Shataka

Devigitishatakam Lyrics in Hindi | Hindu Shataka

Devigiti Shatakam Lyrics in Hindi:

॥ देवीगीतिशतकम् ॥

श्रीगणेशाय नमः ॥

किं देवैः किं जीवैः किं भावैस्तेऽपि येन जीवन्ति ।
तव चरणं शरणं मे दरहणं देवि कान्तिमत्यम्ब ॥ १ ॥

अरुणाम्बुदनिभकान्ते करुणारसपूरपूर्णनेत्रान्ते ।
शरणं भव शशिबिम्बद्युतिमुखि जगदम्ब कान्तिमत्यम्ब ॥ २ ॥

कलिहरणं भवतरणं शुभभरणं ज्ञानसम्पदां करणम् ।
नतशरणं तव चरणं करोतु मे देवि कान्तिमत्यम्ब ॥ ३ ॥

अमितां समतां मम तां तनु तां तनुतां गतां पदाब्जं ते ।
कृपया विदितो विहितो यया तवाहं हि कान्तिमत्यम्ब ॥ ४ ॥

मम चरितं विदितं चेदुदयेन्न दया कदापि ते सत्यम् ।
तदपि वदाम्ययि कुरु तां निर्हेतुकमाशु कान्तिमत्यम्ब ॥ ५ ॥

न बुधत्वं न विधुत्वं न विधित्वं नौमि किं तु भृङ्गत्वम् ।
असकृत्प्रणम्य याचे त्वच्चरणाब्जस्य कान्तिमत्यम्ब ॥ ६ ॥

अभजमहं किं सारे कंसारे वीपदेऽपि संसारे ।
रुचिमत्तां शुचिमत्तामहह त्वं पाहि कान्तिमत्यम्ब ॥ ७ ॥

मामसकृदप्रसादाद्दुष्कृतकारीति माऽवमन्यस्व ।
स्मर किं न मया सुकृतं वर्धितमिदमद्य कान्तिमत्यम्ब ॥ ८ ॥

करुणाविषयं यदि मां न तनोषि यथा तथापि वर्तेऽहम् ।
भवति कृपालुत्वं ते सीदामि मृषेति कान्तिमत्यम्ब ॥ ९ ॥

अतुलितभवानुरागिणि दुर्वर्णाचलविहारिणि मयि त्वम् ।
समतेर्ष्यया प्रसादं न विधत्से किं नु कान्तिमत्यम्ब ॥ १० ॥

द्यां गां वाभ्यपतं यदि जीवातुस्त्वामृतेऽन्ततः को मे ।
हित्वा पयोदपङ्क्तिं स्तोकस्य गतिः क्व कान्तिमत्यम्ब ॥ ११ ॥

कं वा कटाक्षलक्ष्यं न करोष्येवं मयि त्वमासीः किम् ।
किं त्वामुपालभेऽहं विधिर्गरीयान् हि कान्तिमत्यम्ब ॥ १२ ॥

तनुजे जननी जनयत्यहितेऽपि प्रेम हीति तन्मिथ्या ।
यदुपेक्षसे त्रिलोकीं मातर्मां देवि कान्तिमत्यम्ब ॥ १३ ॥

निन्दामि साधुवर्गं स्तौमि पुनः क्षीणषड्गसंसर्गम् ।
वन्दे किं ते चरणे किं स्यात्प्रीतिस्तु कान्तिमत्यम्ब ॥ १४ ॥

गीर्वाणवृन्दजिह्वारसायनस्वीयमाननीयगुणे ।
निगमान्तपञ्जरान्तरमरालिके पाहि कान्तिमत्यम्ब ॥ १५ ॥

त्रिनयनकान्ते शान्ते तान्ते स्वान्ते ममास्तु वद दान्ते ।
कृपया मुनिजनचिन्तितचरणे निवसाद्य कान्तिमत्यम्ब ॥ १६ ॥

धुतकदने कृतमदने भृशमदने योगिशर्वभक्तानाम् ।
मणिसदने शुभरदने शशिवदने पाहि कान्तिमत्यम्ब ॥ १७ ॥

