Templesinindiainfo

Best Spiritual Website

Ribhu Gita from Shiva Rahasya Lyrics in Hindi

Ribhu Gita from Shiva Rahasya in Hindi:

॥ श्रीशिवरहस्यान्तर्गता ऋभुगीता ॥

१ ॥ प्रथमोऽध्यायः ॥

हेमाद्रिं किल मातुलुङ्गफलमित्यादाय मोदाधिको
मौढ्यान्नाकनिवासिनां भयपरैर्वाक्यैरिव प्रार्थितः ।
नीलीशाम्बरनीलमम्बरतलं जम्बूफलं भावयन्
तं मुञ्चन् गिरिमम्बरं परिमृशन् लम्बोदरः पातु माम् ॥ १.१ ॥

वामं यस्य वपुः समस्तजगतां माता पिता चेतरत्
यत्पादाम्बुजनूपुरोद्भवरवः शब्दार्थवाक्यास्पदम् ।
यन्नेत्रत्रितयं समस्तजगतामालोकहेतुः सदा
पायाद्दैवतसार्वभौमगिरिजालङ्कारमूर्तिः शिवः ॥ १.२ ॥

सूतः –
जैगीषव्यः पुनर्नत्वा षण्मुखं शिवसंभवम् ।
पप्रच्छ हृष्टस्तं तत्र मुनिभिर्गणपुङ्गवैः ॥ १.३ ॥

जैगीषव्यः –
करुणाकर सर्वज्ञ शरणागतपालक ।
अरुणाधिपनेत्राब्ज चरणस्मरणोन्मुख ॥ १.४ ॥

करुणावरुणाम्भोधे तरणिद्युतिभास्कर ।
दिव्यद्वादशलिङ्गानां महिमा संश्रुतो मया ॥ १.५ ॥

त्वत्तोऽन्यत् श्रोतुमिच्छामि शिवाख्यानमनुत्तमम् ।
त्वद्वाक्यकञ्जपीयूषधाराभिः पावयाशु माम् ॥ १.६ ॥

सूतः –
इति तस्य गिरा तुष्टः षण्मुखः प्राह तं मुनिम् ॥ १.७ ॥

श्रीषण्मुखः –
श‍ृणु त्वमगजाकान्तेनोक्तं ज्ञानमहार्णवम् ।
ऋभवे यत्पुरा प्राह कैलासे शङ्करः स्वयम् ॥ १.८ ॥

ब्रह्मसूनुः पुरा विप्रो गत्वा नत्वा महेश्वरम् ।
ऋभुर्विभुं तदा शंभुं तुष्टाव प्रणतो मुदा ॥ १.९ ॥

ऋभुः –
दिवामणिनिशापतिस्फुटकृपीटयोनिस्फुर-
ल्ललाटभसितोल्लसद्वरत्रिपुण्ड्रभागोज्वलम् ।var was त्रिपुण्ट्र
भजामि भुजगाङ्गदं विधृतसामिसोमप्रभा-
विराजितकपर्दकं करटिकृत्तिभूष्यत्कटिम् ॥ १.१० ॥

फालाक्षाध्वरदक्षशिक्षकवलक्षोक्षेशवाहोत्तम-
त्र्यक्षाक्षय्य फलप्रदावभसितालङ्काररुद्राक्षधृक् ।
चक्षुःश्रोत्रवराङ्गहारसुमहावक्षःस्थलाध्यक्ष मां
भक्ष्यीभूतगरप्रभक्ष भगवन् भिक्ष्वर्च्यपादाम्बुज ॥ १.११ ॥

गङ्गाचन्द्रकलाललाम भगवन् भूभृत्कुमारीसख
स्वामिंस्ते पदपद्मभावमतुलं कष्टापहं देहि मे ।
तुष्टोऽहं शिपिविष्टहृष्टमनसा भ्रष्टान्न मन्ये हरि-
ब्रह्मेन्द्रानमरान् त्रिविष्टपगतान् निष्ठा हि मे तादृशी ॥ १.१२ ॥

नृत्ताडंबरसज्जटापटलिकाभ्राम्यन्महोडुच्छटा
त्रुट्यत्सोमकलाललामकलिका शम्याकमौलीनतम् ।
उग्रानुग्रभवोग्रदुर्गजगदुद्धाराग्रपादाम्बुजं
रक्षोवक्षकुठारभूतमुमया वीक्षे सुकामप्रदम् ॥ १.१३ ॥

फालं मे भसितत्रिपुण्ड्ररचितं त्वत्पादपद्मानतं ??
पाहीशान दयानिधान भगवन् फालानलाक्ष प्रभो ।
कण्ठो मे शितिकण्ठनाम भवतो रुद्राक्षधृक् पाहि मां
कर्णौ मे भुजगाधिपोरुसुमहाकर्ण प्रभो पाहि माम् ॥ १.१४ ॥

नित्यं शङ्करनामबोधितकथासारादरं शङ्करं
वाचं रुद्रजपादरां सुमहतीं पञ्चाक्षरीमिन्दुधृक् ।
बाहू मे शशिभूषणोत्तम महालिङ्गार्चनायोद्यतौ
पाहि प्रेमरसार्द्रयाऽद्य सुदृशा शम्भो हिरण्यप्रभ ॥ १.१५ ॥

भास्वद्बाहुचतुष्टयोज्ज्वल सदा नेत्रे त्रिनेत्रे प्रभो
त्वल्लिङ्गोत्तमदर्शनेन सुतरां तृप्तैः सदा पाहि मे ।
पादौ मे हरिनेत्रपूजितपदद्वन्द्वाव नित्यं प्रभो
त्वल्लिङ्गालयप्रक्रमप्रणतिभिर्मान्यौ च धन्यौ विभो ॥ १.१६ ॥

धन्यस्त्वल्लिङ्गसङ्गेप्यनुदिनगलितानङ्गसङ्गान्तरङ्गः
पुंसामर्थैकशक्त्या यमनियमवरैर्विश्ववन्द्य प्रभो यः ।
दत्वा बिल्वदलं सदम्बुजवरं किञ्चिज्जलं वा मुहुः
प्राप्नोतीश्वरपादपङ्कजमुमानाथाद्य मुक्तिप्रदम् ॥ १.१७ ॥

उमारमण शङ्कर त्रिदशवन्द्य वेदेड्य हृत्
त्वदीयपरभावतो मम सदैव निर्वाणकृत् ।
भवार्णवनिवासिनां किमु भवत्पदाम्भोरुह-
प्रभावभजनादरं भवति मानसं मुक्तिदम् ॥ १.१८ ॥

संसारार्गलपादबद्धजनतासंमोचनं भर्ग ते
पादद्वन्द्वमुमासनाथ भजतां संसारसंभर्जकम् ।
त्वन्नामोत्तमगर्जनादघकुलं सन्तर्जितं वै भवेद्
दुःखानां परिमार्जकं तवकृपावीक्षावतां जायते ॥ १.१९ ॥

विधिमुण्डकरोत्तमोरुमेरुकोदण्डखण्डितपुराण्डजवाहबाण
पाहि क्षमारथविकर्षसुवेदवाजिहेषान्तहर्षितपदाम्बुज विश्वनाथ ॥ १.२० ॥

विभूतीनामन्तो न हि खलु भवानीरमण ते
भवे भावं कश्चित् त्वयि भवह भाग्येन लभते ।
अभावं चाज्ञानं भवति जननाद्यैश्च रहितः
उमाकान्त स्वान्ते भवदभयपादं कलयतः ॥ १.२१ ॥

वरं शंभो भावैर्भवभजनभावेन नितरां
भवाम्भोधिर्नित्यं भवति विततः पांसुबहुलः ।
विमुक्तिं भुक्तिं च श्रुतिकथितभस्माक्षवरधृक्
भवे भर्तुः सर्वो भवति च सदानन्दमधुरः ॥ १.२२ ॥

सोमसामजसुकृत्तिमौलिधृक् सामसीमशिरसि स्तुतपाद ।
सामिकायगिरिजेश्वर शम्भो पाहि मामखिलदुःखसमूहात् ॥ १.२३ ॥

भस्माङ्गराग भुजगाङ्ग महोक्षसङ्ग
गङ्गाम्बुसङ्ग सुजटा निटिल स्फुलिङ्ग ।
लिङ्गाङ्ग भङ्गितमनङ्ग विहङ्गवाह-
सम्पूज्यपाद सदसङ्ग जनान्तरङ्ग ॥ १.२४ ॥

वात्सल्यं मयि तादृशं तवनचेच्चन्द्रार्ध चूडामणे
धिक्कृत्यापि विमुच्य वा त्वयि यतो धन्यो धरण्यामहम् ।
सक्षारं लवणार्णवस्य सलिलं धारा धरेण क्षणात्
आदायोज्झितमाक्षितौ हि जगतां आस्वादनीयां दृशाम् ॥ १.२५ ॥

त्वत् कैलासवरे विशोकहृदयाः क्रोधोज्झिताच्चाण्डजाः
तस्मान्मामपि भेदबुद्धिरहितं कुर्वीश तेऽनुग्रहात् ।
त्वद्वक्त्रामल निर्जरोज्झित महासंसार संतापहं
विज्ञानं करुणाऽदिशाद्य भगवन् लोकावनाय प्रभो ॥ १.२६ ॥

सारङ्गी सिंहशाबं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं
मार्जारी हंसबालं प्रणयपरवशा केकिकान्ता भुजङ्गम् ।
वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्ति
भक्तास्त्वत्पादपद्मे किमु भजनवतः सर्वसिद्धिं लभन्ते ॥ १.२७ ॥

स्कन्दः –
इत्थं ऋभुस्तुतिमुमावरजानिरीशः
श्रुत्वा तमाह गणनाथवरो महेशः ।
ज्ञानं भवामयविनाशकरं तदेव
तस्मै तदेव कथये श‍ृणु पाशमुक्त्यै ॥ १.२८ ॥

॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे
ऋभुस्तुतिर्नाम प्रथमोऽध्यायः ॥

२ ॥ द्वितीयोऽध्यायः ॥

ईश्वरः –
श्रुणु पद्मजसंभूत मत्तः सूत्रविधिक्रमम् ।
ज्ञानोत्पादकहेतूनि श्रुतिसाराणि तत्त्वतः ॥ २.१ ॥

व्यासा मन्वन्तरेषु प्रतियुगजनिताः शांभवज्ञानसिद्ध्यै
भस्माभ्यक्तसमस्तगात्रनिवहा रुद्राक्षमालाधराः ।
कैलासं समवाप्य शङ्करपदध्यानेन सूत्राण्युमा-
कान्तात् प्राप्य वितन्वते स्वकधिया प्रामाण्यवादानहो ॥ २.२ ॥

जिज्ञास्यं ब्रह्म एवेत्यथपदविदितैः साधनप्राप्त्युपायै-
र्योगैर्योगाद्युपायैर्यमनियममहासांख्यवेदान्तवाक्यैः ।
श्रोतव्यो भगवान् न रूपगुणतो मन्तव्य इत्याह हि
वेदोद्बोधदवाक्यहेतुकरणैर्ध्येयः स साक्षात्कृतेः ॥ २.३ ॥

जन्माद्यस्य यतोऽस्य चित्रजगतो मिथ्यैव तत्कारणं
ब्रह्म ब्रह्मात्मनैव प्रकृतिपरमदो वर्तमानं विवर्तेत् ।
श्रुत्या युक्त्या यतो वा इतिपदघटितो बोधतो वक्ति शंभुं
नाणुः कालविपाककर्मजनितेत्याचोदना वै मृषा ॥ २.४ ॥

योनिः शास्त्रस्य वेदस्तदुभयमननाद्ब्रह्मणः प्रत्यभिज्ञा
निःश्वासाद्वेदजालं शिववरवदनाद्वेधसा प्राप्तमेतत् ।
तस्मात् तर्कवितर्ककर्कशधिया नातिक्रमेत् तां धियं
स्वाम्नायक्रियया तदप्रकरणे योनिर्महेशो ध्रुवम् ॥ २.५ ॥

तत्त्वस्यापि समन्वयात् श्रुतिगिरां विश्वेश्वरे चोदना
सा चानिर्वचनीयतामुपगता वाचो निवृत्ता इति ।
आत्मैवैष इतीव वाक्यसुवृतिर्वृत्तिं विधत्ते धिया
वेदान्तादिषु एक एव भगवानुक्तो महेशो ध्रुवम् ॥ २.६ ॥

नासद्वा वीक्षते यज्जडमिति करणैर्गन्धरूपादिहीनं
शब्दस्पर्शादिहीनं जगदनुगतमपि तद्ब्रह्म किंरूपमीष्टे ।
गौणं चेदपि शब्दतो जगदिदं यन्नामरूपात्मकं
तच्चात्राविशदीश्वरोऽर्थवचसा मोक्षस्य निष्ठाक्रमः ॥ २.७ ॥

हेयत्वावचनाच्च तच्छ्रुतिगिरां स्थूलं प्रदृष्टं भवे-
द्रूपं नारूपतोऽपि प्रकरणवचनं वा विकारः किलेदम् ।
स्वाप्यायादपि तद्वदापि परमानन्दो यदीत्थं परः
सामान्याच्च गतेरथाप्यनुभवे विद्योतते शङ्करः ॥ २.८ ॥

श्रुतत्वाद्वेदान्तप्रतिपदवचः कारणमुमा-
सनाथो नाथानां स च किल न कश्चिज्जनिभवः ।
स एवानन्दात्मा श्रुतिकथितकोशादिरहितो
विकारप्राचुर्यान्न हि भवति कार्यं च करणम् ॥ २.९ ॥

तद्धेतुव्यपदेशतोऽपि शिव एवेति चानन्दकृत्
मन्त्रैर्वर्णकृतक्रमेण भगवान् सत्याद्यनन्तोच्यते ।
नैरन्तर्यानुपपत्तितोऽपि सुखिता चानन्दभेदोऽर्थतः
कामाच्चाननुभावतो हृदि भिदा जायेद्भयं संसृतेः ॥ २.१० ॥

पुच्छं ब्रह्म प्रतिष्ठितेति वचनाच्छेषी महेशोऽव्ययः ।
आकाशान्तरतोऽपि भौतिकहृदाकाशात्मता वाक्यतो
ब्रह्मैव प्रतिभाति भेदकलने चाकल्पना कल्पतः ॥ २.११ ॥

सुषुप्त्युत्क्रान्त्योर्वा न हि खलु न भेदः परशिवे
अतोत्थानं द्वैते न भवति परे वै विलयने ।
तदर्हं यत्सूक्ष्मं जगदिदमनाकारमरसं
न गन्धं न स्पर्शं भवति परमेशे विलसितम् ॥ २.१२ ॥

अधीनं चार्थं तद्भवति पुनरेवेक्षणपरं
स्वतन्त्रेच्छा शंभोर्न खलु करणं कार्यमपि न ॥ २.१३ ॥

ज्ञेयत्वावचनाच्च शङ्कर परानन्दे प्रमोदास्पदे
प्रज्ञानं न हि कारणं प्रकृतिकं प्रश्नत्रयस्यार्थवत् ।
न विज्ञेयं देहप्रविलयशतोत्थानगणना
स मृत्योर्मृत्युस्तद्भवति किल भेदेन जगतः ॥ २.१४ ॥

महद्वच्चाणीयो भवति च समो लोकसदृशा
तथा ज्योतिस्त्वेकं प्रकरणपरं कल्पितवतः ।
न संख्याभेदेन त्रिभुवनविभवादतिकरं
स्वभावोऽयं शश्वन्मुखरयति मोदाय जगताम् ॥ २.१५ ॥

प्राणादुद्गतपञ्चसंख्यजनिता तद्वस्त्रिवच्च श्रुतं
तच्छ्रोत्रं मनसो न सिद्धपरमानन्दैकजन्यं महः ।
ज्योतिष्कारणदर्शिते च करणे सत्ता सदित्यन्वहं
चाकर्षा भवति प्रकर्षजनिते त्वत्तीति वाक्योत्तरम् ॥ २.१६ ॥

जाग्रत्त्वावचनेन जीवजगतोर्भेदः कथं कथ्यते
लिङ्गं प्राणगतं न चेश्वरपरं ज्योतिः किलैक्यप्रदम् ।
अन्यार्थत्वविवेकतोऽर्थगतिकं चाकल्पयद्वाक्यतः ।
प्रज्ञामित्यपरः क्रमस्थितिरसावन्यो वदन्तं मृषा ॥ २.१७ ॥

प्रकृत्यैवं सिद्धं भवति परमानन्दविधुरं
अभिध्योपादेशाद् भवति उभयाम्नायवचनैः ।
भवत्यात्मा कर्ता कृतिविरहितो योनिरपि च
प्रतिष्ठा निष्ठा च त्रिभुवनगुरुः प्रेमसदनः ॥ २.१८ ॥

अभिध्योपादेशात् स बहु भवदीक्षादिवशतः
समासाचोभाभ्यां प्रकृतिजसमाम्नायवचनात् ।
अतो ह्यात्मा शुद्धः प्रकृतिपरिणामेन जगतां
मृदीव व्यापारो भवति परिणामेषु च शिवः ॥ २.१९ ॥

आनन्दाभ्यासयोगाद्विकृतजगदानन्दजगतो
अतो हेतोर्धर्मो न भवति शिवः कारणपरः ।
हिरण्यात्माऽऽदित्येऽक्षिणि उदेतीह भगवान्
नतेश्चाधाराणां श्रवणवचनैर्गोपितधियः ॥ २.२० ॥

भेदादिव्यपदेशतोऽस्ति भगवानन्यो भवेत् किं ततः
आकाशादिशरीरलिङ्गनियमाद्व्याप्यं हि सर्वं ततः ।
तज्ज्योतिः परमं महेश्वरमुमाकान्ताख्यशान्तं महो
वेदान्तेषु नितान्तवाक्यकलने छन्दोऽभिधानादपि ॥ २.२१ ॥

भूतादिव्यपदेशतोऽपि भगवत्यस्मिन् महेशे ध्रुवं
यस्माद्भूतवराणि जायत इति श्रुत्याऽस्य लेशांशतः ।
विश्वं विश्वपतेरभूत् तदुभयं प्रामाण्यतो दर्शनात्
प्राणस्यानुगमात् स एव भगवान् नान्यः पथा विद्यते ॥ २.२२ ॥

न वक्तुश्चात्मा वै स खलु शिवभूमादिविहितः
तथैवायुर्देहे अरणिवहवत् चक्रगमहो ।
अदृश्यो ह्यात्मा वै स हि सुदृशतः शास्त्रनिवहैः
शिवो देवो वामो मुनिरपि च सार्वात्म्यमभजत् ॥ २.२३ ॥

प्रसिद्धिः सर्वत्र श्रुतिषु विधिवाक्यैर्भगवतो
महाभूतैर्जातं जगदिति च तज्जादिवचनैः ।
अतोऽणीयान् ज्यायानपि द्विविधभेदव्यपगता
विवक्षा नोऽस्तीति प्रथयति गुणैरेव हि शिवः ॥ २.२४ ॥

संभोगप्राप्तिरेव प्रकटजगतः कारणतया
सदा व्योमैवेत्थं भवति हृदये सर्वजगताम् ।
अतोऽत्ता वै शर्वश्चरमचरभूतं जगदिदं
महामृत्युर्देशो भवति शिखरन्नाद इति च ॥ २.२५ ॥

प्रकरणवचनेन वेदजाते
भगवति भवनाशने महेशे ।
प्रविशति शिव एव भोगभोक्तृ-
नियमनदर्शनतो हि वाक्यजातम् ॥ २.२६ ॥

विशेषणैः शङ्करमेव नित्यं
द्विधा वदत्येवमुपाधियोगात् ।
अतोऽन्तरा वाक्यपदैः समर्थितः
स्थानादियोगैर्भगवानुमापतिः ॥ २.२७ ॥

सुखाभिधानात् सुखमेव शंभुः
कं ब्रह्म खं ब्रह्म इति श्रुतीरितः ।
श्रुतोपवाक्योपनिषत्प्रचोदितः
गतिं प्रपद्येत बुधोऽपि विद्यया ॥ २.२८ ॥

अनवस्थितितोऽपि नेतरो भगवानेव स चक्षुषि प्रबुध्येत् ।
भयभीताः खलु यस्य सोमसूर्यानलवाय्वंबुजसंभवा भ्रमन्ति ॥ २.२९ ॥

अन्तर्यामितयैव लोकमखिलं जानात्युमायाः पतिः ।
भूतेष्वन्तरगोऽपि भूतनिवहा नो जानते शङ्करम् ॥ २.३० ॥

न तत्स्मृत्या धर्मैरभिलषणतो भेदविधुरं
न शारीरं भेदे भवति अगजानायकवरे ।
अदृश्यत्वाद्धर्मैर्न खलु भगवानन्यदिति च
परादादित्यं चामतिरपि च भेदप्रकलने ॥ २.३१ ॥

भेदादेश्च विशेषणं परशिवे रूपं न नाम प्रभा ।
भावो वा भवति प्रभाविरहितं ब्रह्मात्मना चाह तत् ॥ २.३२ ॥

स्मृतं मानं शंभौ भगवति च तत्साधनतया-
प्यतो दैवं भूतं न भवति च साक्षात् परशिवे ।
अभिव्यक्ती चान्यः स्मृतिमपि तथाऽन्योऽपि मनुते
तथा सम्पत्तिर्वै भुवि भवति किं शंभुकलने ॥ २.३३ ॥

यं मुक्तिव्यपदेशतः श्रुतिशिखाशाखाशतैः कल्पिते
भिद्येद्ग्रन्थिरपि प्रकीर्णवचनात् साक्ष्येव बाह्यान्तरा ।
शब्दो ब्रह्मतयैव न प्रभवते प्राणप्रभेदेन च
तच्चाप्युत्क्रमणस्थितिश्च विलये भुंक्त्येऽप्यसौ शङ्करः ॥ २.३४ ॥

तं भूमा सम्प्रसादाच्छिवमजरमात्मानमधुना
श‍ृणोतीक्षेद्वापि क्षणमपि तथान्यं न मनुते ।
तथा धर्मापत्तिर्भवति परमाकाशजनितं
प्रशस्तं व्यावृत्तं दहरमपि दध्याद्यपदिशत् ॥ २.३५ ॥

अलिङ्गं लिङ्गस्थं वदति विधिवाक्यैः श्रुतिरियं
धृतेराकाशाख्यं महिमनि प्रसिद्धेर्विमृशता ।
अतो मर्शान्नायं भवति भवभावात्मकतया
शिवाविर्भावो वा भवति च निरूपे गतधियाम् ॥ २.३६ ॥

परामर्शे चान्यद्भवति दहरं किं श्रुतिवचो
निरुक्तं चाल्पं यत् त्वनुकृति तदीयेऽह्नि महसा ।
विभातीदं शश्वत् प्रमतिवरशब्दैः श्रुतिभवैः ॥ २.३७ ॥

यो व्यापकोऽपि भगवान् पुरुषोऽन्तरात्मा ।
वालाग्रमात्रहृदये किमु सन्निविष्टः ॥ २.३८ ॥

प्रत्यक्षानुभवप्रमाणपरमं वाक्यं किलैकार्थदं
मानेनापि च संभवाभ्रमपरो वर्णं तथैवाह हि ।
शब्दं चापि तथैव नित्यमपि तत् साम्यानुपत्तिक्रिया
मध्वादिष्वनधीकृतोऽपि पुरुषो ज्योतिष्यभावो भवेत् ॥ २.३९ ॥

भावं चापि शुगस्य तच्छ्रवणतो जात्यन्तरासंभवात्
संस्काराधिकृतोऽपि शङ्करपदं ये वक्तुकामा मनाक् ।
ज्योतिर्दर्शनतः प्रसादपरमादस्माच्छरीरात् परं
ज्योतिश्चाभिनिविश्य व्योम परमानन्दं परं विन्दति ॥ २.४० ॥

स्मृतीनां वादोऽत्र श्रुतिविभवदोषान्यवचसा
स एवात्मा दोषैर्विगतमतिकायः परशिवः ।
स विश्वं विश्वात्मा भवति स हि विश्वाधिकतया
समस्तेषु प्रोतो भवति स हि कार्येषु करणम् ॥ २.४१ ॥

प्रधानानां तेषां भवति इतरेषामनुपमो-
प्यलब्धोऽप्यात्मायं श्रुतिशिरसि चोक्तोऽणुरहितः ।
स दृश्योऽचिन्त्यात्मा भवति वरकार्येषु करणं
असद्वा सद्वा सोऽप्यसदिति न दृष्टान्तवशगम् ॥ २.४२ ॥

असङ्गो लक्षण्यः स भवति हि पञ्चस्वपि मुधा
अभीमानोद्देशादनुगतिरथाक्षादिरहितः ।
स्वपक्षादौ दोषाश्रुतिरपि न ईष्टे परमतं
त्वनिर्मोक्षो भूयादनुमितिकुतर्कैर्न हि भवेत् ॥ २.४३ ॥

भोक्त्रापत्तेरपि विषयतो लोकवेदार्थवादो
नैनं शास्ति प्रभुमतिपरं वाचि वारंभणेभ्यः ।
भोक्ता भोगविलक्षणो हि भगवान् भावोऽपि लब्धो भवेत्
सत्त्वाच्चापि परस्य कार्यविवशं सद्वाक्यवादान्वयात् ॥ २.४४ ॥

युक्तेः शब्दान्तराच्चासदिति न हि कार्यं च करणं
प्रमाणैर्युक्त्या वा न भवति विशेषेण मनसा ।
परः प्राणोद्देशाद्धितकरणदोषाभिधधिया
तथाश्माद्या दिव्या ??? द्योतन्ति देवा दिवि ॥ २.४५ ॥

प्रसक्तिर्वा कृत्स्ना श्रुतिवरबलादात्मनि चिरं
स्वपक्षे दोषाणां प्रभवति च सर्वादिसुदृशा ।
विकाराणां भेदो न भवति वियोज्यो गुणधियां
अतो लोके लीलापरविषमनैर्घृण्यविधुरम् ॥ २.४६ ॥

स कर्मारंभाद्वा उपलभति यद्येति च परं
सर्वैर्धर्मपदैरयुक्तवचनापत्तेः प्रवृत्तेर्भवेत् ।
भूतानां गतिशोपयुज्यपयसि क्षारं यथा नोपयुक्
अवस्थानं नैव प्रभवति तृणेषूद्यतमते-
स्तथाभावात् पुंसि प्रकटयति कार्यं च करणम् ॥ २.४७ ॥

अङ्गित्वानुपपत्तितोऽप्यनुमितो शक्तिज्ञहीनं जगत्
प्रतिषिद्धे सिद्धे प्रसभमिति मौनं हि शरणम् ।
महद्दीर्घं हस्वं उभयमपि कर्मैव करणे
तथा साम्ये स्थित्या प्रभवति स्वभावाच्च नियतम् ॥ २.४८ ॥

न स्थानतोऽपि श्रुतिलिङ्गसमन्वयेन
प्रकाशवैयर्थ्यमतो हि मात्रा ।
सूर्योपमा प्रमवतित्वतथा उदत्वा-
त्तद्दर्शनाच्च नियतं प्रतिबिम्बरूपम् ॥ २.४९ ॥

तदव्यक्तं न ततो लिङ्गमेतत्
तथोभयव्यपदेशाच्च तेजः ।
प्रतिषेधाच्च परमः सेतुरीशः
सामान्यतः स्थानविशेषबुद्ध्या ॥ २.५० ॥

विशेषतश्चोपपत्तेस्तथान्यदतः फलं चोपपद्येत यस्मात् ।
महेश्वराच्छ्रुतिभिश्चोदितं यत् धर्मं परे चेश्वरं चेति चान्ये ।
न कर्मवच्चेश्वरे भेदधीर्नः ॥ २.५१ ॥

भेदान्न चेति परतः परमार्थदृष्ट्या
स्वाध्यायभेदादुपसंहारभेदः ।
अथान्यथात्वं वचसोऽसौ वरीयान्
संज्ञातश्चेद्व्याप्तिरेव प्रमाणम् ॥ २.५२ ॥

सर्वत्राभेदादनयोस्तथान्यत्
प्राधान्यमानन्दमयः शिरस्त्वम् ।
तथेतरे त्वर्थसामान्ययोगात्
प्रयोजनाभावतयाऽप्ययाय ते ॥ २.५३ ॥

शब्दात्तथा ह्यात्मगृहीतिरुत्तरात्
तथान्वयादितराख्यानपूर्वम् ।
अशब्दत्वादेवमेतत् समान-
मेवं च संविद्वचनाविशेषात् ॥ २.५४ ॥

तद्दर्शनात् संभृतं चैवमेषोऽनाम्नायाद्वेद्यभेदात् परेति ।
गतेरर्थादुपपन्नार्थलोके शब्दानुमानैः सगुणोऽव्ययात्मा ॥ २.५५ ॥

यथाधिकारं स्थितिरेव चान्तरा
तत्रैव भेदाद्विशिषन्हीतरवत् ।
अन्यत्तथा सत्यकृत्या तथैके
कामादिरत्रायतनेषु चादरात् ॥ २.५६ ॥

उपस्थिते तद्वचनात् तथाग्नेः
संलोप एवाग्निभवः प्रदाने ।
अतोऽन्यचिन्तार्थभेदलिङ्गं बलीयः
क्रिया परं चासमानाच्च दृष्टेः ॥ २.५७ ॥

श्रुतेर्बलादनुबन्धेमखे वै
भावापत्तिश्चात्मनश्चैक एव ।
तद्भावभावदुपलब्धिरीशे
सद्भावभावादनुभावतश्च ॥ २.५८ ॥

अङ्गावबद्धा हि तथैव मन्त्रतो
भूम्नः क्रतोर्जायते दर्शनेन ॥ २.५९ ॥

रूपादेश्च विपर्ययेण तु दृशा दोषोभयत्राप्ययं
अग्राह्याः सकलानपेक्ष्यकरणं प्राधान्यवादेन हि ।
तत्प्राप्तिः समुदायकेऽपि इतरे प्रत्यायिकेनापि यत्
विद्याऽविद्या असति बलतो धुर्यमार्याभिशंसी ॥ २.६० ॥

दोषोभयोरपि तदा स्वगमोऽभ्युपेया ।
स्मृत्या सतो दृशि उदासीनवद्भजेत ॥ २.६१ ॥

नाभावादुपलब्धितोऽपि भगवद्वैधर्म्यस्वन्यादिवत्
भावेनाप्युपलब्धिरीशितुरहो सा वै क्षणं कल्प्यते ।
सर्वार्थानुपपत्तितोऽपि भगवत्येकाद्वितीये पुनः ।
कार्त्स्न्येनात्मनि नो विकारकलनं नित्यं पतेर्धर्मतः ॥ २.६२ ॥

संबन्धानुअपपत्तितोऽपि समधिष्ठानोपपत्तेरपि
तच्चैवाकरणं च भोगविधुरं त्वं तत्त्वसर्वज्ञता ।
उत्पत्तेरपि कर्तुरेव कारणतया विज्ञानभावो यदि
??? निषेधप्रतिपत्तितोऽपि मरुतश्चाकाशतः प्राणतः ॥ २.६३ ॥

अस्तित्वं तदपीति गौणपरता वाक्येषु भिन्ना क्रिया
कार्यद्रव्यसमन्वयायकरणं शब्दाच्च ब्रह्मैव तत् ।
शब्देभ्योऽप्यमतं श्रुतं भवति तद् ज्ञानं परं शांभवं
यावल्लोकविभागकल्पनवशात् भूतक्रमात् सर्जति ॥ २.६४ ॥

तस्यासंभवतो भवेज्जगदिदं तेजःप्रसूतं श्रुतिः
चापः क्ष्मा मरुदेव खात्मकथयन्तल्लिङ्गसंज्ञानतः ॥ २.६५ ॥

विपर्ययेण क्रमतोऽन्तरा हि विज्ञानमानक्रमतो विशेषात् ।
न चात्मनः कारणताविपर्यश्चराचरव्यापकतो हि भावैः ॥ २.६६ ॥

नात्मा श्रुतो नित्यताशक्तियोगान्नानेव भासत्यविकल्पको हि ।
संज्ञान एवात्र गतागतानां स्वात्मानं चोत्तरणेनाणुरेव ॥ २.६७ ॥

स्वशब्दोन्मानाभ्यां सुखयति सदानन्दनतनुं
विरोधश्चान्द्रोपद्रव इव सदात्मा निखिलगः ।
गुणादालोकेषु व्यतिकरवतो गन्धवहतः
परो दृष्टो ह्यात्मा व्यपदिशति प्रज्ञानुभवतः ॥ २.६८ ॥

यावच्चात्मा नैवा दृश्येत दोषैः
पुंस्त्वादिवत्त्वसतो व्यक्तियोगात् ।
मनोऽन्यत्रायदि कार्येषु गौणं विमुखः
कर्ता शाश्वतो विहरति उपादानवशतः ॥ २.६९ ॥

अस्यात्मव्यपदेशतः श्रुतिरियं कर्तृत्ववादं वदत्
उपालब्धुं शक्तेर्विपरति समाध्या क्षुभितया ।
परात्तत्तु श्रुत्याप्यनुकृति सुरत्वक्षुभितया
परो मन्त्रो वर्णैर्भगवति अनुज्ञापरिहरौ ।
तनोः संबन्धेन प्रविशति परं ज्योतिकलने ॥ २.७० ॥

आसन्नतेव्यतिकरं पररूपभेदे
आभास एव सुदृशा नियतो नियम्यात् ।
आकाशवत् सर्वगतोऽव्ययात्मा
आसन्धिभेदात् प्रतिदेशभावात् ॥ २.७१ ॥

