Shataka

Vijnanashataka by Bhartrihari Lyrics in Hindi | Hindu Shataka

Bhartrihari’s Vijnanashataka Lyrics in Hindi:

विज्ञानशतकं भर्तृहरिकृत

विगलदमलदानश्रेणिसौरभ्यलोभो-
पगतमधुपमालाव्याकुलाकाशदेशः ।
अवतु जगदशेषं शश्वदुग्रात्मदर्य्यो ?
विपुलपरिघदन्तोद्दण्डशुण्डो गणेशः ॥ १ ॥

यत्सत्तया शुचि विभाति यदात्मभासा
प्रद्योतितं जगदशेषमपास्तदोषम् ।
तद्ब्रह्म निष्कलमसङ्गमपारसौख्यं
प्रत्यग्भजे परममङ्गलमद्वितीयम् ॥ २ ॥

माता मृता जनयितापि जगाम शीघ्रं
लोकान्तरं तव कलत्रसुतादयोऽपि ।
भ्रातस्तथापि न जहासि मृषाभिमानं
दुःखात्मके वपुषि मूत्रकुदर्पकूपे ॥ ३ ॥

ब्रह्मामृतं भज सदा सहजप्रकाशं
सर्वान्तरं निरवधि प्रथितप्रभावम् ।
यद्यस्ति ते जिगमिषा सहसा भवाब्धेः
पारे परे परमशर्मणि निष्कलङ्के ॥ ४ ॥

आरभ्य गर्भवसतिं मरणावसानं
यद्यस्ति जीवितुमदृष्टमनेककालम् ।
जन्तोस्तथापि न सुखं सुखविभ्रमोऽयं
यद्बालया रतिरनेकविभूतिभाजः ॥ ५ ॥

सा रोगिणी यदि भवेदथवा विवर्णा
बालाप्रियाशशिमुखी रसिकस्य पुंसः ।
शल्यायते हृदि तथा मरणं कृशाङ्ग्या-
यत्तस्य सा विगतनिद्रसरोरुहाक्षी ॥ ६ ॥

त्वत्साक्षिकं सकलमेतदवोचमित्थं
भ्रातर्विचार्य भवता करणीयमिष्टम् ।
येनेदृशं न भविता भवतोऽपि कष्टं
शोकाकुलस्य भवसागरमग्नमूर्तेः ॥ ७ ॥

निष्कण्टकेऽपि न सुखं वसुधाधिपत्ये
कस्यापि राजतिलकस्य यदेष देवः ।
विश्वेश्वरो भुजगराजविभूतिभूषो
हित्वा तपस्यति चिरं सकला विभूतीः ॥ ८ ॥

भूमण्डलं लयमुपैति भवत्यबाधं
लब्धात्मकं पुनरपि प्रलयं प्रयाति ।
आवर्तते सकलमेतदनन्तवारं
ब्रह्मादिभिः सममहो न सुखं जनानाम् ॥ ९ ॥

यदा देवादीनापि भवति जन्मादि नियतं
महाहर्म्यस्थाने ललितललनालोलमनसाम् ।
तदा कामार्तानां सुगतिरिह संसारजलधौ
निमग्नानामुच्चै रतिविषयशोकादिमकरे ॥१० ॥

स्वयं भोक्ता दाता वसु सुबहु सम्पाद्य भविता
कुटुम्बानां पोष्टा गुणनिधिरशेषेप्सितनरः ।
इति प्रत्याशस्य प्रबलदुरितानीतविधुरं
शिरस्यस्याकस्मात्पतति निधनं येन भवति ॥ ११ ॥

विपश्चिद्देहादौ क्वचिदपि ममत्वं न कुरुते
परब्रह्मध्याता गगननगराकारसदृशे ।
निरस्ताहङ्कारः श्रुतिजनितविश्वासमुषितो
निरातङ्कोऽव्यग्रः प्रकृतिमधुरालापचतुरः ॥ १२ ॥

अरे चेतश्चित्रं भ्रमसि यदपास्य प्रियतमं
मुकुन्दं पार्श्वस्थं पितरमपि मान्यं सुमनसाम् ।
बहिः शब्दाद्यर्थे प्रकृतिचपले क्लेशबहुले
न ते संसारेऽस्मिन्भवति सुखदाद्यापि विरतिः ॥ १३ ॥

न जानीषे मूर्ख क्वचिदपि हितं लोकमहितं
भ्रमद्भोगाकाङ्क्षाकलुषिततया मोहबहुले ।
जगत्यत्रारण्ये प्रतिपदमनेकापदि सदा
हरिध्याने व्यग्रं भव सकलतापैककदने ॥ १४ ॥

वियद्भूतं भूतं यदवनलभं ? चाखिलमिदं
महामायासङ्गाद्भुजग इव रज्वां भ्रमकरम् ।
तदत्यन्ताल्हादं विजरममरं चिन्तय मनः
परब्रह्माव्यग्रं हरिहरसुराद्यैरवगतम् ॥ १५ ॥

