108 Names of Panchakshara Mantra Garbha Stotram Lyrics in Hindi | Sri Krishna Slokam
Panchakshara Mantra Garbha Stotram in Hindi: ॥ श्री पञ्चाक्षरमन्त्रगर्भ स्तोत्रम् ॥ दुष्टतमोऽपि दयारहितोऽपि विधर्मविशेषकृतिप्रथितोऽपि । दुर्जनसङ्गरतोऽप्यवरोऽपि कृष्ण तवाऽस्मि न चास्मि परस्य ॥ १ ॥ लोभरतोऽप्यभिमानयुतोऽपि परहितकारणकृत्यकरोऽपि । क्रोधपरोऽप्यविवेकहतोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ २ ॥ काममयोऽपि गताश्रयणोऽपि पराश्रयणाशयचञ्चलितोऽपि । वैषयिकादरसंवलितोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ ३ ॥ उत्तमधैर्यविभिन्नतरोऽपि निजोदरपोषणहेतुपरोऽपि । स्वीकृतमत्सरमोहमदोऽपि कृष्ण तवाऽस्मि […]