Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Sharada | Sahasranama Stotram Lyrics in Hindi

Shri Sharada Sahasranamastotram Lyrics in Hindi:

॥ श्रीशारदासहस्रनामस्तोत्रम् ॥

श्री गणेशाय नमः ।

श्रीभैरवी उवाच
भगवन् सर्वधर्मज्ञ सर्वलोकनमस्कृत ।
सर्वागमैकतत्त्वज्ञ तत्त्वसागरपारग ॥ १ ॥

कृपापरोऽसि देवेश शरणागतवत्सल ।
पुरा दत्तं वरं मह्यं देवदानवसङ्गरे ॥ २ ॥

तमद्य भगवंस्त्वत्तो याचेऽहं परमेश्वर ।
प्रयच्छ त्वरितं शम्भो यद्यहं प्रेयसी तव ॥ ३ ॥

श्रीभैरव उवाच
देवदेवी पुरा सत्यं सुरासुररणाजिरे ।
वरो दत्तो मया तेऽद्य वरं याचस्व वाञ्छितम् ॥ ४ ॥

श्रीभैरवी उवाच
भगवन् या महादेवी शारदाऽऽख्या सरस्वती ।
काश्मीरे सा स्वतपसा शाण्डिल्येनावतारिता ॥ ५ ॥

तस्या नामसहस्रं मे भोगमोक्षैकसाधनम् ।
साधकानां हितार्थाय वद त्वं परमेश्वर ॥ ६ ॥

श्रीभैरव उवाच
रहस्यमेतदखिलं देवानां परमेश्वरि ।
परापररहस्यं च जगतां भुवनेश्वरि ॥ ७ ॥

या देवी शारदाख्येति जगन्माता सरस्वती ।
पञ्चाक्षरी च षट्कूटत्रैलोक्यप्रथिता सदा ॥ ८ ॥

तया ततमिदं विश्वं तया सम्पाल्यते जगत् ।
सैव संहरते चान्ते सैव मुक्तिप्रदायिनी ॥ ९ ॥

देवदेवी महाविद्या परतत्त्वैकरूपिणी ।
तस्या नामसहस्रं ते वक्ष्येऽहं भक्तिसाधनम् ॥ १० ॥

॥ विनियोगः ॥

ॐ अस्य श्रीशारदाभगवतीसहस्रनामस्तोत्रमहामन्त्रस्य
श्रीभगवान् भैरव ऋषिः । त्रिष्टुप् छन्दः।पञ्चाक्षरशारदा देवता।
क्लीं बीजम् । ह्रीं शक्तिः। नम इति कीलकम्।
त्रिवर्गफलसिद्ध्यर्थे सहस्रनामपाठे विनियोगः ॥

॥ करन्यासः ॥

ॐ ह्रां क्लां अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं क्लीं तर्जनीभ्यां नमः ।
ॐ ह्रूं क्लूं मध्यमाभ्यां नमः ।
ॐ ह्रैं क्लैं अनामिकाभ्यां नमः।
ॐ ह्रौं क्लौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः क्लः करतलकरपृष्ठाभ्यां नमः ॥

॥ हृदयादि न्यासः ॥

ॐ ह्रां क्लां हृदयाय नमः ।
ॐ ह्रीं क्लीं शिरसे स्वाहा ।
ॐ ह्रूं क्लूं शिखायै वषट् ।
ॐ ह्रैं क्लैं कवचाय हुं ।
ॐ ह्रौं क्लौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः क्लः अस्त्राय फट ।
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

॥ ध्यानम् ॥

शक्तिचापशरघण्टिकासुधापात्ररत्नकलशोल्लसत्कराम् ।
पूर्णचन्द्रवदनां त्रिलोचनां शारदां नमत सर्वसिद्धिदाम् ॥

श्री श्रीशैलस्थिता या प्रहसितवदना पार्वती शूलहस्ता
वह्न्यर्केन्दुत्रिनेत्रा त्रिभुवनजननी षड्भुजा सर्वशक्तिः ।
शाण्डिल्येनोपनीता जयति भगवती भक्तिगम्या नतानां
सा नः सिंहासनस्था ह्यभिमतफलदा शारदा शं करोतु ॥

॥ पञ्चपूजा ॥

लं पृथिव्यात्मिकायै श्रीशारदादेव्यै गन्धं समर्पयामि ।
हं आकाशात्मिकायै श्रीशारदादेव्यै पुष्पैः पूजयामि ।
यं वाय्वात्मिकायै श्रीशारदादेव्यै धूपमाघ्रापयामि ।
रं वह्न्यात्मिकायै श्रीशारदादेव्यै दीपं दर्शयामि ।
वं अमृतात्मिकायै श्रीशारदादेव्यै अमृतम्महानैवेद्यं निवेदयामि ।
सं सर्वात्मिकायै श्रीशारदादेव्यै सर्वोपचारपूजां समर्पयामि ॥

योनिमुद्रां दर्शयेत् ॥

॥ श्रीशारदा गायत्री ॥

ॐ शारदायै विद्महे । वरदायै धीमहि।
तन्नो मोक्षदायिनी प्रचोदयात् ॥

श्रीशारदासहस्रनामस्तोत्रम् ॥

श्री गणेशाय नमः ।

श्रीभैरवी उवाच
भगवन् सर्वधर्मज्ञ सर्वलोकनमस्कृत ।
सर्वागमैकतत्त्वज्ञ तत्त्वसागरपारग ॥ १ ॥

कृपापरोऽसि देवेश शरणागतवत्सल ।
पुरा दत्तं वरं मह्यं देवदानवसङ्गरे ॥ २ ॥

तमद्य भगवंस्त्वत्तो याचेऽहं परमेश्वर ।
प्रयच्छ त्वरितं शम्भो यद्यहं प्रेयसी तव ॥ ३ ॥

श्रीभैरव उवाच
देवदेवी पुरा सत्यं सुरासुररणाजिरे ।
वरो दत्तो मया तेऽद्य वरं याचस्व वाञ्छितम् ॥ ४ ॥

