Templesinindiainfo

Best Spiritual Website

Sri Manasa Devi Stotram 2 Lyrics in Hindi

Sri Manasa Devi Stotram 2 in Hindi:

॥ श्री मनसा स्तोत्रम् – २ ॥
ध्यानम् ।
चारुचम्पकवर्णाभां सर्वाङ्गसुमनोहराम् ।
नागेन्द्रवाहिनीं देवीं सर्वविद्याविशारदाम् ॥

श्रीनारायण उवाच ।
नमः सिद्धिस्वरुपायै वरदायै नमो नमः ।
नमः कश्यपकन्यायै शङ्करायै नमो नमः ॥ १ ॥

बालानां रक्षणकर्त्र्यै नागदेव्यै नमो नमः ।
नम आस्तीकमात्रे ते जरत्कार्व्यै नमो नमः ॥ २ ॥

तपस्विन्यै च योगिन्यै नागस्वस्रे नमो नमः ।
साध्व्यै तपस्यारूपायै शम्भुशिष्ये च ते नमः ॥ ३ ॥

इति ते कथितं लक्ष्मि मनसाया स्तवं महत् ।
यः पठति नित्यमिदं श्रावयेद्वापि भक्तितः ॥ ४

न तस्य सर्पभीतिर्वै विषोऽप्यमृतं भवति ।
वंशजानां नागभयं नास्ति श्रवणमात्रतः ॥

इति श्री मनसा स्तोत्रम् ।

Also Read:

Sri Manasa Devi Stotram 2 Lyrics in English | Hindi | Kannada | Telugu | Tamil

Sri Manasa Devi Stotram 2 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top