तथा प्राणो गौणः प्रकृतिविधिपूर्वार्थकलना-
दघस्तोये सृत्यः प्रथितगतिशेषेण कथितः ।
हस्तादयस्त्वणवः प्राणवायोः
चक्षुस्तथा करणत्वान्न दोषः ॥ २.७२ ॥

यः पञ्चवृत्तिर्मनवच्च दृश्यते तथाणुतो ज्योतिरसुश्च खानि ।
भेदश्रुतेर्लक्षणविप्रयोगादात्मादिभेदे तु विशेष वादः ॥ २.७३ ॥

आत्मैकत्वात् प्राणगतेश्च वह्नेः ते जागतीवाश्रुतत्त्वान्न चेष्टा ।
भोक्तुर्न चात्मन्यविदीकृता ये ते धूममार्गेण किल प्रयान्ति ॥ २.७४ ॥

चरणादिति चान्यकल्पनां स्मरन्ति सप्तैव गतिप्ररोहात् ।
व्यापारवैधुर्यसमूहविद्या ते कर्मणैवेह तृतीयलब्धाम् ॥ २.७५ ॥

तद्दर्शनं तद्गदतोऽप्यविद्या सव्योपपत्तेरुत दौविशेषात् ।
चिरन्तपः शुद्धिरतो विशेषात् ते स्थावरे चाविशेषार्थवादः ॥ २.७६ ॥

सन्ध्यांशसृष्ट्या किल निर्ममे जगत् पुत्रेषु मायामयतोऽव्ययात्मा ।
कृत्स्नं मायामयं तज्जगदिदमसतो नामरूपं तु जातम् ।
जाग्रत्स्वप्नसुषुप्तितोऽपि परमानन्दं तिरोधानकृत् ॥ २.७७ ॥

देहयोगात् ह्रसते वर्धते यः
तत्रैवान्यत् पश्यते सोऽथ बोधात् ।
स शोशुचानस्मृतिशब्दबोधः ॥ २.७८ ॥

नानाशब्दादिभेदात् फलविविधमहाकर्मवैचित्र्ययोगात्
ईष्टे तां गुणधारणां श्रुतिहितां तद्दर्शनोद्बोधतः ।
तद्दर्शनात् सिद्धित एव सिद्ध्यते आचारयोगादृततच्छ्रुतेश्च ॥ २.७९ ॥

वाचा समारंभणतो नियामतः
तस्याधिकाप्रात्वकस्योपदेशात् ।
तुल्यं दृशा सर्वतः स्याद्विभागः
अध्यापयात्रान्नविशेषतस्तु ते ॥ २.८० ॥

कामोपमर्देन तदूर्ध्वरेतसा
विमर्शतो याति स्वतत्त्वतोऽन्यः ।
अनुष्ठेयं चान्यत् श्रुतिशिरसि निष्ठाभ्रमवशात् ।
विधिस्तुत्या भावं प्रवदति
रथाग्नेराधानमनुवदति ज्ञानाङ्गमपि च ॥ २.८१ ॥

प्राणात्यये वापि समं तथान्नं
अबाधतः स्मृतितः कामकारे ।
विहिताश्रमकर्मतः सहैव कार्यात्
तथोभयोर्लिङ्गभङ्गं च दर्शयेत् ॥ २.८२ ॥

तथान्तरा चापि स्मृतेर्विशेषतः
ज्यायोऽपि लिङ्गाभयभावनाधिका ।
सैवाधिकारादर्शनात् तदुक्तं
आचारतः स्वामिन ईज्यवृत्त्या ॥ २.८३ ॥

स्मृते ऋत्विक्सहकार्यं च कृत्स्नम् ।
तन्मौनवाचा वचनेन कुर्वन् ।
तदैहिकं तदवस्थाधृतेश्च ॥ २.८४ ॥

आवृत्त्याप्यसकृत्तथोपदिशति ह्यात्मन्नुपागच्छति
ग्राहं याति च शास्त्रतो प्रतीककलनात् सा ब्रह्मदृष्टिः प्रभोः ।
आदित्यादिकृतीषु तथा सतीरपि कर्माङ्गताध्यानतः
तस्माच्चास्थिरतां स्मरन्ति च पुनर्यत्रैव तत्र श्रुता ॥ २.८५ ॥

आप्रायणात् तत्र दृष्टं हि यत्र तत्रागमात् पूर्वयोऽश्लेषनाशौ ।
तथेतरस्यापि पतेदसंसृतौ अनारब्धाग्निहोत्रादिकार्ये ॥ २.८६ ॥

अतोऽन्येषामुभयोर्यत्र योगात्
विद्याभोगेन वाङ्मनसी दर्शनाच्च ।
सर्वाण्यनुमनसा प्राण एव
सोऽध्यक्षेत उपदर्शेन कच्चित् ॥ २.८७ ॥

समानवृत्त्या क्रमते चासु वृत्त्या
संसारतो व्यपदेशोपपत्तेः ।
सूक्ष्मप्रमाणोपमर्दोपलब्धस्थितिश्च
तथोपपत्तेरेष ऊष्मा रसैके ॥ २.८८ ॥

अत्र स्मर्यनानुपरताविधिवाक्यसिद्धे-
र्वैयासकिर्मुनिरेषोव्ययात्मा ।
अविभागो वचनाद्धार्द एव
रश्म्यनुसारी निशितो दक्षिणायने ।
योगिनः प्रतिसृतैस्तथार्चिरात्
वायुमद्घटितो वरुणेन ॥ २.८९ ॥

अतिवाहिकविधेस्तदलिङ्गात् तद्वदत्र उभयोरपि सिद्धिः ।
तद्वैतेन गतिरप्युपावृतो विशेषसामीप्यसकार्यहेतौ ॥ २.९० ॥

स्मृतिस्तथाऽन्योऽपि च दर्शनेन काये तथा प्रतिपत्तिप्रतीकः ।
विशेषदृष्ट्या सम्पदाविर्भवेन स्वेनांशत्वान्मुक्तिविज्ञानतो हि ॥ २.९१ ॥

आत्मप्रकाशादविभागेन दृष्टः तद्ब्रह्मणोऽन्यद्द्युतितन्मात्रतोऽन्यः ।
उपन्यासादन्यसंकल्पभूत्या रथवान्योऽप्युथाह ॥ २.९२ ॥

भावमन्यो उभयं न स्वभावा
भावे सम्पत्तिरेवं जगत् स्यात् ।
प्रत्यक्षेणोपदेशात् स्थितिरपि
जगतो व्यक्तिभावादुपासा
भेदाभासस्थितिरविकारावर्तिरिति च ॥ २.९३ ॥

तथा दृष्टेर्द्रष्टुर्विपरीतदृष्टेः श्रुतिवशात्
तथा बुद्धेर्बोद्धा भवति अनुमानेन हि बुधः ।
भोगे सामान्यलिङ्गात् शिवभजनभवे मान्यमनसा
अनावृत्तिः शब्दो भवति विधिवाक्येन नियतम् ॥ २.९४ ॥

तवोक्तः सूत्राणां विधिरपि च सामान्यमुभय-
प्रकृष्ट श्रुत्यैव प्रभवति महानन्दसदने ॥ २.९५ ॥

स्कन्दः –
त्रिनेत्रवक्त्रसुचरित्ररूपं मन्त्रार्थवादाम्बुजमित्ररूपाः ।
प्रहृष्टरूपा मुनयो वितेनिरे मतानुसारीण्यथ सूत्रितानि ॥ २.९६ ॥

न तानि बुद्ध्युद्भवबोधदानि विश्वेशपादाम्बुजभक्तिदानि ॥ २.९७ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे शिवेन
ऋभुं प्रति सूत्रोपदेशो नाम द्वितीयोऽध्यायः ॥

३ ॥ तृतीयोऽध्यायः ॥

सूतः –
ततो महेशात् संश्रुत्य सूत्राणि ऋभुरेव हि ।
कैलासेशं महादेवं तुष्टाव विनयाञ्जलिः ॥ ३.१ ॥

लब्धज्ञानो महादेवान् मुनिभ्योऽकथयच्च तत् ।
तत् स्तुतिं च श‍ृणुष्वेति जगाद गिरिजासुतः ॥ ३.२ ॥

जैगीषव्यं महात्मानं जितषड्वर्गमुत्तमम् ।

स्कन्दः –
संस्तुत्य सांबमीशानमृभुर्ज्ञानमविन्दत ।
शांभवः स महायोगी तुष्टावाष्टतनुं हरम् ॥ ३.३ ॥

ऋभुः –
गन्धद्विपवरवृन्दत्वचिरुचिबन्धोद्यतपट
गन्धप्रमुख मदान्धव्रजदलि हरिमुखनखरोद्यत्
स्कन्धोद्यन्मुख बन्धक्षुरनिभ निर्यद्रसदसृभिन्दन्नगधर
विन्ध्यप्रभशिव मेध्यप्रभुवर ।
मेध्योत्तमशिव भेद्याखिलजगदुद्यद्भवगत
वेद्यागमशिव गद्यस्तुतपद पद्यप्रकटहृ –
दुद्यद्भवगद वैद्योत्तम पाहि शम्भो ॥ ३.४ ॥

चण्डद्विपकर काण्डप्रभभुज दण्डोद्यतनग
खण्डत्रिपुर महाण्डस्फुटदुडुपशिखण्ड ।
द्युतिवर गण्डद्वय कोदण्डान्तक दण्डितपाद पाहि शंभो ॥ ३.५ ॥

किञ्चिज्जललव सिञ्चद्द्विजकुल मुञ्चद्वृजिन
कुलुंचद्विजपति चञ्चच्छविजट कुञ्चत्पदनख
मुञ्चन्नतवर करुणा पाहि शंभो ॥ ३.६ ॥

देव शङ्कर हरमहेश्वर पापतस्कर अमरमयस्कर ।
शिवदशंकर पुरमहेश्वर भवहरेश्वर पाहि शंभो ॥ ३.७ ॥

अङ्गजभङ्ग तुरङ्गरथाङ्ग जलधिनिषङ्ग
धृतभुजङ्गाङ्ग दृशि सुपतङ्ग
करसुकुरङ्ग जटधृतगङ्ग
यमिहृदिसङ्ग भजशिवलिङ्ग भवभयभङ्ग ॥ ३.८ ॥

शंबरकरशर दम्बरवरचर डंबरघोषण दुंबरफलजग
निकुरुंबभरहर बिंबितहृदिचिर लंबितपदयुग
लंबोदरजनकान्तकहर शिव बिन्दुवरासन
बिन्दुगहन शरदिन्दुवदनवर कुन्दधवल गणवृन्दविनत
भवभयहर परवर करुणाकर फणिवरभूषण
स्मर हर गरधर परिपाहि ॥ ३.९ ॥

रासभवृषभेभ शरभाननगणगुणनन्दित-
त्रिगुणपथातिग शरवणभवनुत तरणिस्थित वरुणालय
कृतपारण मुनिशरणायित पदपद्मारुण पिङ्गजटाधर
कुरु करुणां शङ्कर शं कुरु मे ॥ ३.१० ॥

जम्भप्रहरण कुम्भोद्भवनुत कुम्भप्रमथ निशुम्भद्युतिहर
भिन्दद्रणगण डिम्भायितसुर तारकहरसुत
कुंभ्युद्यतपद विन्ध्यस्थितदितिमान्द्यप्रहर मदान्धद्विपवर
कृत्तिप्रवर सुधान्धोनुतपद बुद्ध्यागमशिव
मेध्यातिथिवरद ममावन्ध्यं कुरु दिवसं
तव पूजनतः परिपाहि शंभो ॥ ३.११ ॥

कुन्दसदृश मकरन्दनिभसुरवृन्दविनुत कुरुविन्दमणिगण
वृन्दनिभाङ्घ्रिजमन्दर वसदिन्दुमकुट शरदंबुजकृश
गरनिन्दनगल सुन्दरगिरितनयाकृति
देहवराङ्गबिन्दुकलित शिवलिङ्गगहन सुतसिन्दुरवरमुख
बन्धुरवरसिन्धुनदीतट लिङ्गनिवहवरदिग्वस पाहि शंभो ॥ ३.१२ ॥

पन्नगाभरण मारमारण विभूतिभूषण शैलजारमण ।
आपदुद्धरण यामिनीरमणशेखर सुखद पाहि शंभो ॥ ३.१३ ॥

दक्षाध्वरवरशिक्ष प्रभुवर त्र्यक्ष प्रबलमहोक्षस्थित
सितवक्षस्स्थलकुलचक्षुःश्रवस वराक्षस्रज हर ।
वीक्षानिहताधोक्षजात्मज वरकक्षाश्रय पुरपक्षविदारण
लीक्षायितसुर भिक्षाशन हर पद्माक्षार्चनतुष्ट
भगाक्षिहराव्यय शङ्कर मोक्षप्रद परिपाहि महेश्वर ॥ ३.१४ ॥

अक्षयफलद शुभाक्ष हराक्षततक्षककर
गरभक्ष परिस्फुरदक्ष क्षितिरथ सुरपक्षाव्यय ।
पुरहर भव हर हरिशर शिव शिव
शङ्कर कुरु कुरु करुणां शशिमौले ॥ ३.१५ ॥

भजाम्यगसुताधवं पशुपतिं महोक्षध्वजं
वलक्षभसितोज्ज्वलं प्रकटदक्षदाहाक्षिकम् ।
भगाक्षिहरणं शिवं प्रमथितोरुदक्षाध्वरं
प्रपक्षसुरतामुनिप्रमथशिक्षिताधोक्षजम् ॥ ३.१६ ॥

श्रीनाथाक्षिसरोजराजितपदांभोजैकपूजोत्सवै-
र्नित्यं मानसमेतदस्तु भगवन् सद्राजमौले हर ।
भूषाभूतभुजङ्गसङ्गत महाभस्माङ्गनेत्रोज्वल-
ज्ज्वालादग्धमनङ्गपतङ्गदृगुमाकान्ताव गङ्गाधर ॥ ३.१७ ॥

स्वात्मानन्दपरायणांबुजभवस्तुत्याऽधुना पाहि माम्
MISSING .
गिरिजामुखसख षण्मुख पञ्चमुखोद्यतदुर्मुखमुख-
हर आखुवहोन्मुख लेखगणोन्मुख शङ्कर खगगमपरिपूज्य ॥ ३.१८ ॥

कोटिजन्मविप्रकर्मशुद्धचित्तवर्त्मनां
श्रौतसिद्धशुद्धभस्मदग्धसर्ववर्ष्मणाम् ।
रुद्रभुक्तमेध्यभुक्तिदग्धसर्वपाप्मनां
रुद्रसूक्ति उक्तिभक्तिभुक्तिमुक्तिदायिकाम् ।
पुरहर इष्टतुष्टिमुक्तिलास्यवासना
भक्तिभासकैलासमीश आशु लभ्यते ॥ ३.१९ ॥

स्कन्दः –
तत्स्तुत्या तोषितः शंभुस्तमाह ऋभुमीश्वरः ।
प्रसन्नः करुणाम्भोधिरम्भोजसुतमोदनः ॥ ३.२० ॥

ईश्वरः –
वेदान्तपाठपठनेन हठादियोगैः
श्रीनीलकण्ठपदभक्तिविकुण्ठभावाः ।
ये कर्मठा यतिवरा हरिसौरिगेहे
सालावृकैर्वरकठोरकुठारघातैः ॥ ३.२१ ॥

भिन्नोत्तमाङ्गहृदयाश्च भुसुण्डिभिस्ते ।
भिक्षाशना जरठरासभवद्भ्रमन्ति ॥ ३.२२ ॥

विद्युच्चञ्चलजीवितेऽपि न मनागुत्पद्यते शांभवी
भक्तिर्भीमपदाम्बुजोत्तमपदे भस्मत्रिपुण्ड्रेऽपि च ।
रुद्राक्षामलरुद्रसूक्तिजपने निष्ठा कनिष्ठात्मनां
विष्ठाविष्टकुनिष्ठकष्टकुधियां दुष्टात्मनां सर्वदा ॥ ३.२३ ॥

भ्रष्टानां दुरदृष्टतो जनिजरानाशेन नष्टात्मनां
ज्येष्ठश्रीशिपिविष्टचारुचरणांभोजार्चनानादरः ।
तेनानिष्टपरंपरासमुदयैरष्टाकृतेर्न स्मृतिः
विष्ठापूरितदुर्मुखेषु नरके भ्रष्टे चिरं संस्थितिः ॥ ३.२४ ॥

अज्ञायत्तेष्वभिज्ञाः सुरवरनिकरं स्तोत्रशास्त्रादितुष्टं
सत्राशं मन्त्रमात्रैर्विधिविहितधिया सामभागैर्यजन्ति ।
श्राद्धे श्रद्धाभरणहरणभ्रान्तरूपान्पितॄंस्ते
तत्तच्छ्रद्धासमुदितमनः स्वान्तरा शम्भुमीशम् ॥

नाभ्यर्चन्ति प्रणतशरणं मोक्षदं मां महेशम् ॥ ३.२५ ॥

आर्याः शर्वसमर्चनेन सततं दूर्वादलैः कोमलैः
बिल्वाखर्वदलैश्च शङ्करमहाभागं हृदन्तः सदा ।
पर्वस्वप्यविशेषितेन मनसा गर्वं विहायादरात्
दुर्गाण्याशु तरन्ति शङ्करकृपापीयूषधारारसैः ॥ ३.२६ ॥

श्रीचन्द्रचूडचरणांबुज पूजनेन
कालं नयन्ति पशुपाशविमुक्तिहेतोः ।
भावाः परं भसितफाललसत्त्रिपुण्ड्र-
रुद्राक्षकङ्कणलसत्करदण्डयुग्माः ॥ ३.२७ ॥

पञ्चाक्षरप्रणवसूक्तधिया वदन्ति
नामानि शांभवमनोहरदानि शंभो ।
मुक्तिप्रदानि सततं शिवभक्तवर्याः
ये बिल्वमूलशिवलिङ्गसमर्चनेन ॥ ३.२८ ॥

कालं नयेद्विमलकोमलबिल्वपत्रैः
नो तस्य कालजभयं भवतापपापम् ।
सन्तापभूपजनितं भजतां महेशम् ॥ ३.२९ ॥

शश्वद्विश्वेशपादौ यमशमनियमैर्भूतिरुद्राक्षगात्रो
विश्वत्रस्तो भुजङ्गाङ्गदवरगिरिजानायके लब्धभक्तिः ।
मुग्धोऽप्यध्यात्मविद् यो भवति भवहरस्यार्चया प्राप्तकामः ॥ ३.३० ॥

शब्दैरब्दशतेऽपि नैव स लभेत् ज्ञानं न तर्कभ्रमैः
मीमांसा द्वयतस्तथाद्वयपदं किं सांख्यसंख्या वद ।
योगायासपरंपरादिविहितैर्वेदान्तकान्तारके
श्राम्यन् भक्तिविवर्जितेन मनसा शम्भोः पदे मुक्तये ॥ ३.३१ ॥

किं गङ्गया वा मकरे प्रयाग-
स्नानेन वा योगमखक्रियाद्यैः ।
यत्रार्चितं लिङ्गवरं शिवस्य
तत्रैव सर्वार्थपरंपरा स्यात् ॥ ३.३२ ॥

श्रीशैलो हिमभूधरोऽरुणगिरिर्वृद्धाद्रिगोपर्वतौ
श्रीमद्धेमसभाविहार भगवन् नृत्तं त्रिनेत्रो गिरिः ।
कैलासोत्तरदक्षिणौ च भगवान् यत्रार्चने शङ्करो
लिङ्गे सन्निहितो वसत्यनुदिनं शाङ्गस्य हृत्पङ्कजे ॥ ३.३३ ॥

तत्राविमुक्तं शशिचूडवासं
ॐकारकालञ्जर रुद्रकोटिम् ।
गङ्गाबुधेः सङ्गममम्बिकापति-
प्रियं तु गोकर्णकसह्यजातटम् ॥ ३.३४ ॥

यत्राभ्यर्णगतं महेशकरुणापूर्णं तु तूर्णं हृदा
लिङ्गं पूजितमप्यपास्तदुरितं तीर्थानि गङ्गादयः ।
पुण्याश्चाश्रमसंघका गिरिवरक्षेत्राणि शंभोः पदं
भक्तियुक्तभजनेन महेशे शक्तिवज्जगदिदं परिभाति ॥ ३.३५ ॥

कर्मन्दिवृन्दा अपि वेदमौलि-
सिद्धान्तवाक्यकलनेऽपि भवन्ति मन्दाः ।
कामादिबद्धहृदयाः सितभस्मपुण्ड्र-
रुद्राक्ष शङ्करसमर्चनतो विहीनाः ॥ ३.३६ ॥

हीना भवन्ति बहुधाप्यबुधा भवन्ति
मत्प्रेमवासभवनेषु विहीनवासाः ॥ ३.३७ ॥

अष्टम्यामष्टमूर्तिर्निशि शशिदिवसे सोमचूडं तु मुक्त्यै
भूतायां भूतनाथं धृतभसिततनुर्वीतदोषे प्रदोषे ।
गव्यैः पञ्चामृताद्यैः फलवरजरसैर्बिल्वपत्रैश्च लिङ्गे
तुङ्गे शाङ्गेऽप्यसङ्गो भजति यतहृदा नक्तभुक्त्यैकभक्तः ॥ ३.३८ ॥

ज्ञानानुत्पत्तये तद्धरिविधिसमताबुद्धिरीशानमूर्तौ
भस्माक्षाधृतिरीशलिङ्गभजनाशून्यं तु दुर्मानसम् ।
शंभोस्तीर्थमहत्सुतीर्थवरके निन्दावरे शाङ्करे
श्रीमद्रुद्रजपाद्यद्रोहकरणात् ज्ञानं न चोत्पद्यते ॥ ३.३९ ॥

ईशोत्कर्षधियैकलिङ्गनियमादभ्यर्चनं भस्मधृक्
रुद्राक्षामल सारमन्त्र सुमहापञ्चाक्षरे जापिनाम् ।
ईशस्थाननिवासशांभवकथा भक्तिश्च संकीर्तनं
भक्तस्यार्चनतो भवेत् सुमहाज्ञानं परं मुक्तिदम् ॥ ३.४० ॥

आद्यन्तयोर्यः प्रणवेन युक्तं
श्रीरुद्रमन्त्रं प्रजपत्यघघ्नम् ।
तस्यांघ्रिरेणुं शिरसा वहन्ति
ब्रह्मादयः स्वाघनिवृत्तिकामाः ॥ ३.४१ ॥

अपूर्वाथर्वोक्त श्रुतिशिरसि विज्ञानमनघं
महाखर्वाज्ञानप्रशमनकरं यो विरचयेत् ।
मुने हृत्पर्वाणां विशसनकरं सप्तमनुभि-
र्व्रतं शीर्षण्यं यो विरचयति तस्येदमुदितम् ॥ ३.४२ ॥

गुरौ यस्य प्रेम श्रुतिशिरसि सूत्रार्थपदगं
मयि श्रद्धा वृद्धा भवति किल तस्यैष सुलभः ।
अनन्यो मार्गोऽयम् अकथितमिदं त्वय्यपि मुदा
यदा गोप्यो मुग्धे सुविहितमुनिष्वेव दिश वै ॥ ३.४३ ॥

स्कन्दः –
इति स्तुत्वा शंभोः प्रमुदितमनास्त्वेष स ऋभुः
मुनिर्नत्वा देवं नगमगपदीशस्य निलयम् ।
यतो गङ्गा तुङ्गा प्रपतति हिमाद्रेः शिखरतो
मुनीन्द्रेष्वाहेदं तदपि श‍ृणु विप्रोत्तम हृदा ॥ ३.४४ ॥

ऋभुः –
पतन्त्वशनयो मुहुर्गिरिवरैः समुद्रोर्वरा
भवत्वधरसम्प्लवा ग्रहगणाः सुरा यान्त्वघः ।
भवज्जनिम पूजनान्मम मनो न यात्यन्यतः
शपामि प्रपदे प्रभोस्तव सरोरुहाभे हर ॥ ३.४५ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे
शिवऋभुसंवादो नाम तृतीयोऽध्यायः ॥

४ ॥ चतुर्थोऽध्यायः ॥

स्कन्दः –
हिमाद्रिशिखरे तत्र केदारे संस्थितं ऋभुम् ।
केदारेशं पूजयन्तं शांभवं मुनिसत्तमम् ।
भस्मरुद्राक्षसम्पन्नं निःस्पृहं मुनयोऽब्रुवन् ॥ ४.१ ॥

मुनयः –
पद्मोद्भवसुतश्रेष्ठ त्वया कैलासपर्वते ।
आराध्य देवमीशानं तस्मात् सूत्रश्रुतीरितम् ॥ ४.२ ॥

ज्ञानं लब्धं मुनिश्रेष्ठ त्वं नो ब्रूहि विमुक्तये ।
येन संसारवाराशेः समुत्तीर्णा भवामहे ॥ ४.३ ॥

सूतः –
ऋभुर्मुनीनां वचसा तुष्टः शिष्टान् समीक्ष्य तान् ।
अष्टमूर्तिपदध्याननिष्ठांस्तानभ्युवाच ह ॥ ४.४ ॥

ऋभुः –
नागोप्यं भवतामस्ति शांभवेषु महात्मसु ।var was अस्मि
त्रिनेत्रप्रेमसदनान् युष्मान् प्रेक्ष्य वदामि तत् ॥ ४.५ ॥

शाङ्करं सूत्रविज्ञानं श्रुतिशीर्षमहोदयम् ।
श‍ृणुध्वं ब्रह्मविच्छ्रेष्ठाः शिवज्ञानमहोदयम् ॥ ४.६ ॥

येन तीर्णाः स्थ संसारात् शिवभक्त्या जितेन्द्रियाः ।var was तीर्णास्थ
नमस्कृत्वा महादेवं वक्ष्ये विज्ञानमैश्वरम् ॥ ४.७ ॥

ऋभुः –
विश्वस्य कारणमुमापतिरेव देवो
विद्योतको जडजगत्प्रमदैकहेतुः ।
न तस्य कार्यं करणं महेशितुः
स एव तत्कारणमीश्वरो हरः ॥ ४.८ ॥

सूतः सायकसंभवः समुदिताः सूताननेभ्यो हयाः
नेत्रे ते रथिनो रथाङ्गयुगली युग्यान्तमृग्यो रथी ।
मौवीमूर्ध्नि रथः स्थितो रथवहश्चापं शरव्यं पुरः
योद्धुं केशचराः स एव निखिलस्थाणोरणुः पातु वः ॥ ४.९ ॥ var was नः
निदाघमथ संबोध्य ततो ऋभुरुवाच ह ।
अध्यात्मनिर्णयं वक्ष्ये नास्ति कालत्रयेष्वपि ॥ ४.१० ॥

शिवोपदिष्टं संक्षिप्य गुह्यात् गुह्यतरं सदा ।
अनात्मेति प्रसङ्गात्मा अनात्मेति मनोऽपि वा ।
अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु ॥ ४.११ ॥

सर्वसंकल्पशून्यत्वात् सर्वाकारविवर्जनात्
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१२ ॥

चित्ताभावे चिन्तनीयो देहाभावे जरा च न ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१३ ॥ var was ब्रह्ममात्रत्वात्
पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया च न ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१४ ॥ var was ब्रह्ममात्रत्वात्
ब्रह्माभावाज्जगन्नास्ति तदभावे हरिर्न च ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१५ ॥ var was ब्रह्ममात्रत्वात्
मृत्युर्नास्ति जराभावे लोकवेददुराधिकम् ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१६ ॥ var was ब्रह्ममात्रत्वात्
धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१७ ॥ var was ब्रह्ममात्रत्वात्
अक्षरोच्चारणं नास्ति अक्षरत्यजडं मम ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१८ ॥ var was ब्रह्ममात्रत्वात्
गुरुरित्यपि नास्त्येव शिष्यो नास्तीति तत्त्वतः ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.१९ ॥ var was ब्रह्ममात्रत्वात्
एकाभावान्न द्वितीयं न द्वितीयान्न चैकता ।
सत्यत्वमस्ति चेत् किञ्चिदसत्यत्वं च संभवेत् ॥ ४.२० ॥

असत्यत्वं यदि भवेत् सत्यत्वं च घटिष्यति ।
शुभं यद्यशुभं विद्धि अशुभं शुभमस्ति चेत् ॥ ४.२१ ॥

भयं यद्यभयं विद्धि अभयाद्भयमापतेत् ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.२२ ॥ var was ब्रह्ममात्रत्वात्
बद्धत्वमस्ति चेन्मोक्षो बन्धाभावे न मोक्षता ।
मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥ ४.२३ ॥

त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ।
इदं यदि तदेवापि तदभावे इदं न च ॥ ४.२४ ॥

अस्ति चेदिति तन्नास्ति नास्ति चेदस्ति किंच न ।
कार्यं चेत् कारणं किञ्चित् कार्याभावे न कारणम् ॥ ४.२५ ॥

द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं च न ।
दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ॥ ४.२६ ॥

अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च ।
पूर्णत्वमस्ति चेत् किंचिदपूर्णत्वं प्रसज्यते ॥ ४.२७ ॥

किञ्चिदस्तीति चेच्चित्ते सर्वं भवति शीघ्रतः ।
यत्किंचित् किमपि क्वापि नास्ति चेन्न प्रसज्यति ॥ ४.२८ ॥

तस्मादेतत् क्वचिन्नास्ति त्वं नाहं वा इमे इदम् ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.२९ ॥ var was ब्रह्ममात्रत्वात्
नास्ति दृष्टान्तकं लोके नास्ति दार्ष्टान्तिकं क्वचित् ।
केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ४.३० ॥ var was ब्रह्ममात्रत्वात्
परं ब्रह्माहमस्मीति स्मरणस्य मनो न हि ।
ब्रह्ममात्रं जगदिदं ब्रह्ममात्रत्वमप्य हि ॥ ४.३१ ॥

चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु ।
इत्यात्मनिर्णयं प्रोक्तं भवते सर्वसङ्ग्रहम् ॥ ४.३२ ॥ var was निर्ण्यः प्रोक्तः
सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ ४.३३ ॥

निदाघः-var was ऋभुः-
भगवन् को भवान् को नु वद मे वदतां वर ।var was निदाघ
यच्छ्रुत्वा तत्क्षणान्मुच्येन्महासंसारसंकटात् ॥ ४.३४ ॥

ऋभुः-
अहमेव परं ब्रह्म अहमेव परं सुखम् ।
अहमेवाहमेवाहमहं ब्रह्मास्मि केवलम् ॥ ४.३५ ॥

अहं चैतन्यमेवास्मि दिव्यज्ञानात्मको ह्यहम् ।
सर्वाक्षरविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३६ ॥

अहमर्थविहीनोऽस्मि इदमर्थविवर्जितः ।
सर्वानर्थविमुक्तोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३७ ॥

नित्यशुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्म्यत्यन्तनिर्मलः ।
नित्यानदस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.३८ ॥

नित्यपूर्णस्वरूपोऽस्मि सच्चिदानन्दमस्म्यहम् ।
केवलाद्वैतरूपोऽहमहं ब्रह्मास्मि केवलम् ॥ ४.३९ ॥

अनिर्देश्यस्वरूपोऽस्मि आदिहीनोऽस्म्यनन्तकः ।
अप्राकृतस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४० ॥

स्वस्वसंकल्पहीनोऽहं सर्वाविद्याविवर्जितः ।
सर्वमस्मि तदेवास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४१ ॥

सर्वनामादिहीनोऽहं सर्वरूपविवर्जितः ।
सर्वसङ्गविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४२ ॥

सर्ववाचां विधिश्चास्मि सर्ववेदावधिः परः ।
सर्वकालावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४३ ॥

सर्वरूपावधिश्चाहं सर्वनामावधिः सुखम् ।
सर्वकल्पावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४४ ॥

अहमेव सुखं नान्यदहमेव चिदव्ययः ।
अहमेवास्मि सर्वत्र अहं ब्रह्मास्मि केवलम् ॥ ४.४५ ॥

केवलं ब्रह्ममात्रात्मा केवलं शुद्धचिद्घनः ।
केवलाखण्डोसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४६ ॥

केवलं ज्ञानरूपोऽस्मि केवलाकाररूपवान् ।
केवलात्यन्तसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४७ ॥

सत्स्वरूपोऽस्मि कैवल्यस्वरूपोऽस्म्यहमेव हि ।
अर्थानर्थविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४८ ॥

अप्रमेयस्वरूपोऽस्मि अप्रतर्क्यस्वरूपवान् ।
अप्रगृह्यस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.४९ ॥

अरसस्युतरूपोऽस्मि अनुतापविवर्जितः ।
अनुस्यूतप्रकाशोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५० ॥

सर्वकर्मविहीनोऽहं सर्वभेदविवर्जितः ।
सर्वसन्देहहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५१ ॥

अहंभावविहीनोऽस्मि विहीनोऽस्मीति मे न च ।
सर्वदा ब्रह्मरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५२ ॥

ब्रह्म ब्रह्मादिहीनोऽस्मि केशवत्वादि न क्वचित् ।
शङ्करादिविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४.५३ ॥

तूष्णीमेवावभासोऽस्मि अहं ब्रह्मास्मि केवलम् ।
किञ्चिन्नास्ति परो नास्ति किंचिदस्मि परोऽस्मि च ॥ ४.५४ ॥

न शरीरप्रकाशोऽस्मि जगद्भासकरो न च ।
चिद्घनोऽस्मि चिदंशोऽस्मि सत्स्वरूपोऽस्मि सर्वदा ॥ ४.५५ ॥

मुदा मुदितरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ।
न बालोऽस्मि न वृद्धोऽस्मि न युवाऽस्मि परात् परः ॥ ४.५६ ॥

न च नानास्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ।
इमं स्वानुभवं प्रोक्तं सर्वोपनिषदां परं रसम् ॥ ४.५७ ॥