श्रीभैरवी उवाच
भगवन् या महादेवी शारदाऽऽख्या सरस्वती ।
काश्मीरे सा स्वतपसा शाण्डिल्येनावतारिता ॥ ५ ॥

तस्या नामसहस्रं मे भोगमोक्षैकसाधनम् ।
साधकानां हितार्थाय वद त्वं परमेश्वर ॥ ६ ॥

श्रीभैरव उवाच
रहस्यमेतदखिलं देवानां परमेश्वरि ।
परापररहस्यं च जगतां भुवनेश्वरि ॥ ७ ॥

या देवी शारदाख्येति जगन्माता सरस्वती ।
पञ्चाक्षरी च षट्कूटत्रैलोक्यप्रथिता सदा ॥ ८ ॥

तया ततमिदं विश्वं तया सम्पाल्यते जगत् ।
सैव संहरते चान्ते सैव मुक्तिप्रदायिनी ॥ ९ ॥

देवदेवी महाविद्या परतत्त्वैकरूपिणी ।
तस्या नामसहस्रं ते वक्ष्येऽहं भक्तिसाधनम् ॥ १० ॥

॥ विनियोगः ॥

ॐ अस्य श्रीशारदाभगवतीसहस्रनामस्तोत्रमहामन्त्रस्य
श्रीभगवान् भैरव ऋषिः । त्रिष्टुप् छन्दः।पञ्चाक्षरशारदा देवता।
क्लीं बीजम् । ह्रीं शक्तिः। नम इति कीलकम्।
त्रिवर्गफलसिद्ध्यर्थे सहस्रनामपाठे विनियोगः ॥

॥ करन्यासः ॥

ॐ ह्रां क्लां अङ्गुष्ठाभ्यां नमः ।ॐ ह्रीं क्लीं तर्जनीभ्यां नमः।
ॐ ह्रूं क्लूं मध्यमाभ्यां नमः ।ॐ ह्रैं क्लैं अनामिकाभ्यां नमः।
ॐ ह्रौं क्लौं कनिष्ठिकाभ्यां नमः ।ॐ ह्रः क्लः करतलकरपृष्ठाभ्यां नमः ॥

॥ हृदयादि न्यासः ॥

ॐ ह्रां क्लां हृदयाय नमः । ॐ ह्रीं क्लीं शिरसे स्वाहा।
ॐ ह्रूं क्लूं शिखायै वषट् । ॐ ह्रैं क्लैं कवचाय हुम्।
ॐ ह्रौं क्लौं नेत्रत्रयाय वौषट् । ॐ ह्रः क्लः अस्त्राय फट।
ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

॥ ध्यानम् ॥

शक्तिचापशरघण्टिकासुधापात्ररत्नकलशोल्लसत्कराम् ।
पूर्णचन्द्रवदनां त्रिलोचनां शारदां नमत सर्वसिद्धिदाम् ॥

श्री श्रीशैलस्थिता या प्रहसितवदना पार्वती शूलहस्ता
वह्न्यर्केन्दुत्रिनेत्रा त्रिभुवनजननी षड्भुजा सर्वशक्तिः ।
शाण्डिल्येनोपनीता जयति भगवती भक्तिगम्या नतानां
सा नः सिंहासनस्था ह्यभिमतफलदा शारदा शं करोतु ॥

॥ पञ्चपूजा ॥

लं पृथिव्यात्मिकायै श्रीशारदादेव्यै गन्धं समर्पयामि ।
हं आकाशात्मिकायै श्रीशारदादेव्यै पुष्पैः पूजयामि ।
यं वाय्वात्मिकायै श्रीशारदादेव्यै धूपमाघ्रापयामि ।
रं वह्न्यात्मिकायै श्रीशारदादेव्यै दीपं दर्शयामि ।
वं अमृतात्मिकायै श्रीशारदादेव्यै अमृतम्महानैवेद्यं निवेदयामि ।
सं सर्वात्मिकायै श्रीशारदादेव्यै सर्वोपचारपूजां समर्पयामि ॥

योनिमुद्रां दर्शयेत् ॥

॥ श्रीशारदा गायत्री ॥

ॐ शारदायै विद्महे । वरदायै धीमहि।
तन्नो मोक्षदायिनी प्रचोदयात् ॥

॥ श्रीशारदा मन्त्रः ॥

ॐ ह्रीं क्लीं शारदायै नमः ॥

॥ अथ श्रीशारदासहस्रनामस्तोत्रम् ॥

ॐ ह्रीं क्लीं शारदा शान्ता श्रीमती श्रीशुभङ्करी ।
शुभा शान्ता शरद्बीजा श्यामिका श्यामकुन्तला ॥ १ ॥

शोभावती शशाङ्केशी शातकुम्भप्रकाशिनी ।
प्रताप्या तापिनी ताप्या शीतला शेषशायिनी ॥ २ ॥

श्यामा शान्तिकरी शान्तिः श्रीकरी वीरसूदिनी ।
वेश्या वेश्यकरी वैश्या वानरी वेषभान्विता ॥ ३ ॥

वाचाली शुभगा शोभ्या शोभना च शुचिस्मिता ।
जगन्माता जगद्धात्री जगत्पालनकारिणी ॥ ४ ॥

हारिणी गदिनी गोधा गोमती जगदाश्रया ।
सौम्या याम्या तथा काम्या वाम्या वाचामगोचरा ॥ ५ ॥

ऐन्द्री चान्द्री कला कान्ता शशिमण्डलमध्यगा ।
आग्नेयी वारुणी वाणी कारुणा करुणाश्रया ॥ ६ ॥

नैरृती ऋतरूपा च वायवी वाग्भवोद्भवा ।
कौबेरी कूबरा कोला कामेशी कामसुन्दरी ॥ ७ ॥

खेशानी केशनीकारा मोचनी धेनुकामदा ।
कामधेनुः कपालेशी कपालकरसंयुता ॥ ८ ॥

चामुण्डा मूल्यदा मूर्तिर्मुण्डमालाविभूषणा ।
सुमेरुतनया वन्द्या चण्डिका चण्डसूदिनी ॥ ९ ॥

चण्डांशुतेजसाम्मूर्तिश्चण्डेशी चण्डविक्रमा ।
चाटुका चाटकी चर्चा चारुहंसा चमत्कृतिः ॥ १० ॥

