Shataka

Shri Mukapanchashati Lyrics in Hindi | Sri Muka Panchasati

Shri Mookapanchasati Lyrics in Hindi:

॥ श्रीमूकपञ्चशती ॥

माता मरकतश्यामा मातङ्गी मदशालिनी ।
कुर्यात् कटाक्षं कल्याणी कदम्बवनवासिनी ॥
॥ श्रीः ॥
॥ श्रीचन्द्रमौलीश्वराय नमः ॥
॥ श्रीकारणपरचिद्रूपायै नमः ॥
श्रीमूकमहाकविप्रणीता
॥ श्रीः ॥
॥ श्रीमूकपञ्चशती ॥
श्रीकामाक्षीपरदेवतायाः पादारविन्दयोः
भक्तिभरेण समर्पितम् ॥
आर्यामेव विभावयन्मनसि यः पादारविन्दं पुरः

पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्षच्छविम् ।
कामाक्ष्या मृदुलस्मितांशुलहरीज्योत्स्नावयस्यान्विता-
मारोहत्यपवर्गसौधवलभीमानन्दवीचीमयीम् ॥

[मन्दस्मित १०१ ]

श्रीमत्परमहंसपरिव्राजकाचार्यवर्य श्रीकामकोटिपीठाधीश्वर-
जगद्गुरु श्रीमत् चन्द्रशेखरेन्द्रसरस्वती श्रीपादानां
श्रीमुखेन समद्भासिता

॥ श्रीः ॥
॥ श्रीचन्द्रमौलीश्वर ॥
मुद्रा
स्वस्ति श्रीमदखिलभूमण्डलालंकार-त्रयस्त्रिंशत्कोटि-
देवतासेवित श्रीकामाक्षीदेवीसनाथ-श्रीमदेकाम्रनाथ-
श्रीमहादेवीसनाथ-श्रीहस्तिनिरिनाथ-साक्षात्कारपरम-
अधिष्ठानसत्यव्रतनामाङ्कित-काञ्चीदिव्यक्षेत्रे शारदा-
मठसुस्थितानाम्, अतुलितसुधारसमाधुर्यकमलासनकामिनी-
धम्मिल्ल सम्फुल्लमल्लिकामालिकानिष्यन्दमकरन्दझरी-
सौवस्तिकवाङ्निगुम्भविजृम्भणानन्दतुन्दिलितमणीषि-
मण्डलानाम्, अनवरताद्वैतविद्याविनोदरसिकानाम्,
निरन्तरालंकृतीकृतशान्तिदान्तिभूम्नाम्, सकलभुवन-
चक्रप्रतिष्ठापक श्रीचक्रप्रतिष्ठाविख्यातयशोऽलंकृतानाम्,
निखिलपाषण्डषण्डकण्टकोद्धाटनेन विशदीकृतवेदवेदान्त-
मार्गषण्मतप्रतिष्ठापकाचार्याणाम्, श्रीमत्परमहंसपरिव्राजक-
आचार्यवर्य-श्रीजगद्गुरु श्रीमच्छंकरभगवत्पादाचार्याणाम्
अधिष्ठाने सिंहासनाभिषिक्त श्रीमन्महादेवेन्द्रसरस्वती-
संयमीन्द्राणाम्, अन्तेवासिवर्य श्रीमच्चन्द्रशेखरेन्द्रसरस्वती
श्रीपादैः ।
क्रियते नारायणस्मृतिः
तत्रभवान् मूक इति सुप्रसिद्धः महाकविशिरोमणिः
श्रीकामाक्षीदेवीकरुणाकटाक्षतरङ्गितपुण्यकवितारसपूरः
`मूकपञ्चशती’ इति कर्तुर्नाम्ना प्रसिद्धमिमं लोकोत्तरं
ग्रन्थं प्रणीय भूमण्डलेऽनुत्तमं पुण्ययशोविशेषं शाश्वतीं
परानन्दानुभूतिं च लब्धवानिति सुविदितमेव । स्तोत्ररत्ने
चास्मिन् काञ्चीमध्यगत कामकोटिपीठाधिष्ठात्रीम्
इन्दुमौलेरैश्वर्यरूपां श्रीकामाक्षीं परदेवताम्,
आरूढयौवनाटोपा, तरुणिमसर्वस्वं, नित्यतरुणी,
लावण्यामृततरङ्गमाला, विभ्रमसमवायसारसन्नाहा,
श‍ृङ्गाराद्वैततन्त्रसिद्धान्तं, मीनध्वजतन्त्रपरमतात्पर्यं\,
कन्दर्पसूतिकापाङ्गी, मनसिजसाम्राज्यगर्वबीजं,
पुष्पायुधवीर्यसरसपरिपाटी, मदनागमसमयदीक्षित-
कटाक्षा, कुसुमशरगर्वसम्पत्कोशगृहम्, अनङ्गब्रह्मतत्त्व-
बोधसिरा, पञ्चशरशास्त्रबोधनपरमाचार्यदृष्टिपाता
इत्यादिरूपेण वर्णयन् पुनः लावण्यमृतपरकाष्ठाभूतां
तामेव परदेवतां, कारणपरचिद्रूपा, कैवल्यानन्दकन्दः,
आम्नायरहस्यम्, उपनिषदरविन्दकुहरमधुधारा,
वाङ्मनोऽतीता, आनन्दाद्वैतकन्दली, मुक्तिबीजम्,
आगमसल्लापसारयाथार्थ्यं, बोधामृतवीची, अभिदाकृतिः,
ऐकात्म्यप्रकृतिः, निगमवचस्सिद्धान्तः, गुरुमूर्तिः, इत्येवं-
रूपेण साक्षत्कुर्वन् यौवनश‍ृङ्गारादिविषयरसानुभव-
सामग्रीं ज्ञानवैराग्यादिब्रह्मानन्दानुभवसामग्रीत्वेन
सम्पादयन् –
᳚शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः ।
विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ॥᳚
इति परदेवतानुग्रहफलीभूतां परवैराग्यकाष्ठां प्रकटयति ।
[आर्या ४८ ]

पद्मपञ्चशतकात्मकेऽत्र ग्रन्थे शतकानां या आनुपूर्वी
तस्यामयं विशेषो दृश्यते । यथा कश्चन शिशुः चक्षुरादि
इन्द्रियप्रागल्भ्याविर्भावात्पूर्वं मनोवृत्तिमात्रेण कलयति
स्वेप्सितम् ; एवमार्याशतके भक्तशिशोः मनः प्रवृत्तिम्
अम्बिकायाः स्वरूपानुसन्धानपटीयसीं सम्पादयति
कविपुङ्गवः ; अयमाशयः –
᳚अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहन्ते ।
चिन्तितसन्तानवतां सन्ततमपि तन्तनीषि महिमानम् ॥᳚
इति श्लोकेन सूचितः ॥ [आर्या ९८ ]

द्वितीयशतके तावत् यथा किञ्चित्प्रवृद्धग्रहणशक्तिः
बालकः खान्तिके विद्यमानस्य वस्तुनः दर्शन-
स्पर्शनादिभिः आह्लादमधिगच्छति तद्वत् भक्तबालकः
अत्यन्तमधोभागे विद्यमानस्य स्वस्यान्तिकत्वेनैव
जगन्मातुः निरन्तरध्यानफलीभूत पादारविन्द दर्शन-
आनन्दमनुभवतीत्ययमाशयः –
᳚मरालीनां यानाभ्यसनकलनामूलगुरवे
दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे ।
तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे
जनोऽयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥᳚
इति श्लोकेन सूचितः ॥ [पादारविन्द ३ ]

यथा मनसः ज्ञानेन्द्रियाणां च स्फूर्त्यनन्तरमेव
वाक्प्रसरति, तथैव आर्यापादारविन्दशतकयोरनन्तरं
स्वप्रेमास्पदं वस्तु निरर्गलं स्तोतुमारभते –
᳚पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरां
वैरिञ्चान्यपि गुम्फनानि विगलद्गर्वाणि शर्वाणि ते ।
स्तोतुं त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां
वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः ॥᳚
इतादिना स्तुतिशतकेन । [स्तुति १ ]

लौकिकाविद्यादिषु कुशलः कश्चन यथा लौकिकसम्पदः
प्राप्तुर्महो भवति तद्वत् पूर्वकृतस्तुतिफलत्वेन भक्तः
अम्बिकायाः कटाक्षविशेषमधिगम्य परसंविदनुभूत्य-
उचिततेजःपुष्ट्यादिपात्रं भवतीत्ययमाशयः-
᳚अस्तं क्षणान्नयतु मे परितापसूर्य-
मानन्दचन्द्रमसमानयतां प्रकाशम् ।
कालान्धकारसुषमां कलयन् दिगन्ते
कामाक्षि कोमलकटाक्षनिशागमस्ते ॥᳚
इत्यादिभिर्वर्णनैः कटाक्षशतके सूचितः ॥ [कटाक्ष ६ ]

यथा लौकिकसम्पत्सम्पूर्णः कश्चन समग्रयौवनः
लौकिकश‍ृङ्गारसुखानुभवाय पात्रं भवति, तद्वत्
देव्याः परमानुग्रहपात्रीभूतः तदीयमन्दस्मित-
चन्द्रिकासनाथः आनन्दचन्द्र इव अलौकिक-
निरतिशयानन्दानुभवात्मकः प्रकाशत इति
अमूमेव भावप्रणालिकां महाकविः स्वयमेव
पञ्चशतीपुर्तिम्पद्येन आविष्यकरोति । यथा –
᳚आर्यामेव विभावयन्मनसि यः पादारविन्दं पुरः
पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्षच्छविम् ।
कामाक्ष्या मृदुलस्मितांशुलहरीज्योत्स्नावयस्यान्विता-
मारोहत्यपवर्गसौधवलभीमानन्दवीचीमयीम् ॥᳚
इति । [मन्दस्मित १०१ ]

अस्या लोकोत्तरायाः स्तुतेः पठनमात्रेण तत्क्षणे
महाकविनाऽमुना अन्ततः परदेवतयैव वा
ऐकात्म्यमनुभवतीव साधकः ।
तदिदं ग्रन्थरत्नं द्राविडभाषामयार्थानुवाद-
सहितमचिरादेव महता परिश्रमेण भक्तिभरेण
मुद्राप्य श्री कामाक्षी देवी कुम्भाभिषेक शुभ-
मुहूर्त एव उपहारीकृतवते, मुद्रापणदिविषये परमं
साहाय्यमाचरितवद्भयः, तद्ग्रन्थपठितृभ्यश्च
भक्तपुङ्गवेभ्यः श्रीकामाक्षीकटाक्षाः समुल्ल-
सन्त्वित्याशास्महे ॥

॥ इति नारायणस्मृतिः ॥

॥ आर्याशतकम् ॥
कारणपरचिद्रूपा काञ्चीपुरसीम्नि कामपीठगता ।
काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ॥ १ ॥

कंचन काञ्चीनिलयं करधृतकोदण्डबाणसृणिपाशम् ।
कठिनस्तनभरनम्रं कैवल्यानन्दकन्दमवलम्बे ॥ २ ॥

चिन्तितफलपरिपोषणचिन्तामणिरेव काञ्चिनिलया मे ।
चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुखाधारा ॥ ३ ॥

कुटिलकचं कठिनकुचं कुन्दस्मितकान्ति कुङ्कुमच्छायम् ।
कुरुते विहृतिं काञ्च्यां कुलपर्वतसार्वभौमसर्वस्वम् ॥ ४ ॥

पञ्चशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन ।
काञ्चीसीम्नि कुमारी काचन मोहयति कामजेतारम् ॥ ५ ॥

परया काञ्चीपुरया पर्वतपर्यायपीनकुचभरया ।
परतन्त्रा वयमनया पङ्कजसब्रह्मचारिलोचनया ॥ ६ ॥

ऐश्वर्यमिन्दुमौलेरैकात्म्यप्रकृति काञ्चिमध्यगतम् ।
ऐन्दवकिशोरशेखरमैदम्पर्यं चकास्ति निगमानाम् ॥ ७ ॥

श्रितकम्पसीमानं शिथिलितपरमशिवधैर्यमहिमानम् ।
कलये पटलिमानं कंचन कञ्चुकितभुवनभूमानम् ॥ ८ ॥

आदृतकाञ्चीनिलयमाद्यामारूढयौवनाटोपाम् ।
आगमवतंसकलिकामानन्दाद्वैतकन्दलीं वन्दे ॥ ९ ॥

तुङ्गाभिरामकुचभरश‍ृङ्गारितमाश्रयामि काञ्चिगतम् ।
गङ्गाधरपरतन्त्रं श‍ृङ्गाराद्वैततन्त्रसिद्धान्तम् ॥ १० ॥

काञ्चीरत्नविभूषां कामपि कन्दर्पसूतिकापाङ्गीम् ।
परमां कलामुपासे परशिववामाङ्कपीठिकासीनाम् ॥ ११ ॥

कम्पातीचराणां करुणाकोरकितदृष्टिपातानाम् ।
केलीवनं मनो मे केषांचिद्भवतु चिद्विलासानाम् ॥ १२ ॥

आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् ।
आरब्धयौवनोत्सवमाम्नायरहस्यमन्तरवलम्बे ॥ १३ ॥

अधिकाञ्चि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन ।
अनुबद्धं मम मानसमरुणिमसर्वस्वसम्प्रदायेन ॥ १४ ॥

अङ्कितशंकरदेहामङ्कुरितोरोजकङ्कणाश्लेषैः ।
अधिकाञ्चि नित्यतरुणीमद्राक्षं कांचिदद्भुतां बालाम् ॥ १५ ॥

मधुरधनुषा महीधरजनुषा नन्दामि सुरभिबाणजुषा ।
चिद्वपुषा काञ्चिपुरे केलिजुषा बन्धुजीवकान्तिमुषा ॥ १६ ॥

मधुरस्मितेन रमते मांसलकुचभारमन्दगमनेन ।
मध्येकाञ्चि मनो मे मनसिजसाम्राज्यगर्वबीजेन ॥ १७ ॥

धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् ।
अम्बुमयीमिन्दुमयीमम्बामनुकम्पमादिमामीक्षे ॥ १८ ॥

लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकम्पम् ।
पीनस्तनभरमीडे मीनध्वजतन्त्रपरमतात्पर्यम् ॥ १९ ॥

श्वेता मन्थरहसिते शाता मध्ये च वाड्भनोऽतीता ।
शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ॥ २० ॥

पुरतः कदा न करवै पुरवैरिविमर्दपुलकिताङ्गलताम् ।
पुनतीं काञ्चीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ॥ २१ ॥

पुण्या काऽपि पुरन्ध्री पुङ्खितकन्दर्पसम्पदा वपुषा ।
पुलिनचरी कम्पायाः पुरमथनं पुलकनिचुलितं कुरुते ॥ २२ ॥

तनिमाद्वैतवलग्नं तरुणारुणसम्प्रदायतनुलेखम् ।
तटसीमनि कम्पायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ॥ २३ ॥

पौष्टिककर्मविपाकं पौष्पशरं सविधसीम्नि कम्पायाः ।
अद्राक्षमात्तयौवनमभ्युदयं कंचिदर्धशशिमौलैः ॥ २४ ॥

संश्रितकाञ्चीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे ।
संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ॥ २५ ॥

मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदण्डम् ।
आदृतकाञ्चीखेलनमादिममारुण्यभेदमाकलये ॥ २६ ॥

उररीकृतकाञ्चिपुरीमुपनिषदरविन्दकुहरमधुधाराम् ।
उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शम्भोः ॥ २७ ॥

एणशिशुदीर्घलोचनमेनःपरिपन्थि सन्ततं भजताम् ।
एकाम्रनाथजीवितमेवम्पददूरमेकमवलम्बे ॥ २८ ॥

स्मयमानमुखं काञ्चीभयमानं कमपि देवताभेदम् ।
दयमानं वीक्ष्य मुहुर्वयमानन्दामृताम्बुधौ मग्नाः ॥ २९ ॥

कुतुकजुषि काञ्चिदेशे कुमुदतपोराशिपाकशेखरिते ।
कुरुते मनोविहारं कुलगिरिपरिबृढकुलैकमणिदीपे ॥ ३० ॥

वीक्षेमहि काञ्चिपुरे विपुलस्तनकलशगरिमपरवशितम् ।
विद्रुमसहचरदेहं विभ्रमसमवायसारसन्नाहम् ॥ ३१ ॥

कुरुविन्दगोत्रगात्रं कूलचरं कमपि नौमि कम्पायाः ।
कूलंकषकुचकुम्भं कुसुमायुधवीर्यसारसंरम्भम् ॥ ३२ ॥

कुडूमलितकुचकिशोरैः कुर्वाणैः काञ्चिदेशसौहार्दम् ।
कुङ्कुमशोणैर्निचितं कुशलपथं शम्भुसुकृतसम्भारैः ॥ ३३ ॥

अङ्कितकचेन केनचिदन्धंकरणौषधेन कमलानाम् ।
अन्तःपुरेण शम्भोरलंक्रिया काऽपि कल्प्यते काञ्च्याम् ॥ ३४ ॥

ऊरीकरोमि सन्ततमूष्मलफालेन ललितं पुंसा ।
उपकम्पमुचितखेलनमुर्वीधरवंशसम्पदुन्मेषम् ॥ ३५ ॥

अङ्कुरितस्तनकोरकमङ्कालंकारमेकचूतपतेः ।
आलोकेमहि कोमलमागमसंलापसारयाथार्थ्यम् ॥ ३६ ॥

पुञ्जितकरुणमुदञ्चितशिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे ।
मञ्जरितमृदुलहासं पिञ्जरतनुरुचि पिनाकिमूलधनम् ॥ ३७ ॥

लोलहृदयोऽस्ति शम्भोर्लोचनयुगलेन लेह्यमानायाम् ।
ललितपरमशिवायां लावण्यामृततरङ्गमालायाम् ॥ ३८ ॥

मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः ।
मण्डितकम्पातीरैर्मङ्गलकन्दैर्ममास्तु सारूप्यम् ॥ ३९ ॥

वदनारविन्दवक्षोवामाङ्कतटीवशंवदीभूता ।
पूरुषत्रितये त्रेधा पुरन्ध्रिरूपा त्वमेव कामाक्षि ॥ ४० ॥

बाधाकरीं भवाब्धेराधाराद्यम्बुजेषु विचरन्तीम् ।
आधारीकृतकाञ्ची बोधामृतवीचिमेव विमृशामः ॥ ४१ ॥

कलयाम्यन्तः शशधरकलयाऽङ्कितमौलिममलचिद्वलयाम् ।
अलयामागमपीठीनिलयां वलयाङ्कसुन्दरीमम्बाम् ॥ ४२ ॥

शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे ।
सर्वाकृतये शोणिमगर्वायास्मै समर्प्यते हृदयम् ॥ ४३ ॥

समया सान्ध्यमयूखैः समया बुद्धया सदैव शीलितया ।
उमया काञ्चीरतया न मया लभ्यते किं नु तादात्म्यम् ॥ ४४ ॥

जन्तोस्तव पदपूजनसन्तोषतरङ्गितस्य कामाक्षि ।
वन्धो यदि भवति पुनः सिन्धोरम्भस्सु बम्भ्रमीति शिला ॥ ४५ ॥

कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामुण्डे ।
गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ॥ ४६ ॥

अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः ।
अनहन्ता त्वमहन्ता भ्रमयसि कामाक्षि शाश्वती विश्वम् ॥ ४७ ॥

शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः ।
विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ॥ ४८ ॥

कामपरिपन्थिकामिनि कामेश्वरि कामपीठमध्यगते ।
कामदुघा भव कमले कामकले कामकोटि कामाक्षि ॥ ४९ ॥

मध्येहृदयं मध्येनिटिलं मध्येशिरोऽपि वास्तव्याम् ।
चण्डकरशक्रकार्मुकचन्द्रसमाभां नमामि कामाक्षीम् ॥ ५० ॥

अधिकाञ्चि केलिलोलैरखिलागमयन्त्रतन्त्रमयैः ।
अतिशीतं मम मानसमसमशरद्रोहिजीवनोपायैः ॥ ५१ ॥

नन्दति मम हृदि काचन मन्दिरयन्ता निरन्तरं काञ्चीम् ।
इन्दुरविमण्डलकुचा बिन्दुवियन्नादपरिणता तरुणी ॥ ५२ ॥

शम्पालतासवर्णं सम्पादयितुं भवज्वरचिकित्साम् ।
लिम्पामि मनसि किंचन कम्पातटरोहि सिद्धभैषज्यम् ॥ ५३ ॥

अनुमितकुचकाठिन्यामधिवक्षःपीठमङ्गजन्मरिपोः ।
आनन्ददां भजे तामानङ्गब्रह्मतत्वबोधसिराम् ॥ ५४ ॥

ऐक्षिषि पाशाङ्कुशधरहस्तान्तं विस्मयार्हवृत्तान्तम् ।
अधिकाञ्चि निगमवाचां सिद्धान्तं शूलपाणिशुद्धान्तम् ॥ ५५ ॥

आहितविलासभङ्गीमाब्रह्मस्तम्बशिल्पकल्पनया ।
आश्रितकाञ्चीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ॥ ५६ ॥

मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् ।
एको भवति स जन्तुर्लोकोत्तरकीर्तिरेव कामाक्षि ॥ ५७ ॥

पञ्चदशवर्णरूपं कंचन काञ्चीविहारधौरेयम् ।
पञ्चशरीयं शम्भोर्वञ्चनवैदग्ध्यमूलमवलम्बे ॥ ५८ ॥

परिणतिमतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीम् ।
पञ्चाशदर्णकल्पितमदशिल्पां त्वां नमामि कामाक्षि ॥ ५९ ॥

आदिक्षन्मम गुरुराडादिक्षान्ताक्षरात्मिकां विद्याम् ।
स्वादिष्ठचापदण्डां नेदिष्ठामेव कामपीठगताम् ॥ ६० ॥

तुष्यामि हर्षितस्मरशासनया काञ्चिपुरकृतासनया ।
स्वासनया सकलजगद्भासनया कलितशम्बरासनया ॥ ६१ ॥

प्रेमवती कम्पायां स्थेमवती यतिमनस्सु भूमवती ।
सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ॥ ६२ ॥

कौतुकिना कम्पायां कौसुमचापेन कीलितेनान्तः ।
कुलदैवतेन महता कुड्मलमुद्रां धुनोतु नःप्रतिभा ॥ ६३ ॥

यूना केनापि मिलद्देहा स्वाहासहायतिलकेन ।
सहकारमूलदेशे संविद्रूपा कुटुम्बिनी रमते ॥ ६४ ॥

कुसुमशरगर्वसम्पत्कोशगृहं भाति काञ्चिदेशगतम् ।
स्थापितमस्मिन्कथमपि गोपितमन्तर्मया मनोरत्नम् ॥ ६५ ॥

दग्धषडध्वारण्यं दरदलितकुसुम्भसम्भृतारुण्यम् ।
कलये नवतारुण्यं कम्पातटसीम्नि किमपि कारुण्यम् ॥ ६६ ॥

अधिकाञ्चि वर्धमानामतुलां करवाणि पारणामक्ष्णोः ।
आनन्दपाकभेदामरुणिमपरिणामगर्वपल्लविताम् ॥ ६७ ॥

बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् ।
एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ॥ ६८ ॥

किं वा फलति ममान्यौर्बिम्बाधरचुम्बिमन्दहासमुखी ।
सम्बाधकरी तमसामम्बा जागर्ति मनसि कामाक्षी ॥ ६९ ॥

मञ्चे सदाशिवमये परिशिवमयललितपौष्पपर्यङ्के ।
अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ॥ ७० ॥

रक्ष्योऽस्मि कामपीठीलासिकया घनकृपाम्बुराशिकया ।
श्रुतियुवतिकुन्तलीमणिमालिकया तुहिनशैलबालिकया ॥ ७१ ॥

लीये पुरहरजाये माये तव तरुणपल्लवच्छाये ।
चरणे चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ॥ ७२ ॥

मूर्तिमति मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये ।
मोदितकम्पाकूले मुहुर्मुहुर्मनसि मुमुदिषाऽस्माकम् ॥ ७३ ॥

वेदमयीं नादमयीं बिन्दुमयीं परपदोद्यदिन्दुमयीम् ।
मन्त्रमयीं तन्त्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥ ७४ ॥

पुरमथनपुण्यकोटी पुञ्जितकविलोकसूक्तिरसधाटी ।
मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ॥ ७५ ॥

कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु ।
अवलोकितमवलम्बितमधिकम्पातटममेयमस्माभिः ॥ ७६ ॥

प्रत्यङ्मुख्या दृष्टया प्रसाददीपाङ्कुरेण कामाक्ष्याः ।
पश्यामि निस्तुलमहो पचेलिमं कमपि परशिवोल्लासम् ॥ ७७ ॥

विद्ये विधातृविषये कात्यायनि कालि कामकोटिकले ।
भारति भैरवि भद्रे शाकिनि शाम्भवि शिवे स्तुवे भवतीम् ॥ ७८ ॥

मालिनि महेशचालिनि काञ्चीखेलिनि विपक्षकालिनि ते ।
शूलिनि विद्रुमशालिनि सुरजनपालिनि कपालिनि नमोऽस्तु ॥ ७९ ॥

देशिक इति किं शंके तत्तादृक्तव नु तरुणिमोन्मेषः ।
कामाक्षि शूलपाणेः कामागमसमयदीक्षायाम् ॥ ८० ॥

वेतण्डकुम्भडम्बरवैतण्डिककुचभरार्तमध्याय ।
कुङ्कुमरुचे नमस्यां शंकरनयनामृताय रचयामः ॥ ८१ ॥

अधिकाञ्चितमणिकाञ्चनकाञ्चीमधिकाञ्चि कांचिदद्राक्षम् ।
अवनतजनानुकम्पामनुकम्पाकूलमस्मदनुकूलाम् ॥ ८२ ॥

परिचितकम्पातीरं पर्वतराजन्यसुकृतसन्नाहम् ।
परगुरुकृपया वीक्षे परमशिवोत्सङ्गमङ्गलाभरणम् ॥ ८३ ॥

दग्धमदनस्य शम्भोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् ।
तव देवि तरुणिमश्रीचतुरिमपाको न चक्षमे मातः ॥ ८४ ॥

मदजलतमालपत्रा वसनितपत्रा करादृतखानित्रा ।
विहरति पुलिन्दयोषा गुञ्जाभूषा फणीन्द्रकृतवेषा ॥ ८५ ॥

अङ्के शुकिनी गीते कौतुकिनी परिसरे च गायकिनी ।
जयसि सविधेऽम्ब भैरवमण्डलिनी श्रवसि शङ्खकुण्डलिनी ॥ ८६ ॥

प्रणतजनतापवर्गा कृतबहुसर्गा ससिंहसंसर्गा ।
कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ॥ ८७ ॥

श्रवणचलद्वेतण्डा समरोद्दण्डा धुतासुरशिखण्डा ।
देवि कलितान्त्रषण्डा धृतनरमुण्डा त्वमेव चामुण्डा ॥ ८८ ॥

उर्वीधरेन्द्रकन्ये दर्वीभरितेन भक्तपूरेण ।
गुर्वीमकिंचनार्ति खर्वीकुरुषे त्वमेव कामाक्षि ॥ ८९ ॥

ताडितरिपुपरिपीडनभयहरण निपुणहलमुसला ।
क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ॥ ९० ॥

स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला ।
कनकरुचिचौर्यशीला त्वमम्ब बाला कराब्जधृतमाला ॥ ९१ ॥

विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी ।
कामाक्षि पक्ष्मलाक्षी कलितविपञ्ची विभासि वैरिञ्ची ॥ ९२ ॥

कुङ्कुमरुचिपिङ्गमसृक्पङ्किलमुण्डालिमण्डितं मातः ।
श्रीकामाक्षि तदीयसङ्गमकलामन्दीभवत्कौतुकः
जयति तव रूपधेयं जपपटपुस्तकवराभयकराब्जम् ॥ ९३ ॥

कनकमणिकलितभूषां कालायसकलहशीलकान्तिकलाम् ।
कामाक्षि शीलये त्वां कपालशूलाभिरामकरकमलाम् ॥ ९४ ॥

लोहितिमपुञ्जमध्ये मोहितभुवने मुदा निरीक्षन्ते ।
वदनं तव कुवयुगलं काञ्चीसीमां च केऽपि कामाक्षि ॥ ९५ ॥

जलधिद्विगुणितहुतबहदिशादिनेश्वरकलाश्विनेयदलैः ।
नलिनैर्महेशि गच्छसि सर्वोत्तरकरकमलदलममलम् ॥ ९६ ॥

सत्कृतदेशिकचरणाः सबीजनिर्बीजयोगनिश्रेण्या ।
अपवर्गसौधवलभीमारोहन्त्यम्ब केऽपि तव कृपया ॥ ९७ ॥

अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहन्ते ।
चिन्तितसन्तानवतां सन्ततमपि तन्तनीषि महिमानम् ॥ ९८ ॥

कलमञ्जुलवागनुमितगलपञ्जरगतशुकग्रहौत्कण्ठ्यात् ।
अम्ब रदनाम्बरं ते बिम्बफलं शम्बरारिणा न्यस्तम् ॥ ९९ ॥

जय जय जगदम्ब शिवे जय जय कामाक्षि जय जयाद्रिसुते ।
जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ॥ १०० ॥

आर्याशतकं भक्त्या पठतामार्याकटाक्षेण ।
निस्सरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ॥ १०१ ॥

आर्याशतकं सम्पूर्णम् ॥

॥ पादारविन्दशतकम् ॥
महिम्नः पन्थानं मदनपरिपन्थिप्रणयिनि
प्रभुर्निर्णेतुं ते भवति यतमानोऽपि कतमः ।
तथापि श्रीकाञ्चीविहृतिरसिके कोऽपि मनसो
विपाकस्त्वत्पादस्तुतिविधिषु जल्पाकयति माम् ॥ १ ॥

गलग्राही पौरन्दरपुरवनीपल्लवरुचां
धृतपाथम्यानामरुणमहसामादिमगुरुः ।
समिन्धे बन्धूकस्तबकसहयुध्वा दिशि दिशि
प्रसर्पन्कामाक्ष्याश्चरणकिरणानामरुणिमा ॥ २ ॥

मरालीनां यानाभ्यसनकलनामूलगुरवे
दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे ।
तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे
जनोऽयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥ ३ ॥

वहन्ती सैन्दूरीं सरणिमवनम्रामरपुऱी-
पुरन्ध्रीसीमन्ते कविकमलबालार्कसुषमा ।
त्रयीसीमन्तिन्याः स्तनतटनिचोलारुणपटी
विभान्ती कामाक्ष्याः पदनलिनकान्तिर्विजयते ॥ ४ ॥

प्रणम्रीभूतस्य प्रणयकलहत्रस्तमनसः
स्मरारातेश्चूडावियति गृहमेधी हिमकरः ।
ययोः सान्ध्यां कान्तिं वहति सुषमाभिश्चरणयोः
तयोर्मे कामाक्ष्या हृदयमपतन्द्रं विहरताम् ॥ ५ ॥

ययोः पीठायन्ते विबुधमुकुटीनां पटलिका
ययोः सौधायन्ते स्वयमुदयभाजो भणितयः ।
ययोः दासायन्ते सरसिजभवाद्याश्चरणयोः
तयोर्मे कामाक्ष्या दिनमनु वरीवर्तु हृदयम् ॥ ६ ॥

नयन्ती संकोचं सरसिजरुचं दिक्परिसरे
सृजन्ती लौहित्यं नखकिरणचन्द्रार्धखचिता ।
कवीन्द्राणां हृत्कैरवविकसनोद्योगजननी
स्फुरन्ती कामाक्ष्याः चरणरुचिसन्ध्या विजयते ॥ ७ ॥

विरावैर्माञ्जीरैः किमपि कथयन्तीव मधुरं
पुरस्तादानम्रे पुरविजयिनि स्मेरवदने ।
वयस्येव प्रौढा शिथिलयति या प्रेमकलह-
प्ररोहं कामाक्ष्याः चरणयुगली सा विजयते ॥ ८ ॥

सुपर्वस्त्रीलोलालकपरिचितं षट्पदकुलैः
स्फुरल्लाक्षारागं तरुणतरणिज्योतिररुणैः ।
भृतं कान्त्यम्भोभिः विसृमरमरन्दैः सरसिजैः
विधत्ते कामाक्ष्याः चरणयुगलं बन्धुपदवीम् ॥ ९ ॥

रजःसंसर्गेऽपि स्थितमरजसामेव हृदये
परं रक्तत्वेन स्थितमपि विरक्तैकशरणम् ।
अलभ्यं मन्दानां दधदपि सदा मन्दगतितां
विधत्ते कामाक्ष्याः चरणयुगमाश्चर्यलहरीम् ॥ १० ॥

जटाला मञ्जीरस्फुरदरुणरत्नांशुनिकरैः
निषिदन्ती मध्ये नखरुचिझरीगाङ्गपयसाम् ।
जगत्त्राणं कर्तुं जननि मम कामाक्षि नियतं
तपश्चर्यां धत्ते तव चरणपाथोजयुगली ॥ ११ ॥

तुलाकोटिद्वन्द्वक्कणितभणिताभीतिवचसोः
विनम्रं कामाक्षी विसृमरमहःपाटलितयोः ।
क्षणं विन्यासेन क्षपिततमसोर्मे ललितयोः
पुनीयान्मूर्धानं पुरहरपुरन्ध्री चरणयोः ॥ १२ ॥

भवानि द्रुह्येतां भवनिबिडितेभ्यो मम मुहु-
स्तमोव्यामोहेभ्यस्तव जननि कामाक्षि चरणौ ।
ययोर्लाक्षाबिन्दुस्फुरणधरणाद्ध्वर्जटिजटा-
कुटीरा शोणाङ्कं वहति वपुरेणाङ्ककलिका ॥ १३ ॥

पवित्रीकुर्युर्नुः पदतलभुवः पाटलरुचः
परागास्ते पापप्रशमनधुरीणाः परशिवे ।
कणं लब्धुं येषां निजशिरसि कामाक्षि विवशा
वलन्तो व्यातन्वन्त्यहमहमिकां माधवमुखाः ॥ १४ ॥

बलाकामालाभिर्नखरुचिमयीभिः परिवृते
विनम्रस्वर्नारीविकचकचकालाम्बुदकुले ।
स्फुरन्तः कामाक्षि स्फुटदलितबन्धूकसुहृद-
स्तटिल्लेखायन्ते तव चरणपाथोजकिरणाः ॥ १५ ॥

सरागः सद्वेषः प्रसृमरसरोजे प्रतिदिनं
निसर्गादाक्रामन्विबुधजनमूर्धानमधिकम् ।
कथंकारं मातः कथय पदपद्मस्तव सतां
नतानां कामाक्षि प्रकटयति कैवल्यसरणिम् ॥ १६ ॥

जपालक्ष्मीशोणो जनितपरमज्ञाननलिनी-
विकासव्यासङ्गो विफलितजगज्जाड्यगरिमा ।
मनःपूर्वाद्रिं मे तिलकयतु कामाक्षि तरसा
तमस्काण्डद्रोही तव चरणपाथोजरमणः ॥ १७ ॥

नमस्कुर्मः प्रेङ्खन्मणिकटकनीलोत्पलमहः-
पयोधौ रिङ्खद्भिर्नखकिरणफेनैर्धवलिते ।
स्फुटं कुर्वाणाय प्रबलचलदौर्वानलशिखा-
वितर्कं कामाक्ष्याः सततमरुणिम्ने चरणयोः ॥ १८ ॥

शिवे पाशायेतामलघुनि तमःकूपकुहरे
दिनाधीशायेतां मम हृदयपाथोजविपिने ।
नभोमासायेतां सरसकवितारीतिसरिति
त्वदीयौ कामाक्षि प्रसृतकिरणौ देवि चरणौ ॥ १९ ॥

निषक्तं श्रुत्यन्ते नयनमिव सद्वृत्तरुचिरैः
समैर्जुष्टं शुद्धैरधरमिव रम्यैर्द्विजगणैः ।
शिवे वक्षोजन्मद्वितयमिव मुक्ताश्रितमुमे
त्वदीयं कामाक्षि प्रणतशरणं नौमि चरणम् ॥ २० ॥

नमस्यासंसज्जन्नमुचिपरिपन्थिप्रणयिनी-
निसर्गप्रेङ्खोलत्कुरलकुलकालाहिशबले ।
नखच्छायादुग्धोदधिपयसि ते वैद्रुमरुचां
प्रचारं कामाक्षि प्रचुरयति पादाब्जसुषमा ॥ २१ ॥

कदा दूरीकर्तुं कटुदुरितकाकोलजनितं
महान्तं सन्तापं मदनपरिपन्थिप्रियतमे ।
क्षणात्ते कामाक्षि त्रिभुवनपरीतापहरणे
पटीयांसं लप्स्ये पदकमलसेवामृतरसम् ॥ २२ ॥

ययोः सान्ध्यं रोचिः सततमरुणिम्ने स्पृहयते
ययोश्चान्द्री कान्तिः परिपतति दृष्ट्वा नखरुचिम् ।
ययोः पाकोद्रेकं पिपठिषति भक्त्या किसलयं
म्रदिम्नः कामाक्ष्या मनसि चरणौ तौ तनुमहे ॥ २३ ॥

जगन्नेदं नेदं परमिति परित्यज्य यतिभिः
कुशाग्रीयस्वान्तैः कुशलधिषणैः शास्त्रसरणौ ।
गवेष्यं कामाक्षि ध्रुवमकृतकानां गिरिसुते
गिरामैदम्पर्यं तव चरणपद्मं विजयते ॥ २४ ॥

कृतस्नानं शास्त्रामृतसरसि कामाक्षि नितरां
दधानं वैशद्यं कलितरसमानन्दसुधया ।
अलंकारं भूमेर्मुनिजनमनश्चिन्मयमहा-
पयोधेरन्तस्स्थं तव चरणरत्नं मृगयते ॥ २५ ॥

मनोगेहे मोहोद्भवतिमिरपूर्णे मम मुहुः
दरिद्राणीकुर्वन्दिनकरसहस्राणि किरणैः ।
विधत्तां कामाक्षि प्रसृमरतमोवञ्चनचणः
क्षणार्धं सान्निध्यं चरणमणिदीपो जननि ते ॥ २६ ॥

कवीनां चेतोवन्नखररुचिसम्पर्कि विबुध-
स्रवन्तीस्रोतोवत्पटुमुखरितं हंसकरवैः ।
दिनारम्भश्रीवन्नियतमरुणच्छायसुभगं
मदन्तः कामाक्ष्याः स्फुरतु पदपङ्केरुहयुगम् ॥ २७ ॥

सदा किं सम्पर्कात्प्रकृतिकठिनैर्नाकिमुकुटैः
तटैर्नीहाराद्रेरधिकमणुना योगिमनसा ।
विभिन्ते संमोहं शिशिरयति भक्तानपि दृशाम्
अदृश्यं कामाक्षि प्रकटयति ते पादयुगलम् ॥ २८ ॥

पवित्राभ्यामम्ब प्रकृतिमृदुलाभ्यां तव शिवे
पदाभ्यां कामाक्षि प्रसभमभिभूतैः सचकितैः ।
प्रवालैरम्भोजैरपि च वनवासव्रतदशाः
सदैवारभ्यन्ते परिचरितनानाद्विजगणैः ॥ २९ ॥

चिराद्दृश्या हंसैः कथमपि सदा हंससुलभं
निरस्यन्ती जाड्यं नियतजडमध्यैकशरणम् ।
अदोषव्यासङ्गा सततमपि दोषाप्तिमलिनं
पयोजं कामाक्ष्याः परिहसति पादाब्जयुगली ॥ ३० ॥

सुराणामानन्दप्रबलनतया मण्डनतया
नखेन्दुज्योत्स्नाभिर्विसृमरतमःखण्डनतया ।
पयोजश्रीद्वेषव्रतरततया त्वच्चरणयोः
विलासः कामाक्षि प्रकटयति नैशाकरदशाम् ॥ ३१ ॥

सितिम्ना कान्तीनां नखरजनुषां पादनलिन-
च्छवीनां शोणिम्ना तव जननि कामाक्षि नमने ।
लभन्ते मन्दारग्रथितनवबन्धूककुसुम-
स्रजां सामीचीन्यं सुरपुरपुरन्ध्रीकचभराः ॥ ३२ ॥

स्फुरन्मध्ये शुद्धे नखकिरणदुग्धाब्धिपयसां
वहन्नब्जं चक्रं दरमपि च लेखात्मकतया ।
श्रितो मात्स्यं रूपं श्रियमपि दधानो निरुपमां
त्रिधामा कामाक्ष्याः पदनलिननामा विजयते ॥ ३३ ॥

नखश्रीसन्नद्धस्तबकनिचितः स्वैश्च किरणैः
पिशङ्गैः कामाक्षि प्रकटितलसत्पल्लवरुचिः ।
सतां गम्यः शङ्के सकलफलदाता सुरतरुः
त्वदीयः पादोऽयं तुहिनगिरिराजन्यतनये ॥ ३४ ॥

वषट्कुर्वन्माञ्जीरकलकलैः कर्मलहरी-
हवींषि प्रौद्दण्डं ज्वलति परमज्ञानदहने ।
महीयान्कामाक्षि स्फुटमहसि जोहोति सुधियां
मनोवेद्यां मातस्तव चरणयज्वा गिरिसुते ॥ ३५ ॥

महामन्त्रं किंचिन्मणिकटकनादैर्मृदु जपन्
क्षिपन्दिक्षु स्वच्छं नखरुचिमयं भास्मनरजः ।
नतानां कामाक्षि प्रकृतिपटुरच्चाट्य ममता-
पिशाचीं पादोऽयं प्रकटयति ते मान्त्रिकदशाम् ॥ ३६ ॥

उदीते बोधेन्दौ तमसि नितरां जग्मुषि दशां
दरिद्रां कामाक्षि प्रकटमनुरागं विदधती ।
सितेनाच्छाद्याङ्गं नखरुचिपटेनाङ्घ्रियुगली-
पुरन्ध्री ते मातः स्वयमभिसरत्येव हृदयम् ॥ ३७ ॥