न चेत्ते सामर्थ्यं भवनमरणातङ्कहरणे
मनोऽनिर्दिष्टेऽस्मिन्नवगतगुणे ज्ञातुमकले ।
तदा मेघश्यामं कमलदलदीर्घाक्षममलं
भजस्व श्रीरङ्गं शरदमृतधामाधिकमुखम् ॥ १६ ॥

क्वयातः क्वायातो द्विज कलयसे रत्नमटवी-
मटन्व्याघ्राघ्रातो मरणमगमद्विश्वमहितः ।
अयं विद्यारामो मुनिरहह केनापि विदुषा
न खल्वात्मप्रायो भवतु सुकरो ज्ञातुमशिवः ॥ १७ ॥

अहं श्रान्तोऽध्वानं बहुविषमतिक्रम्य विषमं
धनाकाङ्क्षाक्षिप्तः कुनृपतिमुखालोकनपरः ।
इदानीं केनापि स्थितिमुदरकूपस्य भरणे
कदन्नेनारण्ये क्वचिदपि समीहे स्थिरमतिः ॥ १८ ॥

यमाराध्याराध्यं त्रिभुवनगुरोराप्तवसतिः
ध्रुवो ज्योतिश्चक्रे सुचिरमनवद्यं शिशुरपि ।
अवाप प्रल्हादः परमपदमाराध्य यमितः
स कस्यालं क्लेशो हरति न हरिः कीर्तितगुअणः ॥ १९ ॥

कदाचित्कष्टेन द्रविणमधमाराधनवशा-
न्मया लब्धं स्तोकं निहितमवनौ तस्करभयात् ।
ततो नित्ये कश्चित्क्वचिदपि तदाखुर्बिलगृहेऽ-
नयल्लब्धोऽप्यर्थो न भवति यदा कर्म विषमम् ॥ २० ॥

जगाम व्यर्थं मे बहुदिनमथार्थार्थिततया
कुभूमीपालानां निकटगतिदोषाकुलमतेः ।
हरिध्यानव्यग्रं भवितुमधुना वाञ्छति मनः
क्वचिद्गङ्गातीरे तरुणतुलसीसौरभभरे ॥ २१ ॥

कदा भागीरथ्या भवजलधिसन्तारतरणेः
स्खलद्वीचीमालाचपलतलविस्तारितमुदः ।
तमस्स्थाने कुञ्जे क्वचिदपि निविश्याहृतमना
भविष्याम्येकाकी नरकमथने ध्यानरसिकः ॥ २२ ॥

कदा गोविन्देति प्रतिदिवसमुल्लासमिलिताः
सुधाधाराप्रायास्त्रिदशतटिनीवीचिमुखरे ।
भविष्यन्त्येकान्ते क्वचिदपि निकुञ्जे मम गिरो
मरालीचक्राणां स्थितिसुखरवाक्रान्तपुलिने ॥ २३ ॥

यदध्यस्तं सर्वं स्रजि भुजगवद्भाति पुरतो
महामायोद्गीर्णं गगनपवनाद्यं तनुभृताम् ।
भवेत्तस्या भ्रान्तेर्मुररिपुरधिष्ठानमुदये
यतो नस्याद्भ्रान्तिर्निरधिकरणा क्वापि जगति ॥ २४ ॥

चिदेव ध्यातव्या सततमनवद्या सुखतनु-
र्निराधारा नित्या निरवधिरविद्यादिरहिता ।
अनास्थामास्थाय भ्रमवपुषि सर्वत्र विषये
सदा शेषव्याख्यानिपुणमतिभिः ख्यातयतिभिः ॥ २५ ॥

अहोऽत्यर्थेऽप्यर्थे श्रुतिशतगुरुभ्यामवगते
निषिद्धत्वेनापि प्रतिदिवसमाधावति मनः ।
पिशाचस्तत्रैव स्थिररतिरसारेऽपि चपलं
न जाने केनास्य प्रतिकृतिरनार्यस्य भविता ॥ २६ ॥

नित्यानित्यपदार्थतत्त्वविषये नित्यं विचारः सतां
संसर्गे मितभाषिता हितमिताहारोऽनहङ्कारिता ।
कारुण्यं कृपणे जने सुखिजने प्रीतिः सदा यस्य स
प्रायेणैव तपः करोति सुकृती चेतोमुकुन्दप्रियः ॥ २७ ॥

सा गोष्ठी सुहृदां निवारितसुधास्वादाधुना क्वागम-
त्तेधीरा धरणीधरोपकरणीभूता ययुः क्वापरे ।
ते भूपा भवभीरवो भवरताः क्वागुर्निरस्तारयो
हा कष्टं क्व च गम्यते नहि सुखं क्वाप्यस्ति लोकत्रये ॥ २८ ॥

भानुर्भूवलयप्रदक्षिणगतिः क्रीडारतिः सर्वदा
चन्द्रोप्येषकलानिधिः कवलितः स्वर्भानुना दुःखितः ।
ऱ्हासं गच्छति वर्धते च सततं गीर्वाणविश्रामभू-
स्तत्स्थानं खलु यत्र नास्त्यपहतिः क्लेशस्य संसारिणाम् ॥ २९ ॥