ललज्जिह्वा सरोजाक्षी मुण्डसृङ्मुण्डधारिणी ।
सर्वानन्दमयी स्तुत्या सकलानन्दवर्धिनी ॥ ११ ॥

धृतिः कृतिः स्थितिर्मूर्तिः द्यौवासा चारुहासिनी ।
रुक्माङ्गदा रुक्मवर्णा रुक्मिणी रुक्मभूषणा ॥ १२ ॥

कामदा मोक्षदानन्दा नारसिंही नृपात्मजा ।
नारायणी नरोत्तुङ्गनागिनी नगनन्दिनी ॥ १३ ॥

नागश्रीर्गिरिजा गुह्या गुह्यकेशी गरीयसी ।
गुणाश्रया गुणातीता गजराजोपरिस्थिता ॥ १४ ॥

गजाकारा गणेशानी गन्धर्वगणसेविता ।
दीर्घकेशी सुकेशी च पिङ्गला पिङ्गलालका ॥ १५ ॥

भयदा भवमान्या च भवानी भवतोषिता ।
भवालस्या भद्रधात्री भीरुण्डा भगमालिनी ॥ १६ ॥

पौरन्दरी परञ्ज्योतिः पुरन्दरसमर्चिता ।
पीना कीर्तिकरी कीर्तिः केयूराढ्या महाकचा ॥ १७ ॥

घोररूपा महेशानी कोमला कोमलालका ।
कल्याणी कामना कुब्जा कनकाङ्गदभूषिता ॥ १८ ॥

केनाशी वरदा काली महामेधा महोत्सवा ।
विरूपा विश्वरूपा च विश्वधात्री पिलम्पिला ॥ १९ ॥

पद्मावती महापुण्या पुण्या पुण्यजनेश्वरी ।
जह्नुकन्या मनोज्ञा च मानसी मनुपूजिता ॥ २० ॥

कामरूपा कामकला कमनीया कलावती ।
वैकुण्ठपत्नी कमला शिवपत्नी च पार्वती ॥ २१ ॥

काम्यश्री र्गारुडीविद्या विश्वसूर्वीरसूर्दितिः ।
माहेश्वरी वैष्णवी च ब्राह्मी ब्राह्मणपूजिता ॥ २२ ॥

मान्या मानवती धन्या धनदा धनदेश्वरी ।
अपर्णा पर्णशिथिला पर्णशालापरम्परा ॥ २३ ॥

पद्माक्षी नीलवस्त्रा च निम्ना नीलपताकिनी ।
दयावती दयाधीरा धैर्यभूषणभूषिता ॥ २४ ॥

जलेश्वरी मल्लहन्त्री भल्लहस्ता मलापहा ।
कौमुदी चैव कौमारी कुमारी कुमुदाकरा ॥ २५ ॥

पद्मिनी पद्मनयना कुलजा कुलकौलिनी ।
कराला विकरालाक्षी विस्रम्भा दर्दुराकृतिः ॥ २६ ॥

वनदुर्गा सदाचारा सदाशान्ता सदाशिवा ।
सृष्टिः सृष्टिकरी साध्वी मानुषी देवकी द्युतिः ॥ २७ ॥

वसुधा वासवी वेणुः वाराही चापराजिता ।
रोहिणी रमणा रामा मोहिनी मधुराकृतिः ॥ २८ ॥

शिवशक्तिः पराशक्तिः शाङ्करी टङ्कधारिणी ।
क्रूरकङ्कालमालाढ्या लङ्काकङ्कणभूषिता ॥ २९ ॥

दैत्यापहरा दीप्ता दासोज्ज्वलकुचाग्रणीः ।
क्षान्तिः क्षौमङ्करी बुद्धिर्बोधाचारपरायणा ॥ ३० ॥

श्रीविद्या भैरवीविद्या भारती भयघातिनी ।
भीमा भीमारवा भैमी भङ्गुरा क्षणभङ्गुरा ॥ ३१ ॥

जित्या पिनाकभृत् सैन्या शङ्खिनी शङ्खरूपिणी ।
देवाङ्गना देवमान्या दैत्यसूर्दैत्यमर्दिनी ॥ ३२ ॥

देवकन्या च पौलोमी रतिः सुन्दरदोस्तटी ।
सुखिनी शौकिनी शौक्ली सर्वसौख्यविवर्धिनी ॥ ३३ ॥

लोला लीलावती सूक्ष्मा सूक्ष्माऽसूक्ष्मगतिर्मतिः ।
वरेण्या वरदा वेणी शरण्या शरचापिनी ॥ ३४ ॥

उग्रकाली महाकाली महाकालसमर्चिता ।
ज्ञानदा योगिध्येया च गोवल्ली योगवर्धिनी ॥ ३५ ॥

पेशला मधुरा माया विष्णुमाया महोज्ज्वला ।
वाराणसी तथाऽवन्ती काञ्ची कुक्कुरक्षेत्रसुः ॥ ३६ ॥

अयोध्या योगसूत्राद्या यादवेशी यदुप्रिया ।
यमहन्त्री च यमदा यमिनी योगवर्तिनी ॥ ३७ ॥

भस्मोज्ज्वला भस्मशय्या भस्मकालीसमर्चिता ।
चन्द्रिका शूलिनी शिल्या प्राशिनी चन्द्रवासिनी ॥ ३८ ॥

पद्महस्ता च पीना च पाशिनी पाशमोचनी ।
सुधाकलशहस्ता च सुधामूर्तिः सुधामयी ॥ ३९ ॥

व्यूहायुधा वरारोहा वरधात्री वरोत्तमा ।
पापाशना महामूर्ता मोहदा मधुरस्वरा ॥ ४० ॥

मधुपा माधवी माल्या मल्लिका कालिका मृगी ।
मृगाक्षी मृगराजस्था केशिकीनाशघातिनी ॥ ४१ ॥

रक्ताम्बरधरा रात्रिः सुकेशी सुरनायिका ।
सौरभी सुरभिः सूक्ष्मा स्वयम्भूकुसुमार्चिता ॥ ४२ ॥

