Templesinindiainfo

Best Spiritual Website

Asitakrutam Shivastotram Lyrics in Marathi

Asitakrutam Shiva Stotram in Marathi:

॥ असितकृतं शिवस्तोत्रम ॥
असित उवाच ॥

जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च ।
योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥ 1 ॥

मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन ।
मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु ते ॥ 2 ॥

कालरूपं कलयतां कालकालेश कारण ।
कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥ 3 ॥

गुणातीत गुणाधार गुणबीज गुणात्मक ।
गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥ 4 ॥

ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ।
ब्रह्मबीज स्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥ 5 ॥

इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ।
दीनवत्साश्रुनेत्रश्च पुळकाञ्चितविग्रहः ॥ 6 ॥

असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत ।
वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥ 7 ॥

स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम ।
दरिद्रो भवेद्धनाढ्यो मूको भवति पण्डितः ॥ 8 ॥

अभार्यो लभते भार्यां सुशीलां च पतिव्रताम ।
इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम ॥ 9 ॥

इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ।
प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम ॥ 10 ॥

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे
असितकृतं शिवस्तोत्रं संपूर्णम ॥

Also Read:

Asitakrutam Shiva Stotram Lyrics in English | Gujarati | Bengali | Marathi |  Kannada | MalayalamTelugu

Asitakrutam Shivastotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top