेक्ष्य प्रियायाः स्खल-
द्वासःपीनपयोधरक्षितिधरौ दोःस्तम्भकम्पे तव ।
शैले चञ्चलतां गते व्रजपते त्रासाकुले गोकुले
नन्दे मन्दमुखद्युतौ जयति ते मन्दाक्षमन्देक्षणम् ॥ ७० ॥

पौगण्डं मदखण्डनं बलभिदः किं ते हरे स्तूयते
कौमारं चरितं यतो विजयते व्यामोहनं ब्रह्मणः ।
किं स्तव्यं तव यौवनं त्रिपुरजिद्यद्बाणयुद्धे जितः
सम्मोहं गमितास्त्वया यदबला भावेऽपि नेत्रश्रिया ॥ ७१ ॥

पीते दावहुताशने निजजनत्राणैकहेतोस्त्वया
निःस्पन्दं पशुपौघपक्षिपशुभिः पेपीयमाने त्वयि ।
प्रेमार्द्राण्यतिनिर्मलानि दिविषच्चित्तानि सत्यं मुहु-
स्त्वद्गात्रे नु वितीर्यमाणकुसुमव्याजेन भान्ति प्रभो ॥ ७२ ॥

कङ्केल्लिस्तबकं मुहुः कमलिनीकान्तं प्रतीचीगतं
पर्यालोच्य विलोक्य धूमपटलं गोधूलिबुद्ध्याकुलाः ।
उच्चैः कोकिलकूजितं च मुरलीनादं विदित्वा गृहा-
त्त्वां या वीक्षितुमागताः पथि गवां गोपाङ्गनास्ताः स्तुमः ॥ ७३ ॥

सायाह्ने समुदञ्चति श्रुतिपथं वंशीनिनादे हठा-
न्नेपथ्यस्य समापनेन शपथैरालीजनैः प्रार्थिते ।
पाणिभ्यामवलम्ब्य नीविरशना निर्गम्य तूर्णं बहि-
र्दृग्भ्यां ते मुखसौरभं चुलुकितं याभिर्भजे ता जनीः ॥ ७४ ॥

यत्राघासुरकेशिधेनुकबकारिष्टप्रलम्बादयः
क्रोधाग्नौ भवता हुता दितिसुताः सन्तर्पिता देवताः ।
यस्मिंस्ते पदपङ्कजद्वयरजः पद्मोद्भवप्रार्थितं
भेजुर्गोमृगपक्षिभूरुहलता वृन्दावनं तद्भजे ॥ ७५ ॥

देवेन्द्रस्य पराभवं किमपरं व्यामोहनं ब्रह्मणः
सम्पश्यन्नपि वैभवं व्रजकुलोत्तंस प्रचेतास्तव ।
नन्दं यत्पितरं जहार भवतः स्थाने जलात्मन्यदः
स्थाने तादृशि ते बभूव न मनाक्क्रोधस्य लेशोऽपि तत् ॥ ७६ ॥

मञ्जीरद्वयकङ्कणावलिलसत्काञ्चीघटाशिञ्जिते
वीणावेणुमृदङ्गझर्झरकरोत्ताले दिशश्चुम्बति ।
कामं पूर्णकलानिधौ विलसति भ्रश्यत्पटे स्वर्वधू-
वृन्दे वर्षति दैवते सुमनसो रासस्तवास्तां मुदे ॥ ७७ ॥

नृत्यद्भ्रूनयनोत्पलस्मितमुखस्विद्यत्कपोलस्थलं
लीलाचञ्चलकुण्डलं भुजलतान्दोलक्वणत्कङ्कणम् ।
त्रुट्यत्कञ्चुकबन्धमुन्नतकुचं तिर्यक्त्रिकं प्रस्खल-
न्नीवि व्यञ्जितशिञ्जितं जयति ते रासः प्रियाभिः सह ॥ ७८ ॥

आकुञ्चद्वदनं क्वचिद्विलसिताम्भोजास्यशोमं क्वचि-
न्मन्दस्यन्दिविलोचलं क्वचिदलं दृक्चापलं कुत्रचित् ।
क्वाप्युद्दाममदान्धसिन्धुरगतं कुत्रापि विदुल्लता-
चाञ्चल्यं स्मरवर्धनं विजयते लास्यं प्रियाणां तव ॥ ७९ ॥

अध्यास्योरुतलं वपुः पुलकितं स्विद्यत्कपोलस्थलीं
दोर्वल्लीमपि तावकांसमिलितां कम्पाकुलां बिभ्रति ।
प्रोद्यत्पूर्णकलानिधावरुचिरे स्मेरे मुहुःसीत्कृते
राधा धन्यतमा दधार वदने ताम्बूलकल्कं तव ॥ ८० ॥