अम्बा जृम्भा जटाभूषा जूटिनी जटिनी नटी ।
मर्मानन्ददा ज्येष्ठा श्रेष्ठा कामेष्टवर्द्धिनी ॥ ४३ ॥

रौद्री रुद्रस्तना रुद्रा शतरुद्रा च शाम्भवी ।
श्रविष्ठा शितिकण्ठेशी विमलानन्दवर्धिनी ॥ ४४ ॥

कपर्दिनी कल्पलता महाप्रलयकारिणी ।
महाकल्पान्तसंहृष्ठा महाकल्पक्षयङ्करी ॥ ४५ ॥

संवर्ताग्निप्रभा सेव्या सानन्दाऽऽनन्दवर्धिनी ।
सुरसेना च मारेशी सुराक्षी विवरोत्सुका ॥ ४६ ॥

प्राणेश्वरी पवित्रा च पावनी लोकपावनी ।
लोकधात्री महाशुक्ला शिशिराचलकन्यका ॥ ४७ ॥

तमोघ्नी ध्वान्तसंहर्त्री यशोदा च यशस्विनी ।
प्रद्योतिनी च द्युमती धीमती लोकचर्चिता ॥ ४८ ॥

प्रणवेशी परगतिः पारावारसुता समा ।
डाकिनी शाकिनी रुद्धा नीला नागाङ्गना नुतिः ॥ ४९ ॥

कुन्दद्युतिश्च कुरटा कान्तिदा भ्रान्तिदा भ्रमा ।
चर्विताचर्विता गोष्ठी गजाननसमर्चिता ॥ ५० ॥

खगेश्वरी खनीला च नागिनी खगवाहिनी ।
चन्द्रानना महारुण्डा महोग्रा मीनकन्यका ॥ ५१ ॥

मानप्रदा महारूपा महामाहेश्वरीप्रिया ।
मरुद्गणा महद्वक्त्रा महोरगा भयानका ॥ ५२ ॥

महाघोणा करेशानी मार्जारी मन्मथोज्ज्वला ।
कर्त्री हन्त्री पालयित्री चण्डमुण्डनिषूदिनी ॥ ५३ ॥

निर्मला भास्वती भीमा भद्रिका भीमविक्रमा ।
गङ्गा चन्द्रावती दिव्या गोमती यमुना नदी ॥ ५४ ॥

विपाशा सरयूस्तापी वितस्ता कुङ्कुमार्चिता ।
गण्डकी नर्मदा गौरी चन्द्रभागा सरस्वती ॥ ५५ ॥

ऐरावती च कावेरी शताह्रवा च शतह्रदा ।
श्वेतवाहनसेव्या च श्वेतास्या स्मितभाविनी ॥ ५६ ॥

कौशाम्बी कोशदा कोश्या काश्मीरकनकेलिनी ।
कोमला च विदेहा च पूः पुरी पुरसूदिनी ॥ ५७ ॥

पौरूरवा पलापाली पीवराङ्गी गुरुप्रिया ।
पुरारिगृहिणी पूर्णा पूर्णरूपा रजस्वला ॥ ५८ ॥

सम्पूर्णचन्द्रवदना बालचन्द्रसमद्युतिः ।
रेवती प्रेयसी रेवा चित्रा चित्राम्बरा चमूः ॥ ५९ ॥

नवपुष्पसमुद्भूता नवपुष्पैकहारिणी ।
नवपुष्पशुभामाला नवपुष्पकुलानना ॥ ६० ॥

नवपुष्पोद्भवप्रीता नवपुष्पसमाश्रया ।
नवपुष्पललत्केशा नवपुष्पललन्मुखा ॥ ६१ ॥

नवपुष्पललत्कर्णा नवपुष्पललत्कटिः ।
नवपुष्पललन्नेत्रा नवपुष्पललन्नसा ॥ ६२ ॥

नवपुष्पसमाकारा नवपुष्पललद्भुजा ।
नवपुष्पललत्कण्ठा नवपुष्पार्चितस्तनी ॥ ६३ ॥

नवपुष्पललन्मध्या नवपुष्पकुलालका ।
नवपुष्पललन्नाभिः नवपुष्पललत्भगा ॥ ६४ ॥

नवपुष्पललत्पादा नवपुष्पकुलाङ्गनी ।
नवपुष्पगुणोत्पीठा नवपुष्पोपशोभिता ॥ ६५ ॥

नवपुष्पप्रियोपेता प्रेतमण्डलमध्यगा ।
प्रेतासना प्रेतगतिः प्रेतकुण्डलभूषिता ॥ ६६ ॥

प्रेतबाहुकरा प्रेतशय्या शयनशायिनी ।
कुलाचारा कुलेशानी कुलका कुलकौलिनी ॥ ६७ ॥

स्मशानभैरवी कालभैरवी शिवभैरवी ।
स्वयम्भूभैरवी विष्णुभैरवी सुरभैरवी ॥ ६८ ॥

कुमारभैरवी बालभैरवी रुरुभैरवी ।
शशाङ्कभैरवी सूर्यभैरवी वह्निभैरवी ॥ ६९ ॥

शोभादिभैरवी मायाभैरवी लोकभैरवी ।
महोग्रभैरवी साध्वीभैरवी मृतभैरवी ॥ ७० ॥

सम्मोहभैरवी शब्दभैरवी रसभैरवी ।
समस्तभैरवी देवी भैरवी मन्त्रभैरवी ॥ ७१ ॥

सुन्दराङ्गी मनोहन्त्री महाश्मशानसुन्दरी ।
सुरेशसुन्दरी देवसुन्दरी लोकसुन्दरी ॥ ७२ ॥

त्रैलोक्यसुन्दरी ब्रह्मसुन्दरी विष्णुसुन्दरी ।
गिरीशसुन्दरी कामसुन्दरी गुणसुन्दरी ॥ ७३ ॥

आनन्दसुन्दरी वक्त्रसुन्दरी चन्द्रसुन्दरी ।
आदित्यसुन्दरी वीरसुन्दरी वह्निसुन्दरी ॥ ७४ ॥

