Shataka

Hariharastotram Lyrics in Hindi | Hari Hara Stotram

Harihara Stotram Lyrics in Hindi:

॥ हरिहरस्तोत्रम् ॥

श्रीगणेशाय नमः ॥

धर्मार्थकाममोक्षाख्यचतुर्वर्गप्रदायिनौ ।
वन्दे हरिहरौ देवौ त्रैलोक्यपरिपायिनौ ॥ १ ॥

एकमूर्ती द्विधा भिन्नौ संसारार्णवतारकौ ।
वन्देऽहं कामदौ देवौ सततं शिवकेशवौ ॥ २ ॥

दयामयौ दीनदरिद्रतापहौ महौजसौ मान्यतमौ सदा समौ ।
उदारलीलाललितौ सितासितौ नमामि नित्यं शिवकेशवावहम् ॥ ३ ॥

अनन्तमाहात्म्यनिधी विधिस्तुतौ श्रिया युतौ लोकविधानकारिणौ ।
सुरासुराधीशनुतौ नुतौ जगत्पती सदा विधत्तां शिवकेशवौ शिवम् ॥ ४ ॥

जगत्त्रयीपालननाशकारकौ प्रसन्नहासौ विलसत्सदाननौ ।
महाबलौ मञ्जुलमूर्तिधारिणौ शिवं विधत्तां शिवकेशवौ सदा ॥ ५ ॥

महस्विनौ मोदकरौ परौ वरौ मुनीश्वरैः सेवितपादपङ्कजौ ।
अजौ सुजातौ जगदीश्वरौ सदा शिवं विधत्तां शिवकेशवौ मम ॥ ६ ॥

नमोऽस्तु नित्यं शिविकेशवाभ्यां स्वभक्तसंरक्षणतत्पराभ्याम् ।
देवेश्वराभ्यां करुणाकराभ्यां लोकत्रयीनिर्मितिकारणाभ्याम् ॥ ७ ॥

सलीलशीलौ महनीयमूर्ती दयाकरौ मञ्जुलसच्चरित्रौ ।
महोदयौ विश्वविनोदहेतू नमामि देवौ शिवकेशवौ तौ ॥ ८ ॥

त्रिशूलपाणिं वरचक्रपाणिं पीताम्बरं स्पष्टदिगम्बरं च ।
चतुर्भुजं वा दशबाहुयुक्तं हरिं हरं वा प्रणमामि नित्यम् ॥ ९ ॥

कपालमालाललितं शिवं च सद्वैजयन्तीस्रगुदारशोभम् ।
विष्णुं च नित्यं प्रणिपत्य याचे भवत्पदाम्भोरुहयोः स्मृतिः स्तात् ॥ १० ॥

शिव त्वमेवाऽसि हरिस्वरूपो हरे त्वमेवाऽसि शिवस्वरूपः ।
भ्रान्त्या जनास्त्वां द्विविधस्वरूपं पश्यन्ति मूढा ननु नाशहेतोः ॥ ११ ॥

हरे जना ये शिवरूपिणं त्वां त्वद्रूपमीशं कलयन्ति नित्यम् ।
ते भाग्यवन्तः पुरुषाः कदाऽपि न यान्ति भास्वत्तनयस्य गेहम् ॥ १२ ॥

शम्भो जना ये हरिरूपिणं त्वां भवत्स्वरूपं कमलालयेशम् ।
पश्यन्ति भक्त्या खलु ते महान्तौ यमस्य नो यान्ति पुरं कदाचित् ॥ १३ ॥

शिवे हरौ भेदधियाऽऽधियुक्ता मुक्तिं लभन्ते न जना दुरापाम् ।
भुक्तिं च नैवेह परन्तु दुःखं संसारकूपे पतिताः प्रयान्ति ॥ १४ ॥

हरे हरौ भेददृशो भृशं वै संसारसिन्धौ पतिताः सतापाः ।
पापाशया मोहमयान्धकारे भ्रान्ता महादुःखभरं लभन्ते ॥ १५ ॥

सन्तो लसन्तः सुतरां हरौ च हरे च नित्यं वहुभक्तिमन्तः ।
अन्तर्महान्तौ शिवकेशवौ तौ ध्यायन्त उच्चैर्मुदमाप्नुवन्ति ॥ १६ ॥