संसारेऽपि परोपकारकरणख्यातव्रता मानवा
ये सम्पत्तिगृहा विचारचतुरा विश्वेश्वराराधकाः ।
तेऽप्येनं भवसागरं जनिमृतिग्राहाकुलं दुस्तरं
गम्भीरं सुतरां तरन्ति विविधव्याध्याधिवीचीमयम् ॥ ३० ॥

रे रे चित्त मदान्ध मोहबधिरा मिथ्याभिमानोद्धता
व्यर्थेयं भवतां धनावनरतिः संसारकारागृहे ।
बद्धानां निगडेन गात्रममतासंज्ञेन यत्कर्हिचि-
द्देवब्राह्मणभिक्षुकादिषु धनं स्वप्नेऽपि न व्येति वः ॥ ३१ ॥

यावत्ते यमकिङ्कराः करतलक्रूरासिपाशादयो
वुर्दान्ताः सृणिराजदीर्घसुनखा दंष्ट्राकरालाननाः ।
नाकर्षन्ति नरान्धनादिरहितान्यत्तावदिष्टेच्छया
युष्माभिः क्रियतां धनस्य कृपणास्त्यागः सुपर्वादिषु ॥ ३२ ॥

देहाद्यात्ममतानुसारि भवतां यद्यस्ति मुग्धं मतं
वेदव्यासविनिन्दितं कथमहो पित्राद्यपत्ये तदा ।
दाहादिः क्रियते विशुद्धफलको युष्माभिरुद्वेजितैः
शोकेनार्थपरायणैरपसदैर्दृष्टार्थमात्रार्थिभिः ॥ ३३ ॥

अद्यश्वो वा मरणमशिवप्राणिनां कालपाशै-
राकृष्टानां जगति भवतो नान्यथात्वं कदाचित् ।
यद्यप्येवं न खलु कुरुते हा तथाप्यर्थलोभं
हित्वा प्राणी हितमवहितो देवलोकानुकूलम् ॥ ३४ ॥

दृष्टप्रायं विकलमखिलं कालसर्पेण विश्वं
क्रूरेणेदं शिव शिव मुने ब्रूहि रक्षाप्रकारम् ।
अस्यास्तेकः श‍ृणु मुररिपोर्ध्यानपीयूषपानं
त्यक्त्वा नान्यत्किमपि भुवने दृश्यते शास्त्रदृष्ट्या ॥ ३५ ॥

ध्यानव्यग्रं भवतु तव हृत्तिष्ठतो यत्र तत्र
श्रीमद्विष्णोस्त्रिभुवनपतेर्नित्यमानन्दमूर्तेः ।
लक्ष्मीचेतःकुमुदविपुलानन्दपीयूषधाम्नो
मेघच्छायाप्रतिभटतनोः क्लेशसिन्धुं तितीर्षोः ॥ ३६ ॥

कामव्याघ्रे कुमतिफणिनि स्वान्तदुर्वारनीडे
मायासिंहीविहरणमहीलोभभल्लूकभीमे ।
जन्मारण्ये न भवति रतिः सज्जनानां कदाचि-
त्तत्त्वज्ञानां विषयतुषिताकण्टकाकीर्णपार्श्वे ॥ ३७ ॥

यामासाद्य त्रिलोकीजनमहितशिवावल्लभारामभूमिं
ब्रह्मादीनां सुराणां सुखवसतिभुवो मण्डलं मण्डयन्तीम् ।
नो गर्भे व्यालुठन्ति क्वचिदपि मनुजा मातुरुत्क्रान्तिभाज-
स्तां काशीं नो भजन्ते किमिति सुमतयो दुःखभारं वहन्ते ॥ ३८ ॥

किं कुर्मः किं भजामः किमिह समुद्रितं साधनं किं वयस्याः
संसारोन्मूलनाय प्रतिदिवसमिहानर्थशङ्कावतारः ।
भ्रातर्ज्ञातं निदानं भवभयदलने सङ्गतं सज्ज्नां
तां काशीमाश्रयामो निरुपमयशसः स्वःस्रवन्त्या वयस्याम् ॥ ३९ ॥

भुक्तिः क्वापि न मुक्तिरस्त्यभिमता क्वाण्यस्ति मुक्तिर्न सा
काश्यामस्ति विशेष एव सुतरां श्लाघ्यं यदेतद्रूपम् ।
सर्वैरुत्तममध्यमाधमजनैरासाद्यतेऽनुग्रहा-
द्देवस्य त्रिपुरद्विषः सुरधुनीस्नानावदातव्ययैः ॥ ४० ॥

विद्यन्ते द्वारकाद्या जगति कति न ता देवताराजधान्यो
यद्यप्यन्यास्तथापि स्खलदमलजलावर्तगङ्गातरङ्गा ।
काश्येवारामकूजत्पिकशुकचटकाक्रान्तदिक्कामिनीनां
क्रीडाकासारशाला जयति मुनिजनानन्दकन्दैकभूमिः ॥ ४१ ॥

