Templesinindiainfo

Best Spiritual Website

Ardhanarishvari Ashtottarashatanama Stotram Lyrics in Hindi

Shri Ardhanarishvara Ashtottara Shatanamavali in Hindi:

 ॥ अर्धनारीश्वर्यष्टोत्तरशतनामस्तोत्रम् ॥ 
चामुण्डिकाम्बा श्रीकण्ठः पार्वती परमेश्वरः ।
महाराज्ञीमहादेवस्सदाराध्या सदाशिवः ॥ १ ॥

शिवार्धाङ्गी शिवार्धाङ्गो भैरवी कालभैरवः ।
शक्तित्रितयरूपाढ्या मूर्तित्रितयरूपवान् ॥ २ ॥

कामकोटिसुपीठस्था काशीक्षेत्रसमाश्रयः ।
दाक्षायणी दक्षवैरी शूलिनि शूलधारकः ॥ ३ ॥

ह्रीङ्कारपञ्जरशुकी हरिशङ्कररूपवान् ।
श्रीमदग्नेशजननी षडाननसुजन्मभूः ॥ ४ ॥

पञ्चप्रेतासनारूढा पञ्चब्रह्मस्वरूपभ्रृत् ।
चण्डमुण्डशिरश्छेत्री जलन्धरशिरोहरः ॥ ५ ॥

सिंहवाहा वृषारूढः श्यामाभा स्फटिकप्रभः ।
महिषासुरसंहर्त्री गजासुरविमर्दनः ॥ ६ ॥

महाबलाचलावासा महाकैलासवासभूः ।
भद्रकाली वीरभद्रो मीनाक्षी सुन्दरेश्वरः ॥ ७ ॥

भण्डासुरादिसंहर्त्री दुष्टान्धकविमर्दनः ।
मधुकैटभसंहर्त्री मधुरापुरनायकः ॥ ८ ॥

कालत्रयस्वरूपाढ्या कार्यत्रयविधायकः ।
गिरिजाता गिरीशश्च वैष्णवी विष्णुवल्लभः ॥ ९ ॥

विशालाक्षी विश्वनाधः पुष्पास्त्रा विष्णुमार्गणः ।
कौसुम्भवसनोपेता व्याघ्रचर्माम्बरावृतः ॥ १० ॥

मूलप्रकृतिरूपाढ्या परब्रह्मस्वरूपवान् ।
रुण्डमालाविभूषाढ्या लसद्रुद्राक्षमालिकः ॥ ११ ॥

मनोरूपेक्षुकोदण्ड महामेरुधनुर्धरः ।
चन्द्रचूडा चन्द्रमौलिर्महामाया महेश्वरः ॥ १२ ॥

महाकाली महाकालो दिव्यरूपा दिगम्बरः ।
बिन्दुपीठसुखासीना श्रीमदोङ्कारपीठगः ॥ १३ ॥

हरिद्राकुङ्कुमालिप्ता भस्मोद्धूलितविग्रहः ।
महापद्माटवीलोला महाबिल्वाटवीप्रियः ॥ १४ ॥

सुधामयी विषधरो मातङ्गी मुकुटेश्वरः ।
वेदवेद्या वेदवाजी चक्रेशी विष्णुचक्रदः ॥ १५ ॥

जगन्मयी जगद्रूपो मृडानी मृत्युनाशनः ।
रामार्चितपदाम्भोजा कृष्णपुत्रवरप्रदः ॥ १६ ॥

रमावाणीसुसंसेव्या विष्णुब्रह्मसुसेवितः ।
सूर्यचन्द्राग्निनयना तेजस्त्रयविलोचनः ॥ १७ ॥

चिदग्निकुण्डसम्भूता महालिङ्गसमुद्भवः ।
कम्बुकण्ठी कालकण्ठी वज्रेशी वज्रपूजितः ॥ १८ ॥

त्रिकण्टकी त्रिभङ्गीशः भस्मरक्षा स्मरान्तकः ।
हयग्रीववरोद्धात्री मार्कण्डेयवरप्रदः ॥ १९ ॥

चिन्तामणिगृहावासा मन्दराचलमन्दिरः ।
विन्ध्याचलकृतावासा विन्ध्यशैलार्यपूजितः ॥ २० ॥