हरौ हरे चैक्यमुदारशीलाः पश्यन्ति शश्वत्सुखदायिलीलाः ।
ते भुक्तिमुक्ती समवाप्य नूनं सुखं दुरापं सुतरां लभन्ते ॥ १७ ॥

शिवे शिवेशेऽपि च केशवे च पद्मापतौ देववरे महान्तः ।
भेदं न पश्यन्ति परन्तु सन्तस्तयोरभेदं कलयन्ति सत्यम् ॥ १८ ॥

रमापतिं वा गिरिजापतिं वा विश्वेश्वरं वा जगदीश्वरं वा ।
पिनाकपाणिं खलु शार्ङ्गपाणिं हरि हरं वा प्रणमामि नित्यम् ॥ १९ ॥

सुरेश्वरं वा परमेश्वरं वा वैकुण्ठलोकस्थितमच्युतं वा ।
कैलासशैलस्थितमीश्वरं वा विष्णुं च शम्भुं च नमामि नित्यम् ॥ २० ॥

हरिर्दयार्द्राशयतां प्रयातो हरो दयालूत्तमभावमाप्तः ।
अनेकदिव्यास्त्रधरः परेशः पायादजस्रं कृपया नतं माम् ॥ २१ ॥

शेषोऽस्ति यस्याभरणत्वमाप्तो यद्वा सुशय्यात्वमितः सदैव ।
देवः स कोऽपीह हरिर्हरो वा करोतु मे मञ्जुलमङ्गलं द्राक् ॥ २२ ॥

हरिं हरं चापि भजन्ति भक्त्या विभेदबुद्धिं प्रविहाय नूनम् ।
सिद्धा महान्तो मुनयो महेच्छाः स्वच्छाशया नारदपर्वताद्याः ॥ २३ ॥

सनत्कुमारादय उन्नतेच्छा मोहेन हीना मुनयो महान्तः ।
स्वान्तःस्थितं शङ्करमच्युतं च भेदं परित्यज्य सदा भजन्ते ॥ २४ ॥

शिष्टा वसिष्ठादय आत्मनिष्ठाः श्रेष्ठाः स्वधर्मावनकर्मचित्ताः ।
हृत्तापहारं मलहीनचित्ता हरिं हरं चैकतया भजन्ते ॥ २५ ॥

अन्ये महात्मान उदारशीला भृग्वादयो ये परमर्षयस्ते ।
पश्यन्ति चैक्यं हरिशर्वयोः श्रीसंयुक्तयोरत्र न संशयोऽस्ति ॥ २६ ॥

इन्द्रादयो देववरा उदारा त्रैलोक्यसंरक्षणदत्तचित्ताः ।
हरिं हरं चैकस्वरूपमेव पश्यन्ति भक्त्या च भजन्ति नूनम् ॥ २७ ॥

सर्वेषु वेदेषु खलु प्रसिद्धवैकुण्ठकैलासगयोः सुधाम्नोः ।
मुकुन्दबालेन्दुवतंसयोः सच्चरित्रयोरीश्वरयोरभेदः ॥ २८ ॥

सर्वाणि शास्त्राणि वदन्ति नूनं हरेर्हरस्यैक्यमुदारमूर्तेः ।
नास्त्यत्र सन्देहलवोऽपि सत्यं नित्यं जना धर्मधना गदन्ति ॥ २९ ॥

सर्वैः पुराणैरिदमेव सूक्तं यद्विष्णुशम्भोर्महनीयमूर्त्योः ।
ऐक्यं सदैवाऽस्ति न भेदलेशोऽप्यस्तीह चिन्त्यं सुजनैस्तदेवम् ॥ ३० ॥

भेदं प्रपश्यन्ति नराधमा ये विष्णौ च शम्भौ च दयानिधाने ।
ते यान्ति पापाः परितापयुक्ता घोरं विशालं निरयस्य वासम् ॥ ३१ ॥

भूताधिपं वा विबुधाधिपं वा रमेश्वरं वा परमेश्वरं वा ।
पीताम्बरं वा हरिदम्बरं वा हरिं हरं वा पुरुषा भजध्वम् ॥ ३२ ॥