पद्माक्षसुन्दरी पद्मसुन्दरी पुष्पसुन्दरी ।
गुणदासुन्दरी देवी सुन्दरी पुरसुन्दरी ॥ ७५ ॥

महेशसुन्दरी देवी महात्रिपुरसुन्दरी ।
स्वयम्भूसुन्दरी देवी स्वयम्भूपुष्पसुन्दरी ॥ ७६ ॥

शुक्रैकसुन्दरी लिङ्गसुन्दरी भगसुन्दरी ।
विश्वेशसुन्दरी विद्यासुन्दरी कालसुन्दरी ॥ ७७ ॥

शुक्रेश्वरी महाशुक्रा शुक्रतर्पणतर्पिता ।
शुक्रोद्भवा शुक्ररसा शुक्रपूजनतोषिता ॥ ७८ ॥

शुक्रात्मिका शुक्रकरी शुक्रस्नेहा च शुक्रिणी ।
शुक्रसेव्या शुक्रसुरा शुक्रलिप्ता मनोन्मना ॥ ७९ ॥

शुक्रहारा सदाशुक्रा शुक्ररूपा च शुक्रजा ।
शुक्रसूः शुक्ररम्याङ्गी शुक्रांशुकविवर्धिनी ॥ ८० ॥

शुक्रोत्तमा शुक्रपूजा शुक्रेशी शुक्रवल्लभा ।
ज्ञानेश्वरी भगोत्तुङ्गा भगमालाविहारिणी ॥ ८१ ॥

भगलिङ्गैकरसिका लिङ्गिनी भगमालिनी ।
बैन्दवेशी भगाकारा भगलिङ्गादिशुक्रसूः ॥ ८२ ॥

वात्याली वनिता वात्यारूपिणी मेघमालिनी ।
गुणाश्रया गुणवती गुणगौरवसुन्दरी ॥ ८३ ॥

पुष्पतारा महापुष्पा पुष्टिः परमलाघवी ।
स्वयम्भूपुष्पसङ्काशा स्वयम्भूपुष्पपूजिता ॥ ८४ ॥

स्वयम्भूकुसुमन्यासा स्वयम्भूकुसुमार्चिता ।
स्वयम्भूपुष्पसरसी स्वयम्भूपुष्पपुष्पिणी ॥ ८५ ॥

शुक्रप्रिया शुक्ररता शुक्रमज्जनतत्परा ।
अपानप्राणरूपा च व्यानोदानस्वरूपिणी ॥ ८६ ॥

प्राणदा मदिरा मोदा मधुमत्ता मदोद्धता ।
सर्वाश्रया सर्वगुणाऽव्यस्था सर्वतोमुखी ॥ ८७ ॥

नारीपुष्पसमप्राणा नारीपुष्पसमुत्सुका ।
नारीपुष्पलता नारी नारीपुष्पस्रजार्चिता ॥ ८८ ॥

षड्गुणा षड्गुणातीता शशिनःषोडशीकला ।
चतुर्भुजा दशभुजा अष्टादशभुजा तथा ॥ ८९ ॥

द्विभुजा चैक षट्कोणा त्रिकोणनिलयाश्रया ।
स्रोतस्वती महादेवी महारौद्री दुरन्तका ॥ ९० ॥

दीर्घनासा सुनासा च दीर्घजिह्वा च मौलिनी ।
सर्वाधारा सर्वमयी सारसी सरलाश्रया ॥ ९१ ॥

सहस्रनयनप्राणा सहस्राक्षसमर्चिता ।
सहस्रशीर्षा सुभटा शुभाक्षी दक्षपुत्रिणी ॥ ९२ ॥

षष्टिका षष्टिचक्रस्था षड्वर्गफलदायिनी ।
अदितिर्दितिरात्मा श्रीराद्या चाङ्कभचक्रिणी ॥ ९३ ॥

भरणी भगबिम्बाक्षी कृत्तिका चेक्ष्वसादिता ।
इनश्री रोहिणी चेष्टिः चेष्टा मृगशिरोधरा ॥ ९४ ॥

ईश्वरी वाग्भवी चान्द्री पौलोमी मुनिसेविता ।
उमा पुनर्जया जारा चोष्मरुन्धा पुनर्वसुः ॥ ९५ ॥

चारुस्तुत्या तिमिस्थान्ती जाडिनी लिप्तदेहिनी ।
लिढ्या श्लेष्मतराश्लिष्टा मघवार्चितपादुकी ॥ ९६ ॥

मघामोघा तथैणाक्षी ऐश्वर्यपददायिनी ।
ऐङ्कारी चन्द्रमुकुटा पूर्वाफाल्गुनिकीश्वरी ॥ ९७ ॥

उत्तराफल्गुहस्ता च हस्तिसेव्या समेक्षणा ।
ओजस्विनी तथोत्साहा चित्रिणी चित्रभूषणा ॥ ९८ ॥

अम्भोजनयना स्वातिः विशाखा जननी शिखा ।
अकारनिलयाधारा नरसेव्या च ज्येष्टदा ॥ ९९ ॥

मूला पूर्वाषाढेशी चोत्तराषाढ्यावनी तु सा ।
श्रवणा धर्मिणी धर्म्या धनिष्ठा च शतभिषक् ॥ १०० ॥

पूर्वभाद्रपदस्थानाऽप्यातुरा भद्रपादिनी ।
रेवतीरमणस्तुत्या नक्षत्रेशसमर्चिता ॥ १०१ ॥

कन्दर्पदर्पिणी दुर्गा कुरुकुल्लकपोलिनी ।
केतकीकुसुमस्निग्धा केतकीकृतभूषणा ॥ १०२ ॥

कालिका कालरात्रिश्च कुटुम्बजनतर्पिता ।
कञ्जपत्राक्षिणी कल्यारोपिणी कालतोषिता ॥ १०३ ॥

कर्पूरपूर्णवदना कचभारनतानना ।
कलानाथकलामौलिः कला कलिमलापहा ॥ १०४ ॥

कादम्बिनी करिगतिः करिचक्रसमर्चिता ।
कञ्जेश्वरी कृपारूपा करुणामृतवर्षिणी ॥ १०५ ॥

खर्बा खद्योतरूपा च खेटेशी खड्गधारिणी ।
खद्योतचञ्चला केशी खेचरी खेचरार्चिता ॥ १०६ ॥