काशीयं समलङ्कृता निरुपमस्वर्गापगाव्योमगा-
स्थूलोत्तारतरङ्गबिन्दुविलसन्मुक्ताफलश्रेणिभिः ।
चञ्चच्चञ्चलचञ्चरीकनिकरारागाम्बरा राजते
कासारस्थविनिद्रपद्मनयना विश्वेश्वरप्रेयसी ॥ ४२ ॥

वन्हिप्राकारबुद्धिं जनयति वलभीवासिनां नागराणां
गन्धारण्यप्रसूतस्फुटकुसुमचयः किंशुकानां शुकानाम् ।
चञ्च्वाकारो वसन्ते परमपदपदं राजधानी पुरारेः
सा काश्यारामरम्या जयति मुनिजनानन्दकन्दैकभूमिः ॥ ४३ ॥

भजत विबुधसिन्धुं साधवो लोकबन्धुं
हरहसिततरङ्गं शङ्कराशीर्षसङ्गम् ।
दलितभवभुजङ्गं ख्यातमायाविभङ्गं
निखिलभुवनवन्द्यं सर्वतीर्थानवद्यम् ॥ ४४ ॥

यदमृतममृतानां भङ्गरङ्गप्रसङ्ग-
प्रकटितरसवत्तावैभवं पीतमुच्चैः ।
दलयति कलिदन्तांस्तां सुपर्वस्रवन्तीं
किमिति न भजतार्ता ब्रह्मलोकावतीर्णाम् ॥ ४५ ॥

स्वाधीने निकटस्थितेऽपि विमलज्ञानामृते मानसे
विख्याते मुनिसेवितेऽपि कुधियो न स्नान्ति तीर्थे द्विजाः ।
यत्तत्कष्टमहो विवेकरहितास्तीर्थार्थिनो दुःखिता
यत्र क्वाप्यटवीमटन्ति जलधौ मज्जन्ति दुःखाकरे ॥ ४६ ॥

नाभ्यस्तो धातुवादो न च युवतीवशीकारकः कोप्युपायो
नो वा पौराणिकत्वं न च सरसकविता नापि नीतिर्न गीतिः ।
तस्मादर्थार्थिनां या न भवति भवतश्चातुरी क्वापि विद्वन्
ज्ञात्वेत्थं चक्रपाणेरनुसर चरणाम्भोजयुग्मं विभूत्यै ॥ ४७ ॥

अर्थेभ्योऽनर्थजातं भवति तनुभृतां यौवनादिष्ववश्यं
पित्राद्यैरर्जितेभ्योऽनुपकृतिमतिभिः स्वात्मनैवार्जितेभ्यः ।
यस्माद्दुःखाकरेभ्यस्तमनुसर सदा भद्र लक्ष्मीविलासं
गोपालं गोपकान्ताकुचकलशतटीकुङ्कुमासङ्गरङ्गम् ॥ ४८ ॥

भ्रातः शान्तं प्रशान्तं क्वचिदपि निपतन्मित्र रे भूधराग्रे
ग्रीष्मे ध्यानाय विष्णोः स्पृहयसि सुतरां निर्विशङ्के गुहायाम् ।
अन्वेष्यान्तादृगत्र क्षितिवलयतले स्थानमुन्मूल याव-
त्संसारानर्थवृक्षं प्रथिततममहामोहमूलं विशालम् ॥ ४९ ॥

केदारस्थानमेकं रुचिरतरमुमानाट्यलीलावनीकं
प्रालेयाद्रिप्रदेशे प्रथितमतितरामस्ति गङ्गानिवेशे ।
ख्यातं नारायणस्य त्रिजगति बदरीनाम सिद्धाश्रमस्य
तत्रैवानादिमूर्तेर्मुनिजनमनसामन्यदानन्दमूर्तेः ॥ ५० ॥

सन्तन्ये त्रिदशापगादिपतनादेव प्रयागादयः
प्रालेयाचलसम्भवा बहुफलाः सिद्धाश्रमाः सिद्धयः ।
यत्राघौघसहा भवन्ति सुधियां ध्यानेश्वरणां चिरं
मुक्ताशेषभियां विनिद्रमनसां कन्दाम्बुपर्णाशिनाम् ॥ ५१ ॥

किं स्थानस्य निरीक्षणेन मुरजिद्ध्यानाय भूमण्डले
भ्रातश्चेद्विरतिर्भवेद्दृढतरा यस्य स्रगादौ सदा ।
तस्यैषा यदि नास्ति हन्त सुतरां व्यर्थं तदान्वेषणं
स्थानस्यानधिकारिणः सुरधुनीतीराद्रिकुञ्जादिषु ॥ ५२ ॥

स्वान्तव्योम्नि निरस्तकल्मषघने सद्बुद्धितारावली-
सन्दीप्ते समुदेति चेन्निरुपमानन्दप्रभामण्डलः ।
ब्रह्मज्ञानसुधाकरः कवलिताविद्यान्धकारस्तदा
क्व व्योम क्व सदागतिः क्व हुतभुक् क्वाम्भाः क्व सर्वंसहा ॥ ५३ ॥

