Templesinindiainfo

Best Spiritual Website

Pradosha Stotram Lyrics in Marathi

Pradosha Stotram in Marathi:

॥ प्रदोष स्तोत्रम ॥
श्री गणेशाय नमः ।

जय देव जगन्नाथ जय शङ्कर शाश्वत ।
जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ॥ 1 ॥

जय सर्वगुणातीत जय सर्ववरप्रद ।
जय नित्य निराधार जय विश्वम्भराव्यय ॥ 2 ॥

जय विश्वैकवन्द्येश जय नागेन्द्रभूषण ।
जय गौरीपते शम्भो जय चन्द्रार्धशेखर ॥ 3 ॥

जय कोट्यर्कसङ्काश जयानन्तगुणाश्रय ।
जय भद्र विरूपाक्ष जयाचिन्त्य निरञ्जन ॥ 4 ॥

जय नाथ कृपासिन्धो जय भक्तार्तिभञ्जन ।
जय दुस्तरसंसारसागरोत्तारण प्रभो ॥ 5 ॥

प्रसीद मे महादेव संसारार्तस्य खिद्यतः ।
सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ॥ 6 ॥

महादारिद्र्यमग्नस्य महापापहतस्य च ।
महाशोकनिविष्टस्य महारोगातुरस्य च ॥ 7 ॥

ऋणभारपरीतस्य दह्यमानस्य कर्मभिः ।
ग्रहैः प्रपीड्यमानस्य प्रसीद मम शङ्कर ॥ 8 ॥

दरिद्रः प्रार्थयेद्देवं प्रदोषे गिरिजापतिम ।
अर्थाढ्यो वा.अथ राजा वा प्रार्थयेद्देवमीश्वरम ॥ 9 ॥

दीर्घमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः ।
ममास्तु नित्यमानन्दः प्रसादात्तव शङ्कर ॥ 10 ॥

शत्रवः संक्षयं यान्तु प्रसीदन्तु मम प्रजाः ।
नश्यन्तु दस्यवो राष्ट्रे जनाः सन्तु निरापदः ॥ 11 ॥

दुर्भिक्षमरिसन्तापाः शमं यान्तु महीतले ।
सर्वसस्यसमृद्धिश्च भूयात्सुखमया दिशः ॥ 12 ॥

एवमाराधयेद्देवं पूजान्ते गिरिजापतिम ।
ब्राह्मणान्भोजयेत पश्चाद्दक्षिणाभिश्च पूजयेत ॥ 13 ॥

सर्वपापक्षयकरी सर्वरोगनिवारणी ।
शिवपूजा मया.अ.अख्याता सर्वाभीष्टफलप्रदा ॥ 14 ॥

॥ इति प्रदोषस्तोत्रं सम्पूर्णम ॥

Also Read:

Pradosha Stotram Lyrics in Gujarati | Bengali | Marathi |  Kannada | MalayalamTelugu

Pradosha Stotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top