Templesinindiainfo

Best Spiritual Website

Shiva Ashtakam Lyrics in Marathi Slok

Shivashtakam in Marathi:

॥ शिव अष्टकम ॥
प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम ।
भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शंभुमीशानमीडे ॥ 1 ॥

गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम ।
जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शंभुमीशानमीडे ॥ 2 ॥

मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्मभूषाधरं तम ।
अनादिं ह्यपारं महामोहमारं शिवं शङ्करं शंभुमीशानमीडे ॥ 3 ॥

तटाधोनिवासं महाट्टाट्टहासं महापापनाशं सदा सुप्रकाशम ।
गिरीशं गणेशं सुरेशं महेशं शिवं शङ्करं शंभुमीशानमीडे ॥ 4 ।|

गिरीन्द्रात्मजासङ्गृहीतार्धदेहं गिरौ संस्थितं सर्वदा सन्निगेहम ।
परब्रह्म ब्रह्मादिभिर्वन्द्यमानं शिवं शङ्करं शंभुमीशानमीडे ॥ 5 ॥

कपालं त्रिशूलं कराभ्यां दधानं पदांभोजनम्राय कामं ददानम ।
बलीवर्दयानं सुराणां प्रधानं शिवं शङ्करं शंभुमीशानमीडे ॥ 6 ॥

शरच्चन्द्रगात्रं गुणानन्दपात्रं त्रिनेत्रं पवित्रं धनॆशस्य मित्रम ।
अपर्णाकळत्रं चरित्रं विचित्रं शिवं शङ्करं शंभुमीशानमीडे ॥ 7 ॥

हरं सर्पहारं चिताभूविहारं भवं वेदसारं सदा निर्विकारम ।
श्मशाने वसन्तं मनोजं दहन्तं शिवं शङ्करं शंभुमीशानमीडे ॥ 8 ॥

स्तवं यः प्रभाते नरः शूलपाणेः पठेत्सर्वदा भर्गभावानुरक्तः ।
स पुत्रं धनं धान्यमित्रं कळत्रं विचित्रैः समाराद्य मोक्षं प्रयाति ॥ 9 ॥

इति श्रीशिवाष्टकं संपूर्णम ॥

Also Read:

Shiva Ashtakam in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Marathi | Telugu | Tamil

Shiva Ashtakam Lyrics in Marathi Slok

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top