गिरितनुजे हतदनुजे वरमनुजेद्धाभिधे च हर्यनुजे ।
गुहतनुजेऽवितमनुजे कुरु करुणां देवि कान्तिमत्यम्ब ॥ १८ ॥

गजगमने रिपुदमने हरकमने कॢप्तपापकृच्छमने ।
कलिजनने मयि दयया प्रसीद हे देवि कान्तिमत्यम्ब ॥ १९ ॥

यन्मानसे पदाब्जं तव संविद्भास्वदाभयाऽऽभाति ।
तत्पाददासदासकदासत्वं नौमि कान्तिमत्यम्ब ॥ २० ॥

दुष्करदुष्कृतराशेर्न बिभेमि शिवे यदि प्रसादस्ते ।
दलने दृषदां टङ्कः कल्पेत न किं नु कान्तिमत्यम्ब ॥ २१ ॥

कोमलदेहं किमपि श्यामलशोभं शरन्मृगाङ्कमुखम् ।
रूपं तव हृदये मम दीपश्रियमेतु कान्तिमत्यम्ब ॥ २२ ॥

किञ्चनवञ्चनदक्षं पञ्चशरारेः प्रपञ्चजीवातुम् ।
चञ्चलमञ्चलमक्ष्णोरयि मयि कुरु देवि कान्तिमत्यम्ब ॥ २३ ॥

अञ्चति यं त्वदपाङ्गः किञ्चित्तस्यैव कुम्भदासत्वे ।
अहमहमिकया विबुधाः कलहं कलयन्ति कान्तिमत्यम्ब ॥ २४ ॥

किमिदं वदाद्भुतं ते कस्मिंश्चिल्लक्षिते कटाक्षेण ।
बृंहादीनां हृदयं दीनत्वं याति कान्तिमत्यम्ब ॥ २५ ॥

प्रायो रायोपचिते मायोपायोल्बणासुरक्षपणे ।
गेयो जायोरुबले श्रेयो भूयोऽस्तु कान्तिमत्यम्ब ॥ २६ ॥

करणं शरणं तव लसदलकं कुलकं गिरीशभाग्यानाम् ।
सरलं विरलं जयति सकरुणं तरुणां हि कान्तिमत्यम्ब ॥ २७ ॥

शङ्करि नमांसि वाणी किङ्करि दैतेयराड्भयङ्करि ते ।
करवै मुरवैर्यनुजे पुरवैर्यभिकेऽद्य कान्तिमत्यम्ब ॥ २८ ॥

तव सेवां भुवि के वा नाकाङ्क्षन्ते क्षमाभृतस्तनये ।
त्वमिव भवेयुर्यदि ते भजन्ति ये यां हि कान्तिमत्यम्ब ॥ २९ ॥

भवदवशिखाभिवीतं शीतलयेर्मां कटाक्षविक्षेपैः ।
कादम्बिनीव सलिलैः शिखण्डिनं देवि कान्तिमत्यम्ब ॥ ३० ॥

त्वद्गुणपयःकणं मे निपीय मुक्तेरलङ्क्रियां गिरतु ।
चेतःशुक्तिर्मुक्तां भक्तिमिषां देवि कान्तिमत्यम्ब ॥ ३१ ॥
गुणगणमहामणीनामागमपाथोधिजन्मभाजां ते ।
गुणतां कदा नु भजतां मम धिषणा देवि कान्तिमत्यम्ब ॥ ३२ ॥

पाटीरचर्चितस्तनि कोटीरकृतक्षपाधिराट्कलिके ।
वीटीरसेन कविताधाटीं कुरु मेऽद्य कान्तिमत्यम्ब ॥ ३३ ॥

तव करुणां किं ब्रूमस्त्वामप्येषानवेक्ष्य तूष्णीकाम् ।
ऊरीकरोति पापिनमपि विनतं देवि कान्तिमत्यम्ब ॥ ३४ ॥

ईशोऽपि विना भवतीं न चलितुमपि किं पुनर्वयं शक्ताः ।
किमुपेक्षसे प्रसीद क्षितिधरकन्येऽद्य कान्तिमत्यम्ब ॥ ३५ ॥