यस्यां तुङ्गतरङ्गसङ्गमवशाद्भीता भुजङ्गभ्रमा-
दालिङ्गति वराङ्गनास्तव जलक्रीडाजुशोऽङ्गं हठात् ।
सा नित्यं दलितेन्द्रनीलनिकरश्रीतस्करा भास्कर-
स्यापत्यं तटिनी शिवं दिशतु मे गोपालभूपालज ॥ ८१ ॥

उत्फुल्लाम्बुजमाकलय्य दयितास्मेराननं विभ्रम-
द्भृङ्गश्रेणिमनङ्गभङ्गुरदृशस्तस्याः कटाक्षच्छटाम् ।
शैवालं परिगृह्य कुन्तलधिया द्राक्चुम्बनायोद्यत-
स्त्वं यस्यां हसितः प्रियाभिरभितस्तां भानुकन्यां भजे ॥ ८२ ॥

पुष्पं त्वय्यवचिन्वति प्रियतमावृन्देन सार्धं मुदा
वृन्दारण्यमहीरुहस्य निकरे कम्पाकुले निर्भरम् ।
तस्मिन्वर्षति कौतुकेन कुसुमान्युच्चैः पुनर्दैवत-
स्तोमेऽपि व्रजभूपते विजयते तैस्तैश्चितं ते वपुः ॥ ८३ ॥

कान्ताकोटिकलाकुलस्य भवतः सन्तोष्य रासे स्मर-
क्षीणां वीक्ष्य निशां निशाकरकरस्तोमे परं मुञ्चति ।
सातङ्कं समुपागतस्य सदनाद्यान्तं शयाने जने
कीरस्यापि गिरा जयन्ति परितः पर्याकुला दृष्टयः ॥ ८४ ॥

उद्यन्नेव भवानिव व्रजभुवां सर्वापदां संहति-
ध्वान्तस्तोममनुत्तमं तमनयत्कान्तः सरोजन्मनाम् ।
सोल्लासानि सरोरुहाणि नयनानीव त्वदालोकने
लोकानां किल नन्दवंशतिलक स्वापस्य नायं क्षणः ॥ ८५ ॥

मित्रेणेह तमस्विनीं विनिहतां नाथ त्वया पूतनां
व्याधूतामिव कैरवेष्वपि भवद्विद्वेषिवक्त्रद्युतिम् ।
आशां पश्य पुरन्दरस्य दयितां रक्ताम्बरालङ्कृतां
सिन्दूरान्वितकुम्भमम्बरमणेर्बिम्बं वहन्तीं पुरः ॥ ८६ ॥

गीतज्ञाः कवयो नटा बहुकलाशिक्षासु दक्षाः परे
विप्रेन्द्राः कुशपाणयोऽपि भवनद्वारेषु सन्त्युत्सुकाः ।
तल्पं मुञ्च ददस्व लोचनफलं त्वं देहभाजामिति
प्रातर्वन्दिगिरो जयन्ति भवतः सम्बोधने नित्यशः ॥ ८७ ॥ (विशेषकम्)
भानोर्मण्डलमाविरस्ति पुरतो नाद्यापि निद्राहतिः
किं ते तात बलानुजेति जननीवाग्वीचिमाचामतः ।
अर्धोन्मीलितपाटलाक्षियुगलं पर्यस्तनीलालकं
जृम्भारम्भविशेषशोभि वदनाम्भोजं भजामस्तव ॥ ८८ ॥

मुञ्चन्तं शयनं भवन्तमभितः सङ्गम्यगोपाङ्गना-
स्तैलाभ्यञ्जनमञ्जनादि दधतीः संवीक्ष्य देव्यश्चिरम् ।
उज्झन्त्यः सुमनोऽम्बराणि सुमनोभावा वरं सङ्गताः
प्रायो गोपवधूत्वलब्धिमनसैवाकाशसाम्यं दधुः ॥ ८९ ॥ var भूयो
प्रातर्भोजनमारचय्य विपिनं प्रस्थातुकामे त्वयि
प्रायो गोपवधूलतासु मिलितः कन्दर्पदावानलः ।
यद्गोधूलिमिषादुदेति परितो धूमालिरभ्रंलिहा
तासामश्रुरसाः स्रवन्ति च मुहुर्दन्दह्यमानेऽन्तरे ॥ ९० ॥

पञ्चास्ये चतुरानने दशशतीनेत्रादिपूर्वे गवा-
मध्वन्यध्वनि लोकपालनिवहे भूमीलुठन्मूर्धनि ।
तद्व्याघ्राजिनभूषणादिभिरलं त्रस्ते समस्ते पशौ
गोपाः कोपवशाद्गृहीतलगुडा हीहीरवाः स्युर्मुदे ॥ ९१ ॥

तिग्मांशौ तपति क्वचिज्जलमुचां स्तोमे जलं मुञ्चति
प्रेमार्द्रः प्रतनोति यः स्ववपुषा चित्रातपत्रं तव ।
सोऽयं भास्करकोटिभास्वरमहःसम्भारपाटच्चरः
पारीन्द्रोऽसुरदन्तिनां दिशतु में भव्यं भुजङ्गान्तकः ॥ ९२ ॥