दिनारम्भः सम्पन्नलिनविपिनानामभिनवो
विकासो वासन्तः सुकविपिकलोकस्य नियतः ।
प्रदोषः कामाक्षि प्रकटपरमज्ञानशशिन-
श्चकास्ति त्वत्पादस्मरणमहिमा शैलतनये ॥ ३८ ॥

धृतच्छायं नित्यं सरसिरुहमैत्रीपरिचितं
निधानं दीप्तीनां निखिलजगतां बोधजनकम् ।
मुमुक्षूणां मार्गप्रथनपटु कामाक्षि पदवीं
पदं ते पातङ्गीं परिकलयते पर्वतसुते ॥ ३९ ॥

शनैस्तीर्त्वा मोहाम्बुधिमथ समारोढुमनसः
क्रमात्कैवल्याख्यां सुकृतिसुलभां सौधवलभीम् ।
लभन्ते निःश्रेणीमिव झटिति कामाक्षि चरणं
पुरश्चर्याभिस्ते पुरमथनसीमन्तिनि जनाः ॥ ४० ॥

प्रचण्डार्तिक्षोभप्रमथनकृते प्रातिभसरि-
त्प्रवाहप्रोद्दण्डीकरणजलदाय प्रणमताम् ।
प्रदीपाय प्रौढे भवतमसि कामाक्षि चरण-
प्रसादौन्मुख्याय स्पृहयति जनोऽयं जननि ते ॥ ४१ ॥

मरुद्भिः संसेव्या सततमपि चाञ्चल्यरहिता
सदारुण्यं यान्ती परिणतिदरिद्राणसुषमा ।
गुणोत्कर्षान्माञ्जीरककलकलैस्तर्जनपटुः
प्रवालं कामाक्ष्याः परिहसति पादाब्जयुगली ॥ ४२ ॥

जगद्रक्षादक्षा जलजरुचिशिक्षापटुतरा
समैर्नम्या रम्या सततमभिगम्या बुधजनैः ।
द्वयी लीलालोला श्रुतिषु सुरपालादिमुकुटी-
तटीसीमाधामा तव जननि कामाक्षि पदयोः ॥ ४३ ॥

गिरां दूरौ चोरौ जडिमतिमिराणां कृतजग-
त्परित्राणौ शोणौ मुनिहृदयलीलैकनिपुणौ ।
नखैः स्मेरौ सारौ निगमवचसां खण्डितभव-
ग्रहोन्मादौ पादौ तव जननि कामाक्षि कलये ॥ ४४ ॥

अविश्रान्तं पङ्कं यदपि कलयन्यावकमयं
निरस्यन्कामाक्षि प्रणमनजुषां पङ्कमखिलम् ।
तुलाकोटिद्वन्दं दधदपि च गच्छन्नतुलतां
गिरां मार्गं पादो गिरिवरसुते लङ्घयति ते ॥ ४५ ॥

प्रवालं सव्रीलं विपिनविवरे वेपयति या
स्फुरल्लीलं बालातपमधिकबालं वदति या ।
रुचिं सान्ध्यां वन्ध्यां विरचयति या वर्धयतु सा
शिवं मे कामाक्ष्याः पदनलिनपाटल्यलहरी ॥ ४६ ॥

किरञ्ज्योत्स्नारीतिं नखमुखरुचा हंसमनसां
वितन्वानः प्रीतिं विकचतरुणाम्भोरुहरुचिः ।
प्रकाशः श्रीपादस्तव जननि कामाक्षि तनुते
शरत्कालप्रौढिं शशिशकलचूडप्रियतमे ॥ ४७ ॥

नखाङ्कूरस्मेरद्युतिविमलगङ्गाम्भसि सुखं
कृतस्नानं ज्ञानामृतममलमास्वाद्य नियतम् ।
उदञ्चन्मञ्जीरस्फुरणमणिदीपे मम मनो
मनोज्ञे कामाक्ष्याश्चरणमणिहर्म्ये विहरताम् ॥ ४८ ॥

भवाम्भोधौ नौकां जडिमविपिने पावकशिखा-
ममर्त्येन्द्रादीनामधिमुकुटमुत्तंसकलिकाम् ।
जगत्तापे ज्योत्स्नामकृतकवचःपञ्जरपुटे
शुकस्त्रीं कामाक्ष्या मनसि कलये पादयुगलीम् ॥ ४९ ॥

परत्मप्राकाश्यप्रतिफलनचुञ्चुः प्रणमतां
मनोज्ञस्त्वत्पादो मणिमुकुरमुद्रां कलयते ।
यदीयां कामाक्षि प्रकृतिमसृणाः शोधकदशां
विधातुं चेष्ठन्ते बलरिपुवधूटीकचभराः ॥ ५० ॥

अविश्रान्तं तिष्ठन्नकृतकवचःकन्दरपुटी-
कुटीरान्तः प्रौढं नखरुचिसटालीं प्रकटयन् ।
प्रचण्डं खण्डत्वं नयतु मम कामाक्षि तरसा
तमोवेतण्डेन्द्रं तव चरणकण्ठीरवपतिः ॥ ५१ ॥

पुरस्तात्कामाक्षि प्रचुररसमाखण्डलपुरी-
पुरन्ध्रीणां लास्यं तव ललितमालोक्य शनकैः ।
नखश्रीभिः स्मेरा बहु वितनुते नूपुररवै-
श्चमत्कृत्या शङ्के चरणयुगली चाटुरचनाः ॥ ५२ ॥

सरोजं निन्दन्ती नखकिरणकर्पूरशिशिरा
निषिक्ता मारारेर्मुकुटशशिरेखाहिमजलैः ।
स्फुरन्ती कामाक्षि स्फुटरुचिमये पल्लवचये
तवाधत्ते मैत्रीं पथिकसुदृशा पादयुगली ॥ ५३ ॥

नतानां सम्पत्तेरनवरतमाकर्षणजपः
प्ररोहत्संसारप्रसरगरिमस्तम्भनजपः ।
त्वदीयः कामाक्षि स्मरहरमनोमोहनजपः
पटीयान्नः पायात्पदनलिनमञ्जीरनिनदः ॥ ५४ ॥

वितन्वीथा नाथे मम शिरसि कामाक्षि कृपया
पदाम्भोजन्यासं पशुपरिबृढप्राणदयिते ।
पिबन्तो यन्मुद्रां प्रकटमुपकम्पापरिसरं
दृशा नानन्द्यन्ते नलिनभवनारायणमुखाः ॥ ५५ ॥

प्रणामोद्यद्बृन्दारमुकुटमन्दारकलिका-
विलोलल्लोलम्बप्रकरमयधूमप्रचुरिमा ।
प्रदीप्तः पादाब्जद्युतिविततिपाटल्यलहरी-
कृशानुः कामाक्ष्या मम दहतु संसारविपिनम् ॥ ५६ ॥

वलक्षश्रीरृक्षाधिपशिशुसदृक्षैस्तव नखैः
जिघृक्षुर्दक्षत्वं सरसिरुहभिक्षुत्वकरणे ।
क्षणान्मे कामाक्षि क्षपितभवसंक्षोभगरिमा
वचोवैचक्षन्यं चरणयुगली पक्ष्मलयतात् ॥ ५७ ॥

समन्तात्कामाक्षि क्षततिमिरसन्तानसुभगान्
अनन्ताभिर्भाभिर्दिनमनु दिगन्तान्विरचयन् ।
अहन्ताया हन्ता मम जडिमदन्तावलहरिः
विभिन्तां सन्तापं तव चरणचिन्तामणिरसौ ॥ ५८ ॥

दधानो भास्वत्ताममृतनिलयो लोहितवपुः
विनम्राणां सौम्यो गुरुरपि कवित्वं च कलयन् ।
गतौ मन्दो गङ्गाधरमहिषि कामाक्षि भजतां
तमःकेतुर्मातस्तव चरणपद्मो विजयते ॥ ५९ ॥

नयन्तीं दासत्वं नलिनभवमुख्यानसुलभ-
प्रदानाद्दीनानाममरतरुदौर्भाग्यजननीम् ।
जगज्जन्मक्षेमक्षयविधिषु कामाक्षि पदयो-
र्धुरीणामीष्टे करस्तव भणितुमाहोपुरुषिकाम् ॥ ६० ॥

जनोऽयं सन्तप्तो जननि भवचण्डांशुकिरणैः
अलब्धवैकं शीतं कणमपि परज्ञानपयसः ।
तमोमार्गे पान्थस्तव झटिति कामाक्षि शिशिरां
पदाम्भोजच्छायां परमशिवजाये मृगयते ॥ ६१ ॥

जयत्यम्ब श्रीमन्नखकिरणचीनांशुकमयं
वितानं बिभ्राणे सुरमुकुटसंघट्टमसृणे ।
निजारुण्यक्षौमास्तरणवति कामाक्षि सुलभा
बुधैः संविन्नारी तव चरणमाणिक्यभवने ॥ ६२ ॥

प्रतीमः कामाक्षि स्फुरिततरुणादित्यकिरण-
श्रियो मूलद्रव्यं तव चरणमद्रीन्द्रतनये ।
सुरेन्द्राशामापूरयति यदसौ ध्वान्तमखिलं
धुनीते दिग्भागानपि च महसा पाटलयते ॥ ६३ ॥

महाभाष्यव्याख्यापटुशयनमारोपयति वा
स्मरव्यापारेर्ष्यापिशुननिटिलं कारयति वा ।
द्विरेफाणामध्यासयति सततं वाधिवसतिं
प्रणम्रान्कामाक्ष्याः पदनलिनमाहात्म्यगरिमा ॥ ६४ ॥

विवेकाम्भस्स्रोतस्स्नपनपरिपाटीशिशिरिते
समीभूते शास्त्रस्मरणहलसंकर्षणवशात् ।
सतां चेतःक्षेत्रे वपति तव कामाक्षि चरणो
महासंवित्सस्यप्रकरवरबीजं गिरिसुते ॥ ६५ ॥

दधानो मन्दारस्तबकपरिपाटीं नखरुचा
वहन्दीप्तां शोणाङ्गुलिपटलचाम्पेयकलिकाम् ।
अशोकोल्लासं नः प्रचुरयतु कामाक्षि चरणो
विकासी वासन्तः समय इव ते शर्वदयिते ॥ ६६ ॥

नखांशुप्राचुर्यप्रसृमरमरालालिधवलः
स्फुरन्मञ्जीरोद्यन्मरकतमहश्शैवलयुतः ।
भवत्याः कामाक्षि स्फुटचरणपाटल्यकपटो
नदः शोणाभिख्यो नगपतितनूजे विजयते ॥ ६७ ॥

धुनानं पङ्कौघं परमसुलभं कण्टककुलैः
विकासव्यासङ्गं विदधदपराधीनमनिशम् ।
नखेन्दुज्योत्स्नाभिर्विशदरुचि कामाक्षि नितराम्
असामान्यं मन्ये सरसिजमिदं ते पदयुगम् ॥ ६८ ॥

करीन्द्राय द्रुह्यत्यलसगतिलीलासु विमलैः
पयोजैर्मात्सर्यं प्रकटयति कामं कलयते ।
पदाम्भोजद्वन्द्वं तव तदपि कामाक्षि हृदयं
मुनीनां शान्तानां कथमनिशमस्मै स्पृहयते ॥ ६९ ॥

निरस्ता शोणिम्ना चरणकिरणानां तव शिवे
समिन्धाना सन्ध्यारुचिरचलराजन्यतनये ।
असामर्थ्यादेनं परिभवितुमेतत्समरुचां
सरोजानां जाने मुकुलयति शोभां प्रतिदिनम् ॥ ७० ॥

उपादिक्षद्दाक्ष्यं तव चरणनामा गुरुरसौ
मरालानां शङ्के मसृणगतिलालित्यसरणौ ।
अतस्ते निस्तन्द्रं नियतममुना सख्यपदवीं
प्रपन्नं पाथोजं प्रति दधति कामाक्षि कुतुकम् ॥ ७१ ॥

दधानैः संसर्गं प्रकृतिमलिनैः षट्पदकुलैः
द्विजाधीशश्लाघाविधिषु विदधद्भिर्मुकुलताम् ।
रजोमिश्रैः पद्मैर्नियतमपि कामाक्षि पदयोः
विरोधस्ते युक्तो विषमशरवैरिप्रियतमे ॥ ७२ ॥

कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणौ
विपन्नानां श्रीमन्नलिनमसृणौ शोणकिरणौ ।
मुनीन्द्राणामन्तःकरणशरणौ मन्दसरणौ
मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ ॥ ७३ ॥

परस्मात्सर्वस्मादपि च परयोर्मुक्तिकरयोः
नखश्रीभिर्ज्योत्स्नाकलिततुलयोस्ताम्रतलयोः ।
निलीये कामाक्ष्या निगमनुतयोर्नाकिनतयोः
निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः ॥ ७४ ॥

स्वभावादन्योन्यं किसलयमपीदं तव पदं
म्रदिम्ना शोणिम्ना भगवति दधाते सदृशताम् ।
वने पूर्वस्येच्छा सततमवने किं तु जगतां
परस्येत्थं भेदः स्फुरति हृदि कामाक्षि सुधियाम् ॥ ७५ ॥

कथं वाचालोऽपि प्रकटमणिमञ्जीरनिनदैः
सदैवानन्दार्द्रान्विरचयति वाचंयमजनान् ।
प्रकृत्या ते शोणच्छविरपि च कामाक्षि चरणो
मनीषानैर्मल्यं कथमिव नृणां मांसलयते ॥ ७६ ॥

चलत्तृष्णावीचीपरिचलनपर्याकुलतया
मुहुर्भ्रान्तस्तान्तः परमशिववामाक्षि परवान् ।
तितीर्षुः कामाक्षि प्रचुरतरकर्माम्बुधिममुं
कदाहं लप्स्ये ते चरणमणिसेतुं गिरिसुते ॥ ७७ ॥

विशुष्यन्त्यां प्रज्ञासरिति दुरितग्रीष्मसमय-
प्रभावेण क्षीणे सति मम मनःकेकिनि शुचा ।
त्वदीयः कामाक्षि स्फुरितचरणाम्भोदमहिमा
नभोमासाटोपं नगपतिसुते किं न कुरुते ॥ ७८ ॥

विनम्राणां चेतोभवनवलभीसीम्नि चरण-
प्रदीपे प्राकाश्यं दधति तव निर्धूततमसि ।
असीमा कामाक्षि स्वयमलघुदुष्कर्मलहरी
विघूर्णन्ती शान्तिं शलभपरिपाटीव भजते ॥ ७९ ॥

विराजन्ती शुक्तिर्नखकिरणमुक्तामणिततेः
विपत्पाथोराशौ तरिरपि नराणां प्रणमताम् ।
त्वदीयः कामाक्षि ध्रुवमलघुवह्निर्भववने
मुनीनां ज्ञानाग्नेररणिरयमङ्घिर्विजयते ॥ ८० ॥

समस्तैः संसेव्यः सततमपि कामाक्षि विबुधैः
स्तुतो गन्धर्वस्त्रीसुललितविपञ्चीकलरवैः ।
भवत्या भिन्दानो भवगिरिकुलं जृम्भिततमो-
बलद्रोही मातश्चरणपुरुहूतो विजयते ॥ ८१ ॥

वसन्तं भक्तानामपि मनसि नित्यं परिलसद्-
घनच्छायापूर्णं शुचिमपि नृणां तापशमनम् ।
नखेन्दुज्योत्स्नाभिः शिशिरमपि पद्मोदयकरं
नमामः कामाक्ष्याश्चरणमधिकाश्चर्यकरणम् ॥ ८२ ॥

कवीन्द्राणां नानाभणितिगुणचित्रीकृतवचः-
प्रपञ्चव्यापारप्रकटनकलाकौशलनिधिः ।
अधःकुर्वन्नब्जं सनकभृगुमुख्यैर्मुनिजनैः
नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते ॥ ८३ ॥

भवत्याः कामाक्षि स्फुरितपदपङ्केरुहभुवां
परागाणां पूरैः परिहृतकलङ्कव्यतिकरैः ।
नतानामामृष्टे हृदयमुकुरे निर्मलरुचि
प्रसन्ने निश्शेषं प्रतिफलति विश्वं गिरिसुते ॥ ८४ ॥

तव त्रस्तं पादात्किसलयमरण्यान्तरमगात्
परं रेखारूपं कमलममुमेवाश्रितमभूत् ।
जितानां कामाक्षि द्वितयमपि युक्तं परिभवे
विदेशे वासो वा शरणगमनं वा निजरिपोः ॥ ८५ ॥

गृहीत्वा याथार्थ्यं निगमवचसां देशिककृपा-
कटाक्षर्कज्योतिश्शमितममताबन्धतमसः ।
यतन्ते कामाक्षि प्रतिदिवसमन्तर्द्रढयितुं
त्वदीयं पादाब्जं सुकृतपरिपाकेन सुजनाः ॥ ८६ ॥

जडानामप्यम्ब स्मरणसमये तवच्चरणयोः
भ्रमन्मन्थक्ष्माभृद्धुमुघुमितसिन्धुप्रतिभटाः ।
प्रसन्नाः कामाक्षि प्रसभमधरस्पन्दनकरा
भवन्ति स्वच्छन्दं प्रकृतिपरिपक्का भणितयः ॥ ८७ ॥

वहन्नप्यश्रान्तं मधुरनिनदं हंसकमसौ
तमेवाधः कर्तुं किमिव यतते केलिगमने ।
भवस्यैवानन्दं विदधदपि कामाक्षि चरणो
भवत्यास्तद्द्रोहं भगवति किमेवं वितनुते ॥ ८८ ॥

यदत्यन्तं ताम्यत्यलसगतिवार्तास्वपि शिवे
तदेतत्कामाक्षि प्रकृतिमृदुलं ते पदयुगम् ।
किरीटैः संघट्टं कथमिव सुरौघस्य सहते
मुनीन्द्राणामास्ते मनसि च कथं सूचिनिशिते ॥ ८९ ॥

मनोरङ्गे मत्के विबुधजनसंमोदजननी
सरागव्यासङ्गं सरसमृदुसंचारसुभगा ।
मनोज्ञा कामाक्षि प्रकटयतु लास्यप्रकरणं
रणन्मञ्जीरा ते चरणयुगलीनर्तकवधूः ॥ ९० ॥

परिष्कुर्वन्मातः पशुपतिकपर्दं चरणराट्
पराचां हृत्पद्मं परमभणितीनां च मकुटम् ।
भवाख्ये पाथोधौ परिहरतु कामाक्षि ममता-
पराधीनत्वं मे परिमुषितपाथोजमहिमा ॥ ९१ ॥

प्रसूनैः सम्पर्कादमरतरुणीकुन्तलभवैः
अभीष्टानां दानादनिशमपि कामाक्षि नमताम् ।
स्वसङ्गात्कङ्केलिप्रसवजनकत्वेन च शिवे
त्रिधा धत्ते वार्तां सुरभिरिति पादो गिरिसुते ॥ ९२ ॥

महामोहस्तेनव्यतिकरभयात्पालयति यो
विनिक्षिप्तं स्वस्मिन्निजजनमनोरत्नमनिशम् ।
स रागस्योद्रेकात्सततमपि कामाक्षि तरसा
किमेवं पादोऽसौ किसलयरुचिं चोरयति ते ॥ ९३ ॥

सदा स्वादुंकारं विषयलहरीशालिकणिकां
समास्वाद्य श्रान्तं हृदयशुकपोतं जननि मे ।
कृपाजाले फालेक्षणमहिषि कामाक्षि रभसात्
गृहीत्वा रुन्धीथारस्तव पदयुगीपञ्जरपुटे ॥ ९४ ॥

धुनानं कामाक्षि स्मरणलवमात्रेण जडिम-
ज्वरप्रौढिं गूढस्थिति निगमनैकुञ्जकुहरे ।
अलभ्यं सर्वेषां कतिचन लभन्ते सुकृतिनः
चिरादन्विष्यन्तस्तव चरणसिद्धौषधमिदम् ॥ ९५ ॥

रणन्मञ्जीराभ्यां ललितगमनाभ्यां सुकृतिनां
मनोवास्तव्याभ्यां मथिततिमिराभ्यां नखरुचा ।
निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं
नमस्ते पादाभ्यां नलिनमृदुलाभ्यां गिरिसुते ॥ ९६ ॥

सुरागे राकेन्दुप्रतिनिधिमुखे पर्वतसुते
चिराल्लभ्ये भक्त्या शमधनजनानां परिषदा ।
मनोभृङ्गो मत्कः पदकमलयुग्मे जननि ते
प्रकामं कामाक्षि त्रिपुरहरवामाक्षि रमताम् ॥ ९७ ॥

शिवे संविद्रूपे शशिशकलचूडप्रियतमे
शनैर्गत्यागत्या जितसुरवरेभे गिरिसुते ।
यतन्ते सन्तस्ते चरणनलिनालानयुगले
सदा बद्धं चित्तप्रमदकरियूथं दृढतरम् ॥ ९८ ॥