मन्मानसाम्रशाखी पल्लवितः पुष्पितोऽनुरागेण ।
हर्षेण च प्रसादाल्लघु तव फलिनोऽस्तु कान्तिमत्यम्ब ॥ ३६ ॥

ध्यानाम्बरवसतेर्मम मानसमेघस्य दैन्यवर्षस्य ।
पदयुगली तव शम्पा लक्ष्मीं विदधातु कान्तिमत्यम्ब ॥ ३७ ॥

कलितपनभानुतप्तं चित्तचकोरं ममातिशीताभिः ।
जीवय कटाक्षदम्भज्योत्स्नाभिर्देवि कान्तिमत्यम्ब ॥ ३८ ॥

ज्योत्स्नासध्रीचीभिर्दुग्धश्रीभिः कटाक्षवीचीभिः ।
शीतलयानीचीभिः कृपया मां देवि कान्तिमत्यम्ब ॥ ३९ ॥

रुष्टा त्वमागसा यदि तर्जय दृष्ट्यापि नेक्षसे यदि माम् ।
बाल इव लोलचक्षुः कं शरणं यामि कान्तिमत्यम्ब ॥ ४० ॥

विभवः के किं कर्तुं प्रभवः करुणा न चेत्तवान्तेऽपि ।
नोच्छ्वसितुं कृतमेभिस्त्वामीश्वरि नौमि कान्तिमत्यम्व ॥ ४१ ॥

जित्वा मदमुखरिपुगणमित्वा त्वद्भक्तभावसाम्राज्यम् ।
गत्वा सुखं जनोऽयं वर्तेत कदा नु कान्तिमत्यम्ब ॥ ४२ ॥

अखिलदिविषदालम्बे पदयुग्मं देवि ते सदाऽऽलम्बे ।
जगतां गोमत्यम्ब क्षितिधरकन्येऽद्य कान्तिमत्यम्ब ॥ ४३ ॥

अत्रैव कल्पवल्लीचिन्तामणिरस्ति कामधेनुरपि ।
वेद्मि न किं यदि बुधता पुंसा लभ्येत कान्तिमत्यम्ब ॥ ४४ ॥

नाहं भजामि दैवं मनसाप्यन्यत्त्वमेव दैवं मे ।
न मृषा भणामि शोधय मानसमाविश्य कान्तिमत्यम्ब ॥ ४५ ॥

खेदयसि मां मृगं किं मृगतृष्णेव प्रसीद नौमि शिवे ।
मोदय कृपया नो चेत्क्व नु यायां देवि कान्तिमत्यम्ब ॥ ४६ ॥

कार्यं स्वेन स्वहितं को नाम वदेदयं जनो वेत्ति ।
त्वं वा वदसि किमस्माद्गतिस्त्वमेवास्य कान्तिमत्यम्ब ॥ ४७ ॥

धन्योऽस्ति को मदन्यो दिवि वा भुवि वा करोषि चेत्करुणाम् ।
इदमपि विश्वं विश्वं मम हस्ते किं च कान्तिमत्यम्ब ॥ ४८ ॥

तरुणेन्दुचूडजाये त्वां मनुजा ये भजन्ति तेषां ते ।
भूतिः पदाब्जधूलिर्धूलिर्भूतिस्तु कान्तिमत्यम्ब ॥ ४९ ॥

त्वामत्र सेवते यस्त्वत्सारूप्यं समेत्य सोऽमुत्र ।
हरकेल्यां त्वदसूयापात्रति चित्राङ्गि कान्तिमत्यम्ब ॥ ५० ॥

चित्रीयते मनस्त्वां दृष्ट्वा भाग्यावतारमूर्तिं मे ।
किञ्च सुधाब्धेर्लहरीविहारितामेति कान्तिमत्यम्ब ॥ ५१ ॥

किरतु भवती कटाक्षाञ्जलजसदृक्षान् रसेन तादृक्षान् ।
कृतसुररक्षान्मोहनदक्षान्भीमस्य कान्तिमत्यम्ब ॥ ५२ ॥