विश्वेश्वरे भवति विश्वजनीनजन्म-
विश्वम्भरे भगवति प्रथितप्रभावे ।
यो दत्तचित्तविषयः सुकृती कृतार्थो
यत्र क्वचित्प्रतिदिनं निवसन् गृहादौ ॥ ५४ ॥

चिद्रत्नमत्र पतितं वपुरन्धकूपे
पुंसो भ्रमादनुपमं सहनीयतेजः ।
उद्धृत्य यो जगति तद्भविता कृतार्थो
मन्ये स एव समुपासितविश्वनाथः ॥ ५५ ॥

यद्येता मदनेषवो मृगदृशश्चेतःकुरङ्गारयो
धीराणामपि नो भवेयुरबलाः संसारमायापुरे ।
को नामामृतसागरे न रमते धीरस्तदा निर्मले
पूर्णानन्दमहोर्मिरम्यनिकरे रागादिनक्रोज्झिते ॥ ५६ ॥

बालेयं बालभावं त्यजति न सुदति यत्कटाक्षैर्विशालै-
रस्मान्विभ्रामयन्ती लसदधरदलाक्षिप्तचूतप्रवाला ।
नेतुं वाञ्छत्यकामान् स्वसदनमधुना क्रीडितुं दत्तचित्तान्
पुष्यन्नीलोत्पलोत्पलाभे मुरजिति कमलावल्लभे गोपलीले ॥ ५७ ॥

शिव शिव महाभ्रान्तिस्थानं सतां विदुषामपि
प्रकृतिचपला धात्रा सृष्टाः स्त्रियो हरिणीदृशः ।
विजहति धनं प्राणैः साकं यतस्तदवाप्तये
जगति मनुजा रागाकृष्टास्तदेकपरायणाः ॥ ५८ ॥

हरति वपुषः कान्तिं पुंसः करोति बलक्षितिं
जनयति भृशं भ्रान्तिं नारी सुखाय निषेविता ।
विरतिविरसा भुक्ता यस्मात्ततो न विवेकिभि-
र्विषयविरसैः सेव्या मायासमाश्रितविग्रहा ॥ ५९ ॥

कमलवदना पीनोत्तुङ्गं घटाकृति बिभ्रती
स्तनयुगमियं तन्वी श्यामा विशालदृगञ्चला ।
विशददशना मध्यक्षामा वृथेति जनाः श्रमं
विदधति मुधारागादुच्चैरनीदृशवर्णने ॥ ६० ॥

जनयति सुतं कञ्चिन्नारी सती कुलभूषणं
निरुपमगुणैः पुण्यात्मानं जगत्परिपालकम् ।
कथमपि न साऽनिन्द्या वन्द्या भवेन्महतां यतः ।
सुरसरिदिव ख्याता लोके पवित्रितभूतला ॥ ६१ ॥

धन्या एते पुमांसो यदयमहमिति त्यक्तचेतोविकल्पा
निश्शङ्कं संचरन्तो विदधति मलिनं कर्म कामप्रयुक्ताः ।
जानन्तोऽप्यर्थहीनं जगदिदमखिलं भ्रान्तवद्द्वैतजालं
रागद्वेषादिमन्तो वयमयमिति हा न त्यजन्तेऽभिमानम् ॥ ६२ ॥

प्रज्ञावन्तोऽपि केचिच्चिरमुपनिषदाद्यर्थकारा यतन्तो
व्याकुर्वन्तोऽपि केचिद्दलितपरमता यद्यपि ज्ञाततत्त्वाः ।
तीर्थे तीर्थं तथापि भ्रमणरसिकतां नो जहत्यध्वखेदा
यत्तत्कष्टं विधत्ते मम मनसि सदा पश्यतस्तत्र कृत्यम् ॥ ६३ ॥

तीर्थावस्थानजन्यं न भवति सुकृतं दुष्कृतोन्मूलनं वा
यस्मादाभ्यां विहीनः श्रुतिसमधिगतः प्रत्यगात्मा जनानाम् ।
सर्वेषामद्वितीयो निरतिशयसुखं यद्यपि स्वप्रकाशा-
स्तीर्थे विद्यास्तथापि स्पृहयति तपसे यत्तदाश्चर्यहेतुः ॥ ६४ ॥

उदासीनो देवो मदनमथनः सज्जनकुले
कलिक्रीडासक्तःकृतपरिजनः प्राकृतजनः ।
इयं म्लेच्छाक्रान्ता त्रिदशतटिनी चोभयतटे
कथं भ्रान्तस्थाता कथय सुकृती कुत्र विभयः ॥ ६५ ॥

निस्सारावसुधाधुना समजनि प्रौढप्रतापनल-
ज्वालाज्वालसमाकुला द्विपघटासङ्घट्टविक्षोभिता ।
म्लेच्छानां रथवाजिपत्तिनिवहैरुन्मीलिता कीदृशी-
यं विद्या भवितेति हन्त न सखे जानीमहे मोहिताः ॥ ६६ ॥