महस्विवर्यं कमनीयदेहमुदारसारं सुखदायिचेष्टम् ।
सर्वेष्टदेवं दुरितापहारं विष्णुं शिवं वा सततं भजध्वम् ॥ ३३ ॥

शिवस्य विष्णोश्च विभात्यभेदो व्यासादयोऽपीह महर्षयस्ते ।
सर्वज्ञभावं दधतो नितान्तं वदन्ति चैवं कलयन्ति सन्तः ॥ ३४ ॥

महाशया धर्मविधानदक्षा रक्षापरा निर्जितमानसा ये ।
तेऽपीह विज्ञाः समदर्शिनो वै शिवस्य विष्णोः कलयन्त्यभेदम् ॥ ३५ ॥

हरिरेव हरो हर एव हरिर्न हि भेदलवोऽपि तयोः प्रथितः ।
इति सिद्धमुनीशयतीशवरा निगदन्ति सदा विमदाः सुजनाः ॥ ३६ ॥

हर एव हरिर्हरिरेव हरो हरिणा च हरेण च विश्वमिदम् ।
प्रविनिर्मितमेतदवेहि सदा विमदो भव तौ भज भावयुतः ॥ ३७ ॥

हरिरेव बभूव हरः परमो हर एव बभूव हरिः परमः ।
हरिता हरता च तथा मिलिता रचयत्यखिलं खलु विश्वमिदम् ॥ ३८ ॥

वृषध्वजं वा गरुडध्वजं वा गिरीश्वरं वा भुवनेश्वरं वा ।
पतिं पशूनामथवा यदूनां कृष्णं शिवं वा विबुधा भजन्ते ॥ ३९ ॥

भीमाकृतिं वा रुचिराकृतिं वा त्रिलोचनं वा समलोचनं वा ।
उमापतिं वाऽथ रमापतिं वा हरिं हरं वा मुनयो भजन्ते ॥ ४० ॥

हरिः स्वयं वै हरतां प्रयातो हरस्तु साक्षाद्धरिभावमाप्तः ।
हरिर्हरश्चापि जगज्जनानामुपास्यदेवौ स्त इति प्रसिद्धिः ॥ ४१ ॥

हरिर्हि साक्षत् हर एव सिद्धो हरो हि साक्षाद्धदिरेव चास्ते ।
हीरर्हरश्च स्वयमेव चैको द्विरूपतां कार्यवशात् प्रयातः ॥ ४२ ॥

हरिर्जगत्पालनकृत्प्रसिद्धो हरो जगन्नाशकरः परात्मा ।
स्वरूपमात्रेण भिदामवाप्तौ द्वावेकरूपौ स्त इमौ सुरेशौ ॥ ४३ ॥

दयनिधानं विलसद्विधानं देवप्रधानं ननु सावधानम् ।
सानन्दसन्मानसभासमानं देवं शिवं वा भज केशवं वा ॥ ४४ ॥

श्रीकौस्तुभाभरणमिन्दुकलावतंसं
कालीविलासिनमथो कमलाविलासम् ।
देवं मुरारिमथ वा त्रिपुरारिमीशं
भेदं विहाय भज भो भज भूरि भक्त्या ॥ ४५ ॥

विष्णुः साक्षाच्छम्भुरेव प्रसिद्धः शम्भुः साक्षाद्विष्णुरेवास्ति नूनम् ।
नास्ति स्वल्पोऽपीह भेदावकाशः सिद्धान्तोऽयं सज्जनानां समुक्तः ॥ ४६ ॥

शम्भुर्विष्णुश्चैकरूपो द्विमूर्तिः सत्यं सत्यं गद्यते निश्चितं सत् ।
अस्मिन्मिथ्या संशयं कुर्वते ये पापाचारास्ते नरा राक्षसाख्याः ॥ ४७ ॥

विष्णौ शम्भौ नास्ति भेदावभासः सङ्ख्यावन्तः सन्त एवं वदन्ति ।
अन्तः किञ्चित्संविचिन्त्य स्वयं द्राक् भेदं त्यक्त्वा तौ भजस्व प्रकामम् ॥ ४८ ॥