मानसवार्धिनिलीनौ रागद्वेषौ प्रवोधवेदमुषौ ।
मधुकैटभौ तवेक्षणमीनो मे हरतु कान्तिमत्यम्ब ॥ ५३ ॥

मञ्जुलभाषिणि वञ्जुलकुड्मलललितालके लसत्तिलके ।
पालय कुवलयनयने बालं मां देवि कान्तिमत्यम्व ॥ ५४ ॥

पुरमथनविलोलाभिः पटुलीलाभिः कटाक्षमालाभिः ।
शुभशीलाभिः कुवलयनीलाभिः पश्य कान्तिमत्यम्ब ॥ ५५ ॥

करुणारसार्द्रनयने शरणागतपालनैककृतदीक्षे ।
प्रगुणाभरणे पालय दीनं मां देवि कान्तिमत्यम्ब ॥ ५६ ॥

नरजन्मैव वरं त्वद्भजनं येन क्रियेत चेदस्मात् ।
किमवरमेवं नो चेदतस्तदेवास्तु कान्तिमत्यम्ब ॥ ५७ ॥

यद्दुर्लभं सुरैरपि तन्नरजन्मादिशो नमाम्येतत् ।
सार्थय दानाद्भक्तेर्व्यर्थय मान्येन कान्तिमत्यम्ब ॥ ५८ ॥

जीवति पञ्चभिरेभिर्न विनाऽस्त्येभिर्जनस्तनुं भजते ।
तदपि तदासीनां त्वां दरमपि नो वेत्ति कान्तिमत्यम्ब ॥ ५९ ॥

यत्प्रेमद्विपवदने षड्वदने वा कुरुष्व तन्मयि ते ।
जात्वपि मा भूद्भेदः स्तोकेष्वस्मासु कान्तिमत्यम्ब ॥ ६० ॥

शम्बररुहरुचिवदने शम्बररिपुजीविके हिमाद्रिसुते ।
अम्बरमध्ये बम्बरडम्बरचिकुरेऽव कान्तिमत्यम्ब ॥ ६१ ॥

मन्मानसपाठीनं कलिपुलिने क्रोधभानुसन्तप्ते ।
सिञ्च परितो भ्रमन्तं कृपोर्मिभिर्देवि कान्तिमत्यम्ब ॥ ६२ ॥

यमिनः क्व वेद मुकुटान्यपि भवतीं भावयन्ति वा नो वा ।
यद्येवं मम हृदयं वेत्तु कथं ब्रूहि कान्तिमत्यम्ब ॥ ६३ ॥

क्लिश्यत्ययं जनो बत जननाद्यैरित्यहं श्रितो भवतीम् ।
तत्राप्येवं यदि वद तव किं महिमाऽत्र कान्तिमत्यम्ब ॥ ६४ ॥

वृजिनानि सन्तु किमतस्तेषां धूत्यै न किं भवेद्वद ते ।
स्मरणं दृषदुत्क्षेपणमिव काकगणस्य कान्तिमत्यम्ब ॥ ६५ ॥

प्रसरति तव प्रसादे किमलभ्यं व्यत्यये तु किं लभ्यम् ।
लभ्यमलभ्यं किं नस्तेन विना देवि कान्तिमत्यम्ब ॥ ६६ ॥

किं चिन्तयामि संविच्छरदुदयं त्वत्पदच्छलं कतकम् ।
घृष्टं यदि प्रसीदेद्धृदयजलं मेऽद्य कान्तिमत्यम्ब ॥ ६७ ॥

विभजतु तव पदयुगली हंसीयोगीन्द्रमानसैकचरी ।
संविदसंवित्पयसी मिलिते हृदि मेऽद्य कान्तिमत्यम्ब ॥ ६८ ॥

कियदायुस्तत्रार्धं स्वप्ने न हृतं कियच्च बाल्याद्यैः ।
कियदस्ति केन भजनं तृप्तिस्तव केन कान्तिमत्यम्ब ॥ ६९ ॥