वेदो निर्वेदमागादिह नमनभिया ब्राह्मणानां वियोगा-
द्वैयासिक्यो गिरोऽपि क्वचिदपि विरलाः सम्मतं सन्ति देशे ।
इत्थं धर्मे विलीने यवनकुलपतौ शासति क्षोणिबिम्बं
नित्यं गङ्गावगाहाद्भवति गतिरितः संसृतेरर्थसिद्धौ ॥ ६७ ॥

गङ्गा गङ्गेति यस्याः श्रुतमपि पठितं केनचिन्नाममात्रं
दुरस्थस्यापि पुंसो दलयति दुरितं प्रौढमित्याहुरेके ।
स गङ्गा कस्य सेव्या न भवति भुवने सज्जनस्यातिभव्या
ब्रह्माण्डं प्लावयन्ती त्रिपुरहरजटामण्डलं मण्डयन्तीम् ॥ ६८ ॥

यत्तीरे वसतां सतामपि जलैर्मूलैः फलैर्जीवतां
मुक्ताहंममभावशुद्धमनसामाचारविद्यावताम् ।
कैवल्यं करबिल्वतुल्यममलं सम्पद्यते हेलया ।
स गङ्गा ह्यतुलामलोर्मिमपटला सद्भिः कुतो नेक्ष्यते ६९ ॥

तीर्थानामवलोकने सुमनसामुत्कण्ठते मानसं
तावद्भूवलये सतां पुररिपुध्यानामृतास्वादिनाम्।
पावत्ते न विलोकयन्ति सरितां रोचिष्णुमुक्तावलीम् ।
श्रीमन्नाकतरङ्गिणीं हरजटाजूटाटवीविभ्रमाम् ॥ ७० ॥

संसारो विविधाधिबाधबधिरः सारायते मानसे
निःसारोऽपि वपुष्मतां कलिवृकग्रासीकृतानां चिरम् ।
दृष्टायां घनसारपाथसि महापुण्येन यस्यां सतां
सा सेव्या न कुतो भवेत्सुरधुनीस्वर्गापवर्गोदया ॥ ७१ ॥

यस्याः सङ्गतिरुन्नतिं वितनुते वाराममीषां जनै-
रुद्गीता कविभिर्महेश्वरमनोभीष्टा महीमण्डले ।
सा सन्तः शरदिन्दुसोदरपयः पूराभिरामा नद-
त्कोकश्रेणिमनोजपुण्यपुलिना भागीरथी सेव्यताम् ॥ ७२ ॥

क्वचिद्धंसश्रेणी सुखयति रिरंसुः श्रुतिसुखं
नदन्ती चेतो नो विपुलपुलिने मन्थरगतिः ।
तदेतस्या योऽर्थी सुरतरुलता नाकतटिनीई
सदा सद्भिः सेव्या सकलपुरुषार्थाय कृतिभिः ॥ ७३ ॥

कलौ गङ्गा काश्यां त्रिपुरहरपुर्यां भगवती
प्रशस्तादेवानामपि भवति सेव्यानुदिवसम् ।
इति व्यासो ब्रूते मुनिजनधुरीणो हरिकथा-
सुधापानस्वस्थो गलितभवबन्धोऽतुलमतिः ॥ ७४ ॥

यावज्जागर्ति चित्ते दुरितकलुषिते प्राणिनो वित्तपुत्र-
क्षेत्राद्यर्थेषु चिन्ता तदतिपरतया भ्राम्यमानस्य नित्यम् ।
तावन्नार्थस्य सिद्धिर्भवति कथमपि प्राथितस्यार्तिभाजा
कैवल्याख्यस्य लोके रमणसुखभुवो मुक्तदोषानुषक्तेः ॥ ७५ ॥

सन्त्यर्था मम सञ्चिता बहुधाः पित्रादिभिः साम्प्रतं
वाणिज्यैः कृषिभिः कलाभिरपि तान्विस्तारयिष्यामि वः ।
हे पुत्रा इति भावन्ननुदिनं संसारपाशावलीं
छेत्तायं तु कथं मनोरथमयीं जीवो निरालम्बनः ॥ ७६ ॥

जानन्नेव करोति कर्म बहुलं दुःखात्मकं प्रेरितः
केनाप्यप्रतिवाच्यशक्तिमहिना देवेन मुक्तात्मना ।
सर्वज्ञेन हृदिस्थितेन तनुमत्संसाररङ्गाङ्गणे
माद्यद्बुद्धिनटीविनोदनिपुणो नृत्यन्नङ्गप्रियः ॥ ७७ ॥

को देवो भुवनोदयावनकरो विश्वेश्वरो विद्यते
यस्याज्ञावशवर्तिनो जलधियो नाप्लावयन्ति क्षितिम् ।
इत्याम्नातमपीश्वरं सुरशिरोरत्नं जगत्साक्षिणं
सर्वज्ञं धनयौवनोद्घतमना नो मन्यते बालिशः ॥ ७८ ॥