मनोन्मनी लिङ्गरूपो जगदम्बा जगत्पिता ।
योगनिद्रा योगगम्यो भवानी भवमूर्तिमान् ॥ २१ ॥

श्रीचक्रात्मरथारूढा धरणीधरसंस्थितः
श्रीविद्यावेद्यमहिमा निगमागमसंश्रयः ॥ २२ ॥

दशशीर्षसमायुक्ता पञ्चविंशतिशीर्षवान् ।
अष्टादशभुजायुक्ता पञ्चाशत्करमण्डितः ॥ २३ ॥

ब्राह्म्यादिमातृकारूपा शताष्टेकादशात्मवान् ।
स्थिरा स्थाणुस्तथा बाला सद्योजात उमा मृडः ॥ २४ ॥

शिवा शिवश्च रुद्राणी रुद्रश्छैवेश्वरीश्वरः ।
कदम्बकाननावासा दारुकारण्यलोलुपः ॥ २५ ॥

नवाक्षरीमनुस्तुत्या पञ्चाक्षरमनुप्रियः ।
नवावरणसम्पूज्या पञ्चायतनपूजितः ॥ २६ ॥

देहस्थषट्चक्रदेवी दहराकाशमध्यगः ।
योगिनीगणसंसेव्या भृङ्ग्यादिप्रमथावृतः ॥ २७ ॥

उग्रतारा घोररूपश्शर्वाणी शर्वमूर्तिमान् ।
नागवेणी नागभूषो मन्त्रिणी मन्त्रदैवतः ॥ २८ ॥

ज्वलज्जिह्वा ज्वलन्नेत्रो दण्डनाथा दृगायुधः ।
पार्थाञ्जनास्त्रसन्दात्री पार्थपाशुपतास्त्रदः ॥ २९ ॥

पुष्पवच्चक्रताटङ्का फणिराजसुकुण्डलः ।
बाणपुत्रीवरोद्धात्री बाणासुरवरप्रदः ॥ ३० ॥

व्यालकञ्चुकसंवीता व्यालयज्ञोपवीतवान् ।
नवलावण्यरूपाढ्या नवयौवनविग्रहः ॥ ३१ ॥

नाट्यप्रिया नाट्यमूर्तिस्त्रिसन्ध्या त्रिपुरान्तकः ।
तन्त्रोपचारसुप्रीता तन्त्रादिमविधायकः ॥ ३२ ॥

नववल्लीष्टवरदा नववीरसुजन्मभूः ।
भ्रमरज्या वासुकिज्यो भेरुण्डा भीमपूजितः ॥ ३३ ॥

निशुम्भशुम्भदमनी नीचापस्मारमर्दनः ।
सहस्राम्बुजारूढा सहस्रकमलार्चितः ॥ ३४ ॥

गङ्गासहोदरी गङ्गाधरो गौरी त्रयम्बकः ।
श्रीशैलभ्रमराम्बाख्या मल्लिकार्जुनपूजितः ॥ ३५ ॥

भवतापप्रशमनी भवरोगनिवारकः ।
चन्द्रमण्डलमध्यस्था मुनिमानसहंसकः ॥ ३६ ॥

प्रत्यङ्गिरा प्रसन्नात्मा कामेशी कामरूपवान् ।
स्वयम्प्रभा स्वप्रकाशः कालरात्री कृतान्तहृत् ॥ ३७ ॥

सदान्नपूर्णा भिक्षाटो वनदुर्गा वसुप्रदः ।
सर्वचैतन्यरूपाढ्या सच्चिदानन्दविग्रहः ॥ ३८ ॥

सर्वमङ्गलरूपाढ्या सर्वकल्याणदायकः ।
राजेराजेश्वरी श्रीमद्राजराजप्रियङ्करः ॥ ३९ ॥

अर्धनारीश्वरस्येदं नाम्नामष्टोत्तरं शतम् ।
पठन्नर्चन्सदा भक्त्या सर्वसाम्राज्यमाप्नुयात् ॥ ४० ॥

इति स्कान्दमहापुराणे अर्धनीरीश्वर्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

Also Read:

Ardhanarishvara Ashtottara Shatanama Stotram Lyrics in Hindi | English | Marathi | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Ardhanarishvari Ashtottarashatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top