यशः सूते मातर्मधुरकवितां पक्ष्मलयते
श्रियं दत्ते चित्ते कमपि परिपाकं प्रथयते ।
सतां पाशग्रन्थिं शिथिलयति किं किं न कुरुते
प्रपन्ने कामाक्ष्याः प्रणतिपरिपाटी चरणयोः ॥ ९९ ॥

मनीषां माहेन्द्रीं ककुभमिव ते कामपि दशां
प्रधत्ते कामाक्ष्याश्चरणतरुणादित्यकिरणः ।
यदीये सम्पर्के धृतरसमरन्दा कवयतां
परीपाकं धत्ते परिमलवती सूक्तिनलिनी ॥ १०० ॥

पुरा मारारातिः पुरमजयदम्ब स्तवशतैः
प्रसन्नायां सत्यां त्वयि तुहिनशैलेन्द्रतनये ।
अतस्ते कामाक्षि स्फुरतु तरसा कालसमये
समायाते मातर्मम मनसि पादाब्जयुगलम् ॥ १०१ ॥

पदद्वन्द्वं मन्दं गतिषु निवसन्तं हृदि सतां
गिरामन्ते भ्रान्तं कृतकरहितानां परिबृढे ।
जनानामानन्दं जननि जनयन्तं प्रणमतां
त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम् ॥ १०२ ॥

इदं यः कामाक्ष्याश्चरणनलिनस्तोत्रशतकं
जपेन्नित्यं भक्त्या निखिलजगदाह्लादजनकम् ।
स विश्वेषां वन्द्यः सकलकविलोकैकतिलकः
चिरं भुक्त्वा भोगान्परिणमति चिद्रूपकलया ॥ १०३ ॥

पादारविन्दशतकं सम्पूर्णम् ॥

॥ स्तुतिशतकम् ॥
पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरां
वैरिञ्चान्यपि गुम्फनानि विगलद्गर्वाणि शर्वाणि ते ।
स्तोतुं त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां
वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः ॥ १ ॥

तापिञ्छस्तबकत्विषे तनुभृतां दारिद्र्यमुद्राद्विषे
संसाराख्यतमोमुषे पुररिपोर्वामाङ्कसीमाजुषे ।
कम्पातीरमुपेयुषे कवयतां जिह्वाकुटीं जग्मुषे
विश्वत्राणपुषे नमोऽस्तु सततं तस्मै परंज्योतिषे ॥ २ ॥

ये सन्ध्यारुणयन्ति शंकरजटाकान्तारचन्रार्भकं
सिन्दूरन्ति च ये पुरन्दरवधूसीमन्तसीमान्तरे ।
पुण्यं ये परिपक्कयन्ति भजतां काञ्चीपुरे माममी
पायासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः ॥ ३ ॥

कामाडम्बरपूरया शशिरुचा कम्रस्मितानां त्विषा
कामारेरनुरागसिन्धुमधिकं कल्लोलितं तन्वती ।
कामाक्षीति समस्तसज्जननुता कल्याणदात्री नृणां
कारुण्याकुलमानसा भगवती कम्पातटे जृम्भते ॥ ४ ॥

कामाक्षीणपराक्रमप्रकटनं सम्भावयन्ती दृशा
श्यामा क्षीरसहोदरस्मितरुचिप्रक्षालिताशान्तरा ।
कामाक्षीजनमौलिभूषणमणिर्वाचां परा देवता
कामाक्षीति विभाति कापि करुणा कम्पातटिन्यास्तटे ॥ ५ ॥

श्यामा काचन चन्द्रिका त्रिभुवने पुण्यात्मनामानने
सीमाशून्यकवित्ववर्षजननी या कापि कादम्बिनी ।
मारारातिमनोविमोहनविधौ काचितत्तमःकन्दली
कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम् ॥ ६ ॥

प्रौढध्वान्तकदम्बके कुमुदिनीपुण्यांकुरं दर्शयन्
ज्योत्स्नासंगमनेऽपि कोकमिथुनं मिश्रं समुद्भावयन् ।
कालिन्दीलहरीदशां प्रकटयन्कम्रां नभस्यद्भुतां
कश्चिन्नेत्रमहोत्सवो विजयते काञ्चीपुरे शूलिनः ॥ ७ ॥

तन्द्राहीनतमालनीलसुषमैस्तारुण्यलीलागृहैः
तारानाथकिशोरलाञ्छितकचैस्ताम्रारविन्देक्षणैः ।
मातः संश्रयतां मनो मनसिजप्रागल्भ्यनाडिन्धमैः
कम्पातीरचरैर्घनस्तनभरैः पुण्याङ्करैः शांकरैः ॥ ८ ॥

नित्यं निश्चलतामुपेत्य मरुतां रक्षाविधिं पुष्णती
तेजस्संचयपाटवेन किरणानुष्णद्युतेर्मुष्णती ।
काञ्चीमध्यगतापि दीप्तिजननी विश्वान्तरे जृम्भते
काचिच्चित्रमहो स्मृतापि तमसां निर्वापिका दीपिका ॥ ९ ॥

कान्तैः केशरुचां चयैर्भ्रमरितं मन्दस्मितैः पुष्पितं
कान्त्या पल्लवितं पदाम्बुरुहयोर्नेत्रत्विषा पत्रितम् ।
कम्पातीरवनान्तरं विदधती कल्याणजन्मस्थली
काञ्चीमध्यमहामणिर्विजयते काचित्कृपाकन्दली ॥ १० ॥

राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता
मूकानामपि कुर्वती सुरधुनीनीकाशवाग्वैभवम् ।
श्रीकाञ्चीनगरीविहाररसिका शोकापहन्त्री सताम्
एका पुण्यपरम्परा पशुपतेराकारिणी राजते ॥ ११ ॥

जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां
लोकानां क्षणमात्रसंस्मरणतः सन्तापविच्छेदिनी ।
आश्चर्यं बहु खेलनं वितनुते नैश्चल्यमाबिभ्रती
कम्पायास्तटसीम्नि कापि तटिनी कारुण्यपाथोमयी ॥ १२ ॥

ऐक्यं येन विरच्यते हरतनौ दम्भावपुम्भावुके
रेखा यत्कचसीम्नि शेखरदशां नैशाकरी गाहते ।
औन्नत्यं मुहुरेति येन स महान्मेनासखः सानुमान्
कम्पातीरविहारिणा सशरणास्तेनैव धाम्ना वयम् ॥ १३ ॥

अक्ष्णोश्च स्तनयोः श्रिया श्रवणयोर्बाह्वोश्च मूलं स्पृशन्
उत्तंसेन मुखेन च प्रतिदिनं द्रुह्यन्पयोजन्मने ।
माधुर्येण गिरां गतेन मृदुना हंसाङ्गनां ह्रेपयन्
काञ्चीसीम्नि चकास्ति कोऽपि कवितासन्तानबीजाङ्कुरः ॥ १४ ॥

खण्डं चान्द्रमसं वतंसमनिशं काञ्चीपुरे खेलनं
कालायश्छवितस्करीं तनुरुचिं कर्णजपे लोचने ।
तारुण्योष्मनखम्पचं स्तनभरं जङ्घास्पृशं कुन्तलं
भाग्यं देशिकसंचितं मम कदा सम्पादयेदम्बिके ॥ १५ ॥

तन्वानं निजकेलिसौधसरणिं नैसर्गिकीणां गिरां
केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम् ।
अंहोवञ्चनचुञ्चु किंचन भजे काञ्चीपुरीमण्डनं
पर्यायच्छवि पाकशासनमणेः पौष्पेषवं पौरुषम् ॥ १६ ॥

आलोके मुखपङ्कजे च दधती सौधाकरीं चातुरीं
चूडालंक्रियमाणपङ्कजवनीवैरागमप्रक्रिया ।
मुग्धस्मेरमुखी घन्सतनतटीमूर्च्छालमध्याञ्चिता
काञ्चीसीमनि कामिनी विजयते काचिज्जगन्मोहिनी ॥ १७ ॥

यस्मिन्नम्ब भवत्कटाक्षरजनी मन्देऽपि मन्दस्मित-
ज्योत्स्नासंस्नपिता भवत्यभिमुखी तं प्रत्यहो देहिनम् ।
द्रक्षामाक्षिकमाधुरीमदभरव्रीडाकरी वैखरी
कामाक्षि स्वयमातनोत्यभिसृतिं वामेक्षणेव क्षणम् ॥ १८ ॥

कालिन्दीजलकान्तयः स्मितरुचिस्वर्वाहिनीपाथसि
प्रौढध्वान्तरुचः स्फुटाधरमहोलौहित्यसन्ध्योदये ।
मणिक्योपलकुण्डलांशुशिखिनि व्यामिश्रधूमश्रियः
कल्याणैकभुवः कटाक्षसुषमाः कामाक्षि राजन्ति ते ॥ १९ ॥

कलकलरणत्काञ्ची काञ्चीविभूषणमालिका
कचभरलसच्चन्द्रा चन्द्रावतंससधर्मिणी ।
कविकुलगिर्ः श्रावंश्रावं मिलत्पुलकांकुरा
विरचितशिरःकम्पा कम्पातटे परिशोभते ॥ २० ॥

सरसवचसां वीची नीचीभवन्मधुमाधुरी
भरितभुवना कीर्तिर्मूर्तिर्मनोभवजित्वरी ।
जननि मनसो योग्यं भोग्यं नृणां तव जायते
कथमिव विना काञ्चीभूषे कटाक्षतरङ्गितम् ॥ २१ ॥

भ्रमरितसरित्कूलो नीलोत्पलप्रभयाऽऽभया
नतजनतमःखण्डी तुण्डीरसीम्नि विजृम्भते ।
अचलतपसामेकः पाकः प्रसूनशरासन-
प्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥ २२ ॥

मधुरवचसो मन्दस्मेरा मतङ्गजगामिनः
तरुणिमजुषस्तापिच्छाभास्तमःपरिपन्थिनः ।
कुचभरनताः कुर्युर्भद्रं कुरङ्गविलोचनाः
कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः ॥ २३ ॥

कमलसुषमाक्ष्यारोहे विचक्षणवीक्षणाः
कुमुदसुकृतक्रीडाचूडालकुन्तलबन्धुराः ।
रुचिररुचिभिस्तापिच्छश्रीप्रपञ्चनचुञ्चवः
पुरविजयिनः कम्पातीरे स्फुरन्ति मनोरथाः ॥ २४ ॥

कलितरतयः काञ्चीलीलाविधौ कविमण्डली-
वचनलहरीवासन्तीनां वसन्तविभूतयः ।
कुशलविधये भूयासुर्मे कुरङ्गविलोचनाः
कुसुमविशिखारातेरक्ष्णां कुतूहलविभ्रमाः ॥ २५ ॥

कबलिततमस्काण्डास्तुण्डीरमण्डलमण्डनाः
सरसिजवनीसन्तानानामरुन्तुदशेखराः ।
नयनसरणेर्नेदीयंसः कदा नु भवन्ति मे
तरुणजलदश्यामाः शम्भोस्तपःफलविभ्रमाः ॥ २६ ॥

अचरममिषुं दीनं मीनध्वजस्य मुखश्रिया
सरसिजभुवो यानं म्लानं गतेन च मञ्जुना ।
त्रिदशसदसामन्नं खिन्नं गिरा च वितन्वती
तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरी ॥ २७ ॥

जननि भुवने चङ्क्रम्येऽहं कियन्तमनेहसं
कुपुरुषकरभ्रष्टैर्दुष्टैर्धनैरुदरम्भरिः ।
तरुणकरुणे तन्द्राशून्ये तरङ्गय लोचने
नमति मयि ते किंचित्काञ्चीपुरीमणिदीपिके ॥ २८ ॥

मुनिजनमनःपेटीरत्नं स्फुरत्करुणानटी-
विहरणकलागेहं काञ्चीपुरीमणिभूषणम् ।
जगति महतो मोहव्याधेर्नृणां परमौषधं
पुरहरदृशां साफल्यं मे पुरः परिजृम्भताम् ॥ २९ ॥

मुनिजनमोधाम्ने धाम्ने वचोमयजाह्नवी-
हिमगिरितटप्राग्भारायाक्षराय परात्मने ।
विहरणजुषे काञ्चीदेशे महेश्वरलोचन-
त्रितयसरसक्रीडासौधाङ्गणाय नमो नमः ॥ ३० ॥

मरकतरुचां प्रत्यादेशं महेश्वरचक्षुषाम्
अमृतलहरीपूरं पारं भवाख्यपयोनिधेः ।
सुचरितफलं काञ्चीभाजो जनस्य पचेलिमं
हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे ॥ ३१ ॥

प्रणमनदिनारम्भे कम्पानदीसखि तावके
सरसकवितोन्मेषः पूषा सतां समुदञ्चितः ।
प्रतिभटमहाप्रौढप्रोद्यत्कवित्वकुमुद्वतीं
नयति तरसा निद्रामुद्रां नगेश्वरकन्यके ॥ ३२ ॥

शमितजडिमारम्भा कम्पातटीनिकटेचरी
निहतदुरितस्तोमा सोमार्धमुद्रितकुन्तला ।
फलितसुमनोवाञ्छा पाञ्चायुधी परदेवता
सफलयतु मे नेत्रे गोत्रेश्वरप्रियनन्दिनी ॥ ३३ ॥

मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया
कुमुदसुषमामैत्रीपात्रीवतंसितकुन्तलाम् ।
जगति शमितस्तम्भां कम्पानदीनिलयामसौ
श्रियति हि गलत्तन्द्रा चन्द्रावतंससधर्मिणीम् ॥ ३४ ॥

परिमलपरीपाकोद्रेकं पयोमुचि काञ्चने
शिखरिणि पुनर्द्बैधीभावं शशिन्यरुणातपम् ।
अपि च जनयन्कम्बोर्लक्ष्मीमनम्बुनि कोऽप्यसौ
कुसुमधनुषः काञ्चीदेशे चकास्ति पराक्रमः ॥ ३५ ॥

पुरदमयितुर्वामोत्सङ्गस्थलेन रसज्ञया
सरसकविताभाजा काञ्चीपुरोदरसीमया ।
तटपरिसरैर्नीहाराद्रेर्वचोभिरकृत्रिमैः
किमिव न तुलामस्मच्चेतो महेश्वरि गाहते ॥ ३६ ॥

नयनयुगलीमास्माकीनां कदा नु फलेग्रहीं
विदधति गतौ व्याकुर्वाणा गजेन्द्रचमत्क्रियाम् ।
मरतकरुचो माहेशाना घनस्तननम्रिताः
सुकृतविभवाः प्राञ्चः काञ्चीवतंसधुरन्धराः ॥ ३७ ॥

मनसिजयशःपारम्पर्यं मरन्दझरीसुवां
कविकुलगिरां कन्दं कम्पानदीतटमण्डनम् ।
मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं
पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा ॥ ३८ ॥

शिथिलिततमोलीलां नीलारविन्दविलोचनां
दहनविलसत्फालां श्रीकामकोटिमुपास्महे ।
करधृतसच्छूलां कालारिचित्तहरां परां
मनसिजकृपालीलां लोलालकामलिकेक्षणाम् ॥ ३९ ॥

कलालीलाशाला कविकुलवचःकैरववनी-
शरज्ज्योत्स्नाधारा शशधरशिशुश्लाघ्यमुकुटी ।
पुनीते नः कम्पापुलिनतटसौहार्दतरला
कदा चक्षुर्मार्गं कनकगिरिधानुष्कमहिषी ॥ ४० ॥

नमः स्तान्नम्रेभ्यः स्तनगरिमगर्वेण गुरुणा
दधानेभ्यश्चूडाभरणममृतस्यन्दि शिशिरम् ।
सदा वास्तवेभ्यः सुविधभुवि कम्पाख्यसरिते
यशोव्यापारेभ्यः सुकृतविभवेभ्यो रतिपतेः ॥ ४१ ॥

असूयन्ती काचिन्मरकतरुचो नाकिमुकुटी-
कदम्बं चुम्बन्ती चरणनखचन्द्रांशुपटलैः ।
तमोमुद्रां विद्रावयतु मम काञ्चीर्निलयना
हरोत्सङ्गश्रीमन्मणिगृहमहादीपकलिका ॥ ४२ ॥

अनाद्यन्ता काचित्सुजननयनानन्दजननी
निरुन्धाना कान्तिं निजरुचिविलासैर्जलमुचाम् ।
स्मरारेस्तारल्यं मनसि जनयन्ती स्वयमहो
गलत्कम्पा शम्पा परिलसति कम्पापरिसरे ॥ ४३ ॥

सुधाडिण्डीरश्रीः स्मितरुचिषु तुण्डीरविषयं
परिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः ।
स्तनाभ्यामानम्रा स्तबकयतु मे काङ्क्षिततरुं
दृशामैशानीनां सुकृतफलपाण्डित्यगरिमा ॥ ४४ ॥

कृपाधाराद्रोणी कृपणधिषणानां प्रणमतां
निहन्त्री सन्तापं निगममुकुटोत्तंसकलिका ।
परा काञ्चीलीलापरिचयवती पर्वतसुता
गिरां नीवी देवी गिरिशपरतन्त्रा विजयते ॥ ४५ ॥

कवित्वश्रीकन्दः सुकृतपरिपाटी हिमगिरेः
विधात्री विश्वेषां विषमशरवीरध्वजपटी ।
सखी कम्पानद्याः पदहसितपाथोजयुगली
पुराणो पायान्नः पुरमथनसाम्राज्यपदवी ॥ ४६ ॥

दरिद्राणा मध्ये दरदलिततापिच्छसुषमाः
स्तनाभोगक्कान्तास्तरुणहरिणाङ्काङ्कितकचाः ।
हराधीना नानाविबुधमुकुटीचुम्बितपदाः
कदा कम्पातीरे कथय विहरामो गिरिसुते ॥ ४७ ॥

वरीवर्तु स्थेमा त्वयि मम गिरां देवि मनसो
नरीनर्तु प्रौढा वदनकमले वाक्यलहरी ।
चरीचर्तु प्रज्ञाजननि जडिमानः परजने
सरीसर्तु स्वैरं जननि मयि कामाक्षि करुणा ॥ ४८ ॥

क्षणात्ते कामाक्षि भ्रमरसुषमाशिक्षणगुरुः
कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् ।
नरीनर्तु स्वैरं वचनलहरी निर्जरपुरी-
सरिद्वीचीनीचीकरणपटुरास्ये मम सदा ॥ ४९ ॥

पुरस्तान्मे भूयःप्रशमनपरः स्तान्मम रुजां
प्रचारस्ते कम्पातटविहृतिसम्पादिनि दृशोः ।
इमां याच्ञामूरीकुरु सपदि दूरीकुरु तमः-
परीपाकं मत्कं सपदि बुधलोकं च नय माम् ॥ ५० ॥

उदञ्चन्ती काञ्चीनगरनिलये त्वत्करुणया
समृद्धा वाग्धाटी परिहसितमाध्वी कवयताम् ।
उपादत्ते मारप्रतिभटजटाजूटमुकुटी-
कुटीरोल्लासिन्याः शतमखतटिन्या जयपटीम् ॥ ५१ ॥

श्रियं विद्यां दद्याज्जननि नमतां कीर्तिममितां
सुपुत्रान् प्रादत्ते तव झटिति कामाक्षि करुणा ।
त्रिलोक्यामाधिक्यं त्रिपुरपरिपन्थिप्रणयिनि
प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते ॥ ५२ ॥

मनःस्तम्भं स्तम्भं गमयदुपकम्पं प्रणमतां
सदा लोलं नीलं चिकुरजितलोलम्बनिकरम् ।
गिरां दूरं स्मेरं धृतशशिकिशोरं पशुपतेः
दृशां योग्यं भोग्यं तुहिनगिरिभाग्यं विजयते ॥ ५३ ॥

घनश्यामान्कामान्तकमहिषि कामाक्षि मधुरान्
दृशां पातानेतानमृतजलशीताननुपमान् ।
भवोत्पाते भीते मयि वितर नाथे दृढभव-
न्मनश्शोके मूके हिमगिरिपताके करुणया ॥ ५४ ॥

नतानां मन्दानां भवनिगलबन्धाकुलधियां
महान्ध्यां रुन्धानामभिलषितसन्तानलतिकाम् ।
चरन्तीं कम्पायास्तटभुवि सवित्रीं त्रिजगतां
स्मरामस्तां नित्यं स्मरमथनजीवातुकलिकाम् ॥ ५५ ॥

परा विद्या हृद्याश्रितमदनविद्या मरकत-
प्रभानीला लीलापरवशितशूलायुधमनाः ।
तमःपूरं दूरं चरणनतपौरन्दरपुरी-
मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे ॥ ५६ ॥

अहन्ताख्या मत्कं कबलयति हा हन्त हरिणी
हठात्संविद्रूपं हरमहिषि सस्याङ्कुरमसौ ।
कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलैः
इमामुच्चैरुच्चाटय झटिति कामाक्षि कृपया ॥ ५७ ॥

बुधे वा मूके वा तव पतति यस्मिन्क्षणमसौ
कटाक्षः कामाक्षि प्रकटजडिमक्षोदपटिमा ।
कथंकारं नास्मै करमुकुलचूडालमुकुटा
नमोवाकं ब्रूयुर्नमुचिपरिपन्थिप्रभृतयः ॥ ५८ ॥