गदाधारी महागुर्वी गुरुपुत्रा गुरुप्रिया ।
गीतवाद्यप्रिया गाथा गजवक्त्रप्रसूगतिः ॥ १०७ ॥

गरिष्ठगणपूज्या च गूढगुल्फा गजेश्वरी ।
गणमान्या गणेशानी गाणापत्यफलप्रदा ॥ १०८ ॥

घर्मांशुनयना घर्म्या घोरा घुर्घुरनादिनी ।
घटस्तनी घटाकारा घुसृणोल्लसितस्तनी ॥ १०९ ॥

घोरारवा घोरमुखी घोरदैत्यनिबर्हिणी ।
घनच्छाया घनद्युतिः घनवाहनपूजिता ॥ ११० ॥

टवकोटेशरूपा च चतुरा चतुरस्तनी ।
चतुराननपूज्या च चतुर्भुजसमर्चिता ॥ १११ ॥

चर्माम्बरा चरगतिः चतुर्वेदमयी चला ।
चतुःसमुद्रशयना चतुर्दशसुरार्चिता ॥ ११२ ॥

चकोरनयना चम्पा चम्पाबकुलकुन्तला ।
च्युतचीराम्बरा चारुमूर्तिश्चम्पकमालिनी ॥ ११३ ॥

छाया छद्मकरी छिल्ली छोटिका छिन्नमस्तका ।
छिन्नशीर्षा छिन्ननासा छिन्नवस्त्रवरूथिनी ॥ ११४ ॥

छन्दिपत्रा छन्नछल्का छात्रमन्त्रानुग्राहिणी ।
छद्मिनी छद्मनिरता छद्मसद्मनिवासिनी ॥ ११५ ॥

छायासुतहरा हव्या छलरूपा समुज्ज्वला ।
जया च विजया जेया जयमण्डलमण्डिता ॥ ११६ ॥

जयनाथप्रिया जप्या जयदा जयवर्धिनी ।
ज्वालामुखी महाज्वाला जगत्त्राणपरायणा ॥ ११७ ॥

जगद्धात्री जगद्धर्त्त्री जगतामुपकारिणी ।
जालन्धरी जयन्ती च जम्भारातिवरप्रदा ॥ ११८ ॥

झिल्ली झाङ्कारमुखरा झरी झङ्कारिता तथा ।
ञनरूपा महाञमी ञहस्ता ञिवलोचना ॥ ११९ ॥

टङ्कारकारिणी टीका टिका टङ्कायुधप्रिया ।
ठुकुराङ्गी ठलाश्रया ठकारत्रयभूषणा ॥ १२० ॥

डामरी डमरूप्रान्ता डमरूप्रहितोन्मुखी ।
ढिली ढकारवा चाटा ढभूषा भूषितानना ॥ १२१ ॥

णान्ता णवर्णसम्युक्ता णेयाऽणेयविनाशिनी ।
तुला त्र्यक्षा त्रिनयना त्रिनेत्रवरदायिनी ॥ १२२ ॥

तारा तारवया तुल्या तारवर्णसमन्विता ।
उग्रतारा महातारा तोतुलाऽतुलविक्रमा ॥ १२३ ॥

त्रिपुरा त्रिपुरेशानी त्रिपुरान्तकरोहिणी ।
तन्त्रैकनिलया त्र्यस्रा तुषारांशुकलाधरा ॥ १२४ ॥

तपः प्रभावदा तृष्णा तपसा तापहारिणी ।
तुषारपरिपूर्णास्या तुहिनाद्रिसुता तु सा ॥ १२५ ॥

तालायुधा तार्क्ष्यवेगा त्रिकूटा त्रिपुरेश्वरी ।
थकारकण्ठनिलया थाल्ली थल्ली थवर्णजा ॥ १२६ ॥

दयात्मिका दीनरवा दुःखदारिद्रयनाशिनी ।
देवेशी देवजननी दशविद्या दयाश्रया ॥ १२७ ॥

द्युनदी दैत्यसंहर्त्री दौर्भाग्यपदनाशिनी ।
दक्षिणा कालिका दक्षा दक्षयज्ञविनाशिनी ॥ १२८ ॥

दानवा दानवेन्द्राणी दान्ता दम्भविवर्जिता ।
दधीचीवरदा दुष्टदैत्यदर्पापहारिणी ॥ १२९ ॥

दीर्घनेत्रा दीर्घकचा दुष्टारपदसंस्थिता ।
धर्मध्वजा धर्ममयी धर्मराजवरप्रदा ॥ १३० ॥

धनेश्वरी धनिस्तुत्या धनाध्यक्षा धनात्मिका ।
धीर्ध्वनिर्धवलाकारा धवलाम्भोजधारिणी ॥ १३१ ॥

धीरसूर्धारिणी धात्री पूः पुनी च पुनीस्तु सा ।
नवीना नूतना नव्या नलिनायतलोचना ॥ १३२ ॥

नरनारायणस्तुत्या नागहारविभूषणा ।
नवेन्दुसन्निभा नाम्ना नागकेसरमालिनी ॥ १३३ ॥

नृवन्द्या नगरेशानी नायिका नायकेश्वरी ।
निरक्षरा निरालम्बा निर्लोभा निरयोनिजा ॥ १३४ ॥

नन्दजाऽनङ्गदर्पाढ्या निकन्दा नरमुण्डिनी ।
निन्दाऽऽनिन्दफला निष्ठा नन्दकर्मपरायणा ॥ १३५ ॥

नरनारीगुणप्रीता नरमालाविभूषणा ।
पुष्पायुधा पुष्पमाला पुष्पबाणा प्रियंवदा ॥ १३६ ॥

पुष्पबाणप्रियङ्करी पुष्पधामविभूषिता ।
पुण्यदा पूर्णिमा पूता पुण्यकोटिफलप्रदा ॥ १३७ ॥

पुराणागममन्त्राढ्या पुराणपुरुषाकृतिः ।
पुराणगोचरा पूर्वा परब्रह्मस्वरूपिणी ॥ १३८ ॥