यो वा को वा श‍ृणोतीदं ब्रह्मैव भवति स्वयम् ॥ ४.५८ ॥

न स्थूलोऽप्यनणुर्न तेजमरुतामाकाशनीरक्षमा
भूतान्तर्गतकोशकाशहृदयाद्याकाशमात्राक्रमैः ।
उद्ग्रन्थश्रुतिशास्त्रसूत्रकरणैः किञ्चिज्ज्ञ सर्वज्ञता
बुद्ध्या मोहितमायया श्रुतिशतैर्भो जानते शङ्करम् ॥ ४.५९ ॥

॥ इति श्री शिवरहस्ये शङ्कराख्ये षष्ठांशे
ऋभुनिदाघसंवादो नाम चतुर्थोऽध्यायः ॥

५ ॥ पञ्चमोऽध्यायः ॥

निदाघः –
एवं स्थिते ऋभो को वै ब्रह्मभावाय कल्पते ।
तन्मे वद विशेषेण ज्ञानं शङ्करवाक्यजम् ॥ ५.१ ॥

ऋभुः –
त्वमेव ब्रह्म एवासि त्वमेव परमो गुरुः ।
त्वमेवाकाशरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२ ॥

त्वमेव सर्वभावोऽसि त्वमेवार्थस्त्वमव्ययः ।
त्वं सर्वहीनस्त्वं साक्षी साक्षिहीनोऽसि सर्वदा ॥ ५.३ ॥

कालस्त्वं सर्वहीनस्त्वं साक्षिहीनोऽसि सर्वदा ।
कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः ।
सर्वतत्त्वस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.४ ॥

सत्योऽसि सिद्धोऽसि सनातनोऽसि
मुक्तोऽसि मोक्षोऽसि सदाऽमृतोऽसि ।
देवोऽसि शान्तोऽसि निरामयोऽसि
ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५.५ ॥

समोऽसि सच्चासि सनातनोऽसि
सत्यादिवाक्यैः प्रतिपादितोऽसि ।
सर्वाङ्गहीनोऽसि सदास्थितोऽसि
ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५.६ ॥ var was परापरोऽसि
सर्वप्रपञ्चभ्रमवर्जितोऽसि सर्वेषु भूतेषु सदोदितोऽसि ।
सर्वत्र संकल्पविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५.७ ॥

सर्वत्र सन्तोषसुखासनोऽसि सर्वत्र विद्वेषविवर्जितोऽसि ।
सर्वत्र कार्यादिविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५.८ ॥

चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः ।
आत्मन्येवावस्थितोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.९ ॥

आनन्दोऽसि परोऽसि त्वं सर्वशून्योऽसि निर्गुणः ।
एक एवाद्वितीयोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१० ॥

चिद्घनानन्दरूपोऽसि चिदानन्दोऽसि सर्वदा ।
परिपूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.११ ॥

तदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्ष्यसि ।
चिदसि ब्रह्मभूतोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१२ ॥

अमृतोऽसि विभुश्चासि देवोऽसि त्वं महानसि ।
चञ्चलोष्ठकलङ्कोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१३ ॥

सर्वोऽसि सर्वहीनोऽसि शान्तोऽसि परमो ह्यसि ।
कारणं त्वं प्रशान्तोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१४ ॥

सत्तामात्रस्वरूपोऽसि सत्तासामान्यको ह्यसि ।
नित्यशुद्धस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१५ ॥

ईषण्मात्रविहीनोऽसि अणुमात्रविवर्जितः ।
अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ ५.१६ ॥

योऽसि सोऽसि महान्तोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१७ ॥

लक्ष्यलक्षणहीनोऽसि चिन्मात्रोऽसि निरामयः ।
अखण्डैकरसो नित्यं त्वं ब्रह्मासि न संशयः ॥ ५.१८ ॥

सर्वाधारस्वरूपोऽसि सर्वतेजः स्वरूपकः ।
सर्वार्थभेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.१९ ॥

ब्रह्मैव भेदशून्योऽसि विप्लुत्यादिविवर्जितः ।
शिवोऽसि भेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२० ॥

प्रज्ञानवाक्यहीनोऽसि स्वस्वरूपं प्रपश्यसि ।
स्वस्वरूपस्थितोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ ५.२१ ॥

स्वस्वरूपावशेषोऽसि स्वस्वरूपो मतो ह्यसि ।
स्वानन्दसिन्धुमग्नोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२२ ॥

स्वात्मराज्ये त्वमेवासि स्वयमात्मानमो ह्यसि ।
स्वयं पूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२३ ॥

स्वस्मिन् सुखे स्वयं चासि स्वस्मात् किञ्चिन्न पश्यसि ।
स्वात्मन्याकाशवद्भासि त्वं ब्रह्मासि न संशयः ॥ ५.२४ ॥

स्वस्वरूपान्न चलसि स्वस्वरूपान्न पश्यसि ।
स्वस्वरूपामृतोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ ५.२५ ॥

स्वस्वरूपेण भासि त्वं स्वस्वरूपेण जृंभसि ।
स्वस्वरूपादनन्योऽसि त्वं ब्रह्मासि न संशयः ॥ ५.२६ ॥

स्वयं स्वयं सदाऽसि त्वं स्वयं सर्वत्र पश्यसि ।
स्वस्मिन् स्वयं स्वयं भुङ्क्षे त्वं ब्रह्मासि न संशयः ॥ ५.२७ ॥

सूतः –
तदा निधाघवचसा तुष्टो ऋभुरुवाच तम् ।
शिवप्रेमरसे पात्रं तं वीक्ष्याब्जजनन्दनः ॥ ५.२८ ॥

ऋभुः –
कैलासे शङ्करः पुत्रं कदाचिदुपदिष्टवान् ।
तदेव ते प्रवक्ष्यामि सावधानमनाः श‍ृणु ॥ ५.२९ ॥

अयं प्रपञ्चो नास्त्येव नोत्पन्नो न स्वतः क्वचित् ।
चित्रप्रपञ्च इत्याहुर्नास्ति नास्त्येव सर्वदा ॥ ५.३० ॥

न प्रपञ्चो न चित्तादि नाहंकारो न जीवकः ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३१ ॥

मायकार्यादिकं नास्ति मायाकार्यभयं नहि ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३२ ॥

कर्ता नास्ति क्रिया नास्ति करणं नास्ति पुत्रक ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३३ ॥

एकं नास्ति द्वयं नास्ति मन्त्रतन्त्रादिकं च न ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३४ ॥

श्रवणं मननं नास्ति निदिध्यासनविभ्रमः ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३५ ॥

समाधिद्विविधं नास्ति मातृमानादि नास्ति हि ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३६ ॥

अज्ञानं चापि नास्त्येव अविवेककथा न च ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३७ ॥

अनुबन्धचतुष्कं च संबन्धत्रयमेव न ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३८ ॥

भूतं भविष्यन्न क्वापि वर्तमानं न वै क्वचित् ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.३९ ॥

गङ्गा गया तथा सेतुव्रतं वा नान्यदस्ति हि ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.४० ॥

न भूमिर्न जलं वह्निर्न वायुर्न च खं क्वचित् ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.४१ ॥

नैव देवा न दिक्पाला न पिता न गुरुः क्वचित् ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ५.४२ ॥

न दूरं नान्तिकं नान्तं न मध्यं न क्वचित् स्थितिः ।
नाद्वैतद्वैतसत्यत्वमसत्यं वा इदं न च ॥ ५.४३ ॥

न मोक्षोऽस्ति न बन्धोऽस्ति न वार्तावसरोऽस्ति हि ।
क्वचिद्वा किञ्चिदेवं वा सदसद्वा सुखानि च ॥ ५.४४ ॥

द्वन्द्वं वा तीर्थधर्मादि आत्मानात्मेति न क्वचित् ।
न वृद्धिर्नोदयो मृन्युर्न गमागमविभ्रमः ॥ ५.४५ ॥

इह नास्ति परं नास्ति न गुरुर्न च शिष्यकः ।
सदसन्नास्ति भूर्नास्ति कार्यं नास्ति कृतं च न ॥ ५.४६ ॥

जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ।
शमादिषट्कं नास्त्येव नियमो वा यमोऽपि वा ॥ ५.४७ ॥

सर्वं मिथ्येति नास्त्येव ब्रह्म इत्येव नास्ति हि ।
चिदित्येव हि नास्त्येव चिदहं भाषणं न हि ॥ ५.४८ ॥

अहमित्येव नास्त्येव नित्योऽस्मीति च न क्वचित् ।
केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वथा ॥ ५.४९ ॥

वाचा यदुच्यते किञ्चिन्मनसा मनुते च यत् ।
बुद्ध्या निश्चीयते यच्च चित्तेन ज्ञायते हि यत् ॥ ५.५० ॥

योगेन युज्यते यच्च इन्द्रियाद्यैश्च यत् कृतम् ।
जाग्रत्स्वप्नसुषुप्तिं च स्वप्नं वा न तुरीयकम् ॥ ५.५१ ॥

सर्वं नास्तीति विज्ञेयं यदुपाधिविनिश्चितम् ।
स्नानाच्छुद्धिर्न हि क्वापि ध्यानात् शुद्धिर्न हि क्वचित् ॥ ५.५२ ॥

गुणत्रयं नास्ति किञ्चिद्गुणत्रयमथापि वा ।
एकद्वित्वपदं नास्ति न बहुभ्रमविभ्रमः ॥ ५.५३ ॥

भ्रान्त्यभ्रान्ति च नास्त्येव किञ्चिन्नास्तीति निश्चिनु ।
केवलं ब्रह्ममात्रत्वात् न किञ्चिदवशिष्यते ॥ ५.५४ ॥

इदं श‍ृणोति यः सम्यक् स ब्रह्म भवति स्वयम् ॥ ५.५५ ॥

ईश्वरः –
वाराश्यम्बुनि बुद्बुदा इव घनानन्दाम्बुधावप्युमा-
कान्तेऽनन्तजगद्गतं सुरनरं जातं च तिर्यङ् मुहुः ।
भूतं चापि भविष्यति प्रतिभवं मायामयं चोर्मिजं
सम्यङ् मामनुपश्यतामनुभवैर्नास्त्येव तेषां भवः ॥ ५.५६ ॥

हरं विज्ञातारं निखिलतनुकार्येषु करणं
न जानन्ते मोहाद्यमितकरणा अप्यतितराम् ।
उमानाथाकारं हृदयदहरान्तर्गतसरा
पयोजाते भास्वद्भवभुजगनाशाण्डजवरम् ॥ ५.५७ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
शिवेन कुमारोपदेशवर्णनं नाम पञ्चमोऽध्यायः ॥

६ ॥ षष्ठोऽध्यायः ॥

ईश्वरः –
व्रतानि मिथ्या भुवनानि मिथ्या
भावादि मिथ्या भवनानि मिथ्या ।
भयं च मिथ्या भरणादि मिथ्या
भुक्तं च मिथ्या बहुबन्धमिथ्या ॥ ६.१ ॥

वेदाश्च मिथ्या वचनानि मिथ्या
वाक्यानि मिथ्या विविधानि मिथ्या ।
वित्तानि मिथ्या वियदादि मिथ्या
विधुश्च मिथ्या विषयादि मिथ्या ॥ ६.२ ॥

गुरुश्च मिथ्या गुणदोषमिथ्या
गुह्यं च मिथ्या गणना च मिथ्या ।
गतिश्च मिथ्या गमनं च मिथ्या
सर्वं च मिथ्या गदितं च मिथ्या ॥ ६.३ ॥

वेदशास्त्रपुराणं च कार्यं कारणमीश्वरः ।
लोको भूतं जनं चैव सर्वं मिथ्या न संशयः ॥ ६.४ ॥

बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः ।
गौणं मुख्यं परं चान्यत् सर्वं मिथ्या न संशयः ॥ ६.५ ॥

वाचा वदति यत्किञ्चित् सर्वं मिथ्या न संशयः ।
सङ्कल्पात् कल्प्यते यद्यत् मनसा चिन्त्यते च यत् ॥ ६.६ ॥

बुद्ध्या निश्चीयते किञ्चित् चित्तेन नीयते क्वचित् ।
प्रपञ्चे पञ्चते यद्यत् सर्वं मिथ्येति निश्चयः ॥ ६.७ ॥

श्रोत्रेण श्रूयते यद्यन्नेत्रेण च निरीक्ष्यते ।
नेत्रं श्रोत्रं गात्रमेव सर्वं मिथ्या न संशयः ॥ ६.८ ॥

इदमित्येव निर्दिष्टमिदमित्येव कल्पितम् ।
यद्यद्वस्तु परिज्ञातं सर्वं मिथ्या न संशयः ॥ ६.९ ॥

कोऽहं किन्तदिदं सोऽहं अन्यो वाचयते नहि ।
यद्यत् संभाव्यते लोके सर्वं मिथ्येति निश्चयः ॥ ६.१० ॥

सर्वाभ्यास्यं सर्वगोप्यं सर्वकारणविभ्रमः ।
सर्वभूतेति वार्ता च मिथ्येति च विनिश्चयः ॥ ६.११ ॥

सर्वभेदप्रभेदो वा सर्वसंकल्पविभ्रमः ।
सर्वदोषप्रभेदश्च सर्वं मिथ्या न संशयः ॥ ६.१२ ॥

रक्षको विष्णुरित्यादि ब्रह्मसृष्टेस्तु कारणम् ।
संहारे शिव इत्येवं सर्वं मिथ्या न संशयः ॥ ६.१३ ॥

स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् ।
मन्त्रो गोत्रं च सत्सङ्गः सर्वं मिथ्या न संशयः ॥ ६.१४ ॥

सर्वं मिथ्या जगन्मिथ्या भूतं भव्यं भवत्तथा ।
नास्ति नास्ति विभावेन सर्वं मिथ्या न संशयः ॥ ६.१५ ॥

चित्तभेदो जगद्भेदः अविद्यायाश्च संभवः ।
अनेककोटिब्रह्माण्डाः सर्वं ब्रह्मेति निश्चिनु ॥ ६.१६ ॥

लोकत्रयेषु सद्भावो गुणदोषादिजृंभणम् ।
सर्वदेशिकवार्तोक्तिः सर्वं ब्रह्मेति निश्चिनु ॥ ६.१७ ॥

उत्कृष्टं च निकृष्टं च उत्तमं मध्यमं च तत् ।
ॐकारं चाप्यकारं च सर्वं ब्रह्मेति निश्चिनु ॥ ६.१८ ॥

यद्यज्जगति दृश्येत यद्यज्जगति वीक्ष्यते ।
यद्यज्जगति वर्तेत सर्वं ब्रह्मेति निश्चिनु ॥ ६.१९ ॥

येन केनाक्षरेणोक्तं येन केनापि सङ्गतम् ।
येन केनापि नीतं तत् सर्वं ब्रह्मेति निश्चिनु ॥ ६.२० ॥

येन केनापि गदितं येन केनापि मोदितम् ।
येन केनापि च प्रोक्तं सर्वं ब्रह्मेति निश्चिनु ॥ ६.२१ ॥

येन केनापि यद्दत्तं येन केनापि यत् कृतम् ।
यत्र कुत्र जलस्नानं सर्वं ब्रह्मेति निश्चिनु ॥ ६.२२ ॥

यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् ।
यद्यत् करोषि सत्येन सर्वं मिथ्येति निश्चिनु ॥ ६.२३ ॥

इदं सर्वमहं सर्वं सर्वं ब्रह्मेति निश्चिनु ।
यत् किञ्चित् प्रतिभातं च सर्वं मिथ्येति निश्चिनु ॥ ६.२४ ॥

ऋभुः –
पुनर्वक्ष्ये रहस्यानां रहस्यं परमाद्भुतम् ।
शङ्करेण कुमाराय प्रोक्तं कैलास पर्वते ॥ ६.२५ ॥

तन्मात्रं सर्वचिन्मात्रमखण्डैकरसं सदा ।
एकवर्जितचिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.२६ ॥

इदं च सर्वं चिन्मात्रं सर्वं चिन्मयमेव हि ।
आत्माभासं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.२७ ॥

सर्वलोकं च चिन्मात्रं सर्वं चिन्मयमेव हि ।
त्वत्ता मत्ता च चिन्मात्रं चिन्मात्रान्नास्ति किञ्चन ॥ ६.२८ ॥

आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः ।
यत्किञ्चिदन्यत् किञ्चिच्च सर्वं चिन्मयमेव हि ॥ ६.२९ ॥

अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि ।
भूतं भव्यं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३० ॥

द्रव्यं कालश्च चिन्मात्रं ज्ञानं चिन्मयमेव च ।
ज्ञेयं ज्ञानं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३१ ॥

संभाषणं च चिन्मात्रं वाक् च चिन्मात्रमेव हि ।
असच्च सच्च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६.३२ ॥

आदिरन्तं च चिन्मात्रं अस्ति चेच्चिन्मयं सदा ।
ब्रह्मा यद्यपि चिन्मात्रं विष्णुश्चिन्मात्रमेव हि ॥ ६.३३ ॥

रुद्रोऽपि देवाश्चिन्मात्रं अस्ति नरतिर्यक्सुरासुरम् ।
गुरुशिष्यादि सन्मात्रं ज्ञानं चिन्मात्रमेव हि ॥ ६.३४ ॥

दृग्दृश्यं चापि चिन्मात्रं ज्ञाता ज्ञेयं ध्रुवाध्रुवम् ।
सर्वाश्चर्यं च चिन्मात्रं देहं चिन्मात्रमेव हि ॥ ६.३५ ॥

लिङ्गं चापि च चिन्मात्रं कारणं कार्यमेव च ।
मूर्तामूर्तं च चिन्मात्रं पापपुण्यमथापि च ॥ ६.३६ ॥

द्वैताद्वैतं च चिन्मात्रं वेदवेदान्तमेव च ।
दिशोऽपि विदिशश्चैव चिन्मात्रं तस्य पालकाः ॥ ६.३७ ॥

चिन्मात्रं व्यवहारादि भूतं भव्यं भवत्तथा ।
चिन्मात्रं नामरूपं च भूतानि भुवनानि च ॥ ६.३८ ॥

चिन्मात्रं प्राण एवेह चिन्मात्रं सर्वमिन्द्रियम् ।
चिन्मात्रं पञ्चकोशादि चिन्मात्रानन्दमुच्यते ॥ ६.३९ ॥

नित्यानित्यं च चिन्मात्रं सर्वं चिन्मात्रमेव हि ।
चिन्मात्रं नास्ति नित्यं च चिन्मात्रं नास्ति सत्यकम् ॥ ६.४० ॥

चिन्मात्रमपि वैराग्यं चिन्मात्रकमिदं किल ।
आधारादि हि चिन्मात्रं आधेयं च मुनीश्वर ॥ ६.४१ ॥

यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते ।
यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि ॥ ६.४२ ॥

यच्च यावच्च भूतानि यच्च यावच्च वक्ष्यते ।
यच्च यावच्च वेदोक्तं सर्वं चिन्मात्रमेव हि ॥ ६.४३ ॥

चिन्मात्रं नास्ति बन्धं च चिन्मात्रं नास्ति मोक्षकम् ।
चिन्मात्रमेव सन्मात्रं सत्यं सत्यं शिवं स्पृशे ॥ ६.४४ ॥

सर्वं वेदत्रयप्रोक्तं सर्वं चिन्मात्रमेव हि ।
शिवप्रोक्तं कुमाराय तदेतत् कथितं त्वयि ।
यः श‍ृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ६.४५ ॥

सूतः –
ईशावास्यादिमन्त्रैर्वरगगनतनोः क्षेत्रवासार्थवादैः
तल्लिङ्गागारमध्यस्थितसुमहदीशान लिङ्गेषु पूजा ।
अक्लेद्ये चाभिषेको ??? ??? ??? दिग्वाससे वासदानं
नो गन्धघ्राणहीने रूपदृश्याद्विहीने गन्धपुष्पार्पणानि ॥ ६.४६ ॥

स्वभासे दीपदानं ??? सर्वभक्षे महेशे
नैवेद्यं नित्यतृप्ते सकलभुवनगे प्रक्रमो वा नमस्या ।
कुर्यां केनापि भावैर्मम निगमशिरोभाव एव प्रमाणम् ॥ ६.४७ ॥

अविच्छिन्नैश्छिन्नैः परिकरवरैः पूजनधिया
भजन्त्यज्ञास्तद्ज्ञाः विधिविहितबुद्ध्यागतधियः ।var was तदज्ञाः
तथापीशं भावैर्भजति भजतामात्मपदवीं
ददातीशो विश्वं भ्रमयति गतज्ञांश्च कुरुते ॥ ६.४८ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
प्रपञ्चस्य सच्चिन्मयत्वकथनं नाम षष्ठोऽध्यायः ॥

७ ॥ सप्तमोऽध्यायः ॥

ऋभुः –
अत्यद्भुतं प्रवक्ष्यामि सर्वलोकेषु दुर्लभम् ।
वेदशास्त्रमहासारं दुर्लभं दुर्लभं सदा ॥ ७.१ ॥

अखण्डैकरसो मन्त्रमखण्डैकरसं फलम् ।
अखण्डैकरसो जीव अखण्डैकरसा क्रिया ॥ ७.२ ॥

अखण्डैकरसा भूमिरखण्डैकरसं जलम् ।
अखण्डैकरसो गन्ध अखण्डैकरसं वियत् ॥ ७.३ ॥

अखण्डैकरसं शास्त्रं अखण्डैकरसं श्रुतिः ।
अखण्डैकरसं ब्रह्म अखण्डैकरसं व्रतम् ॥ ७.४ ॥

अखण्डैकरसो विष्णुरखण्डैकरसः शिवः ।
अखण्डैकरसो ब्रह्मा अखण्डैकरसाः सुराः ॥ ७.५ ॥

अखण्डैकरसं सर्वमखण्डैकरसः स्वयम् ।
अखण्डैकरसश्चात्मा अखण्डैकरसो गुरुः ॥ ७.६ ॥

अखण्डैकरसं वाच्यमखण्डैकरसं महः ।
अखण्डैकरसं देह अखण्डैकरसं मनः ॥ ७.७ ॥

अखण्डैकरसं चित्तं अखण्डैकरसं सुखम् ।
अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः ॥ ७.८ ॥

अखण्डैकरसं नित्यमखण्डैकरसः परः ।
अखण्डैकरसात् किञ्चिदखण्डैकरसादहम् ॥ ७.९ ॥

अखण्डैकरसं वास्ति अखण्डैकरसं न हि ।
अखण्डैकरसादन्यत् अखण्डैकरसात् परः ॥ ७.१० ॥

अखण्डैकरसात् स्थूलं अखण्डैकरसं जनः ।
अखण्डैकरसं सूक्ष्ममखण्डैकरसं द्वयम् ॥ ७.११ ॥

अखण्डैकरसं नास्ति अखण्डैकरसं बलम् ।
अखण्डैकरसाद्विष्णुरखण्डैकरसादणुः ॥ ७.१२ ॥

अखण्डैकरसं नास्ति अखण्डैकरसाद्भवान् ।
अखण्डैकरसो ह्येव अखण्डैकरसादितम् ॥ ७.१३ ॥

अखण्डितरसाद् ज्ञानं अखण्डितरसाद् स्थितम् ।
अखण्डैकरसा लीला अखण्डैकरसः पिता ॥ ७.१४ ॥ var was लीना
अखण्डैकरसा भक्ता अखण्डैकरसः पतिः ।
अखण्डैकरसा माता अखण्डैकरसो विराट् ॥ ७.१५ ॥

अखण्डैकरसं गात्रं अखण्डैकरसं शिरः ।
अखण्डैकरसं घ्राणं अखण्डैकरसं बहिः ॥ ७.१६ ॥

अखण्डैकरसं पूर्णमखण्डैकरसामृतम् ।
अखण्डैकरसं श्रोत्रमखण्डैकरसं गृहम् ॥ ७.१७ ॥

अखण्डैकरसं गोप्यमखण्डैकरसः शिवः ।
अखण्डैकरसं नाम अखण्डैकरसो रविः ॥ ७.१८ ॥

अखण्डैकरसः सोमः अखण्डैकरसो गुरुः ।
अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् ॥ ७.१९ ॥

अखण्डैकरसो बन्धुरखण्डैकरसोऽस्म्यहम् ।
अखण्डैकरसो राजा अखण्डैकरसं पुरम् ॥ ७.२० ॥

अखण्डैकरसैश्वर्यं अखण्डैकरसं प्रभुः ।
अखण्डैकरसो मन्त्र अखण्डैकरसो जपः ॥ ७.२१ ॥

अखण्डैकरसं ध्यानमखण्डैकरसं पदम् ।
अखण्डैकरसं ग्राह्यमखण्डैकरसं महान् ॥ ७.२२ ॥

अखण्डैकरसं ज्योतिरखण्डैकरसं परम् ।
अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥ ७.२३ ॥

अखण्डैकरसो होमः अखण्डैकरसो जयः ।
अखण्डैकरसः स्वर्गः अखण्डैकरसः स्वयम् ॥ ७.२४ ॥

अखण्डैकरसाकारादन्यन्नास्ति नहि क्वचित् ।
श‍ृणु भूयो महाश्चर्यं नित्यानुभवसम्पदम् ॥ ७.२५ ॥

दुर्लभं दुर्लभं लोके सर्वलोकेषु दुर्लभम् ।
अहमस्मि परं चास्मि प्रभास्मि प्रभवोऽस्म्यहम् ॥ ७.२६ ॥

सर्वरूपगुरुश्चास्मि सर्वरूपोऽस्मि सोऽस्म्यहम् ।
अहमेवास्मि शुद्धोऽस्मि ऋद्धोऽस्मि परमोऽस्म्यहम् ॥ ७.२७ ॥

अहमस्मि सदा ज्ञोऽस्मि सत्योऽस्मि विमलोऽस्म्यहम् ।
विज्ञानोऽस्मि विशेषोऽस्मि साम्योऽस्मि सकलोऽस्म्यहम् ॥ ७.२८ ॥

शुद्धोऽस्मि शोकहीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् ।
मानावमानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् ॥ ७.२९ ॥

द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम् ।
भावाभावविहीनोऽस्मि भाषाहीनोऽस्मि सोऽस्म्यहम् ॥ ७.३० ॥

शून्याशून्यप्रभावोऽस्मि शोभनोऽस्मि मनोऽस्म्यहम् ।
तुल्यातुल्यविहीनोऽस्मि तुच्छभावोऽस्मि नास्म्यहम् ॥ ७.३१ ॥

सदा सर्वविहीनोऽस्मि सात्विकोऽस्मि सदास्म्यहम् ।
एकसंख्याविहीनोऽस्मि द्विसंख्या नास्ति नास्म्यहम् ॥ ७.३२ ॥

सदसद्भेदहीनोऽस्मि संकल्परहितोऽस्म्यहम् ।
नानात्मभेदहीनोऽस्मि यत् किञ्चिन्नास्ति सोऽस्म्यहम् ॥ ७.३३ ॥

नाहमस्मि न चान्योऽस्मि देहादिरहितोऽस्म्यहम् ।
आश्रयाश्रयहीनोऽस्मि आधाररहितोऽस्म्यहम् ॥ ७.३४ ॥

बन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मादि सोऽस्म्यहम् ।
चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परोऽस्म्यहम् ॥ ७.३५ ॥

सदा विचाररूपोऽस्मि निर्विचारोऽस्मि सोऽस्म्यहम् ।
आकारादिस्वरूपोऽस्मि उकारोऽस्मि मुदोऽस्म्यहम् ॥ ७.३६ ॥

ध्यानाध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम् ।
पूर्णात् पूर्णोऽस्मि पूर्णोऽस्मि सर्वपूर्णोऽस्मि सोऽस्म्यहम् ॥ ७.३७ ॥

सर्वातीतस्वरूपोऽस्मि परं ब्रह्मास्मि सोऽस्म्यहम् ।
लक्ष्यलक्षणहीनोऽस्मि लयहीनोऽस्मि सोऽस्म्यहम् ॥ ७.३८ ॥

मातृमानविहीनोऽस्मि मेयहीनोऽस्मि सोऽस्म्यहम् ।
अगत् सर्वं च द्रष्टास्मि नेत्रादिरहितोऽस्म्यहम् ॥ ७.३९ ॥

प्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि परोऽस्म्यहम् ।
सर्वेन्द्रियविहीनोऽस्मि सर्वकर्महितोऽस्म्यहम् ॥ ७.४० ॥

सर्ववेदान्ततृप्तोऽस्मि सर्वदा सुलभोऽस्म्यहम् ।
मुदा मुदितशून्योऽस्मि सर्वमौनफलोऽस्म्यहम् ॥ ७.४१ ॥

नित्यचिन्मात्ररूपोऽस्मि सदसच्चिन्मयोऽस्म्यहम् ।
यत् किञ्चिदपि हीनोऽस्मि स्वल्पमप्यति नाहितम् ॥ ७.४२ ॥

हृदयग्रन्थिहीनोऽस्मि हृदयाद्व्यापकोऽस्म्यहम् ।
षड्विकारविहीनोऽस्मि षट्कोशरहितोऽस्म्यहम् ॥ ७.४३ ॥

अरिषड्वर्गमुक्तोऽस्मि अन्तरादन्तरोऽस्म्यहम् ।
देशकालविहीनोऽस्मि दिगम्बरमुखोऽस्म्यहम् ॥ ७.४४ ॥

नास्ति हास्ति विमुक्तोऽस्मि नकाररहितोऽस्म्यहम् ।
सर्वचिन्मात्ररूपोऽस्मि सच्चिदानन्दमस्म्यहम् ॥ ७.४५ ॥

अखण्डाकाररूपोऽस्मि अखण्डाकारमस्म्यहम् ।
प्रपञ्चचित्तरूपोऽस्मि प्रपञ्चरहितोऽस्म्यहम् ॥ ७.४६ ॥

सर्वप्रकाररूपोऽस्मि सद्भावावर्जितोऽस्म्यहम् ।
कालत्रयविहीनोऽस्मि कामादिरहितोऽस्म्यहम् ॥ ७.४७ ॥

कायकायिविमुक्तोऽस्मि निर्गुणप्रभवोऽस्म्यहम् ।
मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहं सदा ॥ ७.४८ ॥

सत्यासत्यविहीनोऽस्मि सदा सन्मात्रमस्म्यहम् ।
गन्तव्यदेशहीनोऽस्मि गमनारहितोऽस्म्यहम् ॥ ७.४९ ॥

सर्वदा स्मररूपोऽस्मि शान्तोऽस्मि सुहितोऽस्म्यहम् ।
एवं स्वानुभवं प्रोक्तं एतत् प्रकरणं महत् ॥ ७.५० ॥

यः श‍ृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ।
पिण्डाण्डसंभवजगद्गतखण्डनोद्य-
द्वेतण्डशुण्डनिभपीवरबाहुदण्ड ।
ब्रह्मोरुमुण्डकलिताण्डजवाहबाण
कोदण्डभूधरधरं भजतामखण्डम् ॥ ७.५१ ॥

विश्वात्मन्यद्वितीये भगवति गिरिजानायके काशरूपे
नीरूपे विश्वरूपे गतदुरितधियः प्राप्नुवन्त्यात्मभावम् ।
अन्ये भेदधियः श्रुतिप्रकथितैर्वर्णाश्रमोत्थश्रमैः
तान्ताः शान्तिविवर्जिता विषयिणो दुःखं भजन्त्यन्वहम् ॥ ७.५२ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
स्वात्मनिरूपणं नाम सप्तमोऽध्यायः ॥

८ ॥ अष्टमोऽध्यायः ॥

ऋभुः –
वक्ष्ये प्रपञ्चशून्यत्वं शशश‍ृङ्गेण संमितम् ।
दुर्लभं सर्वलोकेषु सावधानमनाः श‍ृणु ॥ ८.१ ॥

इदं प्रपञ्चं यत् किञ्चिद्यः श‍ृणोति च पश्यति ।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ ८.२ ॥

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकारश्च तेजश्च सर्वं शशविषाणवत् ॥ ८.३ ॥

नाश जन्म च सत्यं च लोकं भुवनमण्डलम् ।
पुण्यं पापं जयो मोहः सर्वं शशविषाणवत् ॥ ८.४ ॥

कामक्रोधौ लोभमोहौ मदमोहौ रतिर्धृतिः ।
गुरुशिष्योपदेशादि सर्वं शशविषाणवत् ॥ ८.५ ॥

अहं त्वं जगदित्यादि आदिरन्तिममध्यमम् ।
भूतं भव्यं वर्तमानं सर्वं शशविषाणवत् ॥ ८.६ ॥

स्थूलदेहं सूक्ष्मदेहं कारणं कार्यमप्ययम् ।
दृश्यं च दर्शनं किञ्चित् सर्वं शशविषाणवत् ॥ ८.७ ॥

भोक्ता भोज्यं भोगरूपं लक्ष्यलक्षणमद्वयम् ।
शमो विचारः सन्तोषः सर्वं शशविषाणवत् ॥ ८.८ ॥

यमं च नियमं चैव प्राणायामादिभाषणम् ।
गमनं चलनं चित्तं सर्वं शशविषाणवत् ॥ ८.९ ॥

श्रोत्रं नेत्रं गात्रगोत्रं गुह्यं जाड्यं हरिः शिवः ।
आदिरन्तो मुमुक्षा च सर्वं शशविषाणवत् ॥ ८.१० ॥

ज्ञानेन्द्रियं च तन्मात्रं कर्मेन्द्रियगणं च यत् ।
जाग्रत्स्वप्नसुषुप्त्यादि सर्वं शशविषाणवत् ॥ ८.११ ॥

चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् ।
सजातीयं विजातीयं सर्वं शशविषाणवत् ॥ ८.१२ ॥

