Templesinindiainfo

Best Spiritual Website

Common Shlokas Used for Recitation Set 2 in Hindi

Common Shlokas for Recitation Set 2:

॥ श्लोक संग्रह २ ॥

सरस्वती नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥

Oh Goddess Sarasvati, my humble prostrations unto
Thee, who are the fulfiller of all my wishes.
I start my studies with the request that Thou wilt
bestow Thy blessings on me .

आकाशात् पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारान् केशवं प्रतिगच्छति ॥

दीपज्योतिः परब्रह्म दीपज्योतिर्जनार्दनः ।
दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तुते ॥

गणनाथसरस्वतीरविशुक्रबृहस्पतीन् ।
पंचैतान् संस्मरेन्नित्यं वेदवाणीप्रवृत्तये ।
सुमुखश्च एकदंतश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषं हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥

तदेव लग्नं सुदिनं तदेव
ताराबलं चंद्रबलं तदेव ।
विद्याबलं दैवबलं तदेव
लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ॥

कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यद् सकलं परस्मै
नारायणायेति समर्पयामि ॥

हरिर्दाता हरिर्भोक्ता हरिरन्नं प्रजापतिः ।
हरिः सर्वः शरीरस्थो भुङ्क्ते भोजयते हरिः ॥

कर्पूरगौरं करुणावतारं
संसारसारं भुजगेन्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे
भवं भवानीसहितं नमामि ॥

॥ श्रीरामायणसूत्र ॥

आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनम्
वैदेहीहरणं जटायुमरणम् सुग्रीवसम्भाषणम् ॥

वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनम्
पश्चाद्रावणकुम्भकर्णहननं एतद्धिरामायणम् ॥

॥ श्रीभागवतसूत्र ॥

आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनम्
मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् ॥

कंसच्छेदनकौरवादिहननं कुंतीसुतां पालनम्
एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥

॥ गीतास्तव ॥

पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम्
व्यासेनग्रथितां पुराणमुनिना मध्ये महाभारते
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीम्
अम्ब त्वामनुसन्दधामि भगवद्गीते भवेद्वेषिणीम् ॥

सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥

॥ व्यासस्तुती ॥

नमोस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः ॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमोवै ब्रह्मनिधये वासिष्ठाय नमोनमः ॥

॥ श्रीदत्तगुरुध्यानम् ॥

ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्तिं
द्वंद्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥

यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुवन्ति दिव्यैः स्तवैः
वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥

मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥

श्रीकेशवाय नमः । नारायणाय नमः । माधवाय नमः ।
गोविंदाय नमः । विष्णवे नमः । मधुसूदनाय नमः ।
त्रिविक्रमाय नमः । वामनाय नमः । श्रीधराय नमः ।
हृषीकेशाय नमः । पद्मनाभाय नमः । दामोदराय नमः ।
संकर्षणाय नमः । वासुदेवाय नमः । प्रद्युम्नाय नमः ।
अनिरुद्धाय नमः । पुरुषोत्तमाय नमः । अधोक्षजाय नमः ।
नारसिंहाय नमः । अच्युताय नमः । जनार्दनाय नमः ।
उपेन्द्राय नमः । हरये नमः । श्रीकृष्णाय नमः ।
॥ देवतावंदनम् ॥

श्रीमन्महागणाधिपतये नमः ।
श्री सरस्वत्यै नमः । श्रीगुरवे नमः ।
श्रीमातापितृभ्यां नमः ।
श्रीलक्ष्मीनारायणाभ्यां नमः ।
श्रीउमामहेश्वराभ्यां नमः ।
इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः ।
स्थानदेवताभ्यो नमः । वास्तुदेवताभ्यां नमः ।
सरेवेभ्यो देवेभ्यो नमो नमः ॥ अविघ्नमस्तु ॥

॥ ॐ तत्सत् इति ॥

Also Read Common Shlokas Set 2:

Common Shlokas Used for Recitation Set 2 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Common Shlokas Used for Recitation Set 2 in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top