प्रतीचीं पश्यामः प्रकटरुचिनीवारकमणि-
प्रभासध्रीचीनां प्रदलितषडाधारकमलाम् ।
चरन्तीं सौषुम्ने पथि परपदेन्दुप्रविगल-
त्सुधार्द्रां कामाक्षीं परिणतपरंज्योतिरुदयाम् ॥ ५९ ॥

जम्भारातिप्रभृतिमुकुटीः पादयोः पीठयन्ती
गुम्फान्वाचां कविजनकृतान्स्वैरमारामयन्ती ।
शम्पालक्ष्मीं मणिगणरुचापाटलैः प्रापयन्ती
कम्पातीरे कविपरिषदां जृम्भते भाग्यसीमा ॥ ६० ॥

चन्द्रापीडां चतुरवदनां चञ्चलापाङ्गलीलां
कुन्दस्मेरां कुचभरनतां कुन्तलोद्धूतभृङ्गाम् ।
मारारातेर्मदनशिखिनं मांसलं दीपयन्तीं
कामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासे ॥ ६१ ॥

कालाम्भोदप्रकरसुषमां कान्तिभिस्तिर्जयन्ती
कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम् ।
कन्दर्पारेः प्रियसहचरी कल्मषाणां निहन्त्री
काञ्चीदेशं तिलकयति सा कापि कारुण्यसीमा ॥ ६२ ॥

ऊरीकुर्वन्नुरसिजतटे चातुरीं भूधराणां
पाथोजानां नयनयुगले परिपन्थ्यं वितन्वन् ।
कम्पातीरे विहरति रुचा मोघयन्मेघशैलीं
कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः ॥ ६३ ॥

काञ्चीलीलापरिचयवती कापि तापिच्छलक्ष्मीः
जाड्यारण्ये हुतवहशिखा जन्मभूमिः कृपायाः ।
माकन्दश्रीर्मधुरकविताचातुरी कोकिलानां
मार्गे भूयान्मम नयनयोर्मान्मथी कापि विद्या ॥ ६४ ॥

सेतुर्मातर्मरतकमयो भक्तिभाजां भवाब्धौ
लीलालोला कुवलयमयी मान्मथी वैजयन्ती ।
काञ्चीभूषा पशुपतिदृशां कापि कालाञ्जनाली
मत्कं दुःखं शिथिलयतु ते मञ्जुलापाङ्गमाला ॥ ६५ ॥

व्यावृण्वानाः कुवलयदलप्रक्रियावैरमुद्रां
व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् ।
काञ्चीलीलाविहृतिरसिके काङ्क्षितं नः क्रियासुः
बन्धच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः ॥ ६६ ॥

कालाम्भोदे शशिरुचि दलं कैतकं दर्शयन्ती
मध्येसौदामिनि मधुलिहां मालिकां राजयन्ती ।
हंसारावं विकचकमले मञ्जुमुल्लासयन्ती
कम्पातीरे विलसति नवा कापि कारुण्यलक्ष्मीः ॥ ६७ ॥

चित्रं चित्रं निजमृदुतया भर्त्सयन्पल्लवालीं
पुंसां कामान्भुवि च नियतं पूरयन्पुण्यभाजाम् ।
जातः शैलान्न तु जलनिधेः स्वैरसंचारशीलः
काञ्चीभूषा कलयतु शिवं कोऽपि चिन्तामणिर्मे ॥ ६८ ॥

ताम्राम्भोजं जलदनिकटे तत्र बन्धूकपुष्पं
तस्मिन्मल्लीकुसुमसुषमां तत्र वीणानिनादम् ।
व्यावृन्वाना सुकृतलहरी कापि काञ्चिनगर्याम्
ऐशानी सा कलयतितरामैन्द्रजालं विलासम् ॥ ६९ ॥

आहारांशं त्रिदशसदसामाश्रये चातकानाम्
आकाशोपर्यपि च कलयन्नालयं तुङ्गमेषाम् ।
कम्पातीरे विहरतितरां कामधेनुः कवीनां
मन्दस्मेरो मदननिगमप्रक्रियासम्प्रदायः ॥ ७० ॥

आर्द्रीभूतैरविरलकृपैरात्तलीलाविलासैः
आस्थापूर्णैरधिकचपलैरञ्चिताम्भोजशिल्पैः ।
कान्तैर्लक्ष्मीललितभवनैः कान्तिकैवल्यसारैः
काश्मल्यं नः कबलयतु सा कामकोटी कटाक्षैः ॥ ७१ ॥

आधून्वन्त्यै तरलनयनैराङ्गजीं वैजयन्तीम्
आनन्दिन्यै निजपदजुषामात्तकाञ्चीपुरायै ।
आस्माकीनं हृदयमखिलैरागमानां प्रपञ्चैः
आराध्यायै स्पृहयतितरामदिमायै जनन्यै ॥ ७२ ॥

दूरं वाचां त्रिदशसदसां दुःखसिन्धोस्तरित्रं
मोहक्ष्वेलक्षितिरुहवने क्रूरधारं कुठारम् ।
कम्पातीरप्रणयि कविभिर्वर्णितोद्यच्चरित्रं
शान्त्यै सेवे सकलविपदां शांकरं तत्कलत्रम् ॥ ७३ ॥

खण्डीकृत्य प्रकृतिकुटिलं कल्मषं प्रातिभश्री-
शुण्डीरत्वं निजपदजुषां शून्यतन्द्रं दिशन्ती ।
तुण्डीराख्यै महति विषये स्वर्णवृष्टिप्रदात्री
चण्डी देवी कलयति रतिं चन्द्रचूडालचूडे ॥ ७४ ॥

येन ख्यातो भवति स गृही पूरुषो मेरुधन्वा
यद्दृक्कोणे मदननिगमप्राभवं बोभवीति ।
यत्प्रीत्यैव त्रिजगदधिपो जृम्भते किम्पचानः
कम्पातीरे स जयति महान्कश्चिदोजोविशेषः ॥ ७५ ॥

धन्या धन्या गतिरिह गिरां देवि कामाक्षि यन्मे
निन्द्यां भिन्द्यात्सपदि जडतां कल्मषादुन्मिषन्तीम् ।
साध्वी माध्वीरसमधुरताभञ्जिनी मञ्जुरीतिः
वाणीवेणी झटिति वृणुतात्स्वर्धुनीस्पर्धिनी माम् ॥ ७६ ॥

यस्या वाटी हृदयकमलं कौसुमी योगभाजां
यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दैः ।
यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य काञ्ची
सा मे सोमाभरणमहिषी साधयेत्काङ्क्षितानि ॥ ७७ ॥

एका माता सकलजगतामीयुषी ध्यानमुद्राम्
एकाम्राधीश्वरचरणयोरेकतानां समिन्धे ।
ताटङ्कोद्यन्मणिगणरुचा ताम्रकर्णप्रदेशा
तारुण्यश्रीस्तबकिततनुस्तापसी कापि बाला ॥ ७८ ॥

दन्तादन्तिप्रकटनकरी दन्तिभिर्मन्दयानैः
मन्दाराणां मदपरिणतिं मथ्नती मन्दहासैः ।
अङ्कूराभ्यां मनसिजतरोरङ्कितोराः कुचाभ्या-
मन्तःकाञ्चि स्फुरति जगतामादिमा कापि माता ॥ ७९ ॥

त्रियम्बककुटुम्बिनीं त्रिपुरसुन्दरीमिन्दिरां
पुलिन्दपतिसुन्दरीं त्रिपुरभैरवीं भारतीम् ।
मतङ्गकुलनायिकां महिषमर्दनीं मातृकां
भणन्ति विबुधोत्तमा विहृतिमेव कामाक्षि ते ॥ ८० ॥

महामुनिमनोनटी महितरम्यकम्पातटी-
कुटीरकविहारिणी कुटिलबोधसंहारिणी ।
सदा भवतु कामिनी सकलदेहिनां स्वामिनी
कृपातिशयकिंकरी मम विभूतये शांकरी ॥ ८१ ॥

जडाः प्रकृतिनिर्धना जनविलोचनारुन्तुदा
नरा जननि वीक्षणं क्षणमवाप्य कामाक्षि ते ।
वचस्सु मधुमाधुरीं प्रकटयन्ति पौरन्दरी-
विभूतिषु विडम्बनां वपुषि मान्मथीं प्रक्रियाम् ॥ ८२ ॥

घन्सतनतटस्फुटस्फुरितकञ्चुलीचञ्चली-
कृतत्रिपुरशासना सुजनशीलितोपासना ।
दृशोः सरणिमश्नुते मम कदा नु काञ्चीपुरे
परा परमयोगिनां मनसि चित्कुला पुष्कला ॥ ८३ ॥

कवीन्द्रहृदयेचरी परिगृहीतकाञ्चीपुरी
निरूढकरुणाझरी निखिललोकरक्षाकरी ।
मनःपथदवीयसी मदनशासनप्रेयसी
महागुणगरीयसी मम दृशोऽस्तु नेदीयसी ॥ ८४ ॥

धनेन न रमामहे खलजनान्न सेवामहे
न चापलमयामहे भवभयान्न दूयामहे ।
स्थिरां तनुमहेतरां मनसि किं च काञ्चीरत-
स्मरान्तककुटुम्बिनीचरणपल्लवोपासनाम् ॥ ८५ ॥

सुराः परिजना वपुर्मनसिजाय वैरायते
त्रिविष्टपनितम्बिनीकुचतटी च केलीगिरिः ।
गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा
कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते ॥ ८६ ॥

पवित्रय जगत्त्रयीविबुधबोधजीवातुभिः
पुरत्रयविमर्दिनः पुलककञ्चुलीदायिभिः ।
भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षणैः
निरक्षरशिरोमणिं करुणयैव कामाक्षि माम् ॥ ८७ ॥

कदा कलितखेलनाः करुणयैव काञ्चीपुरे
कलायमुकुलत्विषः शुभकदम्बपूर्णाङ्कुराः ।
पयोधरभरालसाः कविजनेषु ते बन्धुराः
पचेलिमकृपारसा परिपतन्ति मार्गे दृशोः ॥ ८८ ॥

अशोध्यमचलोद्भवं हृदयनन्दनं देहिनाम्
अनर्घमधिकाञ्चि तत्किमपि रत्नमुद्द्योतते ।
अनेन समलंकृता जयति शङ्कराङ्कस्थली
कदास्य मम मानसं व्रजति पेटिकाविभ्रमम् ॥ ८९ ॥

परामृतझरीप्लुता जयति नित्यमन्तश्चरी
भुवामपि बहिश्चरी परमसंविदेकात्मिका ।
महद्भिरपरोक्षिता सततमेव काञ्चीपुरे
ममान्वहमहंमतिर्मनसि भातु माहेश्वरी ॥ ९० ॥

तमोविपिनधाविनं सततमेव काञ्चीपुरे
विहाररसिका परा परमसंविदुर्वीरुहे ।
कटाक्षनिगलैर्दृढं हृदयदुष्टदन्तावलं
चिरं नयतु मामकं त्रिपुरवैरिसीमन्तिनी ॥ ९१ ॥

त्वमेव सति चण्डिका त्वमसि देवि चामुण्डिका
त्वमेव परमातृका त्वमपि योगिनीरूपिणी ।
त्वमेव किल शाम्भवी त्वमसि कामकोटी जया
त्वमेव विजया त्वयि त्रिजगदम्ब किं ब्रूमहे ॥ ९२ ॥

परे जननि पार्वति प्रणतपालिनि प्रातिभ-
प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वते ।
त्रियम्बककुटुम्बिनि त्रिपदसङ्गिनि त्रीक्षणे
त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते ॥ ९३ ॥

मनोमधुकरोत्सवं विदधती मनीषाजुषां
स्वयम्प्रभववैखरीविपिनवीथिकालम्बिनी ।
अहो शिशिरिता कृपामधुरसेन कम्पातटे
चराचरविधायिनी चलति कापि चिन्मञ्जरी ॥ ९४ ॥

कलावति कलाभृतो मुकुटसीम्नि लीलावति
स्पृहावति महेश्वरे भुवनमोहने भास्वति ।
प्रभावति रमे सदा महितरूपशोभावति
त्वरावति परे सतां गुरुकृपाम्बुधारावति ॥ ९५ ॥

त्वयैव जगदम्बया भुवनमण्डलं सूयते
त्वयैव करुणार्द्रया तदपि रक्षणं नीयते ।
त्वयैव खरकोपया नयनपावके हूयते
त्वयैव किल नित्यया जगति सन्ततं स्थीयते ॥ ९६ ॥

चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं
गुणत्रयमयीं जगत्त्रयमयीं त्रिधामामयीम् ।
परापरमयीं सदा दशदिशां निशाहर्मयीं
परां सततसन्मयीं मनसि चिन्मयीं शीलये ॥ ९७ ॥

जय जगदम्बिके हरकुटुम्बिनि वक्त्ररुचा
जितशरदम्बुजे घनविडम्बिनि केशरुचा ।
परमवलम्बनं कुरु सदा पररूपधरे
मम गतसंविदो जडिमडम्बरताण्डविनः ॥ ९८ ॥

भुवनजननि भूषाभूतचन्द्रे नमस्ते
कलुषशमनि कम्पातीरगेहे नमस्ते ।
निखिलनिगमवेद्ये नित्यरूपे नमस्ते
परशिवमयि पाशच्छेदहस्ते नमस्ते ॥ ९९ ॥

क्वणत्काञ्ची काञ्चीपुरमणिविपञ्चीलयझरी-
शिरःकम्पा कम्पावसतिरनुकम्पाजलनिधिः ।
घनश्यामा श्यामा कठिनकुचसीमा मनसि मे
मृगाक्षी कामाक्षी हरनटनसाक्षी विहरतात् ॥ १०० ॥

समरविजयकोटी साधकानन्दधाटी
मृदुगुणपरिपेटी मुख्यकादम्बवाटी ।
मुनिनुतपरिपाटी मोहिताजाण्डकोटी
परमशिववधूटी पातु मां कामकोटी ॥ १०१ ॥

इमं परवरप्रदं प्रकृतिपेशलं पावनं
परापरचिदाकृतिप्रकटनप्रदीपायितम् ।
स्तवं पठति नित्यदा मनसि भावयन्नम्बिकां
जपैरलमलं मखैरधिकदेहसंशोषणैः ॥ १०२ ॥

स्तुतिशतकं सम्पूर्णम् ॥

॥ कटाक्षशतकम् ॥
मोहान्धकारनिवहं विनिहन्तुमीडे
मूकात्मनामपि महाकवितावदान्यान् ।
श्रीकाञ्चिदेशशिशिरीकृतिजागरूकान्
एकाम्रनाथतरुणीकरुणावलोकान् ॥ १ ॥

मातर्जयन्ति ममताग्रहमोक्षणानि
माहेन्द्रनीलरुचिशिक्षणदक्षिणानि ।
कामाक्षि कल्पितजगत्त्रयरक्षणानि
त्वद्वीक्षणानि वरदानविचक्षणानि ॥ २ ॥

आनङ्गतन्त्रविधिदर्शितकौशलानाम्
आनन्दमन्दपरिघूर्णितमन्थराणाम् ।
तारल्यमम्ब तव ताडितकर्णसीम्नां
कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ॥ ३ ॥

कल्लोलितेन करुणारसवेल्लितेन
कल्माषितेन कमनीयमृदुस्मितेन ।
मामञ्चितेन तव किंचन कुञ्चितेन
कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥ ४ ॥

साहाय्यकं गतवती मुहुरर्जनस्य
मन्दस्मितस्य परितोषितभीमचेताः ।
कामाक्षि पाण्डवचमूरिव तावकीना
कर्णान्तिकं चलति हन्त कटाक्षलक्ष्मीः ॥ ५ ॥

अस्तं क्षणान्नयतु मे परितापसूर्यम्
आनन्दचन्द्रमसमानयतां प्रकाशम् ।
कालान्धकारसुषुमां कलयन्दिगन्ते
कामाक्षि कोमलकटाक्षनिशागमस्ते ॥ ६ ॥

ताटाङ्कमौक्तिकरुचाङ्कुरदन्तकान्तिः
कारुण्यहस्तिपशिखामणिनाधिरूढः ।
उन्मूलयत्वशुभपादपमस्मदीयं
कामाक्षि तावककटाक्षमतङ्गजेतन्द्रः ॥ ७ ॥

छायाभरणे जगतां परितापहारी
ताटङ्करत्नमणितल्लजपल्लवश्रीः ।
कारुण्यनाम विकिरन्मकरन्दजालं
कामाक्षि राजति कटाक्षसुरद्रुमस्ते ॥ ८ ॥

सूर्याश्रयप्रणयिनी मणिकुण्डलांशु-
लौहित्यकोकनदकाननमाननीया ।
यान्ती तव स्मरहराननकान्तिसिन्धुं
कामाक्षि राजति कटाक्षकलिन्दकन्या ॥ ९ ॥

प्राप्नोति यं सुकृतिनं तव पक्षपातात्
कामाक्षि वीक्षणविलासकलापुरन्ध्री ।
सद्यस्तमेव किल मुक्तिवधूर्वृणीते
तस्मान्नितान्तमनयोरिदमैकमत्यम् ॥ १० ॥

यान्ती सदैव मरुतामनुकूलभावं
भ्रूवल्लिशक्रधनुरुल्लसिता रसार्द्रा ।
कामाक्षि कौतुकतरङ्गितनीलकण्ठा
कादम्बिनीव तव भाति कटाक्षमाला ॥ ११ ॥

गङ्गाम्भसि स्मितमये तपनात्मजेव
गङ्गाधरोरसि नवोत्पलमालिकेव ।
वक्त्रप्रभासरसि शैवलमण्डलीव
कामाक्षि राजति कटाक्षरुचिच्छटा ते ॥ १२ ॥

संस्कारतः किमपि कन्दलितान् रसज्ञ-
केदारसीम्नि सुधियामुपभोगयोग्यान् ।
कल्याणसूक्तिलहरीकलमांकुरान्नः
कामाक्षि पक्ष्मलयतु त्वदपाङ्गमेघः ॥ १३ ॥

चाञ्चल्यमेव नियतं कलयन्प्रकृत्या
मालिन्यभूः श्रतिपथाक्रमजागरूकः ।
कैवल्यमेव किमु कल्पयते नतानां
कामाक्षि चित्रमपि ते करुणाकटाक्षः ॥ १४ ॥

संजीवने जननि चूतशिलीमुखस्य
संमोहने शशिकिशोरकशेखरस्य ।
संस्तम्भने च ममताग्रहचेष्टितस्य
कामाक्षि वीक्षणकला परमौषधं ते ॥ १५ ॥

नीलोऽपि रागमधिकं जनयन्पुरारेः
लोलोऽपि भक्तिमधिकां दृढयन्नराणाम् ।
वक्रोऽपि देवि नमतां समतां वितन्वन्
कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः ॥ १६ ॥

कामद्रुहो हृदययन्त्रणजागरूका
कामाक्षि चञ्चलदृगञ्चलमेखला ते ।
आश्चर्यमम्ब भजतां झटिति स्वकीय-
सम्पर्क एव विधुनोति समस्तबन्धान् ॥ १७ ॥

कुण्ठीकरोतु विपदं मम कुञ्चितभ्रू-
चापाञ्चितः श्रितविदेहभवानुरागः ।
रक्षोपकारमनिशं जनयञ्जगत्यां
कामाक्षि राम इव ते करुणाकटाक्षः ॥ १८ ॥

श्रीकामकोटि शिवलोचनशोषितस्य
श‍ृङ्गारबीजविभवस्य पुनःप्ररोहे ।
प्रेमाम्भसार्द्रमचिरात्प्रचुरेण शङ्के
केदारमम्ब तव केवलदृष्टिपातम् ॥ १९ ॥

माहात्म्यशेवधिरसौ तव दुर्विलङ्घ्य-
संसारविन्ध्यगिरिकुण्ठनकेलिचुञ्चुः ।
धैर्याम्बुधिं पशुपतेश्चुलकीकरोति
कामाक्षि वीक्षणविजृम्भणकुम्भजन्मा ॥ २० ॥

पीयूषवर्षवशिशिरा स्फुटदुत्पलश्री-
मैत्री निसर्गमधुरा कृततारकाप्तिः ।
कामाक्षि संश्रितवती वपुरष्टमूर्तेः
ज्योत्स्नायते भगवति त्वदपाङ्गमाला ॥ २१ ॥

अम्ब स्मरप्रतिभटस्य वपुर्मनोज्ञम्
अम्भोजकाननमिवाञ्चितकण्टकाभम् ।
भृङ्गीव चुम्बति सदैव सपक्षपाता
कामाक्षि कोमलरुचिस्त्वदपाङ्गमाला ॥ २२ ॥

केशप्रभापटलनीलवितानजाले
कामाक्षि कुण्डलमणिच्छविदीपशोभे ।
शङ्के कटाक्षरुचिरङ्गतले कृपाख्या
शैलूषिका नटति शंकरवल्लभे ते ॥ २३ ॥