परापररहस्याङ्गा प्रह्लादपरमेश्वरी ।
फाल्गुनी फाल्गुणप्रीता फणिराजसमर्चिता ॥ १३९ ॥

फणप्रदा फणेशी च फणाकारा फलोत्तमा ।
फणिहारा फणिगतिः फणिकाञ्ची फलाशना ॥ १४० ॥

बलदा बाल्यरूपा च बालराक्षरमन्त्रिता ।
ब्रह्मज्ञानमयी ब्रह्मवाञ्छा ब्रह्मपदप्रदा ॥ १४१ ॥

ब्रह्माणी बृहतिर्व्रीडा ब्रह्मावर्तप्रवर्तनी ।
ब्रह्मरूपा पराव्रज्या ब्रह्ममुण्डैकमालिनी ॥ १४२ ॥

बिन्दुभूषा बिन्दुमाता बिम्बोष्ठी बगुलामुखी ।
ब्रह्मास्त्रविद्या ब्रह्माणी ब्रह्माऽच्युतनमस्कृता ॥ १४३ ॥

भद्रकाली सदाभद्री भीमेशी भुवनेश्वरी ।
भैरवाकारकल्लोला भैरवी भैरवार्चिता ॥ १४४ ॥

भानवी भासुदाम्भोजा भासुदास्यभयार्तिहा ।
भीडा भागीरथी भद्रा सुभद्रा भद्रवर्धिनी ॥ १४५ ॥

महामाया महाशान्ता मातङ्गी मीनतर्पिता ।
मोदकाहारसन्तुष्टा मालिनी मानवर्धिनी ॥ १४६ ॥

मनोज्ञा शष्कुलीकर्णा मायिनी मधुराक्षरा ।
मायाबीजवती मानी मारीभयनिसूदिनी ॥ १४७ ॥

माधवी मन्दगा माध्वी मदिरारुणलोचना ।
महोत्साहा गणोपेता माननीया महर्षिभिः ॥ १४८ ॥

मत्तमातङ्गा गोमत्ता मन्मथारिवरप्रदा ।
मयूरकेतुजननी मन्त्रराजविभूषिता ॥ १४९ ॥

यक्षिणी योगिनी योग्या याज्ञिकी योगवल्लभा ।
यशोवती यशोधात्री यक्षभूतदयापरा ॥ १५० ॥

यमस्वसा यमज्ञी च यजमानवरप्रदा ।
रात्री रात्रिञ्चरज्ञी च राक्षसी रसिका रसा ॥ १५१ ॥

रजोवती रतिः शान्ती राजमातङ्गिनी परा ।
राजराजेश्वरी राज्ञी रसास्वादविचक्षणा ॥ १५२ ॥

ललना नूतनाकारा लक्ष्मीनाथसमर्चिता ।
लक्ष्मीश्च सिद्धलक्ष्मीश्च महालक्ष्मी ललद्रसा ॥ १५३ ॥

लवङ्गकुसुमप्रीता लवङ्गफलतोषिता ।
लाक्षारुणा ललत्या च लाङ्गूली वरदयिनी ॥ १५४ ॥

वातात्मजप्रिया वीर्या वरदा वानरेश्वरी ।
विज्ञानकारिणी वेण्या वरदा वरदेश्वरी ॥ १५५ ॥

विद्यावती वैद्यमाता विद्याहारविभूषणा ।
विष्णुवक्षस्थलस्था च वामदेवाङ्गवासिनी ॥ १५६ ॥

वामाचारप्रिया वल्ली विवस्वत्सोमदायिनी ।
शारदा शारदाम्भोजवारिणी शूलधारिणी ॥ १५७ ॥

शशाङ्कमुकुटा शष्पा शेषशायीनमस्कृता ।
श्यामा श्यामाम्बरा श्याममुखी श्रीपतिसेविता ॥ १५८ ॥

षोडशी षड्रसा षड्जा षडाननप्रियङ्करी ।
षडङ्घ्रिकूजिता षष्टिः षोडशाम्बरपूजिता ॥ १५९ ॥

षोडशाराब्जनिलया षोडशी षोडशाक्षरी ।
सौम्बीजमण्डिता सर्वा सर्वगा सर्वरूपिणी ॥ १६० ॥

समस्तनरकत्राता समस्तदुरितापहा ।
सम्पत्करी महासम्पत् सर्वदा सर्वतोमुखी ॥ १६१ ॥

सूक्ष्माकरी सती सीता समस्तभुवनाश्रया ।
सर्वसंस्कारसम्पत्तिः सर्वसंस्कारवासना ॥ १६२ ॥

हरिप्रिया हरिस्तुत्या हरिवाहा हरीश्वरी ।
हालाप्रिया हलिमुखी हाटकेशी हृदेश्वरी ॥ १६३ ॥

ह्रींबीजवर्णमुकुटा ह्रीं हरप्रियकारिणी ।
क्षमा क्षान्ता च क्षोणी च क्षत्रियी मन्त्ररूपिणी ॥ १६४ ॥

पञ्चात्मिका पञ्चवर्णा पञ्चतिग्मसुभेदिनी ।
मुक्तिदा मुनिवृन्देशी शाण्डिल्यवरदायिनी ॥ १६५ ॥

ॐ ह्रीं ऐं ह्रीं च पञ्चार्णदेवता श्रीसरस्वती ।
ॐ सौं ह्रीं श्रीं शरद्बीजशीर्षा नीलसरस्वती ॥ १६६ ॥

ॐ ह्रीं क्लीं सः नमो ह्रीं ह्रीं स्वाहा बीजा च शारदा ॥ १६७ ॥

॥ फलश्रुतिः ॥

शारदानामसाहस्रमन्त्रं श्रीभैरवोदितम् ।
गुह्यं मन्त्रात्मकं पुण्यं सर्वस्वं त्रिदिवौकसाम् ॥ १ ॥

यः पठेत्पाठयेद्वापि श‍ृणुयाच्छ्रावयेदपि ।
दिवा रात्रौ च सन्ध्यायां प्रभाते च सदा पुमान् ॥ २ ॥

