Nitya Parayana Slokam in Hindi:
प्रभात श्लोकः
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती |
करमूले स्थिता गौरी प्रभाते करदर्शनम् ‖
[पाठभेदः – करमूले तु गोविन्दः प्रभाते करदर्शनम् ‖]
प्रभात भूमि श्लोकः
समुद्र वसने देवी पर्वत स्तन मण्डले |
विष्णुपत्नि नमस्तुभ्यं, पादस्पर्शं क्षमस्वमे ‖
सूर्योदय श्लोकः
ब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् |
साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिं च दिवाकरम् ‖
स्नान श्लोकः
गङ्गे च यमुने चैव गोदावरी सरस्वती
नर्मदे सिन्धु कावेरी जलेस्मिन् सन्निधिं कुरु ‖
नमस्कार श्लोकः
त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव |
त्वमेव विद्या द्रविणं त्वमेव, त्वमेव सर्वं मम देवदेव ‖
भस्म धारण श्लोकः
श्रीकरं च पवित्रं च शोक निवारणम् |
लोके वशीकरं पुंसां भस्मं त्र्यैलोक्य पावनम् ‖
भोजन पूर्व श्लोकाः
ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणाहुतम् |
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिनः ‖
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः |
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम् ‖
अन्नपूर्णे सदा पूर्णे शङ्करप्राणवल्लभे |
ज्ञानवैराग्य सिद्ध्यर्थं भिक्षां देहि च पार्वति ‖
त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये |
गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ‖
भोजनानन्तर श्लोकः
अगस्त्यं वैनतेयं च शमीं च बडबालनम् |
आहार परिणामार्थं स्मरामि च वृकोदरम् ‖
सन्ध्या दीप दर्शन श्लोकः
दीपज्योतिः परं ब्रह्म दीपज्योतिर्जनार्दनः |
दीपो हरतु मे पापं दीपज्योतिर्नमोऽस्तुते ‖
शुभं करोति कल्याणं आरोग्यं धनसम्पदः |
शत्रु-बुद्धि-विनाशाय दीपज्योतिर्नमोऽस्तुते ‖
निद्रा श्लोकः
रामं स्कन्धं हनुमन्तं वैनतेयं वृकोदरं |
शयने यः स्मरेन्नित्यम् दुस्वप्न-स्तस्यनश्यति ‖
अपराध क्षमापण स्तोत्रं
अपराध सहस्राणि, क्रियन्तेऽहर्निशं मया |
दासोऽयमिति मां मत्वा, क्षमस्व परमेश्वर ‖
करचरण कृतं वा कर्म वाक्कायजं वा
श्रवण नयनजं वा मानसं वापराधम् |
विहित मविहितं वा सर्वमेतत् क्षमस्व
शिव शिव करुणाब्धे श्री महादेव शम्भो ‖
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् |
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ‖
देव स्तोत्राः
कार्य प्रारम्भ स्तोत्राः
शुक्लां बरधरं विष्णुं शशिवर्णम् चतुर्भुजं |
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ‖
यस्यद्विरद वक्त्राद्याः पारिषद्याः परश्शतं |
विघ्नं निघ्नन्तु सततं विष्वक्सेनं तमाश्रये ‖
गणेश स्तोत्रं
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभः |
निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ‖
अगजानन पद्मार्कं गजानन महर्निशम् |
अनेकदन्तं भक्ताना-मेकदन्त-मुपास्महे ‖
विष्णु स्तोत्रं
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगन सदृशं मेघवर्णं शुभाङ्गं |
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथं ‖
गायत्रि मन्त्रं
ॐ भूर्भुवस्सुवः | तथ्स’वितुर्वरे”ण्यं |
भर्गो’ देवस्य’ धीमहि | धियो यो नः’ प्रचोदया”त् ‖
शिव स्तोत्रं
त्र्यं’बकं यजामहे सुगन्धिं पु’ष्टिवर्ध’नं |
उर्वारुकमि’व बन्ध’नान्-मृत्यो’र्-मुक्षीय माऽमृता”त् ‖
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं शशिधरं वन्दे पशूनां पतिम् |
वन्दे सूर्यशशाङ्क वह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ‖
सुब्रह्मण्य स्तोत्रं
शक्तिहस्तं विरूपाक्षं शिखिवाहं षडाननं
दारुणं रिपुरोगघ्नं भावये कुक्कुट ध्वजं |
स्कन्दं षण्मुखं देवं शिवतेजं चतुर्भुजं
कुमारं स्वामिनाधं तं कार्तिकेयं नमाम्यहं ‖
गुरु श्लोकः
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः |
गुरुः साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः ‖