वेद्मि न धर्ममधर्मं कायक्लेशोऽस्त्यदो विचारफलम् ।
जानाम्येकं भजनं तव शुभदं हीति कान्तिमत्यम्ब ॥ ७० ॥

स्निह्यति भोगे द्रुह्यति योगायेदं वृथाऽद्य मुह्यति मे ।
हृदयं किमु स्वतो वा परतो वा वेत्ति कान्तिमत्यम्ब ॥ ७१ ॥

न बिभीमो भवजलधेर्दरमपि दनुजारिसोदरि शिवे ते ।
आस्ते कटाक्षवीक्षातरणिर्ननु देवि कान्तिमत्यम्ब ॥ ७२ ॥

चिन्तामणौ करस्थेऽप्यटनं वीथीषु किं ब्रुवे मातः ।
वद किं मे त्वयि सत्यामन्याश्रयणे न कान्तिमत्यम्ब ॥ ७३ ॥

नरवर्णनेन रसना परवनितावीक्षणेन नेत्रमपि ।
क्रौर्येण मनोऽपि हतं भाव्यं तु न वेद्मि कान्तिमत्यम्ब ॥ ७४ ॥

त्रासितसुरपतितप्तं तप्तं किं धर्ममेव वा कॢप्तम् ।
किमपि न सञ्चितममितं वृजिनमये किं तु कान्तिमत्यम्ब ॥ ७५ ॥

पापीत्युपेक्षसे चेत्पातुं काऽन्या भवेद्विना भवतीम् ।
किमिदं न वेद्मि सोऽयं बकमन्त्रः कस्य कान्तिमत्यम्ब ॥ ७६ ॥

वञ्चयितुं वृजिनाद्यैर्मुग्धान्भवतीं विनेतरान्नेक्षे ।
किमतः परं करिष्यसि विदितमिदं मेऽद्य कान्तिमत्यम्ब ॥ ७७ ॥

वञ्चयसि मां रुदन्तं बालमिव फलेन मां धनाढ्येन ।
मास्तु कदापि ममेदं कैवल्यं देहि कान्तिमत्यम्ब ॥ ७८ ॥

त्रय्या किं मेऽद्य गुणे तव विदिते यो यतस्तु सम्भवति ।
आस्तां मौक्तिकलाभे सति शुक्त्या किं नु कान्तिमत्यम्ब ॥ ७९ ॥

अद्भुतमिदं सकृद्येन ज्ञाता वा श्रियो दिशस्येभ्यः ।
ये खलु भक्तास्तेभ्यः कैवल्यं दिशसि कान्तिमत्यम्ब ॥ ८० ॥

सुरनैचिकीव विबुधान्कादम्बिनिकेव नीलकण्ठमपि ।
प्रीणयसि मानसं मे शोभय हंसीव कान्तिमत्यम्ब ॥ ८१ ॥

कर्तुं मनःप्रसादं तव मयि चेत्किं करिष्यति वृजिनम् ।
जलजविकासे भानोः परिपन्थितमो नु कान्तिमत्यम्ब ॥ ८२ ॥

तव तु करुणा स्रवन्त्यां प्रवहन्त्यां स्तोकता गतेति मया ।
लुठति स्फुटति मनो मे नेदं जानासि कान्तिमत्यम्ब ॥ ८३ ॥

शोधयितुमुदासीना यदि मां पात्रं किमस्य पश्याहम् ।
मादृशि का वा वार्ता दासजने कान्तिमत्यम्ब ॥ ८४ ॥

अभजमनन्यगतिस्त्वां किं कुर्यास्त्वं न वेद्म्यतःप्रभृति ।
अवने वाऽनवने वा न विचारो मेऽस्ति कान्तिमत्यम्ब ॥ ८५ ॥

किं वर्तते ममास्मान्निखिलजगन्मस्तलालितं भाग्यम् ।
यमिहृदयपद्महंसीं यत्त्वां सेवेऽद्य कान्तिमत्यम्ब ॥ ८६ ॥