गोगजाश्वरथैः पूर्णं गेहं तस्य भविष्यति ।
दासी दासजनैः पूर्णं पुत्रपौत्रसमाकुलम् ॥ ३ ॥

श्रेयस्करं सदा देवी साधकानां यशस्करम् ।
पठेन्नामसहस्रं तु निशीथे साधकोत्तमः ॥ ४ ॥

सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ।
पापरोगादिदुष्टानां सञ्जीवनिफलप्रदम् ॥ ५ ॥

यः पठेद्भक्तियुक्तस्तु मुक्तकेशो दिगम्बरः ।
सर्वागमे सः पूज्यः स्यात्सविष्णुः समहेश्वरः ॥ ६ ॥

बृहस्पतिसमो वाचि नीत्या शङ्करसन्निभः ।
गत्या पवनसङ्काशो मत्या शुक्रसमोऽपि च ।
तेजसा दिव्यसङ्काशो रूपेण मकरध्वजः ॥ ७ ॥

ज्ञानेन च शुको देवि चायुषा भृगुनन्दनः ।
साक्षात् स परमेशानि प्रभुत्वेन सुराधिपः ॥ ८ ॥

विद्याधिषणया कीर्त्या रामो रामो बलेन च ।
स दीर्घायुः सुखी पुत्री विजयी विभवी विभुः ॥ ९ ॥

नान्यचिन्ता प्रकर्तव्या नान्यचिन्ता कदाचन ॥ १० ॥

वातस्तम्भं जलस्तम्भं चौरस्तम्भं महेश्वरि ।
वह्निशैत्यं करोत्येव पठनं चास्य सुन्दरि ॥ ११ ॥

स्तम्भयेदपि ब्रह्माणं मोहयदपि शङ्करम् ।
वश्ययेदपि राजानं शमयेद्धव्यवाहनम् ॥ १२ ॥

आकर्षयेद्देवकन्यां उच्चाटयति वैरिणम् ।
मारयेदपकीर्तिं च संवश्येच्च चतुर्भुजम् ॥ १३ ॥

किं किं न साधयेदेवं मन्त्रनामसहस्रकम् ।
शरत्काले निशीथे च भौमे शक्तिसमन्वितः ॥ १४ ॥

पठेन्नामसहस्रं च साधकः किं न साधयेत् ।
अष्टम्यामाश्वमासे तु मध्याह्ने मूर्तिसन्निधौ ॥ १५ ॥

पठेन्नामसहस्रं तु मुक्तकेशो दिगम्बरः ।
सुदर्शनो भवेदाशु साधकःपर्वतात्मजे ॥ १६ ॥

अष्टम्यां सर्वरात्रं तु कुङ्कुमेन च चन्दनैः ।
रक्तचन्दनयुक्तेन कस्तूर्या चापि पावकैः ॥ १७ ॥

मृगनाभिर्मनःशिलाकल्कयुक्तेनवारिणा ।
लिखेद्भूर्जे जपेन्मन्त्रं साधको भक्तिपूर्वकम् ॥ १८ ॥

धारयेन्मूर्ध्नि वा बाहौ योषिद्वामकरे शिवे ।
रणे रिपून्विजित्याशु मातङ्गानिव केसरी ॥ १९ ॥

स्वगृहं क्षणमायाति कल्याणि साधकोत्तमः ।
वन्ध्या वामभुजे धृत्वा चतुर्थेऽहनि पार्वति ॥ २० ॥

अमायां रविवारे यः पठेत्प्रेतालये तथा ।
त्रिवारं साधको देवि भवेत् स तु कवीश्वरः ॥ २१ ॥

सङ्क्रान्तौ ग्रहणे वापि पठेन्मन्त्रं नदीतटे ।
स भवेत्सर्वशास्त्रज्ञो वेदवेदाङ्गतत्त्ववित् ॥ २२ ॥

शारदाया इदं नाम्नां सहस्रं मन्त्रगर्भकम् ।
गोप्यं गुह्यं सदा गोप्यं सर्वधर्मैकसाधनम् ॥ २३ ॥

मन्त्रकोटिमयं दिव्यं तेजोरूपं परात्परम् ।
अष्टम्यां च नवम्यां च चतुर्दश्यां दिने दिने ॥ २४ ॥

सङ्क्रान्ते मङ्गलौ रात्र्यां योऽर्चयेच्छारदां सुधीः ।
त्रयस्त्रिंशत्सुकोटीनां देवानां तु महेश्वरि ॥ २५ ॥

ईश्वरी शारदा तस्य मातेव हितकारिणी ।
यो जपेत्पठते नाम्नां सहस्रं मनसा शिवे ॥ २६ ॥

स भवेच्छारदापुत्रः साक्षाद्भैरवसन्निभः ।
इदं नाम्नां सहस्रं तु कथितं हितकाम्यया ॥ २७ ॥

अस्य प्रभावमतुलं जन्मजन्मान्तरेष्वपि ।
न शक्यते मयाऽऽख्यातुं कोटिशो वदनैरपि ॥ २८ ॥

अदातव्यमिदं देवि दुष्टानामतिभाषिणाम् ।
अकुलीनाय दुष्टाय दीक्षाहीनाय सुन्दरि ॥ २९ ॥

अवक्तव्यमश्रोतव्यमिदं नामसहस्रकम् ।
अभक्तेभ्योऽपि पुत्रेभ्यो न दातव्यं कदाचन ॥ ३० ॥

शान्ताय गुरुभक्ताय कुलीनाय महेश्वरि ।
स्वशिष्याय प्रदातव्यं इत्याज्ञा परमेश्वरि ॥ ३१ ॥

इदं रहस्यं परमं देवि भक्त्या मयोदितम् ।
गोप्यं रहस्यं च गोप्तव्यं गोपनीयं स्वयोनिवत् ॥ ३२ ॥

॥ इति श्रीरुद्रयामलतन्त्रे पार्वतीपरमेश्वरसंवादे
श्रीशारदासहस्रनामस्तवराजः सम्पूर्णः ॥

Also Read 1000 Names of Shri Sharada:

1000 Names of Shakini SadaShiva Stavana Mangala | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Sharada | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top