मध्याह्ने यमुनातटे विटपिनां मूले वयस्यैः समं
दध्यन्नान्युपभुज्य रज्यति पुनस्तत्क्रीडने च त्वयि ।
देवेन्द्रस्त्रिपुरान्तकः कमलभूरन्ये च नाकालयाः
काकाकारजुषो मुहुः कवलयन्त्युच्छिष्टमिष्टं तव ॥ ९३ ॥

निद्राणे त्वयि शीतले तरुतले तल्पै दलैः कल्पिते
संवीक्ष्याम्बुजपत्रमन्दमरुता संवाहिते पादयोः ।
रुद्रब्रह्ममहेन्द्रतर्जनविधौ गोपार्भकाणां कर-
व्याधूतानि जयन्ति भङ्गुरदृशां कान्तिश्च शोणायिता ॥ ९४ ॥

स्फूर्जन्तस्तपसा पुलस्त्यपुलहागस्त्याः सदुर्वाससः
सन्त्युच्चैर्यशसः परेऽपि स परं धन्यो मुनिर्नारदः ।
यस्य त्वद्गुणगानमग्नमनसो व्यापादिते केशिनि
प्रालेयाद्रिविनिःसृतामरधुनीधारायतेऽस्रावलिः ॥ ९५ ॥

लक्ष्माणि ध्वजवज्रपङ्कजयवच्छत्रोर्ध्वलेखायुता-
न्यालक्ष्म्याम्बुरुहाक्ष ते चरणयोः क्षोणीतलेऽह्नाय यः ।
ध्यायत्त्युत्पुलकत्युदञ्चति लुठत्याक्रन्दति प्रीयते
कोऽन्यो धन्यतमस्ततस्त्रिभुवने स्याद्गान्दिनीनन्दनात् ॥ ९६ ॥

धन्यं तस्य जनुस्तथैव पितरौ धन्यं तदीयं कुलं
धन्या तेन वसुन्धरा किमधिकं तेनैव धन्यं जगत् ।
यः कंसैकनिदेशवर्त्यपि भवत्पादाम्बुजालोकना-
दक्रूरोऽश्रुनिरुद्धकण्ठकुहरः प्रेमाब्धिमग्नोऽजनि ॥ ९७ ॥

पर्यावृत्त्य पशूनशेषसखिभिः साकं त्वया स्वीकृते
गोपीलोचनपङ्कजालिनिचिते सायं गवामध्वनि ।
जीयासुर्दयिताननेषु नितरां साकूतनृत्याकुलाः
कालिन्दीसदृशाः स्मितेन सुरसास्त्वच्चक्षुषोः कान्तयः ॥ ९८ ॥

यो वाचो मनसोऽपि नैव विषयस्त्वं त्वां विधायात्मजं
याभ्यङ्गस्नपनाशनप्रभृतिभिः संलालयत्यन्वहम् ।
नो दानेन न चेज्यया न तपसा नो साङ्ख्ययोगादिभि-
र्यल्लभ्यं तदवाप गोपदयिता साऽऽस्तां यशोदा मुदे ॥ ९९ ॥

पूर्णे दानपतेर्मनोरथशतैः सार्धं प्रलम्बारिणा
तल्पे निन्दितदुग्धसिन्धुसुषमासारे त्वया स्वीकृते ।
सन्दष्टोष्ठमुदश्रु मर्दितकरं तच्चेष्टितं श‍ृण्वतः
कंसध्वंसमभीप्सतो जयति ते भ्राता समं मन्त्रणा ॥ १०० ॥

या संव्याप्य सुवर्णभूधरपदं जाता गिरीशार्चिता
स्वच्छा हंसकविप्रिया कमलमुद्गाम्भीर्यमभ्यञ्चति ।
येयं कृष्णपदाब्जभक्तिवसुधापातालमालम्बिता
सा तापं मम सर्वतः प्रशमयत्वानन्दमन्दाकिनी ॥ १०१ ॥

ये पाण्डित्यकवित्वसूनुधरणीधर्मार्थकामाणिमा-
दीशित्वेन्द्रपदाप्तिमोक्षमथवा वाञ्छन्ति भक्तिं हरौ ।
सम्भूतां मधुसूदनप्रपदतः सन्तो भजन्त्वादरा-
त्ते संसारदवाग्नितापशमनीमानन्दमन्दाकिनीम् ॥ १०२ ॥

इति श्रीमन्नन्दनन्दनपदद्वन्द्वसमुदञ्चन्नखचन्द्रचन्द्रिकाचय-
दत्तचित्तचकोरश्रीमधुसूदनसरस्वतीविरचितानन्दमन्दाकिनी सम्पूर्णा ॥

Add Comment

Click here to post a comment