कर्तुं जगन्ति विधिवद्भर्तुं हरिवद्गिरीशवद्धर्तुम् ।
लीलावती त्वमेव प्रतीयसे देवि कान्तिमत्यम्ब ॥ ८७ ॥

केचिद्विदन्ति भवतीं केचिन्न विदन्ति देवि सर्वमिदम् ।
त्वत्कृत्यं वद सत्यं किं लब्धं तेन कान्तिमत्यम्ब ॥ ८८ ॥

शास्त्राणि कुक्षिपूर्त्यै स्फूर्त्यै निगमाश्च कर्मणा किं तैः ।
किं तव तत्त्वं ज्ञेयं यैस्त्वत्कृपयैव कान्तिमत्यम्ब ॥ ८९ ॥

किं प्रार्थये पुनः पुनरवने भवतीं विना विचारः स्यात् ।
कस्याः क इति विदन्नपि दूये मोहेन कान्तिमत्यम्ब ॥ ९० ॥

विदुषस्त्वां शरणं मे शास्त्रश्रमलेशवार्तयापि कृतम् ।
करजुषि नवनीते किं दुग्धविचारेण कान्तिमत्यम्ब ॥ ९१ ॥

प्रणवोपनिषन्निगमागमयोगिमनःस्विवातितुङ्गेषु ।
भाहि प्रभेव तरणेर्मम हृदि निम्नेऽपि कान्तिमत्यम्ब ॥ ९२ ॥

स्फुटितारुणमणिशोभं त्रुटिताभिनवप्रवालमृदुलत्वम् ।
श्रुतिशिखरशेखरं ते चरणाब्जं स्तौमि कान्तिमत्यम्ब ॥ ९३ ॥

तव चरणाम्बुजभजनादमृतरसस्यन्दिनः कदाप्यन्यत् ।
स्वप्नेऽपि किञ्चिदपि मे मा स्म भवेद्देवि कान्तिमत्यम्ब ॥ ९४ ॥

विस्मापनं पुरारेरस्मादृग्जीविकां परात्परमम् ।
सुषमामयं स्वरूपं सदा निषेवेय कान्तिमत्यम्ब ॥ ९५ ॥

मङ्गलमस्त्विति पिष्टं पिनष्टि गीः सर्वमङ्गलायास्ते ।
वशितजयायाश्च तथा जयेति वादोऽपि कान्तिमत्यम्ब ॥ ९६ ॥

आशासितुर्विभूत्यै भवति भवत्यै हि मङ्गलाशास्तिः ।
स्वामिसमृद्ध्याशंसा भृत्योन्नत्यै हि कान्तिमत्यम्ब ॥ ९७ ॥

निगमैरपरिच्छेद्यं क्व वैभवं तेऽल्पधीः क्व चाहमिति ।
तूष्णीकं मां भक्तिस्तव मुखरयति स्म कान्तिमत्यम्ब ॥ ९८ ॥

अनुकम्पापरवशितं कम्पातटसीम्नि कल्पितावसथम् ।
उपनिषदां तात्पर्यं तव रूपं स्तौमि कान्तिमत्यम्ब ॥ ९९ ॥

जय धरणीधरतनये जय वेणुवनाधिराट्प्रिये देवि ।
जय जम्भभेदिविनुते जय जगतामम्ब कन्तिमत्यम्ब ॥ १०० ॥

गुणमञ्जरिपिञ्जरितं सुन्दररचितं विभूषणं सुदृशाम् ।
गीतिशतकं भवत्याः क्षयतु कटाक्षेण कान्तिमत्यम्ब ॥ १०१ ॥

वप्ता यस्य मनीषिहारतरलः श्रीवेङ्कटेशो महान्-
माता यस्य पुनः सरोजनिलया साध्वीशिरोभूषणम् ।
श्रीवत्साभिजनामृताम्बुधिविधुः सोऽयं कविः सुन्दरो
देव्या गीतिशतं व्यधत्त महितं श्रीकान्तिमत्या मुदे ॥ १०२ ॥

इति श्रीसुन्दराचार्यप्रणीतं देवीगीतिशतकं सम्पूर्णम् ॥

Add Comment

Click here to post a comment