विष्णोर्भक्ताः शम्भुविद्वेषसक्ताः शम्भोर्भक्ता विष्णुविद्वेषिणो ये ।
कामक्रोधान्धाः सुमन्दाः सनिन्दा विन्दन्ति द्राक् ते नरा दुःखजालम् ॥ ४९ ॥

विष्णौ शम्भौ भेदबुद्धिं विहाय भक्त्या युक्ताः सज्जना ये भजन्ते ।
तेषां भाग्यं वस्तुमीशो गुरुर्नो सत्यं सत्यं वच्म्यंह विद्धि तत्त्वम् ॥ ५० ॥

हरेर्विरोधी च हरस्य भक्तो हरस्य वैरी च हरेश्च भक्तः ।
साक्षादसौ राक्षस एव नूनं नास्त्यत्र सन्देहलवोऽपि सत्यम् ॥ ५१ ॥

शिवं च विष्णुं च विभिन्नदेहं पश्यन्ति ये मूढधियोऽतिनीचाः ।
ते किं सुसद्भिः सुतरां महद्भिः सम्भाषणीयाः पुरुषा भवन्ति ॥ ५२ ॥

अनेकरूपं विदितैकरूपं महान्तमुच्चैरतिशान्तचित्तम् ।
दान्तं नितान्तं शुभदं सुकान्तं विष्णुं शिवं वा भज भूरिभक्त्या ॥ ५३ ॥

हरे मुरारे हर हे पुरारे विष्णो दयालो शिव हे कृपालो ।
दीनं जनं सर्वगुणैर्विहीनं मां भक्तमार्तं परिपाहि नित्यम् ॥ ५४ ॥

हे हे विष्णो शम्भुरूपस्त्वमेव हे हे शम्भो विष्णुरूपस्त्वमेव ।
सत्यं सर्वे सन्त एवं वदन्तः संसाराब्धिं ह्यञ्जसा सन्तरन्ति ॥ ५५ ॥

विष्णुः शम्भुः शम्भुरेवास्ति विष्णुः शम्भुर्विष्णुर्विष्णुरेवास्ति शम्भुः ।
शम्भौ विष्णौ चैकरूपत्वमिष्टं शिष्टा एवं सर्वदा सञ्जपन्ति ॥ ५६ ॥

दैवी सम्पद्विद्यते यस्य पुंसः श्रीमान् सोऽयं सर्वदा भक्तियुक्तः ।
शम्भुं विष्णुं चैकरूपं द्विदेहं भेदं त्यक्त्वा सम्भजन्मोक्षमेति ॥ ५७ ॥

येषां पुंसामासुरी सम्पदास्ते मृत्योर्ग्रासाः कामलोभाभिभूताः ।
क्रोधेनान्धा बन्धयुक्ता जनास्ते शम्भुं विष्णुं भेदबुद्ध्या भजन्ते ॥ ५८ ॥

कल्याणकारं सुखदप्रकारं विनिर्विकारं विहितोपकारम् ।
स्वाकारमीशं न कृतापकारं शिवं भजध्वं किल केशवं च ॥ ५९ ॥

सच्चित्स्वरूपं करुणासुकूपं गीर्वाणभूपं वरधर्मयूपम् ।
संसारसारं सुरुचिप्रसारं देवं हरिं वा भज भो हरं वा ॥ ६० ॥

आनन्दसिन्धुं परदीनबन्धुं मोहान्धकारस्य निकारहेतुम् ।
सद्धर्मसेतुं रिपुधूमकेतुं भजस्व विष्णुं शिवमेकबुद्ध्या ॥ ६१ ॥

वेदान्तसिद्धान्तमयं दयालुं सत्साङ्ख्यशास्त्रप्रतिपाद्यमानम् ।
न्यायप्रसिद्धं सुतरां समिद्धं भजस्व विष्णुं शिवमेकबुद्ध्या ॥ ६२ ॥

पापापहारं रुचिरप्रचारं कृतोपकारं विलसद्विहारम् ।
सद्धर्मधारं कमनीयदारं सारं हरिं वा भज भो हरं वा ॥ ६३ ॥