अत्यन्तशीतलमतन्द्रयतु क्षणार्धम्
अस्तोकविभ्रममनङ्गविलासकन्दम् ।
अल्पस्मितादृतमपारकृपाप्रवाहम्
अक्षिप्ररोहमचिरान्मयि कामकोटि ॥ २४ ॥

मन्दाक्षरागतरलीकृतिपारतन्त्र्यात्
कामाक्षि मन्थरतरां त्वदपाङ्गडोलाम् ।
आरुह्य मन्दमतिकौतुकशालि चक्षुः
आनन्दमेति मुहुरर्धशशाङ्कमौलेः ॥ २५ ॥

त्रैयम्बकं त्रिपुरसुन्दरि हर्म्यभूमि-
रङ्गं विहारसरसी करुणाप्रवाहः ।
दासाश्च वासवमुखाः परिपालनीयं
कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥ २६ ॥

वागीश्वरी सहचरी नियमेन लक्ष्मीः
भ्रूवल्लरीवशकरी भुवनानि गेहम् ।
रूपं त्रिलोकनयनामृतमम्ब तेषां
कामाक्षि येषु तव वीक्षणपारतन्त्री ॥ २७ ॥

माहेश्वरं झटिति मानसमीनमम्ब
कामाक्षि धैर्यजलधौ नितरां निमग्नम् ।
जालेन श‍ृङ्खलयति त्वदपाङ्गनाम्ना
विस्तारितेन विषमायुधदाशकोऽसौ ॥ २८ ॥

उन्मथ्य बोधकमलाकारमम्ब जाड्य-
स्तम्बेरमं मम मनोविपिने भ्रमन्तम् ।
कुण्ठीकुरुष्व तरसा कुटिलाग्रसीम्ना
कामाक्षि तावककटाक्षमहाङ्कुशेन ॥ २९ ॥

उद्वेल्लितस्तबकितैर्ललितैर्विलासैः
उत्थाय देवि तव गाढकटाक्षकुञ्जात् ।
दूरं पलाययतु मोहमृगीकुलं मे
कामाक्षि स्तवरमनुग्रहकेसरीन्द्रः ॥ ३० ॥

स्नेहादृतां विदलितोत्पलकन्तिचोरां
जेतारमेव जगदीश्वरि जेतुकामः ।
मानोद्धतो मकरकेतुरसौ धुनीते
कामाक्षि तावककटाक्षकृपाणवल्लीम् ॥ ३१ ॥

श्रौतीं व्रजन्नपि सदा सरणिं मुनीनां
कामाक्षि सन्ततमपि स्मृतिमार्गगामी ।
कौटिल्यमम्ब कथमस्थिरतां च धत्ते
चौर्यं च पङ्कजरुचां त्वदपाङ्गपातः ॥ ३२ ॥

नित्यं श्रेतुः परिचितौ यतमानमेव
नीलोत्पलं निजसमीपनिवासलोलम् ।
प्रीत्यैव पाठयति वीक्षणदेशिकेन्द्रः
कामाक्षी किन्तु तव कालिमसम्प्रदायम् ॥ ३३ ॥

भ्रान्त्वा मुहुः स्तबकितस्मितफेनराशौ
कामाक्षि वक्त्ररुचिसंचयवारिराशौ ।
आनन्दति त्रिपुरमर्दननेत्रलक्ष्मीः
आलम्ब्य देवि तव मन्दमपाङ्गसेतुम् ॥ ३४ ॥

श्यामा तव त्रिपुरसुन्दरि लोचनश्रीः
कामाक्षि कन्दलितमेदुरतारकान्तिः ।
ज्योत्स्नावती स्मितरुचापि कथं तनोति
स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥ ३५ ॥

कालाञ्जनं च तव देवि निरीक्षणं च
कामाक्षि साम्यसरणिं समुपैति कान्त्या ।
निश्शेषनेत्रसुलभं जगतीषु पूर्व-
मन्यत्त्रिनेत्रसुलभं तुहिनाद्रिकन्ये ॥ ३६ ॥

धूमाङ्कुरो मकरकेतनपावकस्य
कामाक्षि नेत्ररुचिनीलिमचातुरी ते ।
अत्यन्तमद्भुतमिदं नयनत्रयस्य
हर्षोदयं जनयते हरुणाङ्कमौलेः ॥३७ ॥

आरभ्भलेशसमये तव वीक्षणस्स
कामाक्षि मूकमपि वीक्षणमात्रनम्रम् ।
सर्वज्ञता सकललोकसमक्षमेव
कीर्तिस्वयंवरणमाल्यवती वृणीते ॥ ३८ ॥

कालाम्बुवाह उव ते परितापहारी
कामाक्षि पुष्करमधःकुरुते कटाख़्षः ।
पूर्वः परं क्षणरुचा समुपैति मैत्री-
मन्यस्तु स।ततरुचिं प्रकटीकरोति ॥ ३९ ॥

सूक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद-
साहाय्यकेन विचरन्नपवर्गमार्गे ।
संसारपङ्कनिचये न पतत्यमूं ते
कामाक्षि गाढमवलम्ब्य कटाक्षयष्टिम् ॥ ४० ॥

कामाक्षि सन्ततमसौ हरिनीलरत्न-
स्तम्भे कटाक्षरुचिपुञ्जमये भवत्याः ।
बद्धोऽपि भक्तिनिगलैर्मम चित्तहस्ती
स्तम्भं च बन्धमपि मुञ्चति हन्त चित्रम् ॥ ४१ ॥

कामाक्षि काष्णर्यमपि सन्ततमञ्जनं च
बिभ्रन्निसर्गतरलोऽपि भवत्कटाक्षः ।
वैमल्यमन्वहमनञ्जनता च भूयः
स्थैर्यं च भक्तहृदयाय कथं ददाति ॥ ४२ ॥

मन्दस्मितस्तबकितं मणिकुण्डलांशु-
स्तोमप्रवालरुचिरं शिशिरीकृताशम् ।
कामाक्षि राजति कटाक्षरुचेः कदम्बम्
उद्यानमम्ब करुणाहरिणेक्षणायाः ॥ ४३ ॥

कामाक्षि तावककटाक्षमहेन्द्रनील-
सिंहासनं श्रितवतो मकरध्वजस्य ।
साम्राज्यमङ्गलविधौ मुणिकुण्डलश्रीः
नीराजनोत्सवतरङ्गितदीपमाला ॥ ४४ ॥

मातः क्षणं स्नपय मां तव वीक्षितेन
मन्दाक्षितेन सुजनैरपरोक्षितेन ।
कामाक्षि कर्मतिमिरोत्करभास्करेण
श्रेयस्करेण मधुपद्युतितस्करेण ॥ ४५ ॥

प्रेमापगापयसि मज्जनमारचय्य
युक्तः स्मितांशुकृतभस्मविलेपनेन ।
कामाक्षि कुण्डलमणिद्युतिभिर्जटालः
श्रीकण्ठमेव भजते तव दृष्टिपातः ॥ ४६ ॥

कैवल्यदाय करुणारसकिंकराय
कामाक्षि कन्दलितविभ्रमशंकराय ।
आलोकनाय तव भक्तशिवंकराय
मातर्नमोऽस्तु परतन्त्रितशंकराय ॥ ४७ ॥

साम्राज्यमङ्गलविधौ मकरध्वजस्य
लोलालकालिकृततोरणमाल्यशोभे ।
कामेश्वरि प्रचलदुत्पलवैजयन्ती-
चातुर्यमेति तव चञ्चलदृष्टिपातः ॥ ४८ ॥

मार्गेण मञ्जुकचकान्तितमोवृतेन
मन्दायमानगमना मदनातुरासौ ।
कामाक्षि दृष्टिरयते तव शंकराय
संकेतभूमिमचिरादभिसारिकेव ॥ ४९ ॥

व्रीडनुवृत्तिरमणीकृतसाहचर्या
शैवालितां गलरुचा शशिशेखरस्य ।
कामाक्षि कान्तिसरसीं त्वदपाङ्गलक्ष्मीः
मन्दं समाश्रयति मज्जनखेलनाय ॥ ५० ॥

काषायमंशुकमिव प्रकटं दधानो
माणिक्यकुण्डलरुचिं ममताविरोधी ।
श्रुत्यन्तसीमनि रतः सुतरां चकास्ति
कामाक्षि तावककटाक्षयतीश्वरोऽसौ ॥ ५१ ॥

पाषाण एव हरिनीलमणिर्दिनेषु
प्रम्लनतां कुवलयं प्रकटीकरोति ।
नौमित्तिको जलदमेचकिमा ततस्ते
कामाक्षि शून्यमुपमनमपाङ्गलक्ष्म्याः ॥ ५२ ॥

श‍ृङ्गारविभ्रमवती सुतरां सलज्जा
नासाग्रमौक्तिकरुचा कृतमन्दहासा ।
श्यामा कटाक्षसुषमा तव युक्तमेतत्
कामाक्षि चुम्बति दिगम्बरवक्त्रबिम्बम् ॥ ५३ ॥

नीलोत्पलेन मधुपेन च दृष्टिपातः
कामाक्षि तुल्य इति ते कथमामनन्ति ।
शैत्येन निन्दयति यदन्वहमिन्दुपादान्
पाथोरुहेण यदसौ कलहायते च ॥ ५४ ॥

ओष्ठप्रभापटलविद्रुममुद्रिते ते
भ्रूवल्लिवीचिसुभगे मुखकान्तिसिन्धौ ।
कामाक्षि वारिभरपूरणलम्बमान-
कालाम्बुवाहसरणिं लभते कटाक्षः ॥ ५५ ॥

मन्दस्मितैर्धवलिता मणिकुण्डलांशु-
सम्पर्कलोहितरुचिस्त्वदपाङ्गधारा ।
कामाक्षि मल्लिकुसुमैर्नवपल्लवैश्च
नीलोत्पलैश्च रचितेव विभाति माला ॥ ५६ ॥

कामाक्षि शीतलकृपारसनिर्झराम्भः-
सम्पर्कपक्ष्मलरुचिस्त्वदपाङ्गमाला ।
गोभिः सदा पुररिपोरभिलष्यमाणा
दूर्वाकदम्बकविडम्बनमातनोति ॥ ५७ ॥

हृत्पङ्कजं मम विकासयतु प्रमुष्ण-
न्नुल्लासमुत्पलरुचेस्तमसां निरोद्धा ।
दोषानुषङ्गजडतां जगतां धुनानः
कामाक्षि वीक्षणविलासदिनोदयस्ते ॥ ५८ ॥

चक्षुर्विमोहयति चन्द्रविभूषणस्य
कामाक्षि तावककटाक्षतमःप्ररोहः ।
प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां
प्राकाश्यमेव नयतीति परं विचित्रम् ॥ ५९ ॥

कामाक्षि वीक्षणरुचा युधि निर्जितं ते
नीलोत्पलं निरवशेषगताभिमानम् ।
आगत्य तत्परिसरं श्रवणवतंस-
व्योजेन नूनमभयार्थनमातनोति ॥ ६० ॥

आश्चर्यमम्ब मदानाभ्युदयावलम्बः
कामाक्षि चञ्चलनिरीक्षणविभ्रमस्ते ।
धैर्यं विधूय तनुते हृदि रागबन्धं
शम्भोस्तदेव विपरीततया मुनीनाम् ॥ ६१ ॥

जन्तोः सकृत्प्रणमतो जगदीड्यतां च
तेजास्वितां च निशितां च मतिं सभायाम् ।
कामाक्षि माक्षिकझरीमिव वैखरीं च
लक्ष्मीं च पक्ष्मलयति क्षणवीक्षणं ते ॥ ६२ ॥

कादम्बिनी किमयते न जलानुषङ्गं
भृङ्गावली किमुररीकुरुते न पद्मम् ।
किं वा कलिन्दतनया सहते न भङ्गं
कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ॥ ६३ ॥

काकोलपावकतृणीकरणेऽपि दक्षः
कामाक्षि बालकसुधाकरशेखरस्य ।
अत्यन्तशीतलतमोऽप्यनुपारतं ते
चित्तं विमोहयति चित्रमयं कटाक्षः ॥ ६४ ॥

कार्पण्यपूरपरिवर्धितमम्ब मोह-
कन्दोद्गतं भवमयं विषपादपं मे ।
तुङ्गं छिनत्तु तुहिनाद्रिसुते भवत्याः
काञ्चीपुरेश्वरि कटाक्षकुठारधारा ॥ ६५ ॥

कामाक्षि घोरभवरोगचिकित्सनार्थ-
मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात् ।
तत्रापि देवि लभते सुकृती कदाचि-
दन्यस्य दुर्लभमपाङ्गमहौषधं ते ॥ ६६ ॥

कामाक्षि देशिककृपांकुरमाश्रयन्तो
नानातपोनियमनाशितपाशबन्धाः ।
वासालयं तव कटाक्षममुं महान्तो
लब्ध्वा सुखं समाधियो विचरन्ति लोके ॥ ६७ ॥

साकूतसंलपितसम्भृतमुग्धहासं
व्रीडानुरागसहचारि विलोकनं ते ।
कामाक्षि कामपरिपन्थिनि मारवीर-
साम्राज्यविभ्रमदशां सफलीकरोति ॥ ६८ ॥

कामाक्षि विभ्रमबलैकनिधिर्विधाय
भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम् ।
स्वाधीनतां तव निनाय शशाङ्कमौले-
रङ्गार्धराज्यसुखलाभमपाङ्गवीरः ॥ ६९ ॥

कामांकुरैकनिलयस्तव दृष्टिपातः
कामाक्षि भक्तमनसां प्रददातु कामान् ।
रागान्वितः स्वयमपि प्रकटीकरोति
वैराग्यमेव कथमेष महामुनीनाम् ॥ ७० ॥

कालाम्बुवाहनिवहैः कलहायते ते
कामाक्षि कालिममदेन सदा कटाक्षः ।
चित्रं तथापि नितराममुमेव दृष्ट्वा
सोत्कण्ठ एव रमते किल नीलकण्ठः ॥ ७१ ॥

कामाक्षि मन्मथरिपुं प्रति मारताप-
मोहान्धकारजलदागमनेन नृत्यन् ।
दुष्कर्मकञ्चुकिकुलं कबलीकरोतु
व्यामिश्रमेचकरुचिस्त्वदपाङ्गकेकी ॥ ७२ ॥

कामाक्षि मन्मथरिपोरवलोकनेषु
कान्तं पयोजमिव तावकमक्षिपातम् ।
प्रेमागमो दिवसवद्विकचीकरोति
लज्जाभरो रजनिवन्मुकुलीकरोति ॥ ७३ ॥

मूको विरिञ्चति परं पुरुषः कुरूपः
कन्दर्पति त्रिदशराजति किम्पचानः ।
कामाक्षि केवलमुपक्रमकाल एव
लीलातरङ्गितकटाक्षरुचः क्षणं ते ॥ ७४ ॥

नीलालका मधुकरन्ति मनोज्ञनासा-
मुक्तारुचः प्रकटकन्दबिसाङ्कुरन्ति ।
कारुण्यमम्ब मकरन्दति कामकोटि
मन्ये ततः कमलमेव विलोचनं ते ॥ ७५ ॥

आकांक्ष्यमाणफलदानविचक्षणायाः ।
कामाक्षि तावककटाक्षककामधेनोः ।
सम्पर्क एव कथमम्ब विमुक्तपाश-
बन्धाः स्फुटं तनुभृतः पशुतां त्यजन्ति ॥ ७६ ॥

संसारघर्मपरितापजुषां नराणां
कामाक्षि शीतलतराणि तवेक्षितानि ।
चन्द्रातपन्ति घनचन्दनकर्दमन्ति
मुक्तागुणन्ति हिमवारिनिषेचनन्ति ॥ ७७ ॥

प्रेमाम्बुराशिसततस्नपितानि चित्रं
कामाक्षि तावककटाक्षनिरीक्षणानि ।
सन्धुक्षयन्ति मुहुरिन्धनराशिरीत्या
मारद्रुहो मनसि मन्मथचित्रभानुम् ॥ ७८ ॥

कालाञ्जनप्रतिभटं कमनीयकान्त्या
कन्दर्पतन्त्रकलया कलितानुभावम् ।
काञ्चीविहाररसिके कलुषार्तिचोरं
कल्लोलयस्व मयि ते करुणाकटाक्षम् ॥ ७९ ॥

क्रान्तेन मन्मथदेन विमोह्यमान-
स्वान्तेन चूततरुमूलगतस्य पुंसः ।
कान्तेन किंचिदवलोकय लोचनस्य
प्रान्तेन मां जननि काञ्चिपुरीविभूषे ॥ ८० ॥

कामाक्षि कोऽपि सुजनास्त्वदपाङ्गसंगे
कण्ठेन कन्दलितकालिमसम्प्रदायाः ।
उत्तंसकल्पितचकोरकुटुम्बपोषा
नक्तन्दिवसप्रसवभूनयना भवन्ति ॥ ८१ ॥

नीलोत्पलप्रसवकान्तिनिर्दशनेन
कारुण्यविभ्रमजुषा तव वीक्षणेन ।
कामाक्षि कर्मजलधेः कलशीसुतेन
पाशत्रयाद्वयममी परिमोचनीयाः ॥ ८२ ॥

अत्यन्तचञ्चलमकृत्रिममञ्जनं किं
झंकारभङ्गिरहिता किमु भृङ्गमाला ।
धूमाङ्कुरः किमु हुताशनसंगहीनः
कामाक्षि नेत्ररुचिनीलिमकन्दली ते ॥ ८३ ॥

कामाक्षि नित्यमयमञ्जलिरस्तु मुक्ति-
बीजाय विभ्रममदोदयघूर्णिताय ।
कन्दर्पदर्पपुनरुद्भवसिद्धिदाय
कल्याणदाय तव देवि दृगञ्चलाय ॥ ८४ ॥

दर्पाङ्कुरो मकरकेतनविभ्रमाणां
निन्दाङ्कुरो विदलितोत्पलचातुरीणाम् ।
दीपाङ्कुरो भवतमिस्रकदम्बकानां
कामाक्षि पालयतु मां त्वदपाङ्गपातः ॥ ८५ ॥

कैवल्यदिव्यमणिरोहणपर्वतेभ्यः
कारुण्यनिर्झरपयःकृतमञ्जनेभ्यः ।
कामाक्षि किंकरितशङ्करमानसेभ्य-
स्तेभ्यो नमोऽस्तु तव वीक्षणविभ्रमेभ्यः ॥ ८६ ॥

अल्पीय एव नवमुत्पलमम्ब हीना
मीनस्य वा सरणिरम्बुरुहां च किं वा ।
दूरे मृगीदृगसमञ्जसमञ्जनं च
कामाक्षि वीक्षणरुचौ तव तर्कयामः ॥ ८७ ॥

मिश्रीभवद्गरलपङ्किलशङ्करोरस्-
सीमाङ्गणे किमपि रिङ्खणमादधानः ।
हेलावधूतललितश्रवणोत्पलोऽसौ
कामाक्षि बाल इव राजति ते कटाक्षः ॥ ८८ ॥

प्रौढिकरोति विदुषां नवसूक्तिधाटी-
चूताटवीषु बुधकोकिललाल्यमानम् ।
माध्वीरसं परिमलं च निरर्गलं ते
कामाक्षि वीक्षणविलासवसन्तलक्ष्मीः ॥ ८९ ॥

कूलंकषं वितनुते करुणाम्बुवर्षी
सारस्वतं सुकृतिनः सुलभं प्रवाहम् ।
तुच्छीकरोति यमुनाम्बुतरङ्गभङ्गीं
कामाक्षि किं तव कटाक्षमहाम्बुवाहः ॥ ९० ॥

जगर्ति देवि करुणाशुकसुन्दरी ते
ताटङ्करत्नरुचिदाडिमखण्डशोणे ।
कामाक्षि निर्भरकटाक्षमरीचिपुञ्ज-
माहेन्द्रनीलमणिपञ्जरमध्यभागे ॥ ९१ ॥

कामाक्षि सत्कुवलयस्य सगोत्रभावा-
दाक्रामति श्रुतिमसौ तव दृष्टिपातः ।
किंच स्फुटं कुटिलतां प्रकटीकरोति
भ्रूवल्लरीपरिचितस्य फलं किमेतत् ॥ ९२ ॥

एषा तवाक्षिसुषमा विषमायुधस्य
नाराचवर्षलहरी नगराजकन्ये ।
शंके करोति शतधा हृदि धैर्यमुद्रां
श्रीकामकोटि यदसौ शिशिरांशुमौलेः ॥ ९३ ॥

बाणेन पुष्पधनुषः परिकल्प्यमान-
त्राणेन भक्तमनसां करुणाकरेण ।
कोणेन कोमलदृशस्तव कामकोटि
शोणेन शोषय शिवे मम शोकसिन्धुम् ॥ ९४ ॥

मारद्रुहा मुकुटसीमनि लाल्यमाने
मन्दाकिनीपयसि ते कुटिलं चरिष्णुः ।
कामाक्षि कोपरभसाद्वलमानमीन-
सन्देहमङ्कुरयति क्षणमक्षिपातः ॥ ९५ ॥

कामाक्षि संवलितमौक्तिककुण्डलांशु-
चञ्चत्सितश्रवणचामरचातुरीकः ।
स्तम्भे निरन्तरमपाङ्गमये भवत्या
बद्धश्चकास्ति मकरध्वजमत्तहस्ती ॥ ९६ ॥