हनुम स्तोत्राः
मनोजवं मारुत तुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्टं |
वातात्मजं वानरयूध मुख्यं श्रीरामदूतं शिरसा नमामि ‖
बुद्धिर्बलं यSऒधैर्यं निर्भयत्व-मरोगता |
अजाड्यं वाक्पटुत्वं च हनुमत्-स्मरणाद्-भवेत् ‖
जयत्यति बलो रामो लक्ष्मणस्य महाबलः |
राजा जयति सुग्रीवो राघवेणाभि पालितः ‖
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्ट कर्मणः |
हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ‖
श्रीराम स्तोत्रां
श्री राम राम रामेति रमे रामे मनोरमे
सहस्रनाम तत्तुल्यं राम नाम वरानने
श्री रामचन्द्रः श्रितपारिजातः समस्त कल्याण गुणाभिरामः |
सीतामुखाम्भोरुहाचञ्चरीको निरन्तरं मङ्गलमातनोतु ‖
श्रीकृष्ण स्तोत्रं
मन्दारमूले मदनाभिरामं
बिम्बाधरापूरित वेणुनादं |
गोगोप गोपीजन मध्यसंस्थं
गोपं भजे गोकुल पूर्णचन्द्रम् ‖
गरुड स्वामि स्तोत्रं
कुङ्कुमाङ्कितवर्णाय कुन्देन्दु धवलाय च |
विष्णु वाह नमस्तुभ्यं पक्षिराजाय ते नमः ‖
दक्षिणामूर्ति स्तोत्रं
गुरवे सर्वलोकानां भिषजे भवरोगिणां |
निधये सर्व विद्यानां श्री दक्षिणामूर्तये नम ‖
सरस्वती श्लोकः
सरस्वती नमस्तुभ्यं वरदे कामरूपिणी |
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ‖
या कुन्देन्दु तुषार हार धवला, या शुभ्र वस्त्रावृता |
या वीणा वरदण्ड मण्डित करा, या श्वेत पद्मासना |
या ब्रह्माच्युत शङ्कर प्रभृतिभिर्-देवैः सदा पूजिता |
सा माम् पातु सरस्वती भगवती निश्शेषजाड्यापहा |
लक्ष्मी श्लोकः
लक्ष्मीं क्षीरसमुद्र राज तनयां श्रीरङ्ग धामेश्वरीं |
दासीभूत समस्त देव वनितां लोकैक दीपाङ्कुराम् |
श्रीमन्मन्ध कटाक्ष लब्ध विभव ब्रह्मेन्द्र गङ्गाधरां |
त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ‖
सरस्वती स्तोत्रं
सरस्वति नमस्तुभ्यं वरदे कामरूपिणीम् |
विद्यारम्भं करिष्यामि सिध्धिर्भवतु मे सदा ‖
दुर्गा देवी स्तोत्रं
सर्व स्वरूपे सर्वेशे सर्व शक्ति समन्विते |
भयेभ्यस्ताहि नो देवि दुर्गादेवि नमोस्तुते ‖
या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना |
या ब्रह्माच्युत शङ्करप्रभृतिभिर्देवैस्सदा पूजिता
सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा |
त्रिपुरसुन्दरी स्तोत्रं
ओङ्कार पञ्जर शुकीं उपनिषदुद्यान केलि कलकण्ठीम् |
आगम विपिन मयूरीं आर्यां अन्तर्विभावयेद्गौरीम् ‖
देवी श्लोकः
सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके |
शरण्ये त्र्यम्बके देवि नारायणि नमोस्तुते ‖
वेङ्कटेश्वर श्लोकः
श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् |
श्री वेङ्कट निवासाय श्रीनिवासाय मङ्गलम् ‖
दक्षिणामूर्ति श्लोकः
गुरवे सर्वलोकानां भिषजे भवरोगिणां |
निधये सर्वविद्यानां दक्षिणामूर्तये नमः ‖
बौद्ध प्रार्थन
बुद्धं शरणं गच्छामि
धर्मं शरणं गच्छामि
सङ्घं शरणं गच्छामि
शान्ति मन्त्रं
असतोमा सद्गमया |
तमसोमा ज्योतिर्गमया |
मृत्योर्मा अमृतङ्गमया |
ॐ शान्तिः शान्तिः शान्तिः
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः |
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःख भाग्भवेत् ‖
ॐ सह ना’ववतु | स नौ’ भुनक्तु | सह वीर्यं’ करवावहै |
तेजस्विनावधी’तमस्तु मा वि’द्विषावहै” ‖
ॐ शांतिः शांतिः शान्तिः’ ‖
स्वस्ति मन्त्राः
स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः |
गोब्राह्मणेभ्य-श्शुभमस्तु नित्यं
लोका-स्समस्ता-स्सुखिनो भवन्तु ‖
काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी |
देशोयं क्षोभरहितो ब्राह्मणास्सन्तु निर्भयाः ‖
विशेष मन्त्राः
पञ्चाक्षरी मन्त्रं – ॐ नमश्शिवाय
अष्टाक्षरी मन्त्रं – ॐ नमो नारायणाय
द्वादशाक्षरी मन्त्रं – ॐ नमो भगवते वासुदेवाय
Also Read:
Nitya Parayana Slokani Lyrics in English | Hindi | Kannada | Telugu | Tamil
Add Comment