विष्णौ हरौ भेदमवेक्षमाणः प्राणी नितान्तं खलु तान्तचेताः । – आद्देद्।
प्रेताधिपस्यैति पुरं दुरन्तं दुःखं च तत्र प्रथितं प्रयाति ॥ ६४ ॥

भो भो जना ज्ञानधना मनागप्यर्च्ये हरौ चापि हरे च नूनम् ।
भेदं परित्यज्य मनो निरुध्य सुखं भवन्तः खलु तौ भजन्तु ॥ ६५ ॥

आनन्दसन्मन्दिरमिन्दुकान्तं शान्तं नितान्तं भुवनानि पान्तम् ।
भान्तं सुदान्तं विहितासुरान्तं देवं शिवं वा भज केशवं वा ॥ ६६ ॥

हे हे हरे कृष्ण जनार्दनेश शम्भो शशाङ्काभरणाधिदेव ।
नारायण श्रीश जगत्स्वरूप मां पाहि नित्यं शरणं प्रपन्नम् ॥ ६७ ॥

विष्णो दयालोऽच्युत शार्ङ्गपाणे भूतेश शम्भो शिव शर्व नाथ ।
मुकुन्द गोविन्द रमाधिपेश मां पाहि नित्यं शरणं प्रपन्नम् ॥ ६८ ॥

कल्याणकारिन् कमलापते हे गैरीपते भीम भवेश शर्व ।
गिरीश गौरीप्रिय शूलपाणे मां पाहि नित्यं शरणं प्रपत्रम् ॥ ६९ ॥

हे शर्व हे शङ्कर हे पुरारे हे केशव हे कृष्ण हरे मुरारे ।
हे दीनबन्धो करुणैकसिन्धो मां पाहि नित्यं शरणं प्रपन्नम् ॥ ७० ॥

हे चन्द्रमौले हरिरूप शम्भो हे चक्रपाणे शिवरूप विष्णो ।
हे कामशत्रो खलु कामतात मां पाहि नित्यं भगवन्नमस्ते ॥ ७१ ॥

सकललोकपशोकविनाशिनौ परमरम्यतया प्रविकाशिनौ ।
अघसमूहविदारणकारिणौ हरिहरौ भज मूढ भिदां त्यज ॥ ७२ ॥

हरिः साक्षाद्धरः प्रोक्तो हरः साक्षाद्धरिः स्मृतः ।
उभयोरन्तरं नास्ति सत्यं सत्यं नं संशयः ॥ ७३ ॥

यो हरौ च हरे साक्षादेकमूर्तौ द्विधा स्थिते ।
भेदं करोति मूढात्मा स याति नरकं ध्रुवम् ॥ ७४ ॥

यस्य बुद्धिर्हरौ चापि हरे भेदं च पश्यति ।
स नराधमतां यातो रोगी भवति मानवः ॥ ७५ ॥

यो हरौ च हरे चापि भेदबुद्धिं करोत्यहो ।
तस्मान्मूढतमो लोके नान्यः कश्चन विद्यते ॥ ७६ ॥

मुक्तिमिच्छसि चेत्तर्हि भेदं त्यज हरौ हरे ।
अन्यथा जन्मलक्षेषु मुक्तिः खलु सुदुर्लभा ॥ ७७ ॥

विष्णोः शिवस्य चाभेदज्ञानान्मुक्तिः प्रजायते ।
इति सद्वेदवाक्यानां सिद्धान्तः प्रतिपादितः ॥ ७८ ॥

विष्णुः शिवः शिवो विष्णुरिति ज्ञानं प्रशिष्यते ।
एतज्ज्ञानयुतो ज्ञानि नान्यथा ज्ञानमिष्यते ॥ ७९ ॥

हरिर्हरो हरश्चापि हरिरस्तीति भावयन् ।
धर्मार्थकाममोक्षाणामधिकारी भवेन्नरः ॥ ८० ॥

हरिं हरं भिन्नरूपं भावयत्यधमो नरः ।
स वर्णसङ्करो नूनं विज्ञेयो भावितात्मभिः ॥ ८१ ॥

हर शम्भो हरे विष्णो शम्भो हर हरे हर ।
इति नित्यं जपन् जन्तुर्जीवन्मुक्तो हि जायते ॥ ८२ ॥