यावत्कटाक्षरजनीसमयागमस्ते
कामाक्षि तावदचिरान्नमतां नराणाम् ।
आविर्भवत्यमृतदीधितिबिम्बमम्ब
संविन्मयं हृदयपूर्वगिरीन्द्रश‍ृङ्गे ॥ ९७ ॥

कामाक्षि कल्पविटपीव भवत्कटाक्षो
दित्सुः समस्तविभवं नमतां नराणाम् ।
भृङ्गस्य नीलनलिनस्य च कान्तिसम्प-
त्सर्वस्वमेव हरतीति परं विचित्रम् ॥ ९८ ॥

अत्यन्तशीतलमनर्गलकर्मपाक-
काकोलहारि सुलभं सुमनोभिरेतत् ।
पीयूषमेव तव वीक्षणमम्ब किन्तु
कामाक्षि नीलमिदमित्ययमेव भेदः ॥ ९९ ॥

अज्ञातभक्तिरसमप्रसरद्विवेक-
मत्यन्तगर्वमनधीतसमस्तशास्त्रम् ।
अप्राप्तसत्यमसमीपगतं च मुक्तेः
कामाक्षि नैव तव स्पृहयति दृष्टिपातः ॥ १०० ॥

(कामाक्षि मामवतु ते करुणाकटाक्षः)
पातेन लोचनरुचेस्तव कामकोटि
पोतेन पतकपयोधिभयातुराणाम् ।
पूतेन तेन नवकाञ्चनकुण्डलांशु-
वीतेन शीतलय भूधरकन्यके माम् ॥ १०१ ॥

कटाक्षशतकं सम्पूर्णम् ॥

॥ मन्दस्मितशतकम् ॥
बध्नीमो वयमञ्जलिं प्रतिदिनं बन्धच्छिदे देहिनां
कन्दर्पागमतन्त्रमूलगुरवे कल्याणकेलीभुवे ।
कामाक्ष्या घनसारपुञ्जरजसे कामद्रुहश्चक्षुषां
मन्दारस्तबकप्रभामदमुषे मन्दस्मितज्योतिषे ॥ १ ॥

सध्रीचे नवमल्लिकासुमनसां नासाग्रमुक्तामणे-
राचार्याय मृणालकाण्डमहसां नैसर्गिकाय द्विषे ।
स्वर्धुन्या सह युध्वेन हिमरुचेरर्धासनाध्यासिने
कामाक्ष्याः स्मितमञ्जरीधवलिमाद्वैताय तस्मै नमः ॥ २ ॥

कर्पूरद्युतिचातुरीमतितरामल्पीयसीं कुर्वती
दौर्भाग्योदयमेव संविदधती दौषाकरीणां त्विषाम् ।
क्षुल्लानेव मनोज्ञमल्लिनिकरान्फुल्लानपि व्यञ्जती
कामाक्ष्या मृदुलस्मितांशुलहरी कामप्रसूरस्तु मे ॥ ३ ॥

या पीनस्तनमण्डलोपरि लसत्कर्पूरलेपायते
या नीलेक्षणरात्रिकान्तिततिषु ज्योत्स्नाप्ररोहायते ।
या सौन्दर्यधुनीतरङ्गततिषु व्यालोलहंसायते
कामाक्ष्याः शिशिरीकरोतु हृदयं सा मे स्मितप्राचुरी ॥ ४ ॥

येषां गच्छति पूर्वपक्षसरणिं कौमुद्वतः श्वेतिमा
येषां सन्ततमारुरुक्षति तुलाकक्ष्यां शरच्चन्द्रमाः ।
येषामिच्छति कम्बुरप्यसुलभामन्तेवसत्प्रक्रियां
कामाक्ष्या ममतां हरन्तु मम ते हासत्विषामङ्कुराः ॥ ५ ॥

आशासीमसु सन्ततं विदधती नैशाकरीं व्याक्रियां
काशानामभिमानभङ्गकलनाकौशल्यमाबिभ्रती ।
ईशानेन विलोकिता सकुतुकं कामाक्षि ते कल्मष-
क्लेशापायकरी चकास्ति लहरी मन्दस्मितज्योतिषाम् ॥ ६ ॥

आरूढस्य समुन्नतस्तनतटीसाम्राज्यसिंहासनं
कन्दर्पस्य विभोर्जगत्त्रयप्राकट्यमुद्रानिधेः ।
यस्याश्चामरचातुरीं कलयते रश्मिच्छटा चञ्चला
सा मन्दस्मितमञ्जरी भवतु नः कामाय कामाक्षि ते ॥ ७ ॥

शम्भोर्या परिरम्भसम्भ्रमविधौ नैर्मल्यसीमानिधिः
गैर्वाणीव तरङ्गिणी कृतमृदुस्यन्दां कलिन्दात्मजाम् ।
कल्माषीकुरुते कलङ्कसुषमां कण्ठस्थलीचुम्बिनीं
कामाक्ष्याः स्मितकन्दली भवतु नः कल्याणसन्दोहिनी ॥ ८ ॥

जेतुं हारलतामिव स्तनतटीं संजग्मुषी सन्ततं
गन्तुं निर्मलतामिव द्विगुणितां मग्ना कृपास्त्रोतसि ।
लब्धुं विस्मयनीयतामिव हरं रागाकुलं कुर्वती
मञ्जुस्ते स्मितमञ्जरी भवभयं मथ्नातु कामाक्षि मे ॥ ९ ॥

श्वेतापि प्रकटं निशाकररुचां मालिन्यमातन्वती
शीतापि स्मरपावकं पशुपतेः सन्धुक्षयन्ती सदा ।
स्वाभाव्यादधराश्रितापि नमतामुच्चैर्दिशन्ती गतिं
कामाक्षि स्फुटमन्तरा स्फुरतु नस्त्वन्मन्दहासप्रभा ॥ १० ॥

वक्त्रश्रीसरसीजले तरलितभ्रूवल्लिकल्लोलिते
कालिम्ना दधती कटाक्षजनुषा माधुव्रतीं व्यापृतिम् ।
निर्निद्रामलपुण्डरीककुहनापाण्डित्यमाबिभ्रती
कामाक्ष्याः स्मितचातुरी मम मनः कातर्यमुन्मूलयेत् ॥ ११ ॥

नित्यं बाधितबन्धुजीवमधरं मैत्रीजुषं पल्लवैः
शुद्धस्य द्विजमण्डलस्य च तिरस्कर्तारमप्याश्रिता ।
या वैमल्यवती सदैव नमतां चेतः पुनीतेतरां
कामाक्ष्या हृदयं प्रसादयतु मे सा मन्दहासप्रभा ॥ १२ ॥

द्रुह्यन्ती तमसे मुहुः कुमुदिनीसाहाय्यमाबिभ्रती
यान्ती चन्द्रकिशोरशेखरवपुःसौधाङ्गणे प्रेङ्खणम् ।
ज्ञानाम्भोनिधिवीचिकां सुमनसां कूलंकषां कुर्वती
कामाक्ष्याः स्मितकौमुदी हरतु मे संसारतापोदयम् ॥ १३ ॥

काश्मीरद्रवधातुकर्दमरुचा कल्माषतां बिभ्रती
हंसौधैरिव कुर्वती परिचितिं हारीकृतैर्मौक्तिकैः ।
वक्षोजन्मतुषारशैलकटके संचारमातन्वती
कामाक्ष्या मृदुलस्मितद्युतिमयी भागीरथी भासते ॥ १४ ॥

कम्बोर्वंशपरम्परा इव कृपासन्तानवल्लीभुवः
सम्फुल्लस्तबका इव प्रसृमरा मूर्ताः प्रसादा इव ।
वाक्पीयूषकणा इव त्रिपथगापर्यायभेदा इव
भ्राजन्ते तव मन्दहासकिरणाः काञ्चीपुरीनायिके ॥ १५ ॥

वक्षोजे घनसारपत्ररचनाभङ्गीसपत्नायिता
कण्ठे मौक्तिकहारयष्टिकिरणव्यापारमुद्रायिता ।
ओष्ठश्रीनिकुरुम्बपल्लवपुटे प्रेङ्खत्प्रसूनायिता
कामाक्षि स्फुरतां मदीयहृदये त्वन्मन्दहासप्रभा ॥ १६ ॥

येषां बिन्दुरिवोपरि प्रचलितो नासाग्रमुक्तामणिः
येषां दीन इवाधिकण्ठमयते हारः करालम्बनम् ।
येषां बन्धुरिवोष्ठयोररुणिमा धत्ते स्वयं रञ्जनं
कामाक्ष्याः प्रभवन्तु ते मम शिवोल्लासाय हासाङ्कुराः ॥ १७ ॥

या जाड्याम्बुनिधिं क्षिणोति भजतां वैरायते कैरवैः
नित्यं यां नियमेन या च यतते कर्तुं त्रिणेत्रोत्सवम् ।
बिम्बं चान्द्रमसं च वञ्चयति या गर्वेण सा तादृशी
कामाक्षि स्मितमञ्जरी तव कथं ज्योत्स्नेत्यसौ कीर्त्यते ॥ १८ ॥

आरुढा रभसात्पुरः पुररिपोराश्लेषणोपक्रमे
या ते मातरुपैति दिव्यतटिनीशङ्काकरी तत्क्षणम् ।
ओष्ठौ वेपयति भ्रुवौ कुटिलयत्यानम्रयत्याननं
तां वन्दे मृदुहासपूरसुषमामेकाम्रनाथप्रिये ॥ १९ ॥

वक्त्रेन्दोस्तव चन्द्रिका स्मितततिर्वल्गु स्फुरन्ती सतां
स्याच्चेद्युक्तिमिदं चकोरमनसां कामाक्षि कौतूहलम् ।
एतच्चित्रमहर्निशं यदधिकामेषा रुचिं गाहते
बिम्बोष्ठद्युमणिप्रभास्वपि च यद्बिब्बोकमालम्बते ॥ २० ॥

सादृश्यं कलशाम्बुधेर्वहति यत्कामाक्षि मन्दस्मितं
शोभामोष्ठरुचाम्ब विद्रुमभवामेताद्भिदां ब्रूमहे ।
एकस्मादुदितं पुरा किल पपौ शर्वः पुराणः पुमान्
एतन्मध्यसमुद्भवं रसयते माधुर्यरूपं रसम् ॥ २१ ॥

उत्तुङ्गस्तनकुम्भशैलकटके विस्तारिकस्तूरिका-
पत्रश्रीजुषि चञ्चलाः स्मितरुचः कामाक्षि ते कोमलाः ।
सन्ध्यादीधितिरञ्जिता इव मुहुः सान्द्राधरज्योतिषा
व्यालोलामलशारदाभ्रशकलव्यापारमातन्वते ॥ २२ ॥

क्षीरं दूरत एव तिष्ठतु कथं वैमल्यमात्रादिदं
मातस्ते सहपाठवीथिमयतां मन्दस्मितैर्मञ्जुलैः ।
किं चेयं तु भिदास्ति दोहनवशादेकं तु संजायते
कामाक्षि स्वयमर्थितं प्रणमतामन्यत्तु दोदुह्यते ॥ २३ ॥

कर्पूरैरमृतैर्जगज्जननि ते कामाक्षि चन्द्रातपैः
मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम् ।
श्रीकाञ्चीपुरनायिके समतया संस्तूयते सज्जनैः
तत्तादृङ्मम तापशान्तिविधये किं देवि मन्दायते ॥ २४ ॥

मध्येगर्भितमञ्जुवाक्यलहरीमाध्वीझरीशीतला
मन्दारस्तबकायते जननि ते मन्दस्मितांशुच्छटा ।
यस्या वर्धयितुं मुहुर्विकसनं कामाक्षि कामद्रुहो
वल्गुर्वीक्षणविभ्रमव्यतिकरो वासन्तमासायते ॥ २५ ॥

बिम्बोष्ठद्युतिपुञ्जरञ्जितरुचिस्त्वन्मन्दहासच्छटा ।
कल्याणं गिरिसार्वभौमतनये कल्लोलयत्वाशु मे ।
फुल्लन्मल्लिपिनद्धहल्लकमयी मालेव या पेशला
श्रीकाञ्चीश्वरि मारमर्दितुरुरोमध्ये मुहुर्लम्बते ॥ २६ ॥

बिभ्राणा शरदभ्रविभ्रमदशां विद्योतमानाप्यसो
कामाक्षि स्मितमञ्जरी किरति ते कारुण्यधारारसम् ।
आश्चर्यं शिशिरीकरोति जगतीश्चालोक्य चैनामहो
कामं खेलति नीलकण्ठहृदयं कौतूहलान्दोलितम् ॥ २७ ॥

प्रेङ्खत्प्रौढकटाक्षकुञ्जकुहरेष्वत्यच्छगुच्छायितं
वक्त्रेन्दुच्छविसिन्धुवीचिनिचये फेनप्रतानायितम् ।
नैरन्तर्यविजृम्भितस्तनतटे नैचोलपट्टायितं
कालुष्यं कबलीकरोतु मम ते कामाक्षि मन्दस्मितम् ॥ २८ ॥

पीयूषं तव मन्थरस्मितमिति व्यर्थैव सापप्रथा
कामाक्षि ध्रुवमीदृशं यदि भवेदेतत्कथं वा शिवे ।
मन्दारस्य कथालवं न सहते मथ्नाति मन्दाकिनी-
मिन्दुं निन्दति कीर्तितेऽपि कलशीपाथोधिमीर्ष्यायते ॥ २९ ॥

विश्वेषां नयनोत्सवं वितनुतां विद्योततां चन्द्रमा
विख्यातो मदनान्तकेन मुकुटीमध्ये च संमान्यताम् ।
आः किं जातमनेन हाससुषमामालोक्य कामाक्षि ते
कालङ्कीमवलम्बते खलु दशां कल्माषहीनोऽप्यसौ ॥ ३० ॥

चेतः शीतलयन्तु नः पशुपतेरानन्दजीवातवो
नम्राणां नयनाध्वसीमसु शरच्चन्द्रातपोपक्रमाः ।
संसाराख्यसरोरुहाकरखलीकारे तुषारोत्कराः
कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मन्दहासाङ्कुराः ॥ ३१ ॥

कर्मौघाख्यतमःकचाकचिकरान्कामाक्षि संचिन्तये
त्वन्मन्दस्मितरोचिषां त्रिभुवनक्षेमंकरानङ्कुरान् ।
ये वक्त्रं शिशिरश्रियो विकसितं चन्द्रातपाम्भोरुह-
द्वेषोद्धेषोणचातुरीमिव तिरस्कर्तुं परिष्कुर्वते ॥ ३२ ॥

कुर्युर्नः कुलशैलराजतनये कूलंकषं मङ्गलं
कुन्दस्पर्धनचुञ्चवस्तव शिवे मन्दस्मितप्रक्रमाः ।
ये कामाक्षि समस्तसाक्षिनयनं सन्तोषयन्तीश्वरं
कर्पूरप्रकरा इव प्रसृमराः पुंसामसाधारणाः ॥ ३३ ॥

कम्रेण स्नपयस्व कर्मकुहनाचोरेण मारागम-
व्याख्याशिक्षणदीक्षितेन विदुषामक्षीणलक्ष्मीपुषा ।
कामाक्षि स्मितकन्दलेन कलुषस्फोटक्रियाचुञ्चुना
कारुण्यामृतवीचिकाविहरणप्राचुर्यधुर्येण माम् ॥ ३४ ॥

त्वन्मन्दस्मितकन्दलस्य नियतं कामाक्षि शङ्कामहे
बिम्बः कश्चन नूतनः प्रचलितो नैशाकरः शीकरः ।
किंच क्षीरपयोनिधिः प्रतिनिधिः स्वर्वाहिनीवीचिका-
बिब्वोकोऽपि विडम्ब एव कुहना मल्लीमतल्लीरुचः ॥ ३५ ॥

दुष्कर्मार्कनिसर्गकर्कशमहस्सम्पर्कतपतं मिल-
त्पङ्कं शङ्करवल्लभे मम मनः काञ्चीपुरालंक्रिये ।
अम्ब त्वन्मृदुलस्मितामृतरसे मङ्क्त्वा विधूय व्यथा-
मानन्दोदयसौधश‍ृङ्गपदवीमारोढुमाकाङ्क्षति ॥ ३६ ॥

नम्राणां नगराजशेखरसुते नाकालयानां पुरः
कामाक्षि त्वरया विपत्प्रशमेन कारुण्यधाराः किरन् ।
आगच्छन्तमनुग्रहं प्रकटयन्नानन्दबीजानि ते
नासीरे मृदुहास एव तनुते नाथे सुधाशीतलः ॥ ३७ ॥

कामाक्षि प्रथमानविभ्रमनिधिः कन्दर्पदर्पप्रसूः
मुग्धस्ते मृदुहास एव गिरिजे मुष्णातु मे किल्बिषम् ।
यं द्रष्टुं विहिते करग्रह उमे शम्भुस्त्रपामीलितं
स्वैरं कारयति स्म ताण्डवविनोदानन्दिना तण्डुना ॥ ३८ ॥

क्षुण्णं केनचिदेव धीरमनसा कुत्रापि नानाजनैः
कर्मग्रन्थिनियन्त्रितैरसुगमं कामाक्षि सामान्यतः ।
मुग्धैर्द्रुष्टुमशक्यमेव मनसा मूढसय मे मौक्तिकं
मार्गं दर्शयतु प्रदीप इव ते मन्दस्मितश्रीरियम् ॥ ३९ ॥

ज्योत्स्नाकान्तिभिरेव निर्मलतरं नैशाकरं मण्डलं
हंसैरेव शरद्विलाससमये व्याकोचमम्भोरुहम् ।
स्वच्छैरेव विकस्वरैरुडुगुणैः कामाक्षि बिम्बं दिवः
पुण्यैरेव मृदुस्मितैस्तव मुखं पुष्णाति शोभाभरम् ॥ ४० ॥

मानग्रन्थिविधुन्तुदेन रभसादास्वाद्यमाने नव-
प्रेमाडम्बरपूर्णिमाहिमकरे कामाक्षि ते तत्क्षणम् ।
आलोक्य स्मितचन्द्रिकां पुनरिमामुन्मीलनं जग्मुषीं
चेतः शीलयते चकोरचरितं चन्द्रार्धचूडामणेः ॥ ४१ ॥

कामाक्षि स्मितमञ्जरीं तव भजे यस्यास्त्विषामङ्कुरा-
नापीनस्तनपानलालसतया निश्शङ्कमङ्केशयः ।
ऊर्ध्वं वीक्ष्य विकर्षति प्रसृमरानुद्दामया शुण्डया
सूनुसुते बिसशङ्कयाशु कुहनादन्तावलग्रामणीः ॥ ४२ ॥

गाढाश्लेषविमर्दसम्भ्रमवशादुद्दाममुक्तागुण-
प्रालम्बे कुचकुम्भयोर्विगलिते दक्षद्विषो वक्षसि ।
या सख्येन पिनह्यति प्रचुरया भासा तदीयां दशां
सा मे खेलतु कामकोटि हृदये सान्द्रस्मितांशुच्छटा ॥ ४३ ॥

मन्दारे तव मन्थरस्मितरुचां मात्सर्यमालोक्यते
कामाक्षि स्मरशासने च नियतो रागोदयो लक्ष्यते ।
चान्द्रीषु द्युतिमञ्जरीषु च महान्द्वेषाङ्कुरो दृश्यते
शुद्धानां कथमीदृशी गिरिसुतेऽतिशुद्धा दशा कथ्यताम् ॥ ४४ ॥

पीयूषं खलु पीयते सुरजनैर्दुग्धाम्बुधिर्मथ्यते
माहेशैश्च जटाकलापनिगडैर्मन्दाकिनी नह्यते ।
शीतांशुः परिभूयते च तमसा तस्मादनेतादृशी
कामाक्षि स्मितमञ्जरी तव वचोवैदग्ध्यमुल्लङ्घते ॥ ४५ ॥

आशङ्के तव मन्दहासलहरीमन्यादृशीं चन्द्रिका-
मेकाम्रेशकुटुम्बिनि प्रतिपदं यस्याः प्रभासंगमे ।
वक्षोजाम्बुरुहे न ते रचयतः कांचिद्दशां कौङ्मली-
मास्याम्भोरुहमम्ब किंच शनकैरालम्बते फुल्लताम् ॥ ४६ ॥

आस्तीर्णाधरकान्तिपल्लवचये पातं मुहुर्जग्मुषी
मारद्रोहिणि कन्दलत्स्मरशरज्वालावलीर्व्यञ्जती ।
निन्दन्ती घनसारहारवलयज्योत्स्नामृणालानि ते
कामाक्षि स्मितचातुरी विरहिणीरीतिं जगाहेतराम् ॥ ४७ ॥

सूर्यालोकविधौ विकासमधिकं यान्ती हरन्ती तम-
स्सन्दोहं नमतां निजस्मरणतो दोषाकरद्वेषिणी ।
निर्यान्ती वदनारविन्दकुहरान्निर्धूतजाड्या नृणां
श्रीकामाक्षि तव स्मितद्युतिमयी चित्रीयते चन्द्रिका ॥ ४८ ॥

