Templesinindiainfo

Best Spiritual Website

Guru Vatapuradhish Ashtottara Shatanama Stotram Lyrics in Hindi

Guru Vatapuradhish Ashtottarashatanama Stotram in Hindi:

श्रीगुरुवातपुराधीशाष्टोत्तरशतनामस्तोत्रम्

ध्यानम् –
पीताम्बरं करविराजितशङ्खचक्र-
कौमोदकीसरसिजं करुणासमुद्रम् ।
राधासहायमतिसुन्दरमन्दहासं
वातालयेशमनिशां हृदि भावयामि ॥

कृष्णो वातपुराधीशः भक्तकल्पद्रुमः प्रभुः ।
रोगहन्ता परं धामा कलौ सर्वसुखप्रदः ॥ १ ॥

वातरोगहरो विष्णुः उद्धवादिप्रपूजितः ।
भक्तमानससंविष्टः भक्तकामप्रपूरकः ॥ २ ॥

लोकविख्यातचारित्रः शङ्कराचार्यपूजितः ।
पाण्ड्येशविषहन्ता च पाण्ड्यराजकृतालयः ॥ ३ ॥

नारायणकविप्रोक्तस्तोत्रसन्तुष्टमानसः ।
नारायणसरस्तीरवासी नारदपूजितः ॥ ४ ॥

विप्रनित्यान्नदाता च विविधाकृतिशोभितः ।
तैलाभिषेकसन्तुष्टः सिक्ततैलार्तिहारकः ॥ ५ ॥

कौपीनदरुजाहन्ता पीताम्बरधरोऽव्ययः ।
क्षीराभिषेकात्सौभाग्यदाता कलियुगप्रभुः ॥ ६ ॥

निर्माल्यदर्शनाद्भक्तचित्तचिन्तानिवारकः ।
देवकीवसुदेवात्तपुण्यपुञ्जोऽघनाशकः ॥ ७ ॥

पुष्टिदः कीर्तिदो नित्यकल्याणततिदायकः ।
मन्दारमालासंवीतः मुक्तादामविभूषितः ॥ ८ ॥

पद्महस्तश्चक्रधारी गदाशङ्खमनोहरः ।
गदापहन्ता गाङ्गेयमोक्षदाता सदोत्सवः ॥ ९ ॥

गानविद्याप्रदाता च वेणुनादविशारदः ।
भक्तान्नदानसन्तुष्टः वैकुण्ठीकृतकेरळः ॥ १० ॥

तुलाभारसमायातजनसर्वार्थदायकः ।
पद्ममाली पद्मनाभः पद्मनेत्रः श्रियःपतिः ॥ ११ ॥

पादनिस्सृतगाङ्गोदः पुण्यशालिप्रपूजितः ।
तुळसीदामसन्तुष्टः विल्वमङ्गळपूजितः ॥ १२ ॥

पून्तानविप्रसन्दृष्टदिव्यमङ्गळविग्रहः ।
पावनः परमो धाता पुत्रपौत्रप्रदायकः ॥ १३ ॥

महारोगहरो वैद्यनाथो वेदविदर्चितः ।
धन्वन्तरिर्धर्मरूपो धनधान्यसुखप्रदः ॥ १४ ॥

आरोग्यदाता विश्वेशः विधिरुद्रादिसेवितः ।
वेदान्तवेद्यो वागीशः सम्यग्वाक्छक्तिदायकः ॥ १५ ॥

मन्त्रमूर्तिर्वेदमूर्तिः तेजोमूर्तिः स्तुतिप्रियः ।
पूर्वपुण्यवदाराध्यः महालाभकरो महान् ॥ १६ ॥

देवकीवसुदेवादिपूजितो राधिकापतिः ।
श्रीरुक्मिणीसत्यभामासंलालितपदाम्बुजः ॥ १७ ॥

कन्याषोडशसाहस्रकण्ठमाङ्गल्यसूत्रदः ।
अन्नप्राशनसम्प्राप्तबहुबालसुखप्रदः ॥ १८ ॥

गुरुवायुसुसङ्क्लृप्तसत्प्रतिष्ठः सुरार्चितः ।
पायसान्नप्रियो नित्यङ्गजराशिसमुज्ज्वलः ॥ १९ ॥

पुराणरत्नपठनश्रवणानन्दपूरितः ।
माङ्गल्यदाननिरतः दक्षिणद्वारकापतिः ॥ २० ॥

दीपायुतोत्थसज्ज्वालाप्रकाशितनिजालयः ।
पद्ममालाधरः श्रीमान् पद्मनाभोऽखिलार्थदः ॥ २१ ॥

आयुर्दाता मृत्युहर्ता रोगनाशनदीक्षितः ।
नवनीतप्रियो नन्दनन्दनो रासनायकः ॥ २२ ॥

यशोदापुण्यसञ्जातः गोपिकाहृदयस्थितः ।
भक्तार्तिघ्नो भव्यफलः भूतानुग्रहतत्परः ।
दीक्षितानन्तरामोक्तनामसुप्रीतमानसः ॥ २३ ॥

गुरुवातपुरीशस्य नाम्नामष्टोत्तरं शतम् ।
दीक्षितानन्तरामेण भक्त्या स्तोत्रं कृतं महत् ॥ २४ ॥

श्रद्धायुक्तः पठेन्नित्यं स्मरन् वातपुराधिपम् ।
तस्य देवो वासुदेवः सर्वार्थफलदो भवेत् ॥ २५ ॥

इति ब्रह्मश्री सेंगलीपुरं अनन्तरामदीक्षितविरचितं
श्रीगुरुवातपुरीशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Also Read:

Guru Vatapuradhish Ashtottara Shatanama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Guru Vatapuradhish Ashtottara Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top