Templesinindiainfo

Best Spiritual Website

108 Names of Shri Viththala | Ashtottara Shatanamavali Lyrics in Hindi

Shree Vitthala Ashtottarashata Namavali Lyrics in Hindi:

॥ श्रीविठ्ठलाष्टोत्तरशतनामावलिः ॥

ॐ क्लीम् । विठ्ठलाय नमः । पुण्डरीकाक्षाय । पुण्डरीकनिभेक्षणाय ।
पुण्डरीकाश्रमपदाय । पुण्डरीकजलाप्लुताय । पुण्डरीकक्षेत्रवासाय ।
पुण्डरीकवरप्रदाय । शारदाधिष्ठितद्वाराय । शारदेन्दुनिभाननाय ।
नारदाधिष्ठितद्वाराय । नारदेशप्रपूजिताय । भुवनाधीश्वरीद्वाराय ।
भुवनाधीश्वरीश्वराय । दुर्गाश्रितोत्तरद्वाराय ।
दुर्गमागमसंवृताय । क्षुल्लपेशीपिनद्धोरुगोपेष्ट्याश्लिष्टजानुकाय ।
कटिस्थितकरद्वन्द्वाय । वरदाभयमुद्रिताय । त्रेतातोरणपालस्थ-
त्रिविक्रमाय । तितऊक्षेत्रपाय नमः ॥ २० ॥

अश्वत्थकोटीश्वरवरप्रदाय नमः । करवीरस्थाय नारीनारायणाय ।
नीरासङ्गमसंस्थाय । सैकतप्रतिमार्चिताय । वेणुनादेन देवानां
मनः श्रवणमङ्गलाय । देवकन्याकोटिकोटिनीराजितपदाम्बुजाय ।
पद्मतीर्थस्थिताश्वत्थाय । नराय । नारायणाय
महते । चन्द्रभागासरोनीरकेलिलोलदिगम्बराय ।
ससध्रीचीत्सविषूचीरितिश्रुत्यर्थरूपधृषे ।
ज्योतिर्मयक्षेत्रवासिने । सर्वोत्कृष्टत्रयात्मकाय ।
स्वकुण्डलप्रतिष्ठात्रे । पञ्चायुधजलप्रियाय ।
क्षेत्रपालाग्रपूजार्थिने । पार्वतीपूजिताय । चतुर्मुखस्तुताय ।
जगन्मोहनरूपधृषे विष्णवे नमः ॥ ४० ॥

मन्त्राक्षरावली हृत्स्थकौस्तुभोरःस्थलप्रियाय नमः ।
स्वमन्त्रोज्जीवितजनाय । सर्वकीर्तनवल्लभाय । वासुदेवाय ।
दयासिन्धवे । गोगोपीपरिवारिताय । युधिष्ठिरहतारातये ।
मुक्तकेशिने । वरप्रदाय । बलदेवोपदेष्ट्रे । रुक्मिणीपुत्रनायकाय ।
गुरुपुत्रप्रदाय । नित्यमहिम्ने । भक्तवत्सलाय । भक्तारिघ्ने ।
महादेवाय । भक्ताभिलषितप्रदाय । सव्यसाचिने । ब्रह्मविद्यागुरवे ।
मोहापहारकाय नमः ॥ ६० ॥

भीमामार्गप्रदात्रे नमः । भीमसेनमतानुगाय । गन्धर्वानुग्रहकराय ।
अपराधसहाय हरये । स्वप्नदर्शिने । स्वप्नदृश्याय ।
भक्तदुःस्वप्नशान्तिकृते । आपत्कालानुपेक्षिणे । अनपेक्षाय ।
जनैरपेक्षिताय । सत्योपयाचनाय । सत्यसन्धाय । सत्याभितारकाय ।
सत्याजानये । रमाजानये । राधाजानये । रथाङ्गभाजे । सिञ्चनाय ।
गोपैः क्रीडनाय । दधिदुग्धापहारकाय नमः ॥ ८० ॥

बोधन्युत्सवयुक्तीर्थाय नमः । शयन्युत्सव-
भूमिभागे । मार्गशीर्षोत्सवाक्रान्तवेणुनादपदाङ्कभुवे ।
दध्यन्नव्यञ्जनाभोक्त्रे । दधिभुजे । कामपूरकाय । बिलान्तर्धानसत्केलि-
लोलुपाय । गोपवल्लभाय । सखिनेत्रे पिधायाशु कोऽहं
पृच्छाविशारदाय । समासमप्रश्नपूर्वमुष्टिमुष्टिप्रदर्शकाय ।
कुटिलीलासु कुशलाय । कुटिलालकमण्डिताय । सारीलीलानुसारिणे ।
सदा वाहक्रीडापराय । कार्णाटकीरतिरताय । मङ्गलोपवनस्थिताय ।
माध्याह्नतीर्थपूरेक्षाविस्मायितजगत्त्रयाय । निवारितक्षेत्रविघ्नाय ।
दुष्टदुर्बुद्धिभञ्जनाय ।
वालुकावृक्षपाषाणपशुपक्षिप्रतिष्ठिताय नमः ।
आशुतोषाय नमः । भक्तवशाय । पाण्डुरङ्गाय । सुपावनाय । पुण्यकीर्तये ।
परस्मै ब्रह्मणे । ब्रह्मण्याय । कृष्णाय नमः ॥ १०८ ॥

इति श्रीपद्मपुराणान्तर्गता श्रीविठ्ठलाष्टोत्तरशतनामावलिः समाप्ता ।

Also Read 108 Names of Shree Vitthala:

108 Names of Shri Viththala | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shri Viththala | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top