सर्वलोकं सर्वभूतं सर्वधर्मं सतत्वकम् ।
सर्वाविद्या सर्वविद्या सर्वं शशविषाणवत् ॥ ८.१३ ॥

सर्ववर्णः सर्वजातिः सर्वक्षेत्रं च तीर्थकम् ।
सर्ववेदं सर्वशास्त्रं सर्वं शशविषाणवत् ॥ ८.१४ ॥

सर्वबन्धं सर्वमोक्षं सर्वविज्ञानमीश्वरः ।
सर्वकालं सर्वबोध सर्वं शशविषाणवत् ॥ ८.१५ ॥

सर्वास्तित्वं सर्वकर्म सर्वसङ्गयुतिर्महान् ।
सर्वद्वैतमसद्भावं सर्वं शशविषाणवत् ॥ ८.१६ ॥

सर्ववेदान्तसिद्धान्तः सर्वशास्त्रार्थनिर्णयः ।
सर्वजीवत्वसद्भावं सर्वं शशविषाणवत् ॥ ८.१७ ॥

यद्यत् संवेद्यते किञ्चित् यद्यज्जगति दृश्यते ।
यद्यच्छृणोति गुरुणा सर्वं शशविषाणवत् ॥ ८.१८ ॥

यद्यद्ध्यायति चित्ते च यद्यत् संकल्प्यते क्वचित् ।
बुद्ध्या निश्चीयते यच्च सर्वं शशविषाणवत् ॥ ८.१९ ॥

यद्यद् वाचा व्याकरोति यद्वाचा चार्थभाषणम् ।
यद्यत् सर्वेन्द्रियैर्भाव्यं सर्वं शशविषाणवत् ॥ ८.२० ॥

यद्यत् सन्त्यज्यते वस्तु यच्छृणोति च पश्यति ।
स्वकीयमन्यदीयं च सर्वं शशविषाणवत् ॥ ८.२१ ॥

सत्यत्वेन च यद्भाति वस्तुत्वेन रसेन च ।
यद्यत् सङ्कल्प्यते चित्ते सर्वं शशविषाणवत् ॥ ८.२२ ॥

यद्यदात्मेति निर्णीतं यद्यन्नित्यमितं वचः ।
यद्यद्विचार्यते चित्ते सर्वं शशविषाणवत् ॥ ८.२३ ॥

शिवः संहरते नित्यं विष्णुः पाति जगत्त्रयम् ।
स्रष्टा सृजति लोकान् वै सर्वं शशविषाणवत् ॥ ८.२४ ॥

जीव इत्यपि यद्यस्ति भाषयत्यपि भाषणम् ।
संसार इति या वार्ता सर्वं शशविषाणवत् ॥ ८.२५ ॥

यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयः ।
सर्वोपनिषदां भावं सर्वं शशविषाणवत् ॥ ८.२६ ॥

शशश‍ृङ्गवदेवेदमुक्तं प्रकरणं तव ।
यः श‍ृणोति रहस्यं वै ब्रह्मैव भवति स्वयम् ॥ ८.२७ ॥

भूयः श‍ृणु निदाघ त्वं सर्वं ब्रह्मेति निश्चयम् ।
सुदुर्लभमिदं नॄणां देवानामपि सत्तम ॥ ८.२८ ॥

इदमित्यपि यद्रूपमहमित्यपि यत्पुनः ।
दृश्यते यत्तदेवेदं सर्वं ब्रह्मेति केवलम् ॥ ८.२९ ॥

देहोऽयमिति सङ्कल्पस्तदेव भयमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३० ॥

देहोऽहमिति सङ्कल्पस्तदन्तःकरणं स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३१ ॥

देहोऽहमिति सङ्कल्पः स हि संसार उच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३२ ॥

देहोऽहमिति सङ्कल्पस्तद्बन्धनमिहोच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३३ ॥

देहोऽहमिति यद् ज्ञानं तदेव नरकं स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३४ ॥

देहोऽहमिति सङ्कल्पो जगत् सर्वमितीर्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३५ ॥

देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितः ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३६ ॥

देहत्रयेऽपि भावं यत् तद्देहज्ञानमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३७ ॥

देहोऽहमिति यद्भावं सदसद्भावमेव च ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३८ ॥

देहोऽहमिति सङ्कल्पस्तत्प्रपञ्चमिहोच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.३९ ॥

देहोऽहमिति सङ्कल्पस्तदेवाज्ञानमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४० ॥

देहोऽहमिति या बुद्धिर्मलिना वासनोच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४१ ॥

देहोऽहमिति या बुद्धिः सत्यं जीवः स एव सः ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४२ ॥

देहोऽहमिति सङ्कल्पो महानरकमीरितम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४३ ॥

देहोऽहमिति या बुद्धिर्मन एवेति निश्चितम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४४ ॥

देहोऽहमिति या बुद्धिः परिच्छिन्नमितीर्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४५ ॥

देहोऽहमिति यद् ज्ञानं सर्वं शोक इतीरितम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४६ ॥

देहोऽहमिति यद् ज्ञानं संस्पर्शमिति कथ्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४७ ॥

देहोऽहमिति या बुद्धिस्तदेव मरणं स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४८ ॥

देहोऽहमिति या बुद्धिस्तदेवाशोभनं स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.४९ ॥

देहोऽहमिति या बुद्धिर्महापापमिति स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५० ॥

देहोऽहमिति या बुद्धिः तुष्टा सैव हि चोच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५१ ॥

देहोऽहमिति सङ्कल्पः सर्वदोषमिति स्मृतम् ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५२ ॥

देहोऽहमिति सङ्कल्पस्तदेव मलमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५३ ॥

देहोऽहमिति सङ्कल्पो महत्संशयमुच्यते ।
कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८.५४ ॥

यत्किञ्चित्स्मरणं दुःखं यत्किञ्चित् स्मरणं जगत् ।
यत्किञ्चित्स्मरणं कामो यत्किञ्चित्स्मरणं मलम् ॥ ८.५५ ॥

यत्किञ्चित्स्मरणं पापं यत्किञ्चित्स्मरणं मनः ।
यत्किञ्चिदपि सङ्कल्पं महारोगेति कथ्यते ॥ ८.५६ ॥

यत्किञ्चिदपि सङ्कल्पं महामोहेति कथ्यते ।
यत्किञ्चिदपि सङ्कल्पं तापत्रयमुदाहृतम् ॥ ८.५७ ॥

यत्किञ्चिदपि सङ्कल्पं कामक्रोधं च कथ्यते ।
यत्किञ्चिदपि सङ्कल्पं संबन्धो नेतरत् क्वचित् ॥ ८.५८ ॥

यत्किञ्चिदपि सङ्कल्पं सर्वदुःखेति नेतरत् ।
यत्किञ्चिदपि सङ्कल्पं जगत्सत्यत्वविभ्रमम् ॥ ८.५९ ॥

यत्किञ्चिदपि सङ्कल्पं महादोषं च नेतरत् ।
यत्किञ्चिदपि सङ्कल्पं कालत्रयमुदीरितम् ॥ ८.६० ॥

यत्किञ्चिदपि सङ्कल्पं नानारूपमुदीरितम् ।
यत्र यत्र च सङ्कल्पं तत्र तत्र महज्जगत् ॥ ८.६१ ॥

यत्र यत्र च सङ्कल्पं तदेवासत्यमेव हि ।
यत्किञ्चिदपि सङ्कल्पं तज्जगन्नास्ति संशयः ॥ ८.६२ ॥

यत्किञ्चिदपि सङ्कल्पं तत्सर्वं नेति निश्चयः ।
मन एव जगत्सर्वं मन एव महारिपुः ॥ ८.६३ ॥

मन एव हि संसारो मन एव जगत्त्रयम् ।
मन एव महादुःखं मन एव जरादिकम् ॥ ८.६४ ॥

मन एव हि कालं च मन एव मलं सदा ।
मन एव हि सङ्कल्पो मन एव हि जीवकः ॥ ८.६५ ॥

मन एवाशुचिर्नित्यं मन एवेन्द्रजालकम् ।
मन एव सदा मिथ्या मनो वन्ध्याकुमारवत् ॥ ८.६६ ॥

मन एव सदा नास्ति मन एव जडं सदा ।
मन एव हि चित्तं च मनोऽहंकारमेव च ॥ ८.६७ ॥

मन एव महद्बन्धं मनोऽन्तःकरणं क्वचित् ।
मन एव हि भूमिश्च मन एव हि तोयकम् ॥ ८.६८ ॥

मन एव हि तेजश्च मन एव मरुन्महान् ।
मन एव हि चाकाशो मन एव हि शब्दकः ॥ ८.६९ ॥

मन एव स्पर्शरूपं मन एव हि रूपकम् ।
मन एव रसाकारं मनो गन्धः प्रकीर्तितः ॥ ८.७० ॥

अन्नकोशं मनोरूपं प्राणकोशं मनोमयम् ।
मनोकोशं मनोरूपं विज्ञानं च मनोमयः ॥ ८.७१ ॥

मन एवानन्दकोशं मनो जाग्रदवस्थितम् ।
मन एव हि स्वप्नं च मन एव सुषुप्तिकम् ॥ ८.७२ ॥

मन एव हि देवादि मन एव यमादयः ।
मन एव हि यत्किञ्चिन्मन एव मनोमयः ॥ ८.७३ ॥

मनोमयमिदं विश्वं मनोमयमिदं पुरम् ।
मनोमयमिदं भूतं मनोमयमिदं द्वयम् ॥ ८.७४ ॥

मनोमयमियं जातिर्मनोमयमयं गुणः ।
मनोमयमिदं दृश्यं मनोमयमिदं जडम् ॥ ८.७५ ॥

मनोमयमिदं यद्यन्मनो जीव इति स्थितम् ।
सङ्कल्पमात्रमज्ञानं भेदः सङ्कल्प एव हि ॥ ८.७६ ॥

सङ्कल्पमात्रं विज्ञानं द्वन्द्वं सङ्कल्प एव हि ।
सङ्कल्पमात्रकालं च देशं सङ्कल्पमेव हि ॥ ८.७७ ॥

सङ्कल्पमात्रो देहश्च प्राणः सङ्कल्पमात्रकः ।
सङ्कल्पमात्रं मननं सङ्कल्पं श्रवणं सदा ॥ ८.७८ ॥

सङ्कल्पमात्रं नरकं सङ्कल्पं स्वर्ग इत्यपि ।
सङ्कल्पमेव चिन्मात्रं सङ्कल्पं चात्मचिन्तनम् ॥ ८.७९ ॥

सङ्कल्पं वा मनाक्तत्त्वं ब्रह्मसङ्कल्पमेव हि ।
सङ्कल्प एव यत्किञ्चित् तन्नास्त्येव कदाचन ॥ ८.८० ॥

नास्ति नास्त्येव सङ्कल्पं नास्ति नास्ति जगत्त्रयम् ।
नास्ति नास्ति गुरुर्नास्ति नास्ति शिष्योऽपि वस्तुतः ॥ ८.८१ ॥

नास्ति नास्ति शरीरं च नास्ति नास्ति मनः क्वचित् ।
नास्ति नास्त्येव किञ्चिद्वा नास्ति नास्त्यखिलं जगत् ॥ ८.८२ ॥

नास्ति नास्त्येव भूतं वा सर्वं नास्ति न संशयः ।
᳚सर्वं नास्ति᳚ प्रकरणं मयोक्तं च निदाघ ते ।
यः श‍ृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ८.८३ ॥

वेदान्तैरपि चन्द्रशेखरपदाम्भोजानुरागादरा-
दारोदारकुमारदारनिकरैः प्राणैर्वनैरुज्झितः ।
त्यागाद्यो मनसा सकृत् शिवपदध्यानेन यत्प्राप्यते
तन्नैवाप्यति शब्दतर्कनिवहैः शान्तं मनस्तद्भवेत् ॥ ८.८४ ॥

अशेषदृश्योज्झितदृङ्मयानां
सङ्कल्पवर्जेन सदास्थितानाम् ।
न जाग्रतः स्वप्नसुषुप्तिभावो
न जीवनं नो मरणं च चित्रम् ॥ ८.८५ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
प्रपञ्चशून्यत्व-सर्वनास्तित्वनिरूपणं नाम अष्टमोऽध्यायः ॥

९ ॥ नवमोऽध्यायः ॥

निदाघः-
कुत्र वा भवता स्नानं क्रियते नितरां गुरो ।
स्नानमन्त्रं स्नानकालं तर्पणं च वदस्व मे ॥ ९.१ ॥

ऋभुः –
आत्मस्नानं महास्नानं नित्यस्नानं न चान्यतः ।
इदमेव महास्नानं अहं ब्रह्मास्मि निश्चयः ॥ ९.२ ॥

परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् ।
इदमेव महास्नानं अहं ब्रह्मेति निश्चयः ॥ ९.३ ॥

केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् ।
केवलं शान्तरूपोऽहं केवलं निर्मलोऽस्म्यहम् ॥ ९.४ ॥

केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.५ ॥

केवलं सर्वरूपोऽहं अहंत्यक्तोऽहमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.६ ॥

सर्वहीनस्वरूपोऽहं चिदाकाशोऽहमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.७ ॥

केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.८ ॥

सदा चैतन्यरूपोऽस्मि सच्चिदानन्दमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.९ ॥

केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१० ॥

केवलं ज्ञानशुद्धोऽस्मि केवलोऽस्मि प्रियोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.११ ॥

केवलं निर्विकल्पोऽस्मि स्वस्वरूपोऽहमस्मि ह ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१२ ॥

सदा सत्सङ्गरूपोऽस्मि सर्वदा परमोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१३ ॥

सदा ह्येकस्वरूपोऽस्मि सदाऽनन्योऽस्म्यहं सुखम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१४ ॥

अपरिच्छिन्नरूपोऽहम् अनन्तानन्दमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१५ ॥

सत्यानन्दस्वरूपोऽहं चित्परानन्दमस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१६ ॥

अनन्तानन्दरूपोऽहमवाङ्मानसगोचरः ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१७ ॥

ब्रह्मानदस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१८ ॥

आत्ममात्रस्वरूपोऽस्मि आत्मानन्दमयोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.१९ ॥

आत्मप्रकाशरूपोऽस्मि आत्मज्योतिरसोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२० ॥

आदिमध्यान्तहीनोऽस्मि आकाशसदृशोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२१ ॥

नित्यसत्तास्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२२ ॥

नित्यसम्पूर्णरूपोऽस्मि नित्यं निर्मनसोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२३ ॥

नित्यसत्तास्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२४ ॥

नित्यशब्दस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२५ ॥

रूपातीतस्वरूपोऽस्मि व्योमरूपोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२६ ॥

भूतानन्दस्वरूपोऽस्मि भाषानन्दोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२७ ॥

सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२८ ॥

देहभावविहीनोऽहं चित्तहीनोऽहमेव हि ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.२९ ॥

देहवृत्तिविहीनोऽहं मन्त्रैवाहमहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३० ॥

सर्वदृश्यविहीनोऽस्मि दृश्यरूपोऽहमेव हि ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३१ ॥

सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३२ ॥

इदं ब्रह्मैव सर्वस्य अहं चैतन्यमेव हि ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३३ ॥

अहमेवाहमेवास्मि नान्यत् किञ्चिच्च विद्यते ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३४ ॥

अहमेव महानात्मा अहमेव परायणम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३५ ॥

अहमेव महाशून्यमित्येवं मन्त्रमुत्तमम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३६ ॥

अहमेवान्यवद्भामि अहमेव शरीरवत् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३७ ॥

अहं च शिष्यवद्भामि अहं लोकत्रयादिवत् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३८ ॥

अहं कालत्रयातीतः अहं वेदैरुपासितः ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.३९ ॥

अहं शास्त्रेषु निर्णीत अहं चित्ते व्यवस्थितः ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.४० ॥

मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च या ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.४१ ॥

मयातिरिक्तं तोयं वा इत्येवं मन्त्रमुत्तमम् ।
इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९.४२ ॥

अहं ब्रह्मास्मि शुद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा ।
निर्गुणोऽस्मि निरीहोऽस्मि इत्येवं मन्त्रमुत्तमम् ॥ ९.४३ ॥

हरिब्रह्मादिरूपोऽस्मि एतद्भेदोऽपि नास्म्यहम् ।
केवलं ब्रह्ममात्रोऽस्मि केवलोऽस्म्यजयोऽस्म्यहम् ॥ ९.४४ ॥

स्वयमेव स्वयंभास्यं स्वयमेव हि नान्यतः ।
स्वयमेवात्मनि स्वस्थः इत्येवं मन्त्रमुत्तमम् ॥ ९.४५ ॥

स्वयमेव स्वयं भुङ्क्ष्व स्वयमेव स्वयं रमे ।
स्वयमेव स्वयंज्योतिः स्वयमेव स्वयं रमे ॥ ९.४६ ॥

स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येवावलोकये ।
स्वात्मन्येव सुखेनासि इत्येवं मन्त्रमुत्तमम् ॥ ९.४७ ॥

स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखं रमे ।
स्वात्मसिंहासने तिष्ठे इत्येवं मन्त्रमुत्तमम् ॥ ९.४८ ॥

स्वात्ममन्त्रं सदा पश्यन् स्वात्मज्ञानं सदाऽभ्यसन् ।
अहं ब्रह्मास्म्यहं मन्त्रः स्वात्मपापं विनाशयेत् ॥ ९.४९ ॥

अहं ब्रह्मास्म्यहं मन्त्रो द्वैतदोषं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रो भेददुःखं विनाशयेत् ॥ ९.५० ॥

अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तारोगं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रो बुद्धिव्याधिं विनाशयेत् ॥ ९.५१ ॥

अहं ब्रह्मास्म्यहं मन्त्र आधिव्याधिं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः सर्वलोकं विनाशयेत् ॥ ९.५२ ॥

अहं ब्रह्मास्म्यहं मन्त्रः कामदोषं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः क्रोधदोषं विनाशयेत् ॥ ९.५३ ॥

अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तादोषं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः सङ्कल्पं च विनाशयेत् ॥ ९.५४ ॥

अहं ब्रह्मास्म्यहं मन्त्रः इदं दुःखं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः अविवेकमलं दहेत् ॥ ९.५५ ॥

अहं ब्रह्मास्म्यहं मन्त्रः अज्ञानध्वंसमाचरेत् ।
अहं ब्रह्मास्म्यहं मन्त्रः कोटिदोषं विनाशयेत् ॥ ९.५६ ॥

अहं ब्रह्मास्म्यहं मन्त्रः सर्वतन्त्रं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्रो देहदोषं विनाशयेत् ॥ ९.५७ ॥

अहं ब्रह्मास्म्यहं मन्त्रः दृष्टादृष्टं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्र आत्मज्ञानप्रकाशकम् ॥ ९.५८ ॥

अहं ब्रह्मास्म्यहं मन्त्र आत्मलोकजयप्रदम् ।
अहं ब्रह्मास्म्यहं मन्त्र असत्यादि विनाशकम् ॥ ९.५९ ॥

अहं ब्रह्मास्म्यहं मन्त्रः अन्यत् सर्वं विनाशयेत् ।
अहं ब्रह्मास्म्यहं मन्त्र अप्रतर्क्यसुखप्रदम् ॥ ९.६० ॥

अहं ब्रह्मास्म्यहं मन्त्रः अनात्मज्ञानमाहरेत् ।
अहं ब्रह्मास्म्यहं मन्त्रो ज्ञानानन्दं प्रयच्छति ॥ ९.६१ ॥

सप्तकोटि महामन्त्रा जन्मकोटिशतप्रदाः ।
सर्वमन्त्रान् समुत्सृज्य जपमेनं समभ्यसेत् ॥ ९.६२ ॥

सद्यो मोक्षमवाप्नोति नात्र सन्देहमस्ति मे ।
मन्त्रप्रकरणे प्रोक्तं रहस्यं वेदकोटिषु ॥ ९.६३ ॥

यः श‍ृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ।
नित्यानन्दमयः स एव परमानन्दोदयः शाश्वतो
यस्मान्नान्यदतोऽन्यदार्तमखिलं तज्जं जगत् सर्वदः ।
यो वाचा मनसा तथेन्द्रियगणैर्देहोऽपि वेद्यो न चे-
दच्छेद्यो भववैद्य ईश इति या सा धीः परं मुक्तये ॥ ९.६४ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
अहंब्रह्मास्मिप्रकरणनिरूपणं नाम नवमोऽध्यायः ॥

१० ॥ दशमोऽध्यायः ॥

ऋभुः –
नित्यतर्पणमाचक्ष्ये निदाघ श‍ृणु मे वचः ।
वेदशास्त्रेषु सर्वेषु अत्यन्तं दुर्लभं नृणाम् ॥ १०.१ ॥

सदा प्रपञ्चं नास्त्येव इदमित्यपि नास्ति हि ।
ब्रह्ममात्रं सदापूर्णं इत्येवं ब्रह्मतर्पणम् ॥ १०.२ ॥

सरूपमात्रं ब्रह्मैव सच्चिदानन्दमप्यहम् ।
आनन्दघन एवाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.३ ॥

सर्वदा सर्वशून्योऽहं सदात्मानन्दवानहम् ।
नित्यानित्यस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.४ ॥

अहमेव चिदाकाश आत्माकाशोऽस्मि नित्यदा ।
आत्मनाऽऽत्मनि तृप्तोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.५ ॥

एकत्वसंख्याहीनोऽस्मि अरूपोऽस्म्यहमद्वयः ।
नित्यशुद्धस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.६ ॥

आकाशादपि सूक्ष्मोऽहं अत्यन्ताभावकोऽस्म्यहम् ।
सर्वप्रकाशरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.७ ॥

परब्रह्मस्वरूपोऽहं परावरसुखोऽस्म्यहम् ।
सत्रामात्रस्वरूपोऽहं दृग्दृश्यादिविवर्जितः ॥ १०.८ ॥

यत् किञ्चिदप्यहं नास्ति तूष्णीं तूष्णीमिहास्म्यहम् ।
शुद्धमोक्षस्वरूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ १०.९ ॥

सर्वानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा ।
विज्ञानमात्ररूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ १०.१० ॥

ब्रह्ममात्रमिदं सर्वं नास्ति नान्यत्र ते शपे ।
तदेवाहं न सन्देहः इत्येवं ब्रह्मतर्पणम् ॥ १०.११ ॥

त्वमित्येतत् तदित्येतन्नास्ति नास्तीह किञ्चन ।
शुद्धचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१२ ॥

अत्यन्ताभावरूपोऽहमहमेव परात्परः ।
अहमेव सुखं नान्यत् इत्येवं ब्रह्मतर्पणम् ॥ १०.१३ ॥

इदं हेममयं किञ्चिन्नास्ति नास्त्येव ते शपे ।
निर्गुणानन्दरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१४ ॥

साक्षिवस्तुविहीनत्वात् साक्षित्वं नास्ति मे सदा ।
केवलं ब्रह्मभावत्वात् इत्येवं ब्रह्मतर्पणम् ॥ १०.१५ ॥

अहमेवाविशेषोऽहमहमेव हि नामकम् ।
अहमेव विमोहं वै इत्येवं ब्रह्मतर्पणम् ॥ १०.१६ ॥

इन्द्रियाभावरूपोऽहं सर्वाभावस्वरूपकम् ।
बन्धमुक्तिविहीनोऽस्मि इत्येवं ब्रह्मतर्पणम् ॥ १०.१७ ॥

सर्वानन्दस्वरूपोऽहं सर्वानन्दघनोऽस्म्यहम् ।
नित्यचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१८ ॥

वाचामगोचरश्चाहं वाङ्मनो नास्ति किञ्चन ।
चिदानन्दमयश्चाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.१९ ॥

सर्वत्र पूर्णरूपोऽहं सर्वत्र सुखमस्म्यहम् ।
सर्वत्राचिन्त्यरूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ १०.२० ॥

सर्वत्र तृप्तिरूपोऽहं सर्वानन्दमयोऽस्म्यहम् ।
सर्वशून्यस्वरूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ १०.२१ ॥

सर्वदा मत्स्वरूपोऽहं परमानन्दवानहम् ।
एक एवाहमेवाहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२२ ॥

मुक्तोऽहं मोक्षरूपोऽहं सर्वमौनपरोऽस्म्यहम् ।
सर्वनिर्वाणरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२३ ॥

सर्वदा सत्स्वरूपोऽहं सर्वदा तुर्यवानहम् ।
तुर्यातीतस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२४ ॥

सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् ।
निर्विकल्पस्वरूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ १०.२५ ॥

सर्वदा ह्यजरूपोऽहं निरीहोऽहं निरञ्जनः ।
ब्रह्मविज्ञानरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०.२६ ॥

ब्रह्मतर्पणमेवोक्तं एतत्प्रकरणं मया ।
यः श‍ृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ १०.२७ ॥

नित्यहोमं प्रवक्ष्यामि सर्ववेदेषु दुर्लभम् ।
सर्वशास्त्रार्थमद्वैतं सावधानमनाः श‍ृणु ॥ १०.२८ ॥

अहं ब्रह्मास्मि शुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ।
ॐकारार्थस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.२९ ॥

परमात्मस्वरूपोऽस्मि परानन्दपरोऽस्म्यहम् ।
चिदानन्दस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३० ॥

नित्यानन्दस्वरूपोऽस्मि निष्कलङ्कमयो ह्यहम् ।
चिदाकारस्वरूपोऽहं एवं होमं सुदुर्लभम् ॥ १०.३१ ॥

न हि किञ्चित् स्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् ।
निर्व्यापारस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३२ ॥

निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ।
न बुद्धिर्न विकल्पोऽहं एवं होमं सुदुर्लभम् ॥ १०.३३ ॥

न देहादिस्वारूपोऽस्मि त्रयादिपरिवर्जितः ।
न जाग्रत्स्वप्नरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०.३४ ॥

श्रवणं मननं नास्ति निदिध्यासनमेव हि ।
स्वगतं च न मे किञ्चिद् एवं होमं सुदुर्लभम् ॥ १०.३५ ॥

असत्यं हि मनःसत्ता असत्यं बुद्धिरूपकम् ।
अहङ्कारमसद्विद्धि कालत्रयमसत् सदा ॥ १०.३६ ॥

गुणत्रयमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३७ ॥

श्रुतं सर्वमसद्विद्धि वेदं सर्वमसत् सदा ।
सर्वतत्त्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३८ ॥

नानारूपमसद्विद्धि नानावर्णमसत् सदा ।
नानाजातिमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.३९ ॥

शास्त्रज्ञानमसद्विद्धि वेदज्ञानं तपोऽप्यसत् ।
सर्वतीर्थमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४० ॥

गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत् ततः ।
यद् दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४१ ॥

सर्वान् भोगानसद्विद्धि यच्चिन्त्यं तदसत् सदा ।
यद् दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४२ ॥

सर्वेन्द्रियमसद्विद्धि सर्वमन्त्रमसत् त्विति ।
सर्वप्राणानसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४३ ॥

जीवं देहमसद्विद्धि परे ब्रह्मणि नैव हि ।
मयि सर्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४४ ॥

दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयि ।
कार्याकार्यमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४५ ॥

दृष्टप्राप्तिमसद्विद्धि सन्तोषमसदेव हि ।
सर्वकर्माण्यसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४६ ॥

सर्वासर्वमसद्विद्धि पूर्णापूर्णमसत् परे ।
सुखं दुःखमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०.४७ ॥

यथाधर्ममसद्विद्धि पुण्यापुण्यमसत् सदा ।
लाभालाभमसद्विद्धि सदा देहमसत् सदा ॥ १०.४८ ॥

सदा जयमसद्विद्धि सदा गर्वमसत् सदा ।
मनोमयमसद्विद्धि संशयं निश्चयं तथा ॥ १०.४९ ॥

शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत् सदा ।
रूपं सर्वमसद्विद्धि रसं सर्वमसत् सदा ॥ १०.५० ॥

गन्धं सर्वमसद्विद्धि ज्ञानं सर्वमसत् सदा ।
भूतं भव्यमसद्विद्धि असत् प्रकृतिरुच्यते ॥ १०.५१ ॥

असदेव सदा सर्वमसदेव भवोद्भवम् ।
असदेव गुणं सर्वं एवं होमं सुदुर्लभम् ॥ १०.५२ ॥

शशश‍ृङ्गवदेव त्वं शशश‍ृङ्गवदस्म्यहम् ।
शशश‍ृङ्गवदेवेदं शशश‍ृङ्गवदन्तरम् ॥ १०.५३ ॥

इत्येवमात्महोमाख्यमुक्तं प्रकरणं मया ।
यः श‍ृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ १०.५४ ॥

स्कन्दः –
यस्मिन् संच विचैति विश्वमखिलं द्योतन्ति सूर्येन्दवो
विद्युद्वह्निमरुद्गणाः सवरुणा भीता भजन्तीश्वरम् ।
भूतं चापि भवत्यदृश्यमखिलं शम्भोः सुखांशं जगत्
जातं चापि जनिष्यति प्रतिभवं देवासुरैर्निर्यपि ।
तन्नेहास्ति न किञ्चिदत्र भगवद्ध्यानान्न किञ्चित् प्रियम् ॥ १०.५५ ॥

यः प्राणापानभेदैर्मननधिया धारणापञ्चकाद्यैः
मध्ये विश्वजनस्य सन्नपि शिवो नो दृश्यते सूक्ष्मया ।
बुद्धयादध्यातयापि श्रुतिवचनशतैर्देशिकोक्त्यैकसूक्त्या
योगैर्भक्तिसमन्वितैः शिवतरो दृश्यो न चान्यत् तथा ॥ १०.५६ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ब्रह्मतर्पणात्महोमाख्य प्रकरणद्वयवर्णनं नाम दशमोऽध्यायः ॥

११ ॥ एकादशोऽध्यायः ॥

ऋभुः –
ब्रह्मज्ञानं प्रवक्ष्यामि जीवन्मुक्तस्य लक्षणम् ।
आत्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.१ ॥

अहं ब्रह्मवदेवेदमहमात्मा न संशयः ।
चैतन्यात्मेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.२ ॥

चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः ।
इत्येवं निश्चयो यस्य स जीवन्मुक्त उच्यते ॥ ११.३ ॥

देहत्रयातिरिक्तोऽहं ब्रह्म चैतन्यमस्म्यहम् ।
ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ११.४ ॥

आनन्दघनरूपोऽस्मि परानन्दपरोऽस्म्यहम् ।
यश्चिदेवं परानन्दं स जीवन्मुक्त उच्यते ॥ ११.५ ॥

यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः ।
परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ११.६ ॥

यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते ।
परानन्दो मुदानन्दः स जीवन्मुक्त उच्यते ॥ ११.७ ॥

चैतन्यमात्रं यस्यान्तश्चिन्मात्रैकस्वरूपवान् ।
न स्मरत्यन्यकलनं स जीवन्मुक्त उच्यते ॥ ११.८ ॥ var was कललं
सर्वत्र परिपूर्णात्मा सर्वत्र कलनात्मकः ।
सर्वत्र नित्यपूर्णात्मा स जीवन्मुक्त उच्यते ॥ ११.९ ॥

परमात्मपरा नित्यं परमात्मेति निश्चितः ।
आनन्दाकृतिरव्यक्तः स जीवन्मुक्त उच्यते ॥ ११.१० ॥

शुद्धकैवल्यजीवात्मा सर्वसङ्गविवर्जितः ।
नित्यानन्दप्रसन्नात्मा स जीवन्मुक्त उच्यते ॥ ११.११ ॥

एकरूपः प्रशान्तात्मा अन्यचिन्ताविवर्जितः ।
किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते ॥ ११.१२ ॥

न मे चित्तं न मे बुद्धिर्नाहङ्कारो न चेन्द्रियः ।
केवलं ब्रह्ममात्रत्वात् स जीवन्मुक्त उच्यते ॥ ११.१३ ॥

न मे दोषो न मे देहो ने मे प्राणो न मे क्वचित् ।
दृढनिश्चयवान् योऽन्तः स जीवन्मुक्त उच्यते ॥ ११.१४ ॥

न मे माया न मे कामो न मे क्रोधोऽपरोऽस्म्यहम् ।
न मे किञ्चिदिदं वाऽपि स जीवन्मुक्त उच्यते ॥ ११.१५ ॥

न मे दोषो न मे लिङ्गं न मे बन्धः क्वचिज्जगत् ।
यस्तु नित्यं सदानन्दः स जीवन्मुक्त उच्यते ॥ ११.१६ ॥

न मे श्रोत्रं न मे नासा न मे चक्षुर्न मे मनः ।
न मे जिह्वेति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ११.१७ ॥

न मे देहो न मे लिङ्गं न मे कारणमेव च ।
न मे तुर्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.१८ ॥

इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् ।
ब्रह्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.१९ ॥

न मे किञ्चिन्न मे कश्चिन्न मे कश्चित् क्वचिज्जगत् ।
अहमेवेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.२० ॥

न मे कालो न मे देशो न मे वस्तु न मे स्थितिः ।
न मे स्नानं न मे प्रासः स जीवन्मुक्त उच्यते ॥ ११.२१ ॥

न मे तीर्थं न मे सेवा न मे देवो न मे स्थलम् ।
न क्वचिद्भेदहीनोऽयं स जीवन्मुक्त उच्यते ॥ ११.२२ ॥

न मे बन्धं न मे जन्म न मे ज्ञानं न मे पदम् ।
न मे वाक्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.२३ ॥

न मे पुण्यं न मे पापं न मे कायं न मे शुभम् ।
न मे दृश्यमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ ११.२४ ॥

न मे शब्दो न मे स्पर्शो न मे रूपं न मे रसः ।
न मे जीव इति ज्ञात्वा स जीवन्मुक्त उच्यते ॥ ११.२५ ॥

न मे सर्वं न मे किञ्चित् न मे जीवं न मे क्वचित् ।
न मे भावं न मे वस्तु स जीवन्मुक्त उच्यते ॥ ११.२६ ॥