कस्येमौ पितरौ मनोभववता तापेन संयोजिता-
वन्योन्यं तनयादिकं जनयतो भूम्यादिभूतात्मभिः ।
इत्थं दुःस्थमतिर्मनोभवरतिर्यो मन्यते नास्तिकः
शान्तिस्तस्य कथं भवेद्घनवतो दुष्कर्मधर्मश्रमात् ॥ ७९ ॥

हिक्काकास भगन्दरोदरमहामेदज्वरैराकुलः
श्लेष्माद्यैरपि निद्रया विरहितो मन्दानलोल्पाशनः ।
तारुण्येऽपि विलोक्यते बहुविधो जीवो दरिद्रेश्वरो
हा कष्टं कथमीदृशं भगवतः संसारदुःसागरे ॥ ८० ॥

माद्यत्तार्किकतान्त्रिकद्विपघटासङ्घट्टपञ्चानन-
स्तद्वदृप्तकदन्तवैद्यककलाकल्पोऽपि निष्किञ्चनः ।
यत्र क्वापि विनाशया कृशतनुर्भूपालसेवापरो
जीवन्नेव मृतायते किमपरं संसारदुःसागरे ॥ ८१ ॥

आढ्यः कश्चिदपण्डितोऽपि विदुषां सेव्यः सदा धार्मिको
विश्वेषामुपजारको मृगदृशामानन्दकन्दाकरः ।
कर्पूरद्युतिकीर्तिभूषितहरिद्भूमण्डले गीयते
शश्वद्द्वन्दिजनैर्महीतनुभृतः पुण्यैर्न कस्योदयः ॥ ८२ ॥

कर्तव्यं न करोति बन्धुभिरपि स्नेहात्मभिर्वोदितः
कामित्वादभिमन्यते हितमतं धीरोप्यभीष्टं नरः ।
निष्कामस्य न विक्रिया तनुभृतो लोके क्वचिद्दृश्यते
यत्तस्मादयमेव मूलमखिलानर्थस्य निर्धारितम् ॥ ८३ ॥

निष्कामा मुनयः परावरदृशो निर्धूतपाप्मोदया
निःसङ्गा निरहङ्कृता निरुपमानन्दं परं लेभिरे ।
यद्गत्वा न लुठन्ति मातृजठरे दुःखाकरे मानवा
दुर्गन्धे पुनरेत्यकाममकरे संसारपाथोनिधौ ॥ ८४ ॥

कामस्यापि निदानमाहुरपरे मायां महाशासना
निश्चित्कां सकलप्रपञ्चरचनाचातुर्यलीलावतीम् ।
यत्सङ्गाद्भगवानपि प्रभवति प्रत्यङ्महामोहहा
श्रीरङ्गो भुवनोदयावनलयव्यापारचक्रेक्रियाः ॥ ८५ ॥

तुल्यार्थेन त्वमैक्यं त्रिभुवनजनकस्तत्पदार्थःप्रपद्य
प्रत्यक्षं मोहजन्म त्यजति भगवति त्वंपदार्थोऽपि जीवः ।
श्रुत्याचार्यप्रसादान्निरुपमविलसद्ब्रह्मविद्यैस्तदैक्यं
प्राप्यानन्दप्रतिष्ठो भवति विगलितानाद्यविद्योपरीहः ॥ ८६ ॥

संन्यासो विहितस्य केशवपदद्वन्द्वे व्यधायि श्रुता
वेदान्ता निरवद्यनिष्कलपरानन्दाः सुनिष्ठाश्चिरम् ।
संसारे वधबन्धदुःखबहुले मायाविलासेऽव्ययं
ब्रह्मास्मीति विहाय नान्यदधुना कर्तव्यमास्ते क्वचित् ॥ ८७ ॥

हित्वा विश्वाद्यवस्थाः प्रकृतिविलसिता जाग्रदाद्यैर्विशेषैः
सार्धं चैतन्यधातौ प्रकृतिमपि समं कार्यजातैरशेषैः ।
ज्ञानानन्दं तुरीयं विगलितगुणकं देशकालाद्यतीतं
स्वात्मानं वीतनिद्रः सततमधिकृतश्चिन्तयेदद्वितीयम् ॥ ८८ ॥

अग्रेपश्चादधस्तादुपरि च परितो दिक्षु धान्यास्वनादिः
कूटस्था संविदेका सकलतनुभृतामन्तरात्मानियन्त्री ।
यस्यानन्दस्वभावा स्फुरति शुभधियः प्रत्यहं निष्प्रपञ्चा
जीवन्मुक्तः स लोके जयति गतमहामोहविश्वप्रपञ्चः ॥ ९० ॥

क्वाहं ब्रह्मेति विद्या निरतिशयसुखं दर्शयन्ती विशुद्धं
कूटस्थं स्वप्रकाशं प्रकृति सुचरिता खण्डयन्ती च मायाम् ।
क्वाविद्याहं ममेति स्थगितपरसुखा चित्तभित्तौ लिखन्ती
सर्वानर्थाननर्थान् विषयगिरिभुवा वासनागैरिकेण ॥ ९१ ॥

