Templesinindiainfo

Best Spiritual Website

Upamanyukrutam Shivastotram Lyrics in Marathi

Upamanyukrutam Shiva Stotram in Marathi:

॥ उपमन्युकृतं शिवस्तोत्रम ॥
जय शङ्कर पार्वतीपते मृड शंभो शशिखण्डमण्डन ।
मदनान्तक भक्तवत्सल प्रियकैलास दयासुधांबुधे ॥ 1 ॥

सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः ।
शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम ॥ 2 ॥

महतः परितः प्रसर्पतस्तमसो दर्शनमेदिनो भिदे ।
दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥ 3 ॥

न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः ।
कृपयाऽभयदेन चक्षुषा सकलेनेश विलोकयाशु नः ॥ 4 ॥

त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता न हि वक्तुमीश सा ।
मधुरं हि पयः स्वभावतो ननु कीद्रुक्सितशर्करान्वितम ॥ 5 ॥

सविषोऽप्यमृतायते भवाच्छवमुण्डाभरणोऽपि पावनः ।
भव एव भवान्तकः सतां समद्रुष्टिर्विषमोक्षणोऽपि सन ॥ 6 ॥

अपि शूलधरो निरामयो द्रुढवैराग्यरतोऽपि रागवान ।
अपि भैक्ष्यचरो महेश्वरश्चरितं चित्रमिदं हि ते प्रभो ॥ 7 ॥

वितरत्यभिवाञ्छितं द्रुशा परिद्रुष्टः किल कल्पपादपः ।
हृदये स्मृत एव धीमते नमतेऽभीष्टफलप्रदो भवान ॥ 8 ॥

सहसैव भुजङ्गपाशवान्विनिगृह्णाति न यावदन्तकः ।
अभयं कुरु तावदाशु मे गतजीवस्य पुनः किमौषधैः ॥ 9 ॥

सविषैरिव भीमपन्नगैर्विषयैरेभिरलं परिक्षतम ।
अमृतैरिव संभ्रमेण मामभिषिञ्चाशु दयावलोकनैः ॥ 10 ॥

मुनयो बहवोऽद्य धन्यतां गमिताः स्वाभिमतार्थदर्शिनः ।
करुणाकर येन तेन मामवसन्नं ननु पश्य चक्षुषा ॥ 11 ॥

प्रणमाम्यथ यामि चापरं शरणं कं कृपणाभयप्रदम ।
विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत ॥ 12 ॥

बहवो भवताऽनुकंपिताः किमितीशान न माऽनुकंपसे ।
दधता किमु मन्दराचलं परमाणुः कमठेन दुर्धरः ॥ 13 ॥

अशुचिं यदि माऽनुमन्यसे किमिदं मूर्ध्नि कपालदाम ते ।
उत शाठ्यमसाधुसङ्गिनं विषलक्ष्मासि न किं द्विजिह्वधृक ॥ 14 ॥

क्व द्दशं विदधामि किं करोम्यनुतिष्ठामि कथं भयाकुलः ।
क्व नु तिष्ठसि रक्ष रक्ष मामयि शंभो शरणागतोऽस्मि ते ॥ 15 ॥

विलुठाम्यवनौ किमाकुलः किमुरो हन्मि शिरश्छिनद्मि वा ।
किमु रोदिमि रारटीमि किं कृपणं मां न यदीक्षसे प्रभो ॥ 16 ॥

शिव सर्वग शर्व शर्मदं प्रणतो देव दयां कुरुष्व मे ।
नम ईश्वर नाथ दिक्पते पुनरेवेश नमो नमोऽस्तु ते ॥ 17 ॥

शरणं तरुणेन्दुशेखरः शरणं मे गिरिराजकन्यका ।
शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम ॥ 18 ॥

उपमन्युकृतं स्तवोत्तमं जपतः शंभुसमीपवर्तिनः ।
अभिवाञ्छितभाग्यसम्पदः परमायुः प्रददाति शङ्करः ॥ 19 ॥

उपमन्युकृतं स्तवोत्तमं प्रजपेद्यस्तु शिवस्य सन्निधौ ।
शिवलोकमवाप्य सोऽचिरात्सह तेनैव शिवेन मोदते ॥ 20 ॥

इत्युपमन्युकृतं शिवस्तोत्रं संपूर्णम ॥

Also Read:

Upamanyukrutam Shivastotram Lyrics in English | Marathi | GujaratiBengali | Kannada | Malayalam | Telugu

Upamanyukrutam Shivastotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top