न मे मोक्ष्ये न मे द्वैतं न मे वेदो न मे विधिः ।
न मे दूरमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.२७ ॥

न मे गुरुर्न मे शिष्यो न मे बोधो न मे परः ।
न मे श्रेष्ठं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ११.२८ ॥

न मे ब्रह्मा न मे विष्णुर्न मे रुद्रो न मे रविः ।
न मे कर्म क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ११.२९ ॥

न मे पृथ्वी न मे तोयं न मे तेजो न मे वियत् ।
न मे कार्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३० ॥

न मे वार्ता न मे वाक्यं न मे गोत्रं न मे कुलम् ।
न मे विद्येति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३१ ॥

न मे नादो न मे शब्दो न मे लक्ष्यं न मे भवः ।
न मे ध्यानमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३२ ॥

न मे शीतं न मे चोष्णं न मे मोहो न मे जपः ।
न मे सन्ध्येति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३३ ॥

न मे जपो न मे मन्त्रो न मे होमो न मे निशा ।
न मे सर्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३४ ॥

न मे भयं न मे चान्नं न मे तृष्णा न मे क्षुधा ।
न मे चात्मेति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३५ ॥

न मे पूर्वं न मे पश्चात् न मे चोर्ध्वं न मे दिशः ।
न चित्तमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३६ ॥

न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि ।
न मे मन्तव्यमीषद्वा स जीवन्मुक्त उच्यते ॥ ११.३७ ॥

न मे भोक्तव्यमीषद्वा न मे ध्यातव्यमण्वपि ।
न मे स्मर्तव्यमेवायं स जीवन्मुक्त उच्यते ॥ ११.३८ ॥

न मे भोगो न मे रोगो न मे योगो न मे लयः ।
न मे सर्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.३९ ॥

न मेऽस्तित्वं न मे जातं न मे वृद्धं न मे क्षयः ।
अध्यारोपो न मे स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.४० ॥

अध्यारोप्यं न मे किञ्चिदपवादो न मे क्वचित् ।
न मे किञ्चिदहं यत्तु स जीवन्मुक्त उच्यते ॥ ११.४१ ॥

न मे शुद्धिर्न मे शुभ्रो न मे चैकं न मे बहु ।
न मे भूतं न मे कार्यं स जीवन्मुक्त उच्यते ॥ ११.४२ ॥

न मे कोऽहं न मे चेदं न मे नान्यं न मे स्वयम् ।
न मे कश्चिन्न मे स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.४३ ॥

न मे मांसं न मे रक्तं न मे मेदो न मे शकृत् ।
न मे कृपा न मेऽस्तीति स जीवन्मुक्त उच्यते ॥ ११.४४ ॥

न मे सर्वं न मे शुक्लं न मे नीलं न मे पृथक् ।
न मे स्वस्थः स्वयं यो वा स जीवन्मुक्त उच्यते ॥ ११.४५ ॥

न मे तापं न मे लोभो न मे गौण न मे यशः ।
ने मे तत्त्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.४६ ॥

न मे भ्रान्तिर्न मे ज्ञानं न मे गुह्यं न मे कुलम् ।
न मे किञ्चिदिति ध्यायन् स जीवन्मुक्त उच्यते ॥ ११.४७ ॥

न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे लयः ।
न मे दैवमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११.४८ ॥

न मे व्रतं न मे ग्लानिः न मे शोच्यं न मे सुखम् ।
न मे न्यूनं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ११.४९ ॥

न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् ।
न मे सर्वमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ ११.५० ॥

न मे तुभ्यं न मे मह्यं न मे त्वत्तो न मे त्वहम् ।
न मे गुरुर्न मे यस्तु स जीवन्मुक्त उच्यते ॥ ११.५१ ॥

न मे जडं न मे चैत्यं न मे ग्लानं न मे शुभम् ।
न मे न मेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ११.५२ ॥

न मे गोत्रं न मे सूत्रं न मे पात्रं न मे कृपा ।
न मे किञ्चिदिति ध्यायी स जीवन्मुक्त उच्यते ॥ ११.५३ ॥

न मे चात्मा न मे नात्मा न मे स्वर्गं न मे फलम् ।
न मे दूष्यं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ११.५४ ॥

न मेऽभ्यासो न मे विद्या न मे शान्तिर्न मे दमः ।
न मे पुरमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ ११.५५ ॥

न मे शल्यं न मे शङ्का न मे सुप्तिर्न मे मनः ।
न मे विकल्प इत्याप्तः स जीवन्मुक्त उच्यते ॥ ११.५६ ॥

न मे जरा न मे बाल्यं न मे यौवनमण्वपि ।
न मे मृतिर्न मे ध्वान्तं स जीवन्मुक्त उच्यते ॥ ११.५७ ॥

न मे लोकं न मे भोगं न मे सर्वमिति स्मृतः ।
न मे मौनमिति प्राप्तं स जीवन्मुक्त उच्यते ॥ ११.५८ ॥

अहं ब्रह्म ह्यहं ब्रह्म ह्यहं ब्रह्मेति निश्चयः ।
चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥ ११.५९ ॥

ब्रह्मैवाहं चिदेवाहं परैवाहं न संशयः ।
स्वयमेव स्वयं ज्योतिः स जीवन्मुक्त उच्यते ॥ ११.६० ॥

स्वयमेव स्वयं पश्येत् स्वयमेव स्वयं स्थितः ।
स्वात्मन्येव स्वयं भूतः स जीवन्मुक्त उच्यते ॥ ११.६१ ॥

स्वात्मानन्दं स्वयं भुंक्ष्वे स्वात्मराज्ये स्वयं वसे ।
स्वात्मराज्ये स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ ११.६२ ॥

स्वयमेवाहमेकाग्रः स्वयमेव स्वयं प्रभुः ।
स्वस्वरूपः स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ ११.६३ ॥

जीवन्मुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् ।
यः श‍ृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ११.६४ ॥

ये वेदवादविधिकल्पितभेदबुद्ध्या
पुण्याभिसन्धितधिया परिकर्शयन्तः ।
देहं स्वकीयमतिदुःखपरं पराभि-
स्तेषां सुखाय न तु जातु तवेश पादात् ॥ ११.६५ ॥

कः सन्तरेत भवसागरमेतदुत्य-
त्तरङ्गसदृशं जनिमृत्युरूपम् ।
ईशार्चनाविधिसुबोधितभेदहीन-
ज्ञानोडुपेन प्रतरेद्भवभावयुक्तः ॥ ११.६६ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
जीवन्मुक्तप्रकरणं नाम एकादशोऽध्यायः ॥

१२ ॥ द्वादशोऽध्यायः ॥

ऋभुः –
देहमुक्तिप्रकरणं निदाघ श‍ृणु दुर्लभम् ।
त्यक्तात्यक्तं न स्मरति विदेहान्मुक्त एव सः ॥ १२.१ ॥

ब्रह्मरूपः प्रशान्तात्मा नान्यरूपः सदा सुखी ।
स्वस्थरूपो महामौनी विदेहान्मुक्त एव सः ॥ १२.२ ॥

सर्वात्मा सर्वभूतात्मा शान्तात्मा मुक्तिवर्जितः ।
एकात्मवर्जितः साक्षी विदेहान्मुक्त एव सः ॥ १२.३ ॥

लक्ष्यात्मा लालितात्माहं लीलात्मा स्वात्ममात्रकः ।
तूष्णीमात्मा स्वभावात्मा विदेहान्मुक्त एव सः ॥ १२.४ ॥

शुभ्रात्मा स्वयमात्माहं सर्वात्मा स्वात्ममात्रकः ।
अजात्मा चामृतात्मा हि विदेहान्मुक्त एव सः ॥ १२.५ ॥

आनन्दात्मा प्रियः स्वात्मा मोक्षात्मा कोऽपि निर्णयः ।
इत्येवमिति निध्यायी विदेहान्मुक्त एव सः ॥ १२.६ ॥

ब्रह्मैवाहं चिदेवाहं एकं वापि न चिन्त्यते ।
चिन्मात्रेणैव यस्तिष्ठेद्विदेहान्मुक्त एव सः ॥ १२.७ ॥

निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयः ।
आनन्दभूरिदेहस्तु विदेहान्मुक्त एव सः ॥ १२.८ ॥

सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति ।
अहं ब्रह्मास्मि नान्योऽस्मि विदेहान्मुक्त एव सः ॥ १२.९ ॥

किञ्चित् क्वचित् कदाचिच्च आत्मानं न स्मरत्यसौ ।
स्वस्वभावेन यस्तिष्ठेत् विदेहान्मुक्त एव सः ॥ १२.१० ॥

अहमात्मा परो ह्यात्मा चिदात्माहं न चिन्त्यते ।
स्थास्यामीत्यपि यो युक्तो विदेहान्मुक्त एव सः ॥ १२.११ ॥

तूष्णीमेव स्थितस्तूष्णीं सर्वं तूष्णीं न किञ्चन ।
अहमर्थपरित्यक्तो विदेहान्मुक्त एव सः ॥ १२.१२ ॥

परमात्मा गुणातीतः सर्वात्मापि न संमतः ।
सर्वभावान्महात्मा यो विदेहान्मुक्त एव सः ॥ १२.१३ ॥

कालभेदं देशभेदं वस्तुभेदं स्वभेदकम् ।
किञ्चिद्भेदं न यस्यास्ति विदेहान्मुक्त एव सः ॥ १२.१४ ॥

अहं त्वं तदिदं सोऽयं किञ्चिद्वापि न विद्यते ।
अत्यन्तसुखमात्रोऽहं विदेहान्मुक्त एव सः ॥ १२.१५ ॥

निर्गुणात्मा निरात्मा हि नित्यात्मा नित्यनिर्णयः ।
शून्यात्मा सूक्ष्मरूपो यो विदेहान्मुक्त एव सः ॥ १२.१६ ॥

विश्वात्मा विश्वहीनात्मा कालात्मा कालहेतुकः ।
देवात्मा देवहीनो यो विदेहान्मुक्त एव सः ॥ १२.१७ ॥

मात्रात्मा मेयहीनात्मा मूढात्माऽनात्मवर्जितः ।
केवलात्मा परात्मा च विदेहान्मुक्त एव सः ॥ १२.१८ ॥

सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः ।
सर्वेषामिति यस्तूक्तो विदेहान्मुक्त एव सः ॥ १२.१९ ॥

सर्वसङ्कल्पहीनेति सच्चिदानन्दमात्रकः ।
स्थास्यामीति न यस्यान्तो विदेहान्मुक्त एव सः ॥ १२.२० ॥

सर्वं नास्ति तदस्तीति चिन्मात्रोऽस्तीति सर्वदा ।
प्रबुद्धो नास्ति यस्यान्तो विदेहान्मुक्त एव सः ॥ १२.२१ ॥

केवलं परमात्मा यः केवलं ज्ञानविग्रहः ।
सत्तामात्रस्वरूपो यो विदेहान्मुक्त एव सः ॥ १२.२२ ॥

जीवेश्वरेति चैत्येति वेदशास्त्रे त्वहं त्विति ।
ब्रह्मैवेति न यस्यान्तो विदेहान्मुक्त एव सः ॥ १२.२३ ॥

ब्रह्मैव सर्वमेवाहं नान्यत् किञ्चिज्जगद्भवेत् ।
इत्येवं निश्चयो भावः विदेहान्मुक्त एव सः ॥ १२.२४ ॥

इदं चैतन्यमेवेति अहं चैतन्यमेव हि ।
इति निश्चयशून्यो यो विदेहान्मुक्त एव सः ॥ १२.२५ ॥

चैतन्यमात्रः संसिद्धः स्वात्मारामः सुखासनः ।
सुखमात्रान्तरङ्गो यो विदेहान्मुक्त एव सः ॥ १२.२६ ॥

अपरिच्छिन्नरूपात्मा अणोरणुविनिर्मलः ।
तुर्यातीतः परानन्दो विदेहान्मुक्त एव सः ॥ १२.२७ ॥

नामापि नास्ति सर्वात्मा न रूपो न च नास्तिकः ।
परब्रह्मस्वरूपात्मा विदेहान्मुक्त एव सः ॥ १२.२८ ॥

तुर्यातीतः स्वतोऽतीतः अतोऽतीतः स सन्मयः ।
अशुभाशुभशान्तात्मा विदेहान्मुक्त एव सः ॥ १२.२९ ॥

बन्धमुक्तिप्रशान्तात्मा सर्वात्मा चान्तरात्मकः ।
प्रपञ्चात्मा परो ह्यात्मा विदेहान्मुक्त एव सः ॥ १२.३० ॥

सर्वत्र परिपूर्णात्मा सर्वदा च परात्परः ।
अन्तरात्मा ह्यनन्तात्मा विदेहान्मुक्त एव सः ॥ १२.३१ ॥

अबोधबोधहीनात्मा अजडो जडवर्जितः ।
अतत्त्वातत्त्वसर्वात्मा विदेहान्मुक्त एव सः ॥ १२.३२ ॥

असमाधिसमाध्यन्तः अलक्ष्यालक्ष्यवर्जितः ।
अभूतो भूत एवात्मा विदेहान्मुक्त एव सः ॥ १२.३३ ॥

चिन्मयात्मा चिदाकाशश्चिदानन्दश्चिदंबरः ।
चिन्मात्ररूप एवात्मा विदेहान्मुक्त एव सः ॥ १२.३४ ॥

सच्चिदानन्दरूपात्मा सच्चिदानन्दविग्रहः ।
सच्चिदानन्दपूर्णात्मा विदेहान्मुक्त एव सः ॥ १२.३५ ॥

सदा ब्रह्ममयो नित्यं सदा स्वात्मनि निष्ठितः ।
सदाऽखण्डैकरूपात्मा विदेहान्मुक्त एव सः ॥ १२.३६ ॥

प्रज्ञानघन एवात्मा प्रज्ञानघनविग्रहः ।
नित्यज्ञानपरानन्दो विदेहान्मुक्त एव सः ॥ १२.३७ ॥

यस्य देहः क्वचिन्नास्ति यस्य किञ्चित् स्मृतिश्च न ।
सदात्मा ह्यात्मनि स्वस्थो विदेहान्मुक्त एव सः ॥ १२.३८ ॥

यस्य निर्वासनं चित्तं यस्य ब्रह्मात्मना स्थितिः ।
योगात्मा योगयुक्तात्मा विदेहान्मुक्त एव सः ॥ १२.३९ ॥

चैतन्यमात्र एवेति त्यक्तं सर्वमतिर्न हि ।
गुणागुणविकारान्तो विदेहान्मुक्त एव सः ॥ १२.४० ॥

कालदेशादि नास्त्यन्तो न ग्राह्यो नास्मृतिः परः ।
निश्चयं च परित्यक्तो विदेहान्मुक्त एव सः ॥ १२.४१ ॥

भूमानन्दापरानन्दो भोगानन्दविवर्जितः ।
साक्षी च साक्षिहीनश्च विदेहान्मुक्त एव सः ॥ १२.४२ ॥

सोऽपि कोऽपि न सो कोऽपि किञ्चित् किञ्चिन्न किञ्चन ।
आत्मानात्मा चिदात्मा च चिदचिच्चाहमेव च ॥ १२.४३ ॥

यस्य प्रपञ्चश्चानात्मा ब्रह्माकारमपीह न ।
स्वस्वरूपः स्वयंज्योतिर्विदेहान्मुक्त एव सः ॥ १२.४४ ॥

वाचामगोचरानन्दः सर्वेन्द्रियविवर्जितः ।
अतीतातीतभावो यो विदेहान्मुक्त एव सः ॥ १२.४५ ॥

चित्तवृत्तेरतीतो यश्चित्तवृत्तिर्न भासकः ।
सर्ववृत्तिविहीनो यो विदेहान्मुक्त एव सः ॥ १२.४६ ॥

तस्मिन् काले विदेहो यो देहस्मरणवर्जितः ।
न स्थूलो न कृशो वापि विदेहान्मुक्त एव सः ॥ १२.४७ ॥

ईषण्मात्रस्थितो यो वै सदा सर्वविवर्जितः ।
ब्रह्ममात्रेण यस्तिष्ठेत् विदेहान्मुक्त एव सः ॥ १२.४८ ॥

परं ब्रह्म परानन्दः परमात्मा परात्परः ।
परैरदृष्टबाह्यान्तो विदेहान्मुक्त एव सः ॥ १२.४९ ॥

शुद्धवेदान्तसारोऽयं शुद्धसत्त्वात्मनि स्थितः ।
तद्भेदमपि यस्त्यक्तो विदेहान्मुक्त एव सः ॥ १२.५० ॥

ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनम् ।
ब्रह्मामृतरसे मग्नो विदेहान्मुक्त एव सः ॥ १२.५१ ॥

ब्रह्मामृतरसाधारो ब्रह्मामृतरसः स्वयम् ।
ब्रह्मामृतरसे तृप्तो विदेहान्मुक्त एव सः ॥ १२.५२ ॥

ब्रह्मानन्दपरानन्दो ब्रह्मानन्दरसप्रभः ।
ब्रह्मानन्दपरंज्योतिर्विदेहान्मुक्त एव सः ॥ १२.५३ ॥

ब्रह्मानन्दरसानन्दो ब्रह्मामृतनिरन्तरम् ।
ब्रह्मानन्दः सदानन्दो विदेहान्मुक्त एव सः ॥ १२.५४ ॥

ब्रह्मानन्दानुभावो यो ब्रह्मामृतशिवार्चनम् ।
ब्रह्मानन्दरसप्रीतो विदेहान्मुक्त एव सः ॥ १२.५५ ॥

ब्रह्मानन्दरसोद्वाहो ब्रह्मामृतकुटुम्बकः ।
ब्रह्मानन्दजनैर्युक्तो विदेहान्मुक्त एव सः ॥ १२.५६ ॥

ब्रह्मामृतवरे वासो ब्रह्मानन्दालये स्थितः ।
ब्रह्मामृतजपो यस्य विदेहान्मुक्त एव सः ॥ १२.५७ ॥

ब्रह्मानन्दशरीरान्तो ब्रह्मानन्देन्द्रियः क्वचित् ।
ब्रह्मामृतमयी विद्या विदेहान्मुक्त एव सः ॥ १२.५८ ॥

ब्रह्मानदमदोन्मत्तो ब्रह्मामृतरसंभरः ।
ब्रह्मात्मनि सदा स्वस्थो विदेहान्मुक्त एव सः ॥ १२.५९ ॥

देहमुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् ।
मयोक्तं ते महायोगिन् विदेहः श्रवणाद्भवेत् ॥ १२.६० ॥

स्कन्दः –
अनाथ नाथ ते पदं भजाम्युमासनाथ स-
न्निशीथनाथमौलिसंस्फुटल्ललाटसङ्गज-
स्फुलिङ्गदग्धमन्मथं प्रमाथनाथ पाहि माम् ॥ १२.६१ ॥

विभूतिभूषगात्र ते त्रिनेत्रमित्रतामियात्
मनःसरोरुहं क्षणं तथेक्षणेन मे सदा ।
प्रबन्धसंसृतिभ्रमद्भ्रमज्जनौघसन्ततौ
न वेद वेदमौलिरप्यपास्तदुःखसन्ततिम् ॥ १२.६२ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
देहमुक्तिप्रकरणवर्णनं नाम द्वादशोऽध्यायः ॥

१३ ॥ त्रयोदशोऽध्यायः ॥

ऋभुः –
श‍ृणुष्व दुर्लभं लोके सारात् सारतरं परम् ।
आत्मरूपमिदं सर्वमात्मनोऽन्यन्न किञ्चन ॥ १३.१ ॥

सर्वमात्मास्ति परमा परमात्मा परात्मकः ।
नित्यानन्दस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२ ॥

पूर्णरूपो महानात्मा पूतात्मा शाश्वतात्मकः ।
निर्विकारस्वरूपात्मा निर्मलात्मा निरात्मकः ॥ १३.३ ॥

शान्ताशान्तस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ।
जीवात्मा परमात्मा हि चित्ताचित्तात्मचिन्मयः ।
एकात्मा एकरूपात्मा नैकात्मात्मविवर्जितः ॥ १३.४ ॥

मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः ।
मोक्षरूपस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.५ ॥

द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः ।
सर्ववर्जितसर्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.६ ॥

मुदामुदस्वरूपात्मा मोक्षात्मा देवतात्मकः ।
सङ्कल्पहीनसारात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.७ ॥

निष्कलात्मा निर्मलात्मा बुद्ध्यात्मा पुरुषात्मकः ।
आनन्दात्मा ह्यजात्मा च ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.८ ॥

अगण्यात्मा गणात्मा च अमृतात्मामृतान्तरः ।
भूतभव्यभविष्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.९ ॥

अखिलात्माऽनुमन्यात्मा मानात्मा भावभावनः ।
तुर्यरूपप्रसन्नात्मा आत्मनोऽन्यन्न किञ्चन ॥ १३.१० ॥

नित्यं प्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः ।
अन्यहीनस्वभावात्मा आत्मनोऽन्यन्न किञ्चन ॥ १३.११ ॥

असद्धीनस्वभावात्मा अन्यहीनः स्वयं प्रभुः ।
विद्याविद्यान्यशुद्धात्मा मानामानविहीनकः ॥ १३.१२ ॥

नित्यानित्यविहीनात्मा इहामुत्रफलान्तरः ।
शमादिषट्कशून्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१३ ॥

मुमुक्षुत्वं च हीनात्मा शब्दात्मा दमनात्मकः ।
नित्योपरतरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१४ ॥

सर्वकालतितिक्षात्मा समाधानात्मनि स्थितः ।
शुद्धात्मा स्वात्मनि स्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१५ ॥

अन्नकोशविहीनात्मा प्राणकोशविवर्जितः ।
मनःकोशविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१६ ॥

विज्ञानकोशहीनात्मा आनन्दादिविवर्जितः ।
पञ्चकोशविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१७ ॥

निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः ।
शब्दानुविद्धहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१८ ॥ var was शब्दानुविध्यहीनात्मा
स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः ।
कारणादिविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.१९ ॥

दृश्यानुविद्धशून्यात्मा ह्यादिमध्यान्तवर्जितः ।
शान्ता समाधिशून्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२० ॥

प्रज्ञानवाक्यहीनात्मा अहं ब्रह्मास्मिवर्जितः ।
तत्त्वमस्यादिवाक्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२१ ॥

अयमात्मेत्यभावात्मा सर्वात्मा वाक्यवर्जितः ।
ओंकारात्मा गुणात्मा च ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२२ ॥

जाग्रद्धीनस्वरूपात्मा स्वप्नावस्थाविवर्जितः ।
आनन्दरूपपूर्णात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२३ ॥

भूतात्मा च भविष्यात्मा ह्यक्षरात्मा चिदात्मकः ।
अनादिमध्यरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२४ ॥

सर्वसङ्कल्पहीनात्मा स्वच्छचिन्मात्रमक्षयः ।
ज्ञातृज्ञेयादिहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२५ ॥

एकात्मा एकहीनात्मा द्वैताद्वैतविवर्जितः ।
स्वयमात्मा स्वभावात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२६ ॥

तुर्यात्मा नित्यमात्मा च यत्किञ्चिदिदमात्मकः ।
भानात्मा मानहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२७ ॥ var was मानात्मा
वाचावधिरनेकात्मा वाच्यानन्दात्मनन्दकः ।
सर्वहीनात्मसर्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२८ ॥

आत्मानमेव वीक्षस्व आत्मानं भावय स्वकम् ।
स्वस्वात्मानं स्वयं भुंक्ष्व ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.२९ ॥

स्वात्मानमेव सन्तुष्य आत्मानं स्वयमेव हि ।
स्वस्वात्मानं स्वयं पश्येत् स्वमात्मानं स्वयं श्रुतम् ॥ १३.३० ॥

स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयंभरः ।
स्वमात्मानं स्वयं भस्म ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.३१ ॥

स्वमात्मानं स्वयं मोदं स्वमात्मानं स्वयं प्रियम् ।
स्वमात्मानमेव मन्तव्यं ह्यात्मनोऽन्यन्न किञ्चन ॥ १३.३२ ॥

आत्मानमेव श्रोतव्यं आत्मानं श्रवणं भव ।
आत्मानं कामयेन्नित्यम् आत्मानं नित्यमर्चय ॥ १३.३३ ॥

आत्मानं श्लाघयेन्नित्यमात्मानं परिपालय ।
आत्मानं कामयेन्नित्यम् आत्मनोऽन्यन्न किञ्चन ॥ १३.३४ ॥

आत्मैवेयमियं भूमिः आत्मैवेदमिदं जलम् ।
आत्मैवेदमिदं ज्योतिरात्मनोऽन्यन्न किञ्चन ॥ १३.३५ ॥

आत्मैवायमयं वायुरात्मैवेदमिदम् वियत् ।
आत्मैवायमहङ्कारः आत्मनोऽन्यन्न किञ्चन ॥ १३.३६ ॥

आत्मैवेदमिदं चित्तं आत्मैवेदमिदं मनः ।
आत्मैवेयमियं बुद्धिरात्मनोऽन्यन्न किञ्चन ॥ १३.३७ ॥

आत्मैवायमयं देहः आत्मैवायमयं गुणः ।
आत्मैवेदमिदं तत्त्वम् आत्मनोऽन्यन्न किञ्चन ॥ १३.३८ ॥

आत्मैवायमयं मन्त्रः आत्मैवायमयं जपः ।
आत्मैवायमयं लोकः आत्मनोऽन्यन्न किञ्चन ॥ १३.३९ ॥

आत्मैवायमयं शब्दः आत्मैवायमयं रसः ।
आत्मैवायमयं स्पर्शः आत्मनोऽन्यन्न किञ्चन ॥ १३.४० ॥

आत्मैवायमयं गन्धः आत्मैवायमयं शमः ।
आत्मैवेदमिदं दुःखं आत्मैवेदमिदं सुखम् ॥ १३.४१ ॥

आत्मीयमेवेदं जगत् आत्मीयः स्वप्न एव हि ।
सुषुप्तं चाप्यथात्मीयं आत्मनोऽन्यन्न किञ्चन ॥ १३.४२ ॥

आत्मैव कार्यमात्मैव प्रायो ह्यात्मैवमद्वयम् ।
आत्मीयमेवमद्वैतं आत्मनोऽन्यन्न किञ्चन ॥ १३.४३ ॥

आत्मीयमेवायं कोऽपि आत्मैवेदमिदं क्वचित् ।
आत्मैवायमयं लोकः आत्मनोऽन्यन्न किञ्चन ॥ १३.४४ ॥

आत्मैवेदमिदं दृश्यं आत्मैवायमयं जनः ।
आत्मैवेदमिदं सर्वं आत्मनोऽन्यन्न किञ्चन ॥ १३.४५ ॥

आत्मैवायमयं शंभुः आत्मैवेदमिदं जगत् ।
आत्मैवायमयं ब्रह्मा आत्मनोऽन्यन्न किञ्चन ॥ १३.४६ ॥

आत्मैवायमयं सूर्य आत्मैवेदमिदं जडम् ।
आत्मैवेदमिदं ध्यानम् आत्मैवेदमिदम् फलम् ॥ १३.४७ ॥

आत्मैवायमयं योगः सर्वमात्ममयं जगत् ।
सर्वमात्ममयं भूतं आत्मनोऽन्यन्न किञ्चन ॥ १३.४८ ॥

सर्वमात्ममयं भावि सर्वमात्ममयं गुरुः ।
सर्वमात्ममयं शिष्य आत्मनोऽन्यन्न किञ्चन ॥ १३.४९ ॥

सर्वमात्ममयं देवः सर्वमात्ममयं फलम् ।
सर्वमात्ममयं लक्ष्यं आत्मनोऽन्यन्न किञ्चन ॥ १३.५० ॥

सर्वमात्ममयं तीर्थं सर्वमात्ममयं स्वयम् ।
सर्वमात्ममयं मोक्षं आत्मनोऽन्यन्न किञ्चन ॥ १३.५१ ॥

सर्वमात्ममयं कामं सर्वमात्ममयं क्रिया ।
सर्वमात्ममयं क्रोधः आत्मनोऽन्यन्न किञ्चन ॥ १३.५२ ॥

सर्वमात्ममयं विद्या सर्वमात्ममयं दिशः ।
सर्वमात्ममयं लोभः आत्मनोऽन्यन्न किञ्चन ॥ १३.५३ ॥

सर्वमात्ममयं मोहः सर्वमात्ममयं भयम् ।
सर्वमात्ममयं चिन्ता आत्मनोऽन्यन्न किञ्चन ॥ १३.५४ ॥

सर्वमात्ममयं धैर्यं सर्वमात्ममयं ध्रुवम् ।
सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किञ्चन ॥ १३.५५ ॥

सर्वमात्ममयं बोधं सर्वमात्ममयं दृढम् ।
सर्वमात्ममयं मेयं आत्मनोऽन्यन्न किञ्चन ॥ १३.५६ ॥

सर्वमात्ममयं गुह्यं सर्वमात्ममयं शुभम् ।
सर्वमात्ममयं शुद्धं आत्मनोऽन्यन्न किञ्चन ॥ १३.५७ ॥

सर्वमात्ममयं सर्वं सत्यमात्मा सदात्मकः ।
पूर्णमात्मा क्षयं चात्मा परमात्मा परात्परः ॥ १३.५८ ॥

इतोऽप्यात्मा ततोऽप्यात्मा ह्यात्मैवात्मा ततस्ततः ।
सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किञ्चन ॥ १३.५९ ॥

सर्वमात्मस्वरूपं हि दृश्यादृश्यं चराचरम् ।
सर्वमात्ममयं श्रुत्वा मुक्तिमाप्नोति मानवः ॥ १३.६० ॥

स्वतन्त्रशक्तिर्भगवानुमाधवो
विचित्रकायात्मकजाग्रतस्य ।
सुकारणं कार्यपरंपराभिः
स एव मायाविततोऽव्ययात्मा ॥ १३.६१ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
सर्वमात्मप्रकरणं नाम त्रयोदशोऽध्यायः ॥

१४ ॥ चतुर्दशोऽध्यायः ॥

ऋभुः –
श‍ृणुष्व सर्वं ब्रह्मैव सत्यं सत्यं शिवं शपे ।
निश्चयेनात्मयोगीन्द्र अन्यत् किञ्चिन्न किञ्चन ॥ १४.१ ॥

अणुमात्रमसद्रूपं अणुमात्रमिदं ध्रुवम् ।
अणुमात्रशरीरं च अन्यत् किञ्चिन्न किञ्चन ॥ १४.२ ॥

सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् ।
नित्यनिर्मलशुद्धात्मा अन्यत् किञ्चिन्न किञ्चन ॥ १४.३ ॥

अणुमात्रे विचिन्त्यात्मा सर्वं न ह्यणुमात्रकम् ।
अणुमात्रमसंकल्पो अन्यत् किञ्चिन्न किञ्चन ॥ १४.४ ॥

चैतन्यमात्रं सङ्कल्पं चैतन्यं परमं पदम् ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.५ ॥

चैतन्यमात्रमोंकारः चैतन्यं सकलं स्वयम् ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.६ ॥

आनन्दश्चाहमेवास्मि अहमेव चिदव्ययः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.७ ॥

अहमेव हि गुप्तात्मा अहमेव निरन्तरम् ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.८ ॥

अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.९ ॥

अहमेवाखिलाधार अहमेव सुखात् सुखम् ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१० ॥

अहमेव परं ज्योतिरहमेवाखिलात्मकः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.११ ॥

अहमेव हि तृप्तात्मा अहमेव हि निर्गुणः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१२ ॥

अहमेव हि पूर्णात्मा अहमेव पुरातनः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१३ ॥

अहमेव हि शान्तात्मा अहमेव हि शाश्वतः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१४ ॥

अहमेव हि सर्वत्र अहमेव हि सुस्थिरः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१५ ॥

अहमेव हि जीवात्मा अहमेव परात्परः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१६ ॥

अहमेव हि वाक्यार्थो अहमेव हि शङ्करः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१७ ॥

अहमेव हि दुर्लक्ष्य अहमेव प्रकाशकः ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.१८ ॥

अहमेवाहमेवाहं अहमेव स्वयं स्वयम् ।
अहमेव परानन्दोऽहमेव हि चिन्मयः ॥ १४.१९ ॥

अहमेव हि शुद्धात्मा अहमेव हि सन्मयः ।
अहमेव हि शून्यात्मा अहमेव हि सर्वगः ॥ १४.२० ॥

अहमेव हि वेदान्तः अहमेव हि चित्परः ॥ १४.२१ ॥

अहमेव हि चिन्मात्रं अहमेव हि चिन्मयः ।
अन्यन्न किञ्चित् चिद्रूपादहं बाह्यविवर्जितः ॥ १४.२२ ॥

अहं न किञ्चिद् ब्रह्मात्मा अहं नान्यदहं परम् ।
नित्यशुद्धविमुक्तोऽहं नित्यतृप्तो निरञ्जनः ॥ १४.२३ ॥

आनन्दं परमानन्दमन्यत् किञ्चिन्न किञ्चन ।
नास्ति किञ्चिन्नास्ति किञ्चित् नास्ति किञ्चित् परात्परात् ॥ १४.२४ ॥

आत्मैवेदं जगत् सर्वमात्मैवेदं मनोभवम् ।
आत्मैवेदं सुखं सर्वं आत्मैवेदमिदं जगत् ॥ १४.२५ ॥

ब्रह्मैव सर्वं चिन्मात्रं अहं ब्रह्मैव केवलम् ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.२६ ॥

दृश्यं सर्वं परं ब्रह्म दृश्यं नास्त्येव सर्वदा ।
ब्रह्मैव सर्वसङ्कल्पो ब्रह्मैव न परं क्वचित् ।
आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४.२७ ॥