अहं ब्रह्मास्मीति स्फुरदमलबोधो यदि भवे-
त्पुमान्पुण्योद्रेकादुपचितपरानर्थविरतिः ।
तदानीं क्वाविद्या भृशमसहमानौपनिषदं
विचारं संसारः क्व च विविधदुःखैकवसतिः ॥ ९२ ॥

कश्चित्क्रन्दति कालकर्कशकराकृष्टं विनष्टं हठा-
दुत्कृष्टं तनयं विलोक्य पुरतः पुत्रेति हा हा क्वचित् ।
कश्चिन्नर्तकनर्तकीपरिवृतो नृत्यत्यहो कुत्रचि-
च्चित्रं संसृतिपद्धतिः प्रथयति प्रीतिञ्च कष्टञ्च नः ॥ ९३ ॥

नान्नं जीर्यति किञ्चिदौषधबलं नालं स्वकार्योदये
शक्तिश्चंक्रमणे न हन्त जरया जीर्णीकृतायां तनौ ।
अस्माकं त्वधुना न लोचनबलं पुत्रेति चिन्ताकुलो
ग्लायत्यर्थपरायणोऽतिकृपणो मिथ्याभिमानो गृही ॥ ९४ ॥

अन्नाशाय सदा रटन्ति पृथुकाःक्षुत्क्षामकण्ठास्त्रियो
वासोभी रहिता बहिर्व्यवहृतौ निर्यान्ति नो लज्जया ।
गेहादङ्गणमार्जनेऽपि गृहिणो यस्येति दुर्जीवितं
यद्यप्यस्ति तथापि तस्य विरतिर्नोदेति चित्रं गृहे ॥ ९५ ॥

सद्द्वंशो गुणवानहं सुचरितः श्लाघ्यां करोत्यात्मनो
नीचानां विदधाति च प्रतिदिनं सेवां जनानां द्विजः ।
योषित्तस्य जिघृक्षया स च कुतो नो लज्जते सज्जना-
ल्लोभान्धस्य नरस्य नो खलु सतां दृष्टं हि लज्जाभयम् ॥ ९६ ॥

कामादित्रिकमेव मूलमखिलक्लेशस्य मायोद्भवं
मर्त्यानामिति देवमौलिविलसद्भाजिष्णुचूडामणिः ।
श्रीकृष्णो भगवानवोचदखिलप्राणिप्रियो मत्प्रभु-
र्यस्मात्तत्त्रिकमुद्यतेन मनसा हेयं पुमर्थार्थिना ॥ ९७ ॥

यत्प्रीत्यर्थमनेकधामनि मया कष्टेन वस्तु प्रियं
स्वस्याशाकवलीकृतेन विकलीभावं दधानेन मे ।
तत्सर्वं विलयं निनाय भगवान् यो लीलया निर्जरो
मां हित्वा जरयाकुलीकृततनुं कालाय तस्मै नमः ॥ ९८ ॥

आयुर्वेदविदां रसाशनवतां पथ्याशिनां यत्नतो
वैद्यानामपि रोगजन्म वपुषो ह्यन्तर्यतो दृश्यते ।
दुश्चक्षोत्कवलीकृतत्रिभुवनो लीलाविहारस्थितः
सर्वोपायविनाशनैकचतुरः कालाय तस्मै नमः ॥ ९९ ॥

ते धन्या भुवने सुशिक्षितपरब्रह्मात्मविद्याजना
लोकानामनुरञ्जका हरिकथापीयूषपानप्रियाः ।
येषां नाकतरङ्गिणीतटशिलाबद्धासनानां सतां
प्राणा यन्ति लयं सुखेन मनसा श्रीरङ्गचिन्ताभृताम् ॥ १०० ॥

हे पुत्राः व्रजताभयं यत इतो गेहं जनन्या समं
रागद्वेषमदादयो भवतु वः पन्थाः शिवोऽमायया ।
काशीं साम्प्रतमागतोऽहमहह क्लेशेन हातुं वपुः
सर्वानर्थगृहं सुपर्वतटिनीवीचिश्रियामण्डिताम् ॥ १०१ ॥

यत्साक्षादभिधातुमक्षमतया शब्दाद्यनालिङ्गितं
कूटस्थं प्रतिपादयन्ति विलयद्वारा प्रपञ्चस्रजः ।
मोक्षाय श्रुतयो निरस्तविधयो ध्यानस्य चोच्छित्तये
तत्राद्वैतवने सदा विचरताच्चेतः कुरङ्गः सताम् ॥ १०२ ॥

बुधानां वैराग्यं सुघटयतु वैराग्यशतकं
गृहस्थानामेकं हरिपदसरोजप्रणयिनाम् ।
जनानामानन्दं वितरतु नितान्तं सुविशद-
त्रयं शेषव्याख्यागलिततमसां शुद्धमनसाम् ॥ १०३ ॥

इति श्रीभर्तृहरिविरचितं विज्ञानशतकं चतुर्थम् ।

Add Comment

Click here to post a comment