कुण्ठीकुर्युरमी कुबोधघटनामस्मन्मनोमाथिनीं
श्रीकामाक्षि शिवंकरास्तव शिवे श्रीमन्दहासाङ्कुराः ।
ये तन्वन्ति निरन्तरं तरुणिमस्तम्बेरमग्रामणी-
कुम्भद्वन्द्वविडम्बिनि स्तनतटे मुक्ताकुथाडम्बरम् ॥ ४९ ॥

प्रेङ्खन्तः शरदम्बुदा इव शनैः प्रेमानिलैः प्रेरिता
मज्जन्तो मन्दनारिकण्ठसुषमासिन्धौ मुहुर्मन्थरम् ।
श्रीकामाक्षि तव स्मितांशुनिकराः श्यामायमानश्रियो
नीलाम्भोधरनैपुणीं तत इतो निर्निद्रयन्त्यञ्जसा ॥ ५० ॥

व्यापारं चतुराननैकविहृतौ व्याकुर्वती कुर्वती
रुद्राक्षग्रहणं महेशि सततं वागूर्मिकल्लोलिता ।
उत्फुल्लं धवलारविन्दमधरीकृत्य स्फुरन्ती सदा
श्रीकामाक्षि सरस्वती विजयते त्वन्मन्दहासप्रभा ॥ ५१ ॥

कर्पूरद्युतितस्करेण महसा कल्माषयत्याननं
श्रीकाञ्चीपुरनायिके पतिरिव श्रीमन्दहासोऽपि ते ।
आलिङ्गत्यतिपीवरां स्तनतटीं बिम्बाधरं चुम्बति
प्रौढं रागभरं व्यनक्ति मनसो धैर्यं धुनीतेतराम् ॥ ५२ ॥

वैशद्येन च विश्वतापहरणक्रीडापटीयस्तया
पाण्डित्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादेन ।
कामाक्षि स्मितकन्दलैस्तव तुलामारोढुमुद्योगिनी
ज्योत्स्नासौ जलराशिपोषणतया दूष्यां प्रपन्ना दशाम् ॥ ५३ ॥

लावण्याम्बुजिनीमृणालवलयैः श‍ृङ्गारगन्धद्विप-
ग्रामण्यः श्रुतिचामरैस्तरुणिमस्वाराज्यतेजोङ्कुरैः ।
आनन्दामृतसिन्धुवीचिपृषतैरास्याब्जहंसैस्तव
श्रीकामाक्षि मथान मन्दहसितैर्मत्कं मनःकल्मषम् ॥ ५४ ॥

उत्तुङ्गस्तनमण्डलीपरिचलन्माणिक्यहारच्छटा-
चञ्चच्छोणिमपुञ्जमध्यसरणिं मातः परिष्कुर्वती ।
या वैदग्ध्यमुपैति शंकरजटाकान्तारवाटीपत-
त्स्वर्वापीपयसः स्मितद्युतिरसौ कामाक्षि ते मञ्जुला ॥ ५५ ॥

सन्नामैकजुषा जनेन सुलभं संसूचयन्ती शनै-
रुत्तुङ्गस्य चिरादनुग्रहतरोरुत्पत्स्यमानं फलम् ।
प्राथम्येन विकस्वरा कुसुमवत्प्रागल्भ्यमभ्येयुषी
कामाक्षि स्मितचातुरी तव मम क्षेमंकरी कल्पताम् ॥ ५६ ॥

धानुष्काग्रसरस्य लोलकुटिलभ्रूलेखया बिभ्रतो
लीलालोकशिलीमुखं नववयस्साम्राज्यलक्ष्मीपुषः ।
जेतुं मन्मथमर्दिनं जननि ते कामाक्षि हासः स्वयं
वल्गुर्विभ्रमभूभृतो वितनुते सेनापतिप्रक्रियाम् ॥ ५७ ॥

यन्नाकम्पत कालकूटकबलीकारे चुचुम्बे न यद्-
ग्लान्या चक्षुषि रूषितानलशिखे रुद्रस्य तत्तादृशम् ।
चेतो यत्प्रसभं स्मरज्वरशिखिज्वालेन लेलिह्यते
तत्कामाक्षि तव स्मितांशुकलिकाहेलाभवं प्राभवम् ॥ ५८ ॥

सम्भिन्नेव सुपर्वलोकतटिनी वीचीचयैर्यामुनैः
संमिश्रेव शशाङ्कदीप्तिलहरी नीलैर्महानीरदैः ।
कामाक्षि स्फुरिता तव स्मितरुचिः कालाञ्जनस्पर्धिना
कालिम्ना कचरोचिषां व्यतिकरे कांचिद्दशामश्नुते ॥ ५९ ॥

जानीमो जगदीश्वरप्रणयिनि त्वन्मन्दहासप्रभां
श्रीकामाक्षि सरोजिनीमभिनवामेषा यतः सर्वदा ।
आस्येन्दोरवलोकेन पशुपतेरभ्येति सम्फुल्लतां
तन्द्रालुस्तदभाव एव तनुते तद्वैपरीत्यक्रमम् ॥ ६० ॥

यान्ती लोहितिमानमभ्रतटिनी धातुच्छटाकर्दमैः
भान्ती बालगभस्तिमालिकिरणैर्मेघावली शारदी ।
बिम्बोष्ठद्युतिपुञ्जचुम्बनकलाशोणायमानेन ते
कामाक्षि स्मितरोचिषा समदशामारोढुमाकाङ्क्षते ॥ ६१ ॥

श्रीकामाक्षि मुखेन्दुभूषणमिदं मन्दस्मितं तावकं
नेत्रानन्दकरं तथा हिमकरो गच्छेद्यथा तिग्मताम् ।
शीतं देवि तथा यथा हिमजलं सन्तापमुद्रास्पदं
श्वेतं किंच तथा यथा मलिनतां धत्ते च मुक्तामणिः ॥ ६२ ॥

त्वन्मन्दस्मितमञ्जरीं प्रसृमरां कामाक्षि चन्द्रातपं
सन्तः सन्ततमामनन्त्यमलता तल्लक्षणं लक्ष्यते ।
अस्माकं न धुनोति तापकमधिकं धूनोति नाभ्यन्तरं
ध्वान्तं तत्खलु दुःखिनो वयमिदं केनोति नो विद्महे ॥ ६३ ॥

नम्रस्य प्रणयप्ररूढकलहच्छेदाय पादाब्जयोः
मन्दं चन्द्रकिशोरशेखरमणेः कामाक्षि रागेण ते ।
बन्धूकप्रसवश्रियं जितवतो बंहीयसीं तादृशीं
बिम्बोष्ठस्य रुचिं निरस्य हसितज्योत्स्ना वयस्यायते ॥ ६४ ॥

मुक्तानां परिमोचनं विदधतस्तत्प्रीतिनिष्पादिनी
भूयो दूरत एव धूतमरुतस्तत्पालनं तन्वती ।
उद्भूतस्य जलान्तरादविरतं तद्दूरतां जग्मुषी
कामाक्षि स्मितमञ्जरी तव कथं कम्बोस्तुलामश्नुते ॥ ६५ ॥

श्रीकामाक्षि तव स्मितद्युतिझरीवैदग्ध्यलीलायितं
पश्यन्तोऽपि निरन्तरं सुविमलंमन्या जगन्मण्डले ।
लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वते
मन्दाक्षं विरहय्य मङ्गलतरं मन्दारचन्द्रादयः ॥ ६६ ॥

क्षीराब्धेरपि शैलराजतनये त्वन्मन्दहासस्य च
श्रीकामाक्षि वलक्षिमोदयनिधेः किंचिद्भिदां ब्रूमहे ।
एकस्मै पुरुषाय देवि स ददौ लक्ष्मीं कदाचित्पुरा
सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मीं च वागीश्वरीम् ॥ ६७ ॥

श्रीकाञ्चीपुररत्नदीपकलिके तान्येव मेनात्मजे
चाकोराणि कुलानि देवि सुतरां धन्यानि मन्यामहे ।
कम्पातीरकुटुम्बचंक्रमकलाचुञ्चूनि चञ्चूपुटैः
नित्यं यानि तव स्मितेन्दुमहसामास्वादमातन्वते ॥ ६८ ॥

शैत्यप्रक्रममाश्रितोऽपि नमतां जाड्यप्रथां धूनयन्
नैर्मल्यं परमं गतोऽपि गिरिशं रागाकुलं चारयन् ।
लीलालापपुरस्सरोऽपि सततं वाचंयमान्प्रीणयन्
कामाक्षि स्मितरोचिषां तव समुल्लासः कथं वर्ण्यते ॥ ६९ ॥

श्रोणीचञ्चलमेखलामुखरितं लीलागतं मन्थरं
भ्रूवल्लीचलनं कटाक्षवलनं मन्दाक्षवीक्षाचणम् ।
यद्वैदग्ध्यमुखेन मन्मथरिपुं संमोहयन्त्यञ्जसा
श्रीकामाक्षि तव स्मिताय सततं तस्मै नम्सकुर्महे ॥ ७० ॥

श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्प्ररोहे तव
स्फीतश्वेतिमसार्वभौमसरणिप्रागल्भ्यमभ्येयुषि ।
चन्द्रोऽयं युवराजतां कलयते चेटीधुरं चन्द्रिका
शुद्धा सा च सुधाझरी सहचरीसाधर्म्यमालम्बते ॥ ७१ ॥

ज्योत्स्ना किं तनुते फलं तनुमतामौष्ण्यप्रशान्तिं विना
त्वन्मन्दस्मितरोचिषा तनुमतां कामाक्षि रोचिष्णुना ।
सन्तापो विनिवार्यते नववयःप्राचुर्यमङ्कूर्यते
सौन्दर्यं परिपूर्यते जगति सा कीर्तिश्च संचार्यते ॥ ७२ ॥

वैमल्यं कुमुदश्रियां हिमरुचः कान्त्यैव सन्धुक्ष्यते
ज्योत्स्नारोचिरपि प्रदोषसमयं प्राप्यैव सम्पद्यते ।
स्वच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते
कामाक्ष्याः स्मितदीधितेर्विशदिमा नैसर्गिको भासते ॥ ७३ ॥

प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मन्दहासश्रियः
श्रीकामाक्षि मम क्षिणोतु ममतावैचक्षणीमक्षयाम् ।
यद्भीत्येव निलीयते हिमकरो मेघोदरे शुक्तिका-
गर्भे मौक्तिकमण्डली च सरसीमध्ये मृणाली च सा ॥ ७४ ॥

हेरम्बे च गुहे हर्षभरितं वात्सल्यमङ्कूरयत्
मारद्रोहिणि पूरुषे सहभुवं प्रेमाङ्कुरं व्यञ्जयत् ।
आनम्रेषु जनेषु पूर्णकरुणावैदग्ध्यमुत्तालयत्
कामाक्षि स्मितमञ्जसा तव कथंकारं मया कथ्यते ॥ ७५ ॥

संक्रुद्धद्विजराजकोऽप्यविरतं कुर्वन्द्विजैः संगमं
वाणीपद्धतिदूरगोऽपि सततं तत्साहचर्यं वहन् ।
अश्रान्तं पशुदुर्लभोऽपि कलयन्पत्यौ पशूनां रतिं
श्रीकामाक्षि तव स्मितामृतरसस्यन्दो मयि स्पन्दताम् ॥ ७६ ॥

श्रीकामाक्षि महेश्वरे निरुपमप्रेमाङ्कुरप्रक्रमम्ं
नित्यं यः प्रकटीकरोति सहजामुन्निद्रयन्माधुरीम् ।
तत्तादृक्तव मन्दहासमहिमा मातः कथं मानितां
तन्मूर्ध्ना सुरनिम्नगां च कलिकामिन्दोश्च तां निन्दति ॥ ७७ ॥

ये माधुर्यविहारमण्टपभुवो ये शैत्यमुद्राकरा
ये वैशद्यदशाविशेषसुभगास्ते मन्दहासाङ्कुराः ।
कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां
वाणीगुम्फनडम्बरे च हृदये कीर्तिप्ररोहे च मे ॥ ७८ ॥

कामाक्ष्या मृदुलस्मितांशुनिकरा दक्षान्तके वीक्षणे
मन्दाक्षग्रहिला हिमद्युतिमयूखाक्षेपदीक्षाङ्कुराः ।
दाक्ष्यं पक्ष्मलयन्तु माक्षिकगुडद्राक्षाभवं वाक्षु मे
सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः ॥ ७९ ॥

जात्या शीतशीतलानि मधुराण्येतानि पूतानि ते
गाङ्गानीव पयांसि देवि पटलान्यल्पस्मितज्योतिषाम् ।
एनःपङ्कपरम्परामलिनितामेकाम्रनाथप्रिये
प्रज्ञानात्सुतरां मदीयधिषणां प्रक्षालयन्तु क्षणात् ॥ ८० ॥

अश्रान्तं परतन्त्रितः पशुपतिस्त्वन्मन्दहासाङ्कुरैः
श्रीकामाक्षि तदीयवर्णसमतासङ्गेन शङ्कामहे ।
इन्दुं नाकधुनीं च शेखरयते मालां च धत्ते नवैः
वैकुण्ठैरवकुण्ठनं च कुरुते धूलीचयैर्भास्मनैः ॥ ८१ ॥

श्रीकाञ्चीपुरदेवते मृदुवचस्सौरभ्यमुद्रास्पदं
प्रौढप्रेमलतानवीनकुसुमं मन्दस्मितं तावकम् ।
मन्दं कन्दलति प्रियस्य वदनालोके समाभाषणे
श्लक्ष्णे कुङ्मलति प्ररूढपुलके चाश्लोषणे फुल्लति ॥ ८२ ॥

किं त्रैस्रोतसमम्बिके परिणतं स्रोतश्चतुर्थं नवं
पीयूषस्य समस्ततापहरणं किंवा द्वितीयं वपुः ।
किंस्वित्त्वन्निकटं गतं मधुरिमाभ्यासाय गव्यं पयः
श्रीकाञ्चीपुरनायकप्रियतमे मन्दस्मितं तावकम् ॥ ८३ ॥

भूषा वक्त्रसरोरुहस्य सहजा वाचां सखी शाश्वती
नीवी विभ्रमसन्ततेः पशुपतेः सौधी दृशां पारणा ।
जीवातुर्मदनश्रियः शशिरुचेरुच्चाटनी देवता
श्रीकामाक्षि गिरामभूमिमयते हासप्रभामञ्जरी ॥ ८४ ॥

सूतिः श्वेतिमकन्दलस्य वसतिः श‍ृङ्गारसारश्रियः
पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपाथोनिधेः ।
वाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव
श्रीकामाक्षि ममास्तु मङ्गलकरी हासप्रभाचातुरी ॥ ८५ ॥

जन्तूनां जनिदुःखमृत्युलहरीसन्तापनं कृन्ततः
प्रौढानुग्रहपूर्णशीतलरुचो नित्योदयं बिभ्रतः ।
श्रीकामाक्षि विसृत्वरा इव करा हासाङ्कुरास्ते हठा-
दालोकेन निहन्युरन्धतमसस्तोमस्य मे सन्ततिम् ॥ ८६ ॥

उत्तुङ्गस्तनमण्डलस्य विलसल्लावण्यलीलानटी-
रङ्गस्य स्फुटमूर्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुषी ।
श्रीकामाक्षि तव स्मितद्युतिततिर्बिम्बोष्ठकान्त्यङ्कुरैः
चित्रां विद्रुममुद्रितां वितनुते मौक्तीं वितानश्रियम् ॥ ८७ ॥

स्वाभाव्यात्तव वक्त्रमेव ललितं सन्तोषसम्पादनं
शम्भोः किं पुनरञ्चितस्मितरुचः पाण्डित्यपात्रीकृतम् ।
अम्भोजं स्वत एव सर्वजगतां चक्षुःप्रियम्भावुकं
कामाक्षि स्फुरिते शरद्विकसिते कीदृग्विधं भ्राजते ॥ ८८ ॥

पुम्भिर्निर्मलमानसौर्विदधते मैत्रीं दृढं निर्मलां
लब्ध्वा कर्मलयं च निर्मलतरां कीर्तिं लभन्तेतराम् ।
सूक्तिं पक्ष्मलयन्ति निर्मलतमां यत्तावकाः सेवकाः
तत्कामाक्षि तव स्मितस्य कलया नैर्मल्यसीमानिधेः ॥ ८९ ॥

आकर्षन्नयनानि नाकिसदसां शैत्येन संस्तम्भय-
न्निन्दुं किंच विमोहयन्पशुपतिं विश्वार्तिमुच्चाटयन् ।
हिंसत्संसृतिडम्बरं तव शिवे हासाह्वयो मान्त्रिकः
श्रीकामाक्षि मदीयमानसतमोविद्वेषणे चेष्टताम् ॥ ९० ॥

क्षेपीयः क्षपयन्तु कल्मषभयान्यस्माकमल्पस्मित-
ज्योतिर्मण्डलचंक्रमास्तव शिवे कामाक्षि रोचिष्णवः ।
पीडाकर्मठकर्मघर्मसमयव्यापारतापानल-
श्रीपाता नवहर्षवर्षणसुधास्रोतस्विनीशीकराः ॥ ९१ ॥

श्रीकामाक्षि तव स्मितैन्दवमहःपूरे परिम्फूर्जति
प्रौढां वारिधिचातुरीं कलयते भक्तात्मनां प्रातिभम् ।
दौर्गत्यप्रसरास्तमःपटलिकासाधर्म्यमाबिभ्रते
सर्वं कैरवसाहचर्यपदवीरीतिं विधत्ते परम् ॥ ९२ ॥

मन्दारादिषु मन्मथारिमहिषि प्राकाश्यरीतिं निजां
कादाचित्कतया विशङ्क्य बहुशो वैशद्यमुद्रागुणः ।
सातत्येन तव स्मिते वितनुते स्वैरासनावासनाम् ॥ ९३ ॥

इन्धाने भववीतिहोत्रनिवहे कर्मौघचण्डानिल-
प्रौढिम्ना बहुलीकृते निपतितं सन्तापचिन्ताकुलम् ।
मातर्मां परिषिञ्च किंचिदमलैः पीयूषवर्षैरिव
श्रीकामाक्षि तव स्मितद्युतिकणैः शैशिर्यलीलाकरैः ॥ ९४ ॥

भाषाया रसनाग्रखेलनजुषः श‍ृङ्गारमुद्रासखी-
लीलाजातरतेः सुखेन नियमस्नानाय मेनात्मजे ।
श्रीकामाक्षि सुधामयीव शिशिरा स्रोतस्विनी तावकी
गाढानन्दतरङ्गिता विजयते हासप्रभाचातुरी ॥ ९५ ॥

सन्तापं विरलीकरोतु सकलं कामाक्षि मच्चेतना
मज्जन्ती मधुरस्मितामरधुनीकल्लोलजालेषु ते ।
नैरन्तर्यमुपेत्य मन्मथमरुल्लोलेषु येषु स्फुटं
प्रेमेन्दुः प्रतिबिम्बितो वितनुते कौतूहलं धूर्जटेः ॥ ९६ ॥

चेतःक्षीरपयोधिमन्थरचलद्रागाख्यमन्थाचल-
क्षोभव्यापृतिसम्भवां जननि ते मन्दस्मितश्रीसुधाम् ।
स्वादंस्वादमुदीतकौतुकरसा नेत्रत्रयी शांकरी
श्रीकामाक्षि निरन्तरं परिणमत्यानन्दवीचीमयी ॥ ९७ ॥

आलोके तव पञ्चसायकरिपोरुद्दामकौतूहल-
प्रेङ्खन्मारुतघट्टनप्रचलितादानन्ददुग्धाम्बुधेः ।
काचिद्वीचिरुदञ्चति प्रतिनवा संवित्प्ररोहात्मिका
तां कामाक्षि कवीश्वराः स्मितमिति व्याकुर्वते सर्वदा ॥ ९८ ॥

सूक्तिः शीलयते किमद्रितनये मन्दस्मितात्ते मुहुः
माधुर्यागमसम्प्रदायमथवा सूक्तेर्नु मन्दस्मितम् ।
इत्थं कामपि गाहते मम मनः सन्देहमार्गभ्रमिं
श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्तौ निधत्ते पदम् ॥ ९९ ॥

क्रीडालोलकृपासरोरुहमुखीसौधाङ्गणेभ्यः कवि-
श्रेणीवाक्परिपाटिकामृतझरीसूतीगृहेभ्यः शिवे ।
निर्वाणाङ्कुरसार्वभौमपदवीसिंहासनेभ्यस्तव
श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्कणेभ्यो नमः ॥ १०० ॥

आर्यामेव विभावयन्मनसि यः पादारविन्दं पुरः
पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्षच्छविम् ।
कामाक्ष्या मृदुलस्मितांशुलहरीज्योत्स्नावयस्यान्विताम्
आरोहत्यपवर्गसौधवलभीमानन्दवीचीमयीम् ॥ १०१ ॥

मन्दस्मितशतकं सम्पूर्णम् ॥
श्री मूकपञ्चशती सम्पूर्णा ॥
॥ ॐ तत् सत् ॥

Add Comment

Click here to post a comment