ब्रह्मैव ब्रह्म चिद्रूपं चिदेवं चिन्मयं जगत् ।
असदेव जगत्सर्वं असदेव प्रपञ्चकम् ॥ १४.२८ ॥

असदेवाहमेवास्मि असदेव त्वमेव हि ।
असदेव मनोवृत्तिरसदेव गुणागुणौ ॥ १४.२९ ॥

असदेव मही सर्वा असदेव जलं सदा ।
असदेव जगत्खानि असदेव च तेजकम् ॥ १४.३० ॥

असदेव सदा वायुरसदेवेदमित्यपि ।
अहङ्कारमसद्बुद्धिर्ब्रह्मैव जगतां गणः ॥ १४.३१ ॥

असदेव सदा चित्तमात्मैवेदं न संशयः ।
असदेवासुराः सर्वे असदेवेदश्वराकृतिः ॥ १४.३२ ॥

असदेव सदा विश्वं असदेव सदा हरिः ।
असदेव सदा ब्रह्मा तत्सृष्टिरसदेव हि ॥ १४.३३ ॥

असदेव महादेवः असदेव गणेश्वरः ।
असदेव सदा चोमा असत् स्कन्दो गणेश्वराः ॥ १४.३४ ॥

असदेव सदा जीव असदेव हि देहकम् ।
असदेव सदा वेदा असद्देहान्तमेव च ॥ १४.३५ ॥

धर्मशास्त्रं पुराणं च असत्ये सत्यविभ्रमः ।
असदेव हि सर्वं च असदेव परंपरा ॥ १४.३६ ॥

असदेवेदमाद्यन्तमसदेव मुनीश्वराः ।
असदेव सदा लोका लोक्या अप्यसदेव हि ॥ १४.३७ ॥

असदेव सुखं दुःखं असदेव जयाजयौ ।
असदेव परं बन्धमसन्मुक्तिरपि ध्रुवम् ॥ १४.३८ ॥

असदेव मृतिर्जन्म असदेव जडाजडम् ।
असदेव जगत् सर्वमसदेवात्मभावना ॥ १४.३९ ॥

असदेव च रूपाणि असदेव पदं शुभम् ।
असदेव सदा चाहमसदेव त्वमेव हि ॥ १४.४० ॥

असदेव हि सर्वत्र असदेव चलाचलम् ।
असच्च सकलं भूतमसत्यं सकलं फलम् ॥ १४.४१ ॥

असत्यमखिलं विश्वमसत्यमखिलो गुणः ।
असत्यमखिलं शेषमसत्यमखिलं जगत् ॥ १४.४२ ॥

असत्यमखिलं पापं असत्यं श्रवणत्रयम् ।
असत्यं च सजातीयविजातीयमसत् सदा ॥ १४.४३ ॥

असत्यमधिकाराश्च अनित्या विषयाः सदा ।
असदेव हि देवाद्या असदेव प्रयोजनम् ॥ १४.४४ ॥

असदेव शमं नित्यं असदेव शमोऽनिशम् ।
असदेव ससन्देहं असद्युद्धं सुरासुरम् ॥ १४.४५ ॥ var was असदेव च सन्देहं
असदेवेशभावं चासदेवोपास्यमेव हि ।
असच्च कालदेशादि असत् क्षेत्रादिभावनम् ॥ १४.४६ ॥

तज्जन्यधर्माधर्मौ च असदेव विनिर्णयः ।
असच्च सर्वकर्माणि असदस्वपरभ्रमः ॥ १४.४७ ॥

असच्च चित्तसद्भाव असच्च स्थूलदेहकम् ।
असच्च लिङ्गदेहं च सत्यं सत्यं शिवं शपे ॥ १४.४८ ॥

असत्यं स्वर्गनरकं असत्यं तद्भवं सुखम् ।
असच्च ग्राहकं सर्वं असत्यं ग्राह्यरूपकम् ॥ १४.४९ ॥

असत्यं सत्यवद्भावं असत्यं ते शिवे शपे ।var was सत्यवद्भानं
असत्यं वर्तमानाख्यं असत्यं भूतरूपकम् ॥ १४.५० ॥

असत्यं हि भविष्याख्यं सत्यं सत्यं शिवे शपे ।
असत् पूर्वमसन्मध्यमसदन्तमिदं जगत् ॥ १४.५१ ॥

असदेव सदा प्रायं असदेव न संशयः ।
असदेव सदा ज्ञानमज्ञानज्ञेयमेव च ॥ १४.५२ ॥

असत्यं सर्वदा विश्वमसत्यं सर्वदा जडम् ।
असत्यं सर्वदा दृश्यं भाति तौ रङ्गश‍ृङ्गवत् ॥ १४.५३ ॥

असत्यं सर्वदा भावः असत्यं कोशसंभवम् ।
असत्यं सकलं मन्त्रं सत्यं सत्यं न संशयः ॥ १४.५४ ॥

आत्मनोऽन्यज्जगन्नास्ति नास्त्यनात्ममिदं सदा ।
आत्मनोऽन्यन्मृषैवेदं सत्यं सत्यं न संशयः ॥ १४.५५ ॥

आत्मनोऽन्यत्सुखं नास्ति आत्मनोऽन्यन्न किञ्चन ।
आत्मनोऽन्या गतिर्नास्ति स्थितमात्मनि सर्वदा ॥ १४.५६ ॥

आत्मनोऽन्यन्न हि क्वापि आत्मनोऽन्यत् तृणं न हि ।
आत्मनोऽन्यन्न किञ्चिच्च क्वचिदप्यात्मनो न हि ॥ १४.५७ ॥

आत्मानन्दप्रकरणमेतत्तेऽभिहितं मया ।
यः श‍ृणोति सकृद्विद्वान् ब्रह्मैव भवति स्वयम् ॥ १४.५८ ॥

सकृच्छ्रवणमात्रेण सद्योबन्धविमुक्तिदम् ।
एतद्ग्रन्थार्थमात्रं वै गृणन् सर्वैर्विमुच्यते ॥ १४.५९ ॥

सूतः –
पूर्णं सत्यं महेशं भज नियतहृदा योऽन्तरायैर्विहीनः
सो नित्यो निर्विकल्पो भवति भुवि सदा ब्रह्मभूतो ऋतात्मा ।
विच्छिन्नग्रन्थिरीशे शिवविमलपदे विद्यते भासतेऽन्तः
आरामोऽन्तर्भवति नियतं विश्वभूतो मृतश्च ॥ १४.६० ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
आत्मानन्दप्रकरणवर्णनं नाम चतुर्दशोऽध्यायः ॥

१५ ॥ पञ्चदशोऽध्यायः ॥

ऋभुः –
महारहस्यं वक्ष्यामि गुह्यात् गुह्यतरं पुनः ।
अत्यन्तदुर्लभं लोके सर्वं ब्रह्मैव केवलम् ॥ १५.१ ॥

ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ।
ब्रह्ममात्रं श्रुतं सर्वं सर्वं ब्रह्मैव केवलम् ॥ १५.२ ॥

ब्रह्ममात्रं महायन्त्रं ब्रह्ममात्रं क्रियाफलम् ।
ब्रह्ममात्रं महावाक्यं सर्वं ब्रह्मैव केवलम् ॥ १५.३ ॥

ब्रह्ममात्रं जगत्सर्वं ब्रह्ममात्रं जडाजडम् ।
ब्रह्ममात्रं परं देहं सर्वं ब्रह्मैव केवलम् ॥ १५.४ ॥

ब्रह्ममात्रं गुणं प्रोक्तं ब्रह्ममात्रमहं महत् ।
ब्रह्ममात्रं परं ब्रह्म सर्वं ब्रह्मैव केवलम् ॥ १५.५ ॥

ब्रह्ममात्रमिदं वस्तु ब्रह्ममात्रं स च पुमान् ।
ब्रह्ममात्रं च यत् किञ्चित् सर्वं ब्रह्मैव केवलम् ॥ १५.६ ॥

ब्रह्ममात्रमनन्तात्मा ब्रह्ममात्रं परं सुखम् ।
ब्रह्ममात्रं परं ज्ञानं सर्वं ब्रह्मैव केवलम् ॥ १५.७ ॥

ब्रह्ममात्रं परं पारं ब्रह्ममात्रं पुरत्रयम् ।
ब्रह्ममात्रमनेकत्वं सर्वं ब्रह्मैव केवलम् ॥ १५.८ ॥

ब्रह्मैव केवलं गन्धं ब्रह्मैव परमं पदम् ।
ब्रह्मैव केवलं घ्राणं सर्वं ब्रह्मैव केवलम् ॥ १५.९ ॥

ब्रह्मैव केवलं स्पर्शं शब्दं ब्रह्मैव केवलम् ।
ब्रह्मैव केवलं रूपं सर्वं ब्रह्मैव केवलम् ॥ १५.१० ॥

ब्रह्मैव केवलं लोकं रसो ब्रह्मैव केवलम् ।
ब्रह्मैव केवलं चित्तं सर्वं ब्रह्मैव केवलम् ॥ १५.११ ॥

तत्पदं च सदा ब्रह्म त्वं पदं ब्रह्म एव हि ।
असीत्येव पदं ब्रह्म ब्रह्मैक्यं केवलम् सदा ॥ १५.१२ ॥

ब्रह्मैव केवलं गुह्यं ब्रह्म बाह्यं च केवलम् ।
ब्रह्मैव केवलं नित्यं सर्वं ब्रह्मैव केवलम् ॥ १५.१३ ॥

ब्रह्मैव तज्जलानीति जगदाद्यन्तयोः स्थितिः ।
ब्रह्मैव जगदाद्यन्तं सर्वं ब्रह्मैव केवलम् ॥ १५.१४ ॥

ब्रह्मैव चास्ति नास्तीति ब्रह्मैवाहं न संशयः ।
ब्रह्मैव सर्वं यत् किञ्चित् सर्वं ब्रह्मैव केवलम् ॥ १५.१५ ॥

ब्रह्मैव जाग्रत् सर्वं हि ब्रह्ममात्रमहं परम् ।
ब्रह्मैव सत्यमस्तित्वं ब्रह्मैव तुर्यमुच्यते ॥ १५.१६ ॥

ब्रह्मैव सत्ता ब्रह्मैव ब्रह्मैव गुरुभावनम् ।
ब्रह्मैव शिष्यसद्भावं मोक्षं ब्रह्मैव केवलम् ॥ १५.१७ ॥

पूर्वापरं च ब्रह्मैव पूर्णं ब्रह्म सनातनम् ।
ब्रह्मैव केवलं साक्षात् सर्वं ब्रह्मैव केवलम् ॥ १५.१८ ॥

ब्रह्म सच्चित्सुखं ब्रह्म पूर्णं ब्रह्म सनातनम् ।
ब्रह्मैव केवलं साक्षात् सर्वं ब्रह्मैव केवलम् ॥ १५.१९ ॥

ब्रह्मैव केवलं सच्चित् सुखं ब्रह्मैव केवलम् ।
आनन्दं ब्रह्म सर्वत्र प्रियरूपमवस्थितम् ॥ १५.२० ॥

शुभवासनया जीवं शिववद्भाति सर्वदा ।
पापवासनया जीवो नरकं भोज्यवत् स्थितम् ॥ १५.२१ ॥

ब्रह्मैवेन्द्रियवद्भानं ब्रह्मैव विषयादिवत् ।
ब्रह्मैव व्यवहारश्च सर्वं ब्रह्मैव केवलम् ॥ १५.२२ ॥

ब्रह्मैव सर्वमानन्दं ब्रह्मैव ज्ञानविग्रहम् ।
ब्रह्मैव मायाकार्याख्यं सर्वं ब्रह्मैव केवलम् ॥ १५.२३ ॥

ब्रह्मैव यज्ञसन्धानं ब्रह्मैव हृदयाम्बरम् ।
ब्रह्मैव मोक्षसाराख्यं सर्वं ब्रह्मैव केवलम् ॥ १५.२४ ॥

ब्रह्मैव शुद्धाशुद्धं च सर्वं ब्रह्मैव कारणम् ।
ब्रह्मैव कार्यं भूलोकं सर्वं ब्रह्मैव केवलम् ॥ १५.२५ ॥

ब्रह्मैव नित्यतृप्तात्मा ब्रह्मैव सकलं दिनम् ।
ब्रह्मैव तूष्णीं भूतात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.२६ ॥

ब्रह्मैव वेदसारार्थः ब्रह्मैव ध्यानगोचरम् ।
ब्रह्मैव योगयोगाख्यं सर्वं ब्रह्मैव केवलम् ॥ १५.२७ ॥

नानारूपत्वाद् ब्रह्म उपाधित्वेन दृश्यते ।
मायामात्रमिति ज्ञात्वा वस्तुतो नास्ति तत्त्वतः ॥ १५.२८ ॥

ब्रह्मैव लोकवद्भाति ब्रह्मैव जनवत्तथा ।
ब्रह्मैव रूपवद्भाति वस्तुतो नास्ति किञ्चन ॥ १५.२९ ॥

ब्रह्मैव देवताकारं ब्रह्मैव मुनिमण्डलम् ।
ब्रह्मैव ध्यानरूपं च सर्वं ब्रह्मैव केवलम् ॥ १५.३० ॥

ब्रह्मैव ज्ञानविज्ञानं ब्रह्मैव परमेश्वरः ।
ब्रह्मैव शुद्धबुद्धात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.३१ ॥

ब्रह्मैव परमानदं ब्रह्मैव व्यापकं महत् ।
ब्रह्मैव परमार्थं च सर्वं ब्रह्मैव केवलम् ॥ १५.३२ ॥

ब्रह्मैव यज्ञरूपं च ब्रह्म हव्यं च केवलम् ।
ब्रह्मैव जीवभूतात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.३३ ॥

ब्रह्मैव सकलं लोकं ब्रह्मैव गुरुशिष्यकम् ।
ब्रह्मैव सर्वसिद्धिं च सर्वं ब्रह्मैव केवलम् ॥ १५.३४ ॥

ब्रह्मैव सर्वमन्त्रं च ब्रह्मैव सकलं जपम् ।
ब्रह्मैव सर्वकार्यं च सर्वं ब्रह्मैव केवलम् ॥ १५.३५ ॥

ब्रह्मैव सर्वशान्तत्वं ब्रह्मैव हृदयान्तरम् ।
ब्रह्मैव सर्वकैवल्यं सर्वं ब्रह्मैव केवलम् ॥ १५.३६ ॥

ब्रह्मैवाक्षरभावञ्च ब्रह्मैवाक्षरलक्षणम् ।
ब्रह्मैव ब्रह्मरूपञ्च सर्वं ब्रह्मैव केवलम् ॥ १५.३७ ॥

ब्रह्मैव सत्यभवनं ब्रह्मैवाहं न संशयः ।
ब्रह्मैव तत्पदार्थञ्च सर्वं ब्रह्मैव केवलम् ॥ १५.३८ ॥

ब्रह्मैवाहंपदार्थञ्च ब्रह्मैव परमेश्वरः ।
ब्रह्मैव त्वंपदार्थञ्च सर्वं ब्रह्मैव केवलम् ॥ १५.३९ ॥

ब्रह्मैव यद्यत् परमं ब्रह्मैवेति परायणम् ।
ब्रह्मैव कलनाभावं सर्वं ब्रह्मैव केवलम् ॥ १५.४० ॥

ब्रह्म सर्वं न सन्देहो ब्रह्मैव त्वं सदाशिवः ।
ब्रह्मैवेदं जगत् सर्वं सर्वं ब्रह्मैव केवलम् ॥ १५.४१ ॥

ब्रह्मैव सर्वसुलभं ब्रह्मैवात्मा स्वयं स्वयम् ।
ब्रह्मैव सुखमात्रत्वात् सर्वं ब्रह्मैव केवलम् ॥ १५.४२ ॥

ब्रह्मैव सर्वं ब्रह्मैव ब्रह्मणोऽन्यदसत् सदा ।
ब्रह्मैव ब्रह्ममात्रात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.४३ ॥

ब्रह्मैव सर्ववाक्यार्थः ब्रह्मैव परमं पदम् ।
ब्रह्मैव सत्यासत्यं च सर्वं ब्रह्मैव केवलम् ॥ १५.४४ ॥

ब्रह्मैवैकमनाद्यन्तं ब्रह्मैवैकं न संशयः ।
ब्रह्मैवैकं चिदानन्दः सर्वं ब्रह्मैव केवलम् ॥ १५.४५ ॥

ब्रह्मैवैकं सुखं नित्यं ब्रह्मैवैकं परायणम् ।
ब्रह्मैवैकं परं ब्रह्म सर्वं ब्रह्मैव केवलम् ॥ १५.४६ ॥

ब्रह्मैव चित् स्वयं स्वस्थं ब्रह्मैव गुणवर्जितम् ।
ब्रह्मैवात्यन्तिकं सर्वं सर्वं ब्रह्मैव केवलम् ॥ १५.४७ ॥

ब्रह्मैव निर्मलं सर्वं ब्रह्मैव सुलभं सदा ।
ब्रह्मैव सत्यं सत्यानां सर्वं ब्रह्मैव केवलम् ॥ १५.४८ ॥

ब्रह्मैव सौख्यं सौख्यं च ब्रह्मैवाहं सुखात्मकम् ।
ब्रह्मैव सर्वदा प्रोक्तं सर्वं ब्रह्मैव केवलम् ॥ १५.४९ ॥

ब्रह्मैवमखिलं ब्रह्म ब्रह्मैकं सर्वसाक्षिकम् ।
ब्रह्मैव भूरिभवनं सर्वं ब्रह्मैव केवलम् ॥ १५.५० ॥

ब्रह्मैव परिपूर्णात्मा ब्रह्मैवं सारमव्ययम् ।
ब्रह्मैव कारणं मूलं ब्रह्मैवैकं परायणम् ॥ १५.५१ ॥

ब्रह्मैव सर्वभूतात्मा ब्रह्मैव सुखविग्रहम् ।
ब्रह्मैव नित्यतृप्तात्मा सर्वं ब्रह्मैव केवलम् ॥ १५.५२ ॥

ब्रह्मैवाद्वैतमात्रात्मा ब्रह्मैवाकाशवत् प्रभुः ।
ब्रह्मैव हृदयानन्दः सर्वं ब्रह्मैव केवलम् ॥ १५.५३ ॥

ब्रह्मणोऽन्यत् परं नास्ति ब्रह्मणोऽन्यज्जगन्न च ।
ब्रह्मणोऽन्यदहं नाहं सर्वं ब्रह्मैव केवलम् ॥ १५.५४ ॥

ब्रह्मैवान्यसुखं नास्ति ब्रह्मणोऽन्यत् फलं न हि ।
ब्रह्मणोऽन्यत् तृणं नास्ति सर्वं ब्रह्मैव केवलम् ॥ १५.५५ ॥

ब्रह्मणोऽन्यत् पदं मिथ्या ब्रह्मणोऽन्यन्न किञ्चन ।
ब्रह्मणोऽन्यज्जगन्मिथ्या सर्वं ब्रह्मैव केवलम् ॥ १५.५६ ॥

ब्रह्मणोऽन्यदहं मिथ्या ब्रह्ममात्रोहमेव हि ।
ब्रह्मणोऽन्यो गुरुर्नास्ति सर्वं ब्रह्मैव केवलम् ॥ १५.५७ ॥

ब्रह्मणोऽन्यदसत् कार्यं ब्रह्मणोऽन्यदसद्वपुः ।
ब्रह्मणोऽन्यन्मनो नास्ति सर्वं ब्रह्मैव केवलम् ॥ १५.५८ ॥

ब्रह्मणोऽन्यज्जगन्मिथ्या ब्रह्मणोऽन्यन्न किञ्चन ।
ब्रह्मणोऽन्यन्न चाहन्ता सर्वं ब्रह्मैव केवलम् ॥ १५.५९ ॥

ब्रह्मैव सर्वमित्येवं प्रोक्तं प्रकरणं मया ।
यः पठेत् श्रावयेत् सद्यो ब्रह्मैव भवति स्वयम् ॥ १५.६० ॥

अस्ति ब्रह्मेति वेदे इदमिदमखिलं वेद सो सद्भवेत् ।
सच्चासच्च जगत्तथा श्रुतिवचो ब्रह्मैव तज्जादिकम् ॥

यतो विद्यैवेदं परिलुठति मोहेन जगति ।
अतो विद्यापादो परिभवति ब्रह्मैव हि सदा ॥ १५.६१ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ब्रह्मैव सर्वं प्रकरणनिरूपणं नाम पञ्चदशोऽध्यायः ॥

१६ ॥ षोडशोऽध्यायः ॥

ऋभुः –
अत्यन्तं दुर्लभं वक्ष्ये वेदशास्त्रागमादिषु ।
श‍ृण्वन्तु सावधानेन असदेव हि केवलम् ॥ १६.१ ॥

यत्किञ्चिद् दृश्यते लोके यत्किञ्चिद्भाषते सदा ।
यत्किञ्चिद् भुज्यते क्वापि तत्सर्वमसदेव हि ॥ १६.२ ॥

यद्यत् किञ्चिज्जपं वापि स्नानं वा जलमेव वा ।
आत्मनोऽन्यत् परं यद्यत् असत् सर्वं न संशयः ॥ १६.३ ॥

चित्तकार्यं बुद्धिकार्यं मायाकार्यं तथैव हि ।
आत्मनोऽन्यत् परं किञ्चित् तत्सर्वमसदेव हि ॥ १६.४ ॥

अहन्तायाः परं रूपं इदंत्वं सत्यमित्यपि ।
आत्मनोऽन्यत् परं किञ्चित् तत्सर्वमसदेव हि ॥ १६.५ ॥

नानात्वमेव रूपत्वं व्यवहारः क्वचित् क्वचित् ।
आत्मीय एव सर्वत्र तत्सर्वमसदेव हि ॥ १६.६ ॥

तत्त्वभेदं जगद्भेदं सर्वभेदमसत्यकम् ।
इच्छाभेदं जगद्भेदं तत्सर्वमसदेव हि ॥ १६.७ ॥

द्वैतभेदं चित्रभेदं जाग्रद्भेदं मनोमयम् ।
अहंभेदमिदंभेदमसदेव हि केवलम् ॥ १६.८ ॥

स्वप्नभेदं सुप्तिभेदं तुर्यभेदमभेदकम् ।
कर्तृभेदं कार्यभेदं गुणभेदं रसात्मकम् ।
लिङ्गभेदमिदंभेदमसदेव हि केवलम् ॥ १६.९ ॥

आत्मभेदमसद्भेदं सद्भेदमसदण्वपि ।
अत्यन्ताभावसद्भेदम् असदेव हि केवलम् ॥ १६.१० ॥

अस्तिभेदं नास्तिभेदमभेदं भेदविभ्रमः ।
भ्रान्तिभेदं भूतिभेदमसदेव हि केवलम् ॥ १६.११ ॥

पुनरन्यत्र सद्भेदमिदमन्यत्र वा भयम् ।
पुण्यभेदं पापभेदं असदेव हि केवलम् ॥ १६.१२ ॥

सङ्कल्पभेदं तद्भेदं सदा सर्वत्र भेदकम् ।
ज्ञानाज्ञानमयं सर्वं असदेव हि केवलम् ॥ १६.१३ ॥

ब्रह्मभेदं क्षत्रभेदं भूतभौतिकभेदकम् ।
इदंभेदमहंभेदं असदेव हि केवलम् ॥ १६.१४ ॥

वेदभेदं देवभेदं लोकानां भेदमीदृशम् ।
पञ्चाक्षरमसन्नित्यम् असदेव हि केवलम् ॥ १६.१५ ॥

ज्ञानेन्द्रियमसन्नित्यं कर्मेन्द्रियमसत्सदा ।
असदेव च शब्दाख्यं असत्यं तत्फलं तथा ॥ १६.१६ ॥

असत्यं पञ्चभूताख्यमसत्यं पञ्चदेवताः ।
असत्यं पञ्चकोशाख्यम् असदेव हि केवलम् ॥ १६.१७ ॥

असत्यं षड्विकारादि असत्यं षट्कमूर्मिणाम् ।
असत्यमरिषड्वर्गमसत्यं षडृतुस्तदा ॥ १६.१८ ॥ var was तथा
असत्यं द्वादशमासाः असत्यं वत्सरस्तथा ।
असत्यं षडवस्थाख्यं षट्कालमसदेव हि ॥ १६.१९ ॥

असत्यमेव षट्शास्त्रं असदेव हि केवलम् ।
असदेव सदा ज्ञानं असदेव हि केवलम् ॥ १६.२० ॥

अनुक्तमुक्तं नोक्तं च असदेव हि केवलम् ।
असत्प्रकरणं प्रोक्तं सर्ववेदेषु दुर्लभम् ॥ १६.२१ ॥

भूयः श‍ृणु त्वं योगीन्द्र साक्षान्मोक्षं ब्रवीम्यहम् ।
सन्मात्रमहमेवात्मा सच्चिदानन्द केवलम् ॥ १६.२२ ॥

सन्मयानन्दभूतात्मा चिन्मयानन्दसद्घनः ।
चिन्मयानन्दसन्दोहचिदानन्दो हि केवलम् ॥ १६.२३ ॥

चिन्मात्रज्योतिरान्दश्चिन्मात्रज्योतिविग्रहः ।
चिन्मात्रज्योतिरीशानः सर्वदानन्दकेवलम् ॥ १६.२४ ॥

चिन्मात्रज्योतिरखिलं चिन्मात्रज्योतिरस्म्यहम् ।
चिन्मात्रं सर्वमेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.२५ ॥

चिन्मात्रमेव चित्तं च चिन्मात्रं मोक्ष एव च ।
चिन्मात्रमेव मननं चिन्मात्रं श्रवणं तथा ॥ १६.२६ ॥

चिन्मात्रमहमेवास्मि सर्वं चिन्मात्रमेव हि ।
चिन्मात्रं निर्गुणं ब्रह्म चिन्मात्रं सगुणं परम् ॥ १६.२७ ॥

चिन्मात्रमहमेव त्वं सर्वं चिन्मात्रमेव हि ।
चिन्मात्रमेव हृदयं चिन्मात्रं चिन्मयं सदा ॥ १६.२८ ॥

चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ।
चिन्मात्रमेव शान्तत्वं चिन्मात्रं शान्तिलक्षणम् ॥ १६.२९ ॥

चिन्मात्रमेव विज्ञानं चिन्मात्रं ब्रह्म केवलम् ।
चिन्मात्रमेव संकल्पं चिन्मात्रं भुवनत्रयम् ॥ १६.३० ॥

चिन्मात्रमेव सर्वत्र चिन्मात्रं व्यापको गुरुः ।
चिन्मात्रमेव शुद्धत्वं चिन्मात्रं ब्रह्म केवलम् ॥ १६.३१ ॥

चिन्मात्रमेव चैतन्यं चिन्मात्रं भास्करादिकम् ।
चिन्मात्रमेव सन्मात्रं चिन्मात्रं जगदेव हि ॥ १६.३२ ॥

चिन्मात्रमेव सत्कर्म चिन्मात्रं नित्यमङ्गलम् ।
चिन्मात्रमेव हि ब्रह्म चिन्मात्रं हरिरेव हि ॥ १६.३३ ॥

चिन्मात्रमेव मौनात्मा चिन्मात्रं सिद्धिरेव हि ।
चिन्मात्रमेव जनितं चिन्मात्रं सुखमेव हि ॥ १६.३४ ॥

चिन्मात्रमेव गगनं चिन्मात्रं पर्वतं जलम् ।
चिन्मात्रमेव नक्षत्रं चिन्मात्रं मेघमेव हि ॥ १६.३५ ॥

चिदेव देवताकारं चिदेव शिवपूजनम् ।
चिन्मात्रमेव काठिन्यं चिन्मात्रं शीतलं जलम् ॥ १६.३६ ॥

चिन्मात्रमेव मन्तव्यं चिन्मात्रं दृश्यभावनम् ।
चिन्मात्रमेव सकलं चिन्मात्रं भुवनं पिता ॥ १६.३७ ॥

चिन्मात्रमेव जननी चिन्मात्रान्नास्ति किञ्चन ।
चिन्मात्रमेव नयनं चिन्मात्रं श्रवणं सुखम् ॥ १६.३८ ॥

चिन्मात्रमेव करणं चिन्मात्रं कार्यमीश्वरम् ।
चिन्मात्रं चिन्मयं सत्यं चिन्मात्रं नास्ति नास्ति हि ॥ १६.३९ ॥

चिन्मात्रमेव वेदान्तं चिन्मात्रं ब्रह्म निश्चयम् ।
चिन्मात्रमेव सद्भावि चिन्मात्रं भाति नित्यशः ॥ १६.४० ॥

चिदेव जगदाकारं चिदेव परमं पदम् ।
चिदेव हि चिदाकारं चिदेव हि चिदव्ययः ॥ १६.४१ ॥

चिदेव हि शिवाकारं चिदेव हि शिवविग्रहः ।
चिदाकारमिदं सर्वं चिदाकारं सुखासुखम् ॥ १६.४२ ॥

चिदेव हि जडाकारं चिदेव हि निरन्तरम् ।
चिदेवकलनाकारं जीवाकारं चिदेव हि ॥ १६.४३ ॥

चिदेव देवताकारं चिदेव शिवपूजनम् ।
चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.४४ ॥

चिदेव परमाकारं चिदेव हि निरामयम् ।
चिन्मात्रमेव सततं चिन्मात्रं हि परायणम् ॥ १६.४५ ॥

चिन्मात्रमेव वैराग्यं चिन्मात्रं निर्गुणं सदा ।
चिन्मात्रमेव सञ्चारं चिन्मात्रं मन्त्रतन्त्रकम् ॥ १६.४६ ॥

चिदाकारमिदं विश्वं चिदाकारं जगत्त्रयम् ।
चिदाकारमहङ्कारं चिदाकारं परात् परम् ॥ १६.४७ ॥

चिदाकारमिदं भेदं चिदाकारं तृणादिकम् ।
चिदाकारं चिदाकाशं चिदाकारमरूपकम् ॥ १६.४८ ॥

चिदाकारं महानन्दं चिदाकारं सुखात् सुखम् ।
चिदाकारं सुखं भोज्यं चिदाकारं परं गुरुम् ॥ १६.४९ ॥

चिदाकारमिदं विश्वं चिदाकारमिदं पुमान् ।
चिदाकारमजं शान्तं चिदाकारमनामयम् ॥ १६.५० ॥

चिदाकारं परातीतं चिदाकारं चिदेव हि ।
चिदाकारं चिदाकाशं चिदाकाशं शिवायते ॥ १६.५१ ॥

चिदाकारं सदा चित्तं चिदाकारं सदाऽमृतम् ।
चिदाकारं चिदाकाशं तदा सर्वान्तरान्तरम् ॥ १६.५२ ॥

चिदाकारमिदं पूर्णं चिदाकारमिदं प्रियम् ।
चिदाकारमिदं सर्वं चिदाकारमहं सदा ॥ १६.५३ ॥

चिदाकारमिदं स्थानं चिदाकारं हृदम्बरम् ।
चिदाबोधं चिदाकारं चिदाकाशं ततं सदा ॥ १६.५४ ॥

चिदाकारं सदा पूर्णं चिदाकारं महत्फलम् ।
चिदाकारं परं तत्त्वं चिदाकारं परं भवान् ॥ १६.५५ ॥

चिदाकारं सदामोदं चिदाकारं सदा मृतम् ।
चिदाकारं परं ब्रह्म चिदहं चिदहं सदा ॥ १६.५६ ॥

चिदहं चिदहं चित्तं चित्तं स्वस्य न संशयः ।
चिदेव जगदाकारं चिदेव शिवशङ्करः ॥ १६.५७ ॥

चिदेव गगनाकारं चिदेव गणनायकम् ।
चिदेव भुवनाकारं चिदेव भवभावनम् ॥ १६.५८ ॥

चिदेव हृदयाकारं चिदेव हृदयेश्वरः ।
चिदेव अमृताकारं चिदेव चलनास्पदम् ॥ १६.५९ ॥

चिदेवाहं चिदेवाहं चिन्मयं चिन्मयं सदा ।
चिदेव सत्यविश्वासं चिदेव ब्रह्मभावनम् ॥ १६.६० ॥

चिदेव परमं देवं चिदेव हृदयालयम् ।
चिदेव सकलाकारं चिदेव जनमण्डलम् ॥ १६.६१ ॥

चिदेव सर्वमानन्दं चिदेव प्रियभाषणम् ।
चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥ १६.६२ ॥

चिदेव परमं ध्यानं चिदेव परमर्हणम् ।
चिदेव त्वं चिदेवाहं सर्वं चिन्मयमेव हि ॥ १६.६३ ॥

चिदेव त्वं प्रकरणं सर्ववेदेषु दुर्लभम् ।
सकृच्छ्रवणमात्रेण ब्रह्मैव भवति ध्रुवम् ॥ १६.६४ ॥

यस्याभिध्यानयोगाज्जनिमृतिविवशाः शाश्वतं वृत्तिभिर्ये
मायामोहैर्विहीना हृदुदरभयजं छिद्यते ग्रन्थिजातम् ।
विश्वं विश्वाधिकरसं भवति भवतो दर्शनादाप्तकामः
सो नित्यो निर्विकल्पो भवति भुवि सदा ब्रह्मभूतोऽन्तरात्मा ॥ १६.६५ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
चिदेवत्वंप्रकरणवर्णनं नाम षोडशोऽध्यायः ॥

१७ ॥ सप्तदशोऽध्यायः ॥

ऋभुः –
निदाघ श‍ृणु गुह्यं मे सर्वसिद्धान्तसङ्ग्रहम् ।
द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मैव सर्वदा ॥ १७.१ ॥

अहमेव परं ब्रह्म अहमेव परात् परम् ।
द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मैव केवलम् ॥ १७.२ ॥

