Brahmadi Deva Krita Mahadeva Stuti Lyrics in Sanskrit
Brahmadi Deva Krita Mahadeva Stuti in Sanskrit: ॥ श्री महादेव स्तुतिः (ब्रह्मादिदेव कृतम्) ॥ देवा ऊचुः – नमो भवाय शर्वाय रुद्राय वरदाय च । पशूनां पतये नित्यमुग्राय च कपर्दिने ॥ १ ॥ महादेवाय भीमाय त्र्यम्बकाय विशाम्पते । ईश्वराय भगघ्नाय नमस्त्वन्धकघातिने ॥ २ ॥ नीलग्रीवाय भीमाय वेधसां पतये नमः । कुमारशत्रुविघ्नाय कुमारजननाय च ॥ ३ ॥ […]