न हरिं च हरं चापि भेदबुद्ध्या विलोकयेत् ।
यदीच्छेदात्मनः क्षेमं बुद्धिमान् कुशलो नरः ॥ ८३ ॥

हरे हर दयालो मां पाहि पाहि कृपां कुरु ।
इति सञ्जपनादेव मुक्तिः प्राणौ प्रतिष्ठिता ॥ ८४ ॥

हरिं हरं द्विधा भिन्नं वस्तुतस्त्वेकरूपकम् ।
प्रणमामि सदा भक्त्या रक्षतां तौ महेश्वरौ ॥ ८५ ॥

इदं हरिहरस्तोत्रं सूक्तं परमदुर्लभम् ।
धर्मार्थकाममोक्षाणां दायकं दिव्यमुत्तमम् ॥ ८६ ॥

शिवकेशवयोरैक्यप्रतिपादकमीडितम् ।
पठेयुः कृतिनः शान्ता दान्ता मोक्षाभिलाषिणः ॥ ८७ ॥

एतस्य पठनात्सर्वाः सिद्धयो वशगास्तथा ।
देवयोर्विष्णुशिवयोर्भक्तिर्भवति भूतिदा ॥ ८८ ॥

धर्मार्थी लभते धर्ममर्थार्थी चार्थमश्नुते ।
कामार्थी लभते कामं मोक्षार्थी मोक्षमश्नुते ॥ ८९ ॥

दुर्गमे घोरसङ्ग्रामे कानने वधबन्धने ।
कारागारेऽस्य पठनाज्जायते तत्क्षणं सुखी ॥ ९० ॥

वेदे यथा सामवेदो वेदान्तो दर्शने यथा ।
स्मृतौ मनुस्मृतिर्यद्वत् वर्णेषु ब्राह्मणो यथा ॥ ९१ ॥

यथाऽऽश्रमेषु सन्न्यासो यथा देवेषु वासवः ।
यथाऽश्वत्थः पादपेषु यथा गङ्गा नदीषु च ॥ ९२ ॥

पुराणेषु यथा श्रेष्ठं महाभारतमुच्यते ।
यथा सर्वेषु लोकेषु वैकुण्ठः परमोत्तमः ॥ ९३ ॥

यथा तीर्थेषु सर्वेषु प्रयागः श्रेष्ठ ईरितः ।
यथा पुरीषु सर्वासु वरा वाराणसी मता ॥ ९४ ॥

यथा दानेषु सर्वेषु चान्नदानं महत्तमम् ।
यथा सर्वेषु धर्मेषु चाहिंसा परमा स्मृता ॥ ९५ ॥

यथा सर्वेषु सौख्येषु भोजनं प्राहुरुत्तमम् ।
तथा स्तोत्रेषु सर्वेषु स्तोत्रमेतत्परात्परम् ॥ ९६ ॥

अन्यानि यानि स्तोत्राणि तानि सर्वाणि निश्चितम् ।
अस्य स्तोत्रस्य नो यान्ति षोडशीमपि सत्कलाम् ॥ ९७ ॥

भूतप्रेतपिशाचाद्या बालवृद्धग्रहाश्च ये ।
ते सर्वे नाशमायान्ति स्तोत्रस्यास्य प्रभावतः ॥ ९८ ॥

यत्रास्य पाठो भवति स्तोत्रस्य महतो धुवम् ।
तत्र साक्षात्सदा लक्ष्मीर्वसत्येव न संशयः ॥ ९९ ॥

अस्य स्तोत्रस्य पाठेन विश्वेशौ शिवकेशवौ ।
सर्वान्मनोरथान्पुंसां पूरयेतां न संशयः ॥ १०० ॥

पुण्यं पुण्यं महत्पुण्यं स्तोत्रमेतद्धि दुर्लभम् ।
भो भो मुमुक्षवः सर्वे यूयं पठत सर्वदा ॥ १०१ ॥

इत्यच्युताश्रमस्वामिविरचितं श्रीहरिहराद्वैतस्तोत्रं सम्पूर्णम् ।

Add Comment

Click here to post a comment