अहमेव हि शान्तात्मा अहमेव हि सर्वगः ।
अहमेव हि शुद्धात्मा अहमेव हि नित्यशः ॥ १७.३ ॥

अहमेव हि नानात्मा अहमेव हि निर्गुणः ।
अहमेव हि नित्यात्मा अहमेव हि कारणम् ॥ १७.४ ॥

अहमेव हि जगत् सर्वं इदं चैवाहमेव हि ।
अहमेव हि मोदात्मा अहमेव हि मुक्तिदः ॥ १७.५ ॥

अहमेव हि चैतन्यं अहमेव हि चिन्मयः ।
अहमेव हि चैतन्यमहं सर्वान्तरः सदा ॥ १७.६ ॥

अहमेव हि भूतात्मा भौतिकं त्वहमेव हि ।
अहमेव त्वमेवाहमहमेवाहमेव हि ॥ १७.७ ॥

जीवात्मा त्वहमेवाहमहमेव परेश्वरः ।
अहमेव विभुर्नित्यमहमेव स्वयं सदा ॥ १७.८ ॥

अहमेवाक्षरं साक्षात् अहमेव हि मे प्रियम् ।
अहमेव सदा ब्रह्म अहमेव सदाऽव्ययः ॥ १७.९ ॥

अहमेवाहमेवाग्रे अहमेवान्तरान्तरः ।
अहमेव चिदाकाशमहमेवावभासकः ॥ १७.१० ॥

अहमेव सदा स्रष्टा अहमेव हि रक्षकः ।
अहमेव हि लीलात्मा अहमेव हि निश्चयः ॥ १७.११ ॥

अहमेव सदा साक्षी त्वमेव त्वं पुरातनः ।
त्वमेव हि परं ब्रह्म त्वमेव हि निरन्तरम् ॥ १७.१२ ॥

अहमेवाहमेवाहमहमेव त्वमेव हि ।
अहमेवाद्वयाकारः अहमेव विदेहकः ॥ १७.१३ ॥

अहमेव ममाधारः अहमेव सदात्मकः ।
अहमेवोपशान्तात्मा अहमेव तितिक्षकः ॥ १७.१४ ॥

अहमेव समाधानं श्रद्धा चाप्यहमेव हि ।
अहमेव महाव्योम अहमेव कलात्मकः ॥ १७.१५ ॥

अहमेव हि कामान्तः अहमेव सदान्तरः ।
अहमेव पुरस्ताच्च अहं पश्चादहं सदा ॥ १७.१६ ॥

अहमेव हि विश्वात्मा अहमेव हि केवलम् ।
अहमेव परं ब्रह्म अहमेव परात्परः ॥ १७.१७ ॥

अहमेव चिदानन्दः अहमेव सुखासुखम् ।
अहमेव गुरुत्वं च अहमेवाच्युतः सदा ॥ १७.१८ ॥

अहमेव हि वेदान्तः अहमेव हि चिन्तनः ।
देहोऽहं शुद्धचैतन्यः अहं संशयवर्जितः ॥ १७.१९ ॥

अहमेव परं ज्योतिरहमेव परं पदम् ।
अहमेवाविनाश्यात्मा अहमेव पुरातनः ॥ १७.२० ॥

अहं ब्रह्म न सन्देहः अहमेव हि निष्कलः ।
अहं तुर्यो न सन्देहः अहमात्मा न संशयः ॥ १७.२१ ॥

अहमित्यपि हीनोऽहमहं भावनवर्जितः ।
अहमेव हि भावान्ता अहमेव हि शोभनम् ॥ १७.२२ ॥

अहमेव क्षणातीतः अहमेव हि मङ्गलम् ।
अहमेवाच्युतानन्दः अहमेव निरन्तरम् ॥ १७.२३ ॥

अहमेवाप्रमेयात्मा अहं संकल्पवर्जितः ।
अहं बुद्धः परंधाम अहं बुद्धिविवर्जितः ॥ १७.२४ ॥

अहमेव सदा सत्यं अहमेव सदासुखम् ।
अहमेव सदा लभ्यं अहं सुलभकारणम् ॥ १७.२५ ॥

अहं सुलभविज्ञानं दुर्लभो ज्ञानिनां सदा ।
अहं चिन्मात्र एवात्मा अहमेव हि चिद्घनः ॥ १७.२६ ॥

अहमेव त्वमेवाहं ब्रह्मैवाहं न संशयः ।
अहमात्मा न सन्देहः सर्वव्यापी न संशयः ॥ १७.२७ ॥

अहमात्मा प्रियं सत्यं सत्यं सत्यं पुनः पुनः ।
अहमात्माऽजरो व्यापी अहमेवात्मनो गुरुः ॥ १७.२८ ॥

अहमेवामृतो मोक्षो अहमेव हि निश्चलः ।
अहमेव हि नित्यात्मा अहं मुक्तो न संशयः ॥ १७.२९ ॥

अहमेव सदा शुद्धः अहमेव हि निर्गुणः ।
अहं प्रपञ्चहीनोऽहं अहं देहविवर्जितः ॥ १७.३० ॥

अहं कामविहीनात्मा अहं मायाविवर्जितः ।
अहं दोषप्रवृत्तात्मा अहं संसारवर्जितः ॥ १७.३१ ॥

अहं सङ्कल्परहितो विकल्परहितः शिवः ।
अहमेव हि तुर्यात्मा अहमेव हि निर्मलः ॥ १७.३२ ॥

अहमेव सदा ज्योतिरहमेव सदा प्रभुः ।
अहमेव सदा ब्रह्म अहमेव सदा परः ॥ १७.३३ ॥

अहमेव सदा ज्ञानमहमेव सदा मृदुः ।
अहमेव हि चित्तं च अहं मानविवर्जितः ॥ १७.३४ ॥

अहंकारश्च संसारमहङ्कारमसत्सदा ।
अहमेव हि चिन्मात्रं मत्तोऽन्यन्नास्ति नास्ति हि ॥ १७.३५ ॥

अहमेव हि मे सत्यं मत्तोऽन्यन्नास्ति किञ्चन ।
मत्तोऽन्यत्तत्पदं नास्ति मत्तोऽन्यत् त्वत्पदं नहि ॥ १७.३६ ॥

पुण्यमित्यपि न क्वापि पापमित्यपि नास्ति हि ।
इदं भेदमयं भेदं सदसद्भेदमित्यपि ॥ १७.३७ ॥

नास्ति नास्ति त्वया सत्यं सत्यं सत्यं पुनः पुनः ।
नास्ति नास्ति सदा नास्ति सर्वं नास्तीति निश्चयः ॥ १७.३८ ॥

इदमेव परं ब्रह्म अहं ब्रह्म त्वमेव हि ।
कालो ब्रह्म कला ब्रह्म कार्यं ब्रह्म क्षणं तदा ॥ १७.३९ ॥

सर्वं ब्रह्माप्यहं ब्रह्म ब्रह्मास्मीति न संशयः ।
चित्तं ब्रह्म मनो ब्रह्म सत्यं ब्रह्म सदाऽस्म्यहम् ॥ १७.४० ॥

निर्गुणं ब्रह्म नित्यं च निरन्तरमहं परः ।
आद्यन्तं ब्रह्म एवाहं आद्यन्तं च नहि क्वचित् ॥ १७.४१ ॥

अहमित्यपि वार्ताऽपि स्मरणं भाषणं न च ।
सर्वं ब्रह्मैव सन्देहस्त्वमित्यपि न हि क्वचित् ॥ १७.४२ ॥

वक्ता नास्ति न सन्देहः एषा गीता सुदुर्लभः ।
सद्यो मोक्षप्रदं ह्येतत् सद्यो मुक्तिं प्रयच्छति ॥ १७.४३ ॥

सद्य एव परं ब्रह्म पदं प्राप्नोति निश्चयः ।
सकृच्छ्रवणमात्रेण सद्यो मुक्तिं प्रयच्छति ॥ १७.४४ ॥

एतत्तु दुर्लभं लोके त्रैलोक्येऽपि च दुर्लभम् ।
अहं ब्रह्म न सन्देह इत्येवं भावयेत् दृढम् ।
ततः सर्वं परित्यज्य तूष्णीं तिष्ठ यथा सुखम् ॥ १७.४५ ॥

सूतः –
भुवनगगनमध्यध्यानयोगाङ्गसङ्गे
यमनियमविशेषैर्भस्मरागाङ्गसङ्गैः ।
सुखमुखभरिताशाः कोशपाशाद्विहीना
हृदि मुदितपराशाः शांभवाः शंभुवच्च ॥ १७.४६ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
सर्वसिद्धान्तसंग्रहप्रकरणं नाम सप्तदशोऽध्यायः ॥

१८ ॥ अष्टादशोऽध्यायः ॥

ऋभुः –
श‍ृणु भूयः परं तत्त्वं सद्यो मोक्षप्रदायकम् ।
सर्वं ब्रह्मैव सततं सर्वं शान्तं न संशयः ॥ १८.१ ॥

ब्रह्माक्षरमिदं सर्वं पराकारमिदं नहि ।
इदमित्यपि यद्दोषं वयमित्यपि भाषणम् ॥ १८.२ ॥

यत्किञ्चित्स्मरणं नास्ति यत्किञ्चिद् ध्यानमेव हि ।
यत्किञ्चिद् ज्ञानरूपं वा तत्सर्वं ब्रह्म एव हि ॥ १८.३ ॥

यत्किञ्चिद् ब्रह्मवाक्यं वा यत्किञ्चिद्वेदवाक्यकम् ।
यत्किञ्चिद्गुरुवाक्यं वा तत्सर्वं ब्रह्म एव हि ॥ १८.४ ॥

यत्किञ्चित्कल्मषं सत्यं यत्किञ्चित् प्रियभाषणम् ।
यत्किञ्चिन्मननं सत्ता तत्सर्वं ब्रह्म एव हि ॥ १८.५ ॥

यत्किञ्चित् श्रवणं नित्यं यत् किञ्चिद्ध्यानमश्नुते ।
यत्किञ्चिन्निश्चयं श्रद्धा तत्सर्वं ब्रह्म एव हि ॥ १८.६ ॥

यत्किञ्चिद् गुरूपदेशं यत्किञ्चिद्गुरुचिन्तनम् ।
यत्किञ्चिद्योगभेदं वा तत्सर्वं ब्रह्म एव हि ॥ १८.७ ॥

सर्वं त्यज्य गुरुं त्यज्य सर्वं सन्त्यज्य नित्यशः ।
तूष्णीमेवासनं ब्रह्म सुखमेव हि केवलम् ॥ १८.८ ॥

सर्वं त्यक्त्वा सुखं नित्यं सर्वत्यागं सुखं महत् ।
सर्वत्यागं परानन्दं सर्वत्यागं परं सुखम् ॥ १८.९ ॥

सर्वत्यागं मनस्त्यागः सर्वत्यागमहंकृतेः ।
सर्वत्यागं महायागः सर्वत्यागं सुखं परम् ॥ १८.१० ॥

सर्वत्यागं महामोक्षं चित्तत्यागं तदेव हि ।
चित्तमेव जगन्नित्यं चित्तमेव हि संसृतिः ॥ १८.११ ॥

चित्तमेव महामाया चित्तमेव शरीरकम् ।
चित्तमेव भयं देहः चित्तमेव मनोमयम् ॥ १८.१२ ॥

चित्तमेव प्रपञ्चाख्यं चित्तमेव हि कल्मषम् ।
चित्तमेव जडं सर्वं चित्तमेवेन्द्रियादिकम् ॥ १८.१३ ॥

चित्तमेव सदा सत्यं चित्तमेव नहि क्वचित् ।
चित्तमेव महाशास्त्रं चित्तमेव मनःप्रदम् ॥ १८.१४ ॥

चित्तमेव सदा पापं चित्तमेव सदा मतम् ।
चित्तमेव हि सर्वाख्यं चित्तमेव सदा जहि ॥ १८.१५ ॥

चित्तं नास्तीति चिन्ता स्यात् आत्ममात्रं प्रकाशते ।
चित्तमस्तीति चिन्ता चेत् चित्तत्वं स्वयमेव हि ॥ १८.१६ ॥

स्वयमेव हि चित्ताख्यं स्वयं ब्रह्म न संशयः ।
चित्तमेव हि सर्वाख्यं चित्तं सर्वमिति स्मृतम् ॥ १८.१७ ॥

ब्रह्मैवाहं स्वयंज्योतिर्ब्रह्मैवाहं न संशयः ।
सर्वं ब्रह्म न सन्देहः सर्वं चिज्ज्योतिरेव हि ॥ १८.१८ ॥

अहं ब्रह्मैव नित्यात्मा पूर्णात् पूर्णतरं सदा ।
अहं पृथ्व्यादिसहितं अहमेव विलक्षणम् ॥ १८.१९ ॥

अहं सूक्ष्मशरीरान्तमहमेव पुरातनम् ।
अहमेव हि मानात्मा सर्वं ब्रह्मैव केवलम् ॥ १८.२० ॥

चिदाकारो ह्यहं पूर्णश्चिदाकारमिदं जगत् ।
चिदाकारं चिदाकाशं चिदाकाशमहं सदा ॥ १८.२१ ॥

चिदाकाशं त्वमेवासि चिदाकाशमहं सदा ।
चिदाकाशं चिदेवेदं चिदाकाशान्न किञ्चन ॥ १८.२२ ॥

चिदाकाशततं सर्वं चिदाकाशं प्रकाशकम् ।
चिदाकारं मनो रूपं चिदाकाशं हि चिद्घनम् ॥ १८.२३ ॥

चिदाकाशं परं ब्रह्म चिदाकाशं च चिन्मयः ।
चिदाकाशं शिवं साक्षाच्चिदाकाशमहं सदा ॥ १८.२४ ॥

सच्चिदानन्दरूपोऽहं सच्चिदानन्दशाश्वतः ।
सच्चिदानन्द सन्मात्रं सच्चिदानन्दभावनः ॥ १८.२५ ॥

सच्चिदानन्दपूर्णोऽहं सच्चिदानन्दकारणम् ।
सच्चिदानन्दसन्दोहः सच्चिदानन्द ईश्वरः ॥ १८.२६ ॥ var was हीनकः
सच्चिदानन्दनित्योऽहं सच्चिदानन्दलक्षणम् ।
सच्चिदानन्दमात्रोऽहं सच्चिदानन्दरूपकः ॥ १८.२७ ॥

आत्मैवेदमिदं सर्वमात्मैवाहं न संशयः ।
आत्मैवास्मि परं सत्यमात्मैव परमं पदम् ॥ १८.२८ ॥

आत्मैव जगदाकारं आत्मैव भुवनत्रयम् ।
आत्मैव जगतां श्रेष्ठः आत्मैव हि मनोमयः ॥ १८.२९ ॥

आत्मैव जगतां त्राता आत्मैव गुरुरात्मनः ।
आत्मैव बहुधा भाति आत्मैवैकं परात्मनः ॥ १८.३० ॥

आत्मैव परमं ब्रह्म आत्मैवाहं न संशयः ।
आत्मैव परमं लोकं आत्मैव परमात्मनः ॥ १८.३१ ॥

आत्मैव जीवरूपात्मा आत्मैवेश्वरविग्रहः ।
आत्मैव हरिरानन्दः आत्मैव स्वयमात्मनः ॥ १८.३२ ॥

आत्मैवानन्दसन्दोह आत्मैवेदं सदा सुखम् ।
आत्मैव नित्यशुद्धात्मा आत्मैव जगतः परः ॥ १८.३३ ॥

आत्मैव पञ्चभूतात्मा आत्मैव ज्योतिरात्मनः ।
आत्मैव सर्वदा नान्यदात्मैव परमोऽव्ययः ॥ १८.३४ ॥

आत्मैव ह्यात्मभासात्मा आत्मैव विभुरव्ययः ।
आत्मैव ब्रह्मविज्ञानं आत्मैवाहं त्वमेव हि ॥ १८.३५ ॥

आत्मैव परमानन्द आत्मैवाहं जगन्मयः ।
आत्मैवाहं जगद्भानं आत्मैवाहं न किञ्चन ॥ १८.३६ ॥

आत्मैव ह्यात्मनः स्नानमात्मैव ह्यात्मनो जपः ।
आत्मैव ह्यात्मनो मोदमात्मैवात्मप्रियः सदा ॥ १८.३७ ॥

आत्मैव ह्यात्मनो नित्यो ह्यात्मैव गुणभासकः ।
आत्मैव तुर्यरूपात्मा आत्मातीतस्ततः परः ॥ १८.३८ ॥

आत्मैव नित्यपूर्णात्मा आत्मैवाहं न संशयः ।
आत्मैव त्वमहं चात्मा सर्वमात्मैव केवलम् ॥ १८.३९ ॥

नित्योऽहं नित्यपूर्णोऽहं नित्योऽहं सर्वदा सदा ।
आत्मैवाहं जगन्नान्यद् अमृतात्मा पुरातनः ॥ १८.४० ॥

पुरातनोऽहं पुरुषोऽहमीशः परात् परोऽहं परमेश्वरोऽहम् ।
भवप्रदोऽहं भवनाशनोऽहं सुखप्रदोऽहं सुखरूपमद्वयम् ॥ १८.४१ ॥

आनन्दोऽहमशेषोऽहममृतोहं न संशयः ।
अजोऽहमात्मरूपोऽहमन्यन्नास्ति सदा प्रियः ॥ १८.४२ ॥

ब्रह्मैवाहमिदं ब्रह्म सर्वं ब्रह्म सदाऽव्ययः ।
सदा सर्वपदं नास्ति सर्वमेव सदा न हि ॥ १८.४३ ॥

निर्गुणोऽहं निराधार अहं नास्तीति सर्वदा ।
अनर्थमूलं नास्त्येव मायाकार्यं न किञ्चन ॥ १८.४४ ॥

अविद्याविभवो नास्ति अहं ब्रह्म न संशयः ।
सर्वं ब्रह्म चिदाकाशं तदेवाहं न संशयः ॥ १८.४५ ॥

तदेवाहं स्वयं चाहं परं चाहं परेश्वरः ।
विद्याधरोऽहमेवात्र विद्याविद्ये न किञ्चन ॥ १८.४६ ॥

चिदहं चिदहं नित्यं तुर्योऽहं तुर्यकः परः ।
ब्रह्मैव सर्वं ब्रह्मैव सर्वं ब्रह्म सदाऽस्म्यहम् ॥ १८.४७ ॥

मत्तोऽन्यन्नापरं किञ्चिन्मत्तोऽन्यद्ब्रह्म च क्वचित् ।
मत्तोऽन्यत् परमं नास्ति मत्तोऽन्यच्चित्पदं नहि ॥ १८.४८ ॥

मत्तोऽन्यत् सत्पदं नास्ति मत्तोऽन्यच्चित्पदं न मे ।
मत्तोऽन्यत् भवनं नास्ति मत्तोऽन्यद् ब्रह्म एव न ॥ १८.४९ ॥

मत्तोऽन्यत् कारणं नास्ति मत्तोऽन्यत् किञ्चिदप्यणु ।
मत्तोऽन्यत् सत्त्वरूपं च मत्तोऽन्यत् शुद्धमेव न ॥ १८.५० ॥

मत्तोऽन्यत् पावनं नास्ति मत्तोऽन्यत् तत्पदं न हि ।
मत्तोऽन्यत् धर्मरूपं वा मत्तोऽन्यदखिलं न च ॥ १८.५१ ॥

मत्तोऽन्यदसदेवात्र मत्तोऽन्यन्मिथ्या एव हि ।
मत्तोऽन्यद्भाति सर्वस्वं मत्तोऽन्यच्छशश‍ृङ्गवत् ॥ १८.५२ ॥

मत्तोऽन्यद्भाति चेन्मिथ्या मत्तोऽन्यच्चेन्द्रजालकम् ।
मत्तोऽन्यत् संशयो नास्ति मत्तोऽन्यत् कार्य कारणम् ॥ १८.५३ ॥

ब्रह्ममात्रमिदं सर्वं सोऽहमस्मीति भावनम् ।
सर्वमुक्तं भगवता एवमेवेति निश्चिनु ॥ १८.५४ ॥

बहुनोक्तेन किं योगिन् निश्चयं कुरु सर्वदा ।
सकृन्निश्चयमात्रेण ब्रह्मैव भवति स्वयम् ॥ १८.५५ ॥

वननगभुवनं यच्छङ्करान्नान्यदस्ति
जगदिदमसुराद्यं देवदेवः स एव ।
तनुमनगमनाद्यैः कोशकाशावकाशे
स खलु परशिवात्मा दृश्यते सूक्ष्मबुद्ध्या ॥ १८.५६ ॥

चक्षुःश्रोत्रमनोऽसवश्च हृदि खादुद्भासितध्यान्तरात्
तस्मिन्नेव विलीयते गतिपरं यद्वासना वासिनी ।
चित्तं चेतयते हृदिन्द्रियगणं वाचां मनोदूरगं
तं ब्रह्मामृतमेतदेव गिरिजाकान्तात्मना संज्ञितम् ॥ १८.५७ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे
ऋभुनिदाघसंवादे अष्टादशोऽध्यायः ॥

१९ ॥ एकोनविंशोऽध्यायः ॥

ऋभुः –
ब्रह्मानन्दं प्रवक्ष्यामि त्रिषु लोकेषु दुर्लभम् ।
यस्य श्रवणमात्रेण सदा मुक्तिमवाप्नुयात् ॥ १९.१ ॥ var was युक्तिमाप्नुयात्
परमानन्दोऽहमेवात्मा सर्वदानन्दमेव हि ।
पूर्णानन्दस्वरूपोऽहं चिदानन्दमयं जगत् ॥ १९.२ ॥

सदानन्तमनन्तोऽहं बोधानन्दमिदं जगत् ।
बुद्धानन्दस्वरूपोऽहं नित्यानन्दमिदं मनः ॥ १९.३ ॥

केवलानन्दमात्रोऽहं केवलज्ञानवानहम् ।
इति भावय यत्नेन प्रपञ्चोपशमाय वै ॥ १९.४ ॥

सदा सत्यं परं ज्योतिः सदा सत्यादिलक्षणः ।
सदा सत्यादिहीनात्मा सदा ज्योतिः प्रियो ह्यहम् ॥ १९.५ ॥

नास्ति मिथ्याप्रपञ्चात्मा नास्ति मिथ्या मनोमयः ।
नास्ति मिथ्याभिधानात्मा नास्ति चित्तं दुरात्मवान् ॥ १९.६ ॥

नास्ति मूढतरो लोके नास्ति मूढतमो नरः ।
अहमेव परं ब्रह्म अहमेव स्वयं सदा ॥ १९.७ ॥

इदं परं च नास्त्येव अहमेव हि केवलम् ।
अहं ब्रह्मास्मि शुद्धोऽस्मि सर्वं ब्रह्मैव केवलम् ॥ १९.८ ॥

जगत्सर्वं सदा नास्ति चित्तमेव जगन्मयम् ।
चित्तमेव प्रपञ्चाख्यं चित्तमेव शरीरकम् ॥ १९.९ ॥

चित्तमेव महादोषं चित्तमेव हि बालकः ।
चित्तमेव महात्माऽयं चित्तमेव महानसत् ॥ १९.१० ॥

चित्तमेव हि मिथ्यात्मा चित्तं शशविषाणवत् ।
चित्तं नास्ति सदा सत्यं चित्तं वन्ध्याकुमारवत् ॥ १९.११ ॥

चित्तं शून्यं न सन्देहो ब्रह्मैव सकलं जगत् ।
अहमेव हि चैतन्यं अहमेव हि निर्गुणम् ॥ १९.१२ ॥

मन एव हि संसारं मन एव हि मण्डलम् ।
मन एव हि बन्धत्वं मन एव हि पातकम् ॥ १९.१३ ॥

मन एव महद्दुःखं मन एव शरीरकम् ।
मन एव प्रपञ्चाख्यं मन एव कलेवरम् ॥ १९.१४ ॥

मन एव महासत्त्वं मन एव चतुर्मुखः ।
मन एव हरिः साक्षात् मन एव शिवः स्मृतः ॥ १९.१५ ॥

मन एवेन्द्रजालाख्यं मनः सङ्कल्पमात्रकम् ।
मन एव महापापं मन एव दुरात्मवान् ॥ १९.१६ ॥

मन एव हि सर्वाख्यं मन एव महद्भयम् ।
मन एव परं ब्रह्म मन एव हि केवलम् ॥ १९.१७ ॥

मन एव चिदाकारं मन एव मनायते ।
चिदेव हि परं रूपं चिदेव हि परं पदम् ॥ १९.१८ ॥

परं ब्रह्माहमेवाद्य परं ब्रह्माहमेव हि ।
अहमेव हि तृप्तात्मा अहमानन्दविग्रहः ॥ १९.१९ ॥

अहं बुद्धिः प्रवृद्धात्मा नित्यं निश्चलनिर्मलः ।
अहमेव हि शान्तात्मा अहमाद्यन्तवर्जितः ॥ १९.२० ॥

अहमेव प्रकाशात्मा अहं ब्रह्मैव केवलम् ।
अहं नित्यो न सन्देह अहं बुद्धिः प्रियः सदा ॥ १९.२१ ॥ var was बुद्धिप्रियः सदा
अहमेवाहमेवैकः अहमेवाखिलामृतः ।
अहमेव स्वयं सिद्धः अहमेवानुमोदकः ॥ १९.२२ ॥

अहमेव त्वमेवाहं सर्वात्मा सर्ववर्जितः ।
अहमेव परं ब्रह्म अहमेव परात्परः ॥ १९.२३ ॥

अहङ्कारं न मे दुःखं न मे दोषं न मे सुखम् ।
न मे बुद्धिर्न मे चित्तं न मे देहो न मेन्द्रियम् ॥ १९.२४ ॥

न मे गोत्रं न मे नेत्रं न मे पात्रं न मे तृणम् ।
न मे जपो न मे मन्त्रो न मे लोको न मे सुहृत् ॥ १९.२५ ॥

न मे बन्धुर्न मे शत्रुर्न मे माता न मे पिता ।
न मे भोज्यं न मे भोक्ता न मे वृत्तिर्न मे कुलम् ॥ १९.२६ ॥

न मे जातिर्न मे वर्णः न मे श्रोत्रं न मे क्वचित् ।
न मे बाह्यं न मे बुद्धिः स्थानं वापि न मे वयः ॥ १९.२७ ॥

न मे तत्त्वं न मे लोको न मे शान्तिर्न मे कुलम् ।
न मे कोपो न मे कामः केवलं ब्रह्ममात्रतः ॥ १९.२८ ॥

केवलं ब्रह्ममात्रत्वात् केवलं स्वयमेव हि ।
न मे रागो न मे लोभो न मे स्तोत्रं न मे स्मृतिः ॥ १९.२९ ॥

न मे मोहो न मे तृष्णा न मे स्नेहो न मे गुणः ।
न मे कोशं न मे बाल्यं न मे यौवनवार्धकम् ॥ १९.३० ॥

सर्वं ब्रह्मैकरूपत्वादेकं ब्रह्मेति निश्चितम् ।
ब्रह्मणोऽन्यत् परं नास्ति ब्रह्मणोऽन्यन्न किञ्चन ॥ १९.३१ ॥

ब्रह्मणोऽन्यदिदं नास्ति ब्रह्मणोऽन्यदिदं न हि ।
आत्मनोऽन्यत् सदा नास्ति आत्मैवाहं न संशयः ॥ १९.३२ ॥

आत्मनोऽन्यत् सुखं नास्ति आत्मनोऽन्यदहं न च ।
ग्राह्यग्राहकहीनोऽहं त्यागत्याज्यविवर्जितः ॥ १९.३३ ॥

न त्याज्यं न च मे ग्राह्यं न बन्धो न च भुक्तिदम् ।var was मुक्तिदम्
न मे लोकं न मे हीनं न श्रेष्ठं नापि दूषणम् ॥ १९.३४ ॥

न मे बलं न चण्डालो न मे विप्रादिवर्णकम् ।
न मे पानं न मे ह्रस्वं न मे क्षीणं न मे बलम् ॥ १९.३५ ॥

न मे शक्तिर्न मे भुक्तिर्न मे दैवं न मे पृथक् ।
अहं ब्रह्मैकमात्रत्वात् नित्यत्वान्यन्न किञ्चन ॥ १९.३६ ॥

न मतं न च मे मिथ्या न मे सत्यं वपुः क्वचित् ।
अहमित्यपि नास्त्येव ब्रह्म इत्यपि नाम वा ॥ १९.३७ ॥

यद्यद्यद्यत्प्रपञ्चोऽस्ति यद्यद्यद्यद्गुरोर्वचः ।
तत्सर्वं ब्रह्म एवाहं तत्सर्वं चिन्मयं मतम् ॥ १९.३८ ॥

चिन्मयं चिन्मयं ब्रह्म सन्मयं सन्मयं सदा ।
स्वयमेव स्वयं ब्रह्म स्वयमेव स्वयं परः ॥ १९.३९ ॥

स्वयमेव स्वयं मोक्षः स्वयमेव निरन्तरः ।
स्वयमेव हि विज्ञानं स्वयमेव हि नास्त्यकम् ॥ १९.४० ॥

स्वयमेव सदासारः स्वयमेव स्वयं परः ।
स्वयमेव हि शून्यात्मा स्वयमेव मनोहरः ॥ १९.४१ ॥

तूष्णीमेवासनं स्नानं तूष्णीमेवासनं जपः ।
तूष्णीमेवासनं पूजा तूष्णीमेवासनं परः ॥ १९.४२ ॥

विचार्य मनसा नित्यमहं ब्रह्मेति निश्चिनु ।
अहं ब्रह्म न सन्देहः एवं तूष्णींस्थितिर्जपः ॥ १९.४३ ॥

सर्वं ब्रह्मैव नास्त्यन्यत् सर्वं ज्ञानमयं तपः ।
स्वयमेव हि नास्त्येव सर्वातीतस्वरूपवान् ॥ १९.४४ ॥

वाचातीतस्वरूपोऽहं वाचा जप्यमनर्थकम् ।
मानसः परमार्थोऽयं एतद्भेदमहं न मे ॥ १९.४५ ॥

कुणपं सर्वभूतादि कुणपं सर्वसङ्ग्रहम् ।
असत्यं सर्वदा लोकमसत्यं सकलं जगत् ॥ १९.४६ ॥

असत्यमन्यदस्तित्वमसत्यं नास्ति भाषणम् ।
असत्याकारमस्तित्वं ब्रह्ममात्रं सदा स्वयम् ॥ १९.४७ ॥

असत्यं वेदवेदाङ्गं असत्यं शास्त्रनिश्चयः ।
असत्यं श्रवणं ह्येतदसत्यं मननं च तत् ॥ १९.४८ ॥

असत्यं च निदिध्यासः सजातीयमसत्यकम् ।
विजातीयमसत् प्रोक्तं सत्यं सत्यं न संशयः ।
सर्वं ब्रह्म सदा ब्रह्म एकं ब्रह्म चिदव्ययम् ॥ १९.४९ ॥

चेतोविलासजनितं किल विश्वमेत-
द्विश्वाधिकस्य कृपया परिपूर्णभास्यात् ।
नास्त्यन्यतः श्रुतिशिरोत्थितवाक्यमोघ-
शास्त्रानुसारिकरणैर्भवते विमुक्त्यै ॥ १९.५० ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ब्रह्मानन्दप्रकरणं नाम एकोनविंशोऽध्यायः ॥

२० ॥ विंशोऽध्यायः ॥

ऋभुः –
श‍ृणु केवलमत्यन्तं रहस्यं परमाद्भुतम् ।
इति गुह्यतरं सद्यो मोक्षप्रदमिदं सदा ॥ २०.१ ॥

सुलभं ब्रह्मविज्ञानं सुलभं शुभमुत्तमम् ।
सुलभं ब्रह्मनिष्ठानां सुलभं सर्वबोधकम् ॥ २०.२ ॥

सुलभं कृतकृत्यानां सुलभं स्वयमात्मनः ।
सुलभं कारणाभावं सुलभं ब्रह्मणि स्थितम् ॥ २०.३ ॥

सुलभं चित्तहीनानां स्वयं तच्च स्वयं स्वयम् ।
स्वयं संसारहीनानां चित्तं संसारमुच्यते ॥ २०.४ ॥

सृष्ट्वैदं न संसारः ब्रह्मैवेदं मनो न च ।
ब्रह्मैवेदं भयं नास्ति ब्रह्मैवेदं न किञ्चन ॥ २०.५ ॥

ब्रह्मैवेदमसत् सर्वं ब्रह्मैवेदं परायणम् ।
ब्रह्मैवेदं शरीराणां ब्रह्मैवेदं तृणं न च ॥ २०.६ ॥

ब्रह्मैवास्मि न चान्योऽस्मि ब्रह्मैवेदं जगन्न च ।
ब्रह्मैवेदं वियन्नास्ति ब्रह्मैवेदं क्रिया न च ॥ २०.७ ॥

ब्रह्मैवेदं महात्मानं ब्रह्मैवेदं प्रियं सदा ।
ब्रह्मैवेदं जगन्नान्तो ब्रह्मैवाहं भयं न हि ॥ २०.८ ॥

ब्रह्मैवाहं सदाचित्तं ब्रह्मैवाहमिदं न हि ।
ब्रह्मैवाहं तु यन्मिथ्या ब्रह्मैवाहमियं भ्रमा ॥ २०.९ ॥

ब्रह्मैव सर्वसिद्धान्तो ब्रह्मैव मनसास्पदम् ।
ब्रह्मैव सर्वभवनं ब्रह्मैव मुनिमण्डलम् ॥ २०.१० ॥

ब्रह्मैवाहं तु नास्त्यन्यद् ब्रह्मैव गुरुपूजनम् ।
ब्रह्मैव नान्यत् किञ्चित्तु ब्रह्मैव सकलं सदा ॥ २०.११ ॥

