Templesinindiainfo

Best Spiritual Website

Abhayankaram Shivarakshaastotram Lyrics in Marathi

Abhayankaram Shiva Rakshaa Stotram in Marathi:

॥ अभयङ्करं शिवरक्षास्तोत्रम ॥
अभयङ्करं शिवरक्षास्तोत्रम ।

अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः,
श्रीसदाशिवो देवता, अनुष्टुप छन्दः,
श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥

चरितं देवदेवस्य महादेवस्य पावनम ।
अपारं परमोदारं चतुर्वर्गस्य साधनम ॥ 1 ॥

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम ।
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ 2 ॥

गङ्गाधरः शिरः पातु भालमर्धेन्दुशेखरः ।
नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥ 3 ॥

घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरः पातु कन्धरां शितिकन्धरः ॥ 4 ॥

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक ॥ 5 ॥

हृदयं शङ्करः पातु जठरं गिरिजापतिः ।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥ 6 ॥

सक्थिनी पातु दीनार्तशरणागतवत्सलः ।
ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ 7 ॥

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ।
चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ॥ 8 ॥

एतां शिवबलोपेतां रक्षां यः सुकृती पठेत ।
स भुक्त्वा सकलान्कामान शिवसायुज्यमाप्नुयात ॥ 9 ॥

ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिव नामाभिरक्षणात ॥ 10 ॥

अभयङ्करनामेदं कवचं पार्वतीपतेः ।
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्रयम ॥ 11 ॥

इमां नारायणः स्वप्ने शिवरक्षां यथादिशत ।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथाऽलिखत ॥ 12 ॥

इति श्रीयाज्ञवल्क्यप्रोक्तमभयङ्करं शिवरक्षास्तोत्रं संपूर्णम ॥

Also Read:

Abhayankaram Shivarakshaastotram lyrics in Marathi | GujaratiBengali | Kannada | Malayalam | Telugu

Abhayankaram Shivarakshaastotram Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top