ब्रह्मैव त्रिगुणाकारं ब्रह्मैव हरिरूपकम् ।
ब्रह्मणोऽन्यत् पदं नास्ति ब्रह्मणोऽन्यत् क्षणं न मे ॥ २०.१२ ॥

ब्रह्मैवाहं नान्यवार्ता ब्रह्मैवाहं न च श्रुतम् ।
ब्रह्मैवाहं समं नास्ति सर्वं ब्रह्मैव केवलम् ॥ २०.१३ ॥

ब्रह्मैवाहं न मे भोगो ब्रह्मैवाहं न मे पृथक् ।
ब्रह्मैवाहं सतं नास्ति ब्रह्मैव ब्रह्मरूपकः ॥ २०.१४ ॥

ब्रह्मैव सर्वदा भाति ब्रह्मैव सुखमुत्तमम् ।
ब्रह्मैव नानाकारत्वात् ब्रह्मैवाहं प्रियं महत् ॥ २०.१५ ॥

ब्रह्मैव ब्रह्मणः पूज्यं ब्रह्मैव ब्रह्मणो गुरुः ।
ब्रह्मैव ब्रह्ममाता तु ब्रह्मैवाहं पिता सुतः ॥ २०.१६ ॥

ब्रह्मैव ब्रह्म देवं च ब्रह्मैव ब्रह्म तज्जयः ।
ब्रह्मैव ध्यानरूपात्मा ब्रह्मैव ब्रह्मणो गुणः ॥ २०.१७ ॥

आत्मैव सर्वनित्यात्मा आत्मनोऽन्यन्न किञ्चन ।
आत्मैव सततं ह्यात्मा आत्मैव गुरुरात्मनः ॥ २०.१८ ॥

आत्मज्योतिरहंभूतमात्मैवास्ति सदा स्वयम् ।
स्वयं तत्त्वमसि ब्रह्म स्वयं भामि प्रकाशकः ॥ २०.१९ ॥

स्वयं जीवत्वसंशान्तिः स्वयमीश्वररूपवान् ।
स्वयं ब्रह्म परं ब्रह्म स्वयं केवलमव्ययम् ॥ २०.२० ॥

स्वयं नाशं च सिद्धान्तं स्वयमात्मा प्रकाशकः ।
स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः ॥ २०.२१ ॥

स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः ।
स्वयमेव स्वयं छन्दः स्वयं देहादिवर्जितः ॥ २०.२२ ॥

स्वयं दोषविहीनात्मा स्वयमाकाशवत् स्थितः ।
अयं चेदं च नास्त्येव अयं भेदविवर्जितः ॥ २०.२३ ॥

ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत् सदा ।
ब्रह्मैव बुद्धिवद्भाति ब्रह्मैव शिववत् सदा ॥ २०.२४ ॥

ब्रह्मैव शशवद्भाति ब्रह्मैव स्थूलवत् स्वयम् ।
ब्रह्मैव सततं नान्यत् ब्रह्मैव गुरुरात्मनः ॥ २०.२५ ॥

आत्मज्योतिरहं भूतमहं नास्ति सदा स्वयम् ।
स्वयमेव परं ब्रह्म स्वयमेव चिदव्ययः ॥ २०.२६ ॥

स्वयमेव स्वयं ज्योतिः स्वयं सर्वत्र भासते ।
स्वयं ब्रह्म स्वयं देहः स्वयं पूर्णः परः पुमान् ॥ २०.२७ ॥

स्वयं तत्त्वमसि ब्रह्म स्वयं भाति प्रकाशकः ।
स्वयं जीवत्वसंशान्तः स्वयमीश्वररूपवान् ॥ २०.२८ ॥

स्वयमेव परं ब्रह्म स्वयं केवलमव्ययः ।
स्वयं राद्धान्तसिद्धान्तः स्वयमात्मा प्रकाशकः ॥ २०.२९ ॥

स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः ।
स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः ॥ २०.३० ॥

स्वयमेव स्वयं स्वस्थः स्वयं देहविवर्जितः ।
स्वयं दोषविहीनात्मा स्वयमाकाशवत् स्थितः ॥ २०.३१ ॥

अखण्डः परिपूर्णोऽहमखण्डरसपूरणः ।
अखण्डानन्द एवाहमपरिच्छिन्नविग्रहः ॥ २०.३२ ॥

इति निश्चित्य पूर्णात्मा ब्रह्मैव न पृथक् स्वयम् ।
अहमेव हि नित्यात्मा अहमेव हि शाश्वतः ॥ २०.३३ ॥

अहमेव हि तद्ब्रह्म ब्रह्मैवाहं जगत्प्रभुः ।
ब्रह्मैवाहं निराभासो ब्रह्मैवाहं निरामयः ॥ २०.३४ ॥

ब्रह्मैवाहं चिदाकाशो ब्रह्मैवाहं निरन्तरः ।
ब्रह्मैवाहं महानन्दो ब्रह्मैवाहं सदात्मवान् ॥ २०.३५ ॥

ब्रह्मैवाहमनन्तात्मा ब्रह्मैवाहं सुखं परम् ।
ब्रह्मैवाहं महामौनी सर्ववृत्तान्तवर्जितः ॥ २०.३६ ॥

ब्रह्मैवाहमिदं मिथ्या ब्रह्मैवाहं जगन्न हि ।
ब्रह्मैवाहं न देहोऽस्मि ब्रह्मैवाहं महाद्वयः ॥ २०.३७ ॥

ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत् सदा ।
ब्रह्मैव बुद्धिवद्भाति ब्रह्मैव फलवत् स्वयम् ॥ २०.३८ ॥

ब्रह्मैव मूर्तिवद्भाति तद्ब्रह्मासि न संशयः ।
ब्रह्मैव कालवद्भाति ब्रह्मैव सकलादिवत् ॥ २०.३९ ॥

ब्रह्मैव भूतिवद्भाति ब्रह्मैव जडवत् स्वयम् ।
ब्रह्मैवौंकारवत् सर्वं ब्रह्मैवौंकाररूपवत् ॥ २०.४० ॥

ब्रह्मैव नादवद्ब्रह्म नास्ति भेदो न चाद्वयम् ।
सत्यं सत्यं पुनः सत्यं ब्रह्मणोऽन्यन्न किञ्चन ॥ २०.४१ ॥

ब्रह्मैव सर्वमात्मैव ब्रह्मणोऽन्यन्न किञ्चन ।
सर्वं मिथ्या जगन्मिथ्या दृश्यत्वाद्घटवत् सदा ॥ २०.४२ ॥

ब्रह्मैवाहं न सन्देहश्चिन्मात्रत्वादहं सदा ।
ब्रह्मैव शुद्धरूपत्वात् दृग्रूपत्वात् स्वयं महत् ॥ २०.४३ ॥

अहमेव परं ब्रह्म अहमेव परात् परः ।
अहमेव मनोतीत अहमेव जगत्परः ॥ २०.४४ ॥

अहमेव हि नित्यात्मा अहं मिथ्या स्वभावतः ।
आनन्दोऽहं निराधारो ब्रह्मैव न च किञ्चन ॥ २०.४५ ॥

नान्यत् किञ्चिदहं ब्रह्म नान्यत् किञ्चिच्चिदव्ययः ।
आत्मनोऽन्यत् परं तुच्छमात्मनोऽन्यदहं नहि ॥ २०.४६ ॥

आत्मनोऽन्यन्न मे देहः आत्मैवाहं न मे मलम् ।
आत्मन्येवात्मना चित्तमात्मैवाहं न तत् पृथक् ॥ २०.४७ ॥

आत्मैवाहमहं शून्यमात्मैवाहं सदा न मे ।
आत्मैवाहं गुणो नास्ति आत्मैव न पृथक् क्वचित् ॥ २०.४८ ॥

अत्यन्ताभाव एव त्वं अत्यन्ताभावमीदृशम् ।
अत्यन्ताभाव एवेदमत्यन्ताभावमण्वपि ॥ २०.४९ ॥

आत्मैवाहं परं ब्रह्म सर्वं मिथ्या जगत्त्रयम् ।
अहमेव परं ब्रह्म अहमेव परो गुरुः ॥ २०.५० ॥

जीवभावं सदासत्यं शिवसद्भावमीदृशम् ।
विष्णुवद्भावनाभ्रान्तिः सर्वं शशविषाणवत् ॥ २०.५१ ॥

अहमेव सदा पूर्णं अहमेव निरन्तरम् ।
नित्यतृप्तो निराकारो ब्रह्मैवाहं न संशयः ॥ २०.५२ ॥

अहमेव परानन्द अहमेव क्षणान्तिकः ।
अहमेव त्वमेवाहं त्वं चाहं नास्ति नास्ति हि ॥ २०.५३ ॥

वाचामगोचरोऽहं वै वाङ्मनो नास्ति कल्पितम् ।
अहं ब्रह्मैव सर्वात्मा अहं ब्रह्मैव निर्मलः ॥ २०.५४ ॥

अहं ब्रह्मैव चिन्मात्रं अहं ब्रह्मैव नित्यशः ।
इदं च सर्वदा नास्ति अहमेव सदा स्थिरः ॥ २०.५५ ॥

इदं सुखमहं ब्रह्म इदं सुखमहं जडम् ।
इदं ब्रह्म न सन्देहः सत्यं सत्यं पुनः पुनः ॥ २०.५६ ॥

इत्यात्मवैभवं प्रोक्तं सर्वलोकेषु दुर्लभम् ।
सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ २०.५७ ॥

शान्तिदान्तिपरमा भवतान्ताः
स्वान्तभान्तमनिशं शशिकान्तम् ।
अन्तकान्तकमहो कलयन्तः
वेदमौलिवचनैः किल शान्ताः ॥ २०.५८ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
आत्मवैभवप्रकरणं नाम विंशोऽध्यायः ॥

२१ ॥ एकविंशोऽध्यायः ॥

ऋभुः –
महारहस्यं वक्ष्यामि वेदान्तेषु च गोपितम् ।
यस्य श्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ २१.१ ॥

सच्चिदानन्दमात्रोऽहं सर्वं सच्चिन्मयं ततम् ।
तदेव ब्रह्म सम्पश्यत् ब्रह्मैव भवति स्वयम् ॥ २१.२ ॥

अहं ब्रह्म इदं ब्रह्म नाना ब्रह्म न संशयः ।
सत्यं ब्रह्म सदा ब्रह्माप्यहं ब्रह्मैव केवलम् ॥ २१.३ ॥

गुरुर्ब्रह्म गुणो ब्रह्म सर्वं ब्रह्मपरोऽस्म्यहम् ।
नान्तं ब्रह्म अहं ब्रह्म सर्वं ब्रह्मापरोऽस्म्यहम् ॥ २१.४ ॥

वेदवेद्यं परं ब्रह्म विद्या ब्रह्म विशेषतः ।
आत्मा ब्रह्म अहं ब्रह्म आद्यन्तं ब्रह्म सोऽस्म्यहम् ॥ २१.५ ॥

सत्यं ब्रह्म सदा ब्रह्म अन्यन्नास्ति सदा परम् ।
अहं ब्रह्म त्वहं नास्ति अहंकारपरं नहि ॥ २१.६ ॥

अहं ब्रह्म इदं नास्ति अयमात्मा महान् सदा ।
वेदान्तवेद्यो ब्रह्मात्मा अपरं शशश‍ृङ्गवत् ॥ २१.७ ॥

भूतं नास्ति भविष्यं न ब्रह्मैव स्थिरतां गतः ।
चिन्मयोऽहं जडं तुच्छं चिन्मात्रं देहनाशनम् ॥ २१.८ ॥

चित्तं किञ्चित् क्वचिच्चापि चित्तं दूरोऽहमात्मकः ।var was हरोऽहमात्मकः
सत्यं ज्ञानमनन्तं यन्नानृतं जडदुःखकम् ॥ २१.९ ॥

आत्मा सत्यमनन्तात्मा देहमेव न संशयः ।
वार्ताप्यसच्छ्रुतं तन्न अहमेव महोमहः ॥ २१.१० ॥

एकसंख्याप्यसद्ब्रह्म सत्यमेव सदाऽप्यहम् ।
सर्वमेवमसत्यं च उत्पन्नत्वात् परात् सदा ॥ २१.११ ॥

सर्वावयवहीनोऽपि नित्यत्वात् परमो ह्यहम् ।
सर्वं दृश्यं न मे किञ्चित् चिन्मयत्वाद्वदाम्यहम् ॥ २१.१२ ॥

आग्रहं च न मे किञ्चित् चिन्मयत्वाद्वदाम्यहम् ।
इदमित्यपि निर्देशो न क्वचिन्न क्वचित् सदा ॥ २१.१३ ॥

निर्गुणब्रह्म एवाहं सुगुरोरुपदेशतः ।
विज्ञानं सगुणो ब्रह्म अहं विज्ञानविग्रहः ॥ २१.१४ ॥

निर्गुणोऽस्मि निरंशोऽस्मि भवोऽस्मि भरणोऽस्म्यहम् ।
देवोऽस्मि द्रव्यपूर्णोऽस्मि शुद्धोऽस्मि रहितोऽस्म्यहम् ॥ २१.१५ ॥

रसोऽस्मि रसहीनोऽस्मि तुर्योऽस्मि शुभभावनः ।
कामोऽस्मि कार्यहीनोऽस्मि नित्यनिर्मलविग्रहः ॥ २१.१६ ॥

आचारफलहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ।
इदं सर्वं परं ब्रह्म अयमात्मा न विस्मयः ॥ २१.१७ ॥

पूर्णापूर्णस्वरूपात्मा नित्यं सर्वात्मविग्रहः ।
परमानन्दतत्त्वात्मा परिच्छिन्नं न हि क्वचित् ॥ २१.१८ ॥

एकात्मा निर्मलाकार अहमेवेति भावय ।
अहंभावनया युक्त अहंभावेन संयुतः ॥ २१.१९ ॥

शान्तं भावय सर्वात्मा शाम्यतत्त्वं मनोमलः ।
देहोऽहमिति सन्त्यज्य ब्रह्माहमिति निश्चिनु ॥ २१.२० ॥

ब्रह्मैवाहं ब्रह्ममात्रं ब्रह्मणोऽन्यन्न किञ्चन ।
इदं नाहमिदं नाहमिदं नाहं सदा स्मर ॥ २१.२१ ॥

अहं सोऽहमहं सोऽहमहं ब्रह्मेति भावय ।
चिदहं चिदहं ब्रह्म चिदहं चिदहं वद ॥ २१.२२ ॥

नेदं नेदं सदा नेदं न त्वं नाहं च भावय ।
सर्वं ब्रह्म न सन्देहः सर्वं वेदं न किञ्चन ॥ २१.२३ ॥

सर्वं शब्दार्थभवनं सर्वलोकभयं न च ।
सर्वतीर्थं न सत्यं हि सर्वदेवालयं न हि ॥ २१.२४ ॥

सर्वचैतन्यमात्रत्वात् सर्वं नाम सदा न हि ।
सर्वरूपं परित्यज्य सर्वं ब्रह्मेति निश्चिनु ॥ २१.२५ ॥

ब्रह्मैव सर्वं तत्सत्यं प्रपञ्चं प्रकृतिर्नहि ।
प्राकृतं स्मरणं त्यज्य ब्रह्मस्मरणमाहर ॥ २१.२६ ॥

ततस्तदपि सन्त्यज्य निजरूपे स्थिरो भव ।
स्थिररूपं परित्यज्य आत्ममात्रं भवत्यसौ ॥ २१.२७ ॥

त्यागत्वमपि सन्त्यज्य भेदमात्रं सदा त्यज ।
स्वयं निजं समावृत्य स्वयमेव स्वयं भज ॥ २१.२८ ॥

इदमित्यङ्गुलीदृष्टमिदमस्तमचेतनम् ।
इदं वाक्यं च वाक्येन वाचाऽपि परिवेदनम् ॥ २१.२९ ॥

सर्वभावं न सन्देहः सर्वं नास्ति न संशयः ।
सर्वं तुच्छं न सन्देहः सर्वं माया न संशयः ॥ २१.३० ॥

त्वं ब्रह्माहं न सन्देहो ब्रह्मैवेदं न संशयः ।
सर्वं चित्तं न सन्देहः सर्वं ब्रह्म न संशयः ॥ २१.३१ ॥

ब्रह्मान्यद्भाति चेन्मिथ्या सर्वं मिथ्या परावरा ।
न देहं पञ्चभूतं वा न चित्तं भ्रान्तिमात्रकम् ॥ २१.३२ ॥

न च बुद्धीन्द्रियाभावो न मुक्तिर्ब्रह्ममात्रकम् ।
निमिषं च न शङ्कापि न सङ्कल्पं तदस्ति चेत् ॥ २१.३३ ॥

अहङ्कारमसद्विद्धि अभिमानं तदस्ति चेत् ।
न चित्तस्मरणं तच्चेन्न सन्देहो जरा यदि ॥ २१.३४ ॥

प्राणो???दीयते शास्ति घ्राणो यदिह गन्धकम् ।
चक्षुर्यदिह भूतस्य श्रोत्रं श्रवणभावनम् ॥ २१.३५ ॥

त्वगस्ति चेत् स्पर्शसत्ता जिह्वा चेद्रससङ्ग्रहः ।
जीवोऽस्ति चेज्जीवनं च पादश्चेत् पादचारणम् ॥ २१.३६ ॥

हस्तौ यदि क्रियासत्ता स्रष्टा चेत् सृष्टिसंभवः ।
रक्ष्यं चेद्रक्षको विष्णुर्भक्ष्यं चेद्भक्षकः शिवः ॥ २१.३७ ॥

सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् ।
पूज्यं चेत् पूजनं चास्ति भास्यं चेद्भासकः शिवः ॥ २१.३८ ॥

सर्वं मिथ्या न सन्देहः सर्वं चिन्मात्रमेव हि ।
अस्ति चेत् कारणं सत्यं कार्यं चैव भविष्यति ॥ २१.३९ ॥

नास्ति चेन्नास्ति हीनोऽहं ब्रह्मैवाहं परायणम् ।
अत्यन्तदुःखमेतद्धि अत्यन्तसुखमव्ययम् ॥ २१.४० ॥

अत्यन्तं जन्ममात्रं च अत्यन्तं रणसंभवम् ।
अत्यन्तं मलिनं सर्वमत्यन्तं निर्मलं परम् ॥ २१.४१ ॥

अत्यन्तं कल्पनं दुष्टं अत्यन्तं निर्मलं त्वहम् ।
अत्यन्तं सर्वदा दोषमत्यन्तं सर्वदा गुणम् ॥ २१.४२ ॥

अत्यन्तं सर्वदा शुभ्रमत्यन्तं सर्वदा मलम् ।
अत्यन्तं सर्वदा चाहमत्यन्तं सर्वदा इदम् ॥ २१.४३ ॥

अत्यन्तं सर्वदा ब्रह्म अत्यन्तं सर्वदा जगत् ।
एतावदुक्तमभयमहं भेदं न किञ्चन ॥ २१.४४ ॥

सदसद्वापि नास्त्येव सदसद्वापि वाक्यकम् ।
नास्ति नास्ति न सन्देहो ब्रह्मैवाहं न संशयः ॥ २१.४५ ॥

कारणं कार्यरूपं वा सर्वं नास्ति न संशयः ।
कर्ता भोक्ता क्रिया वापि न भोज्यं भोगतृप्तता ॥ २१.४६ ॥

सर्वं ब्रह्म न सन्देहः सर्व शब्दो न वास्तवम् ।
भूतं भविष्यं वार्तं तु कार्यं वा नास्ति सर्वदा ॥ २१.४७ ॥

सदसद्भेद्यभेदं वा न गुणा गुणभागिनः ।
निर्मलं वा मलं वापि नास्ति नास्ति न किञ्चन ॥ २१.४८ ॥

भाष्यं वा भाषणं वाऽपि नास्ति नास्ति न किञ्चन ।
प्रबलं दुर्बलं वापि अहं च त्वं च वा क्वचित् ॥ २१.४९ ॥

ग्राह्यं च ग्राहकं वापि उपेक्ष्यं नात्मनः क्वचित् ।
तीर्थं वा स्नानरूपं वा देवो वा देव पूजनम् ॥ २१.५० ॥

जन्म वा मरणं हेतुर्नास्ति नास्ति न किञ्चन ।
सत्यं वा सत्यरूपं वा नास्ति नास्ति न किञ्चन ॥ २१.५१ ॥

मातरः पितरो वापि देहो वा नास्ति किञ्चन ।
दृग्रूपं दृश्यरूपं वा नास्ति नास्तीह किञ्चन ॥ २१.५२ ॥

मायाकार्यं च माया वा नास्ति नास्तीह किञ्चन ।
ज्ञानं वा ज्ञानभेदो वा नास्ति नास्तीह किञ्चन ॥ २१.५३ ॥

सर्वप्रपञ्चहेयत्वं प्रोक्तं प्रकरणं च ते ।
यः श‍ृणोति सकृद्वापि आत्माकारं प्रपद्यते ॥ २१.५४ ॥

स्कन्दः –
माया सा त्रिगुणा गणाधिपगुरोरेणाङ्कचूडामणेः
पादाम्भोजसमर्चनेन विलयं यात्येव नास्त्यन्यथा ।
विद्या हृद्यतमा सुविद्युदिव सा भात्येव हृत्पङ्कजे
यस्यानल्पतपोभिरुग्रकरणादृक् तस्य मुक्तिः स्थिरा ॥ २१.५५ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
सर्वप्रपञ्चहेयत्वप्रकरणवर्णनं नाम एकविंशोऽध्यायः ॥

२२ ॥ द्वाविंशोऽध्यायः ॥

ऋभुः –
वक्ष्ये ब्रह्ममयं सर्वं नास्ति सर्वं जगन्मृषा ।
अहं ब्रह्म न मे चिन्ता अहं ब्रह्म न मे जडम् ॥ २२.१ ॥

अहं ब्रह्म न मे दोषः अहं ब्रह्म न मे फलम् ।
अहं ब्रह्म न मे वार्ता अहं ब्रह्म न मे द्वयम् ॥ २२.२ ॥

अहं ब्रह्म न मे नित्यमहं ब्रह्म न मे गतिः ।
अहं ब्रह्म न मे माता अहं ब्रह्म न मे पिता ॥ २२.३ ॥

अहं ब्रह्म न मे सोऽयमहं वैश्वानरो न हि ।
अहं ब्रह्म चिदाकाशमहं ब्रह्म न संशयः ॥ २२.४ ॥

सर्वान्तरोऽहं पूर्णात्मा सर्वान्तरमनोऽन्तरः ।
अहमेव शरीरान्तरहमेव स्थिरः सदा ॥ २२.५ ॥

एवं विज्ञानवान् मुक्त एवं ज्ञानं सुदुर्लभम् ।
अनेकशतसाहस्त्रेष्वेक एव विवेकवान् ॥ २२.६ ॥

तस्य दर्शनमात्रेण पितरस्तृप्तिमागताः ।
ज्ञानिनो दर्शनं पुण्यं सर्वतीर्थावगाहनम् ॥ २२.७ ॥

ज्ञानिनः चार्चनेनैव जीवन्मुक्तो भवेन्नरः ।
ज्ञानिनो भोजने दाने सद्यो मुक्तो भवेन्नरः ॥ २२.८ ॥

अहं ब्रह्म न सन्देहः अहमेव गुरुः परः ।
अहं शान्तोऽस्मि शुद्धोऽस्मि अहमेव गुणान्तरः ॥ २२.९ ॥

गुणातीतो जनातीतः परातीतो मनः परः ।
परतः परतोऽतीतो बुद्ध्यातीतो रसात् परः ॥ २२.१० ॥

भावातीतो मनातीतो वेदातीतो विदः परः ।
शरीरादेश्च परतो जाग्रत्स्वप्नसुषुप्तितः ॥ २२.११ ॥

अव्यक्तात् परतोऽतीत इत्येवं ज्ञाननिश्चयः ।
क्वचिदेतत्परित्यज्य सर्वं संत्यज्य मूकवत् ॥ २२.१२ ॥

तूष्णीं ब्रह्म परं ब्रह्म शाश्वतब्रह्मवान् स्वयम् ।
ज्ञानिनो महिमा किञ्चिदणुमात्रमपि स्फुटम् ॥ २२.१३ ॥

हरिणापि हरेणापि ब्रह्मणापि सुरैरपि ।
न शक्यते वर्णयितुं कल्पकोटिशतैरपि ॥ २२.१४ ॥

अहं ब्रह्मेति विज्ञानं त्रिषु लोकेषु दुर्लभम् ।
विवेकिनं महात्मानं ब्रह्ममात्रेणावस्थितम् ॥ २२.१५ ॥

द्रष्टुं च भाषितुं वापि दुर्लभं पादसेवनम् ।
कदाचित् पादतीर्थेन स्नातश्चेत् ब्रह्म एव सः ॥ २२.१६ ॥

सर्वं मिथ्या न सन्देहः सर्वं ब्रह्मैव केवलम् ।
एतत् प्रकरणं प्रोक्तं सर्वसिद्धान्तसंग्रहः ॥ २२.१७ ॥

दुर्लभं यः पठेद्भक्त्या ब्रह्म सम्पद्यते नरः ।
वक्ष्ये ब्रह्ममयं सर्वं नान्यत् सर्वं जगन्मृषा ॥ २२.१८ ॥

ब्रह्मैव जगदाकारं ब्रह्मैव परमं पदम् ।
अहमेव परं ब्रह्म अहमित्यपि वर्जितः ॥ २२.१९ ॥

सर्ववर्जितचिन्मात्रं सर्ववर्जितचेतनः ।
सर्ववर्जितशान्तात्मा सर्वमङ्गलविग्रहः ॥ २२.२० ॥

अहं ब्रह्म परं ब्रह्म असन्नेदं न मे न मे ।
न मे भूतं भविष्यच्च न मे वर्णं न संशयः ॥ २२.२१ ॥

ब्रह्मैवाहं न मे तुच्छं अहं ब्रह्म परं तपः ।
ब्रह्मरूपमिदं सर्वं ब्रह्मरूपमनामयम् ॥ २२.२२ ॥

ब्रह्मैव भाति भेदेन ब्रह्मैव न परः परः ।
आत्मैव द्वैतवद्भाति आत्मैव परमं पदम् ॥ २२.२३ ॥

ब्रह्मैवं भेदरहितं भेदमेव महद्भयम् ।
आत्मैवाहं निर्मलोऽहमात्मैव भुवनत्रयम् ॥ २२.२४ ॥

आत्मैव नान्यत् सर्वत्र सर्वं ब्रह्मैव नान्यकः ।
अहमेव सदा भामि ब्रह्मैवास्मि परोऽस्म्यहम् ॥ २२.२५ ॥

निर्मलोऽस्मि परं ब्रह्म कार्याकार्यविवर्जितः ।
सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥ २२.२६ ॥

निश्चयोऽस्मि परं ब्रह्म सत्योऽस्मि सकलोऽस्म्यहम् ।
अक्षरोऽस्मि परं ब्रह्म शिवोऽस्मि शिखरोऽस्म्यहम् ॥ २२.२७ ॥

समरूपोऽस्मि शान्तोऽस्मि तत्परोऽस्मि चिदव्ययः ।
सदा ब्रह्म हि नित्योऽस्मि सदा चिन्मात्रलक्षणः ॥ २२.२८ ॥

सदाऽखण्डैकरूपोऽस्मि सदामानविवर्जितः ।
सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥ २२.२९ ॥

सदा सन्मानरूपोऽस्मि सदा सत्ताप्रकाशकः ।
सदा सिद्धान्तरूपोऽस्मि सदा पावनमङ्गलः ॥ २२.३० ॥

एवं निश्चितवान् मुक्तः एवं नित्यपरो वरः ।
एवं भावनया युक्तः परं ब्रह्मैव सर्वदा ॥ २२.३१ ॥

एवं ब्रह्मात्मवान् ज्ञानी ब्रह्माहमिति निश्चयः ।
स एव पुरुषो लोके ब्रह्माहमिति निश्चितः ॥ २२.३२ ॥

स एव पुरुषो ज्ञानी जीवन्मुक्तः स आत्मवान् ।
ब्रह्मैवाहं महानात्मा सच्चिदानन्दविग्रहः ॥ २२.३३ ॥

नाहं जीवो न मे भेदो नाहं चिन्ता न मे मनः ।
नाहं मांसं न मेऽस्थीनि नाहंकारकलेवरः ॥ २२.३४ ॥

न प्रमाता न मेयं वा नाहं सर्वं परोऽस्म्यहम् ।
सर्वविज्ञानरूपोऽस्मि नाहं सर्वं कदाचन ॥ २२.३५ ॥

नाहं मृतो जन्मनान्यो न चिन्मात्रोऽस्मि नास्म्यहम् ।
न वाच्योऽहं न मुक्तोऽहं न बुद्धोऽहं कदाचन ॥ २२.३६ ॥

न शून्योऽहं न मूढोऽहं न सर्वोऽहं परोऽस्म्यहम् ।
सर्वदा ब्रह्ममात्रोऽहं न रसोऽहं सदाशिवः ॥ २२.३७ ॥

न घ्राणोऽहं न गन्धोऽहं न चिह्नोऽयं न मे प्रियः ।
नाहं जीवो रसो नाहं वरुणो न च गोलकः ॥ २२.३८ ॥

ब्रह्मैवाहं न सन्देहो नामरूपं न किञ्चन ।
न श्रोत्रोऽहं न शब्दोऽहं न दिशोऽहं न साक्षिकः ॥ २२.३९ ॥

नाहं न त्वं न च स्वर्गो नाहं वायुर्न साक्षिकः ।
पायुर्नाहं विसर्गो न न मृत्युर्न च साक्षिकः ॥ २२.४० ॥

गुह्यं नाहं न चानन्दो न प्रजापतिदेवता ।
सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् ॥ २२.४१ ॥

नाहं मनो न सङ्कल्पो न चन्द्रो न च साक्षिकः ।
नाहं बुद्धीन्द्रियो ब्रह्मा नाहं निश्चयरूपवान् ॥ २२.४२ ॥

नाहंकारमहं रुद्रो नाभिमानो न साक्षिकः ।
चित्तं नाहं वासुदेवो धारणा नायमीश्वरः ॥ २२.४३ ॥

नाहं विश्वो न जाग्रद्वा स्थूलदेहो न मे क्वचित् ।
न प्रातिभासिको जीवो न चाहं व्यावहारिकः ॥ २२.४४ ॥

न पारमार्थिको देवो नाहमन्नमयो जडः ।
न प्राणमयकोशोऽहं न मनोमयकोशवान् ॥ २२.४५ ॥

न विज्ञानमयः कोशो नानन्दमयकोशवान् ।
ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ॥ २२.४६ ॥

एतावदुक्त्वा सकलं नामरूपद्वयात्मकम् ।
सर्वं क्षणेन विस्मृत्य काष्ठलोष्टादिवत् त्यजेत् ॥ २२.४७ ॥

एतत्सर्वमसन्नित्यं सदा वन्ध्याकुमारवत् ।
शशश‍ृङ्गवदेवेदं नरश‍ृङ्गवदेव तत् ॥ २२.४८ ॥

आकाशपुष्पसदृशं यथा मरुमरीचिका ।
गन्धर्वनगरं यद्वदिन्द्रजालवदेव हि ॥ २२.४९ ॥

असत्यमेव सततं पञ्चरूपकमिष्यते ।
शिष्योपदेशकालो हि द्वैतं न परमार्थतः ॥ २२.५० ॥

माता मृते रोदनाय द्रव्यं दत्वाऽऽह्वयेज्जनान् ।
तेषां रोदनमात्रं यत् केवलं द्रव्यपञ्चकम् ॥ २२.५१ ॥

तदद्वैतं मया प्रोक्तं सर्वं विस्मृत्य कुड्यवत् ।
अहं ब्रह्मेति निश्चित्य अहमेवेति भावय ॥ २२.५२ ॥

अहमेव सुखं चेति अहमेव न चापरः ।
अहं चिन्मात्रमेवेति ब्रह्मैवेति विनिश्चिनु ॥ २२.५३ ॥

अहं निर्मलशुद्धेति अहं जीवविलक्षणः ।
अहं ब्रह्मैव सर्वात्मा अहमित्यवभासकः ॥ २२.५४ ॥

अहमेव हि चिन्मात्रमहमेव हि निर्गुणः ।
सर्वान्तर्याम्यहं ब्रह्म चिन्मात्रोऽहं सदाशिवः ॥ २२.५५ ॥

नित्यमङ्गलरूपात्मा नित्यमोक्षमयः पुमान् ।
एवं निश्चित्य सततं स्वात्मानं स्वयमास्थितः ॥ २२.५६ ॥

ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ।
एतद्रूपप्रकरणं सर्ववेदेषु दुर्लभम् ।
यः श‍ृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ २२.५७ ॥

तं वेदादिवचोभिरीडितमहायागैश्च भोगैर्व्रतै-
र्दानैश्चानशनैर्यमादिनियमैस्तं विद्विषन्ते द्विजाः ।
तस्यानङ्गरिपोरतीव सुमहाहृद्यं हि लिङ्गार्चनं
तेनैवाशु विनाश्य मोहमखिलं ज्ञानं ददातीश्वरः ॥ २२.५८ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
नामरूपनिषेधप्रकरणं नाम द्वाविंशोऽध्यायः ॥

२३ ॥ त्रयोविंशोऽध्यायः ॥

ऋभुः –
निदाघ श‍ृणु वक्ष्यामि सर्वलोकेषु दुर्लभम् ।
इदं ब्रह्म परं ब्रह्म सच्चिदानन्द एव हि ॥ २३.१ ॥

नानाविधजनं लोकं नाना कारणकार्यकम् ।
ब्रह्मैवान्यदसत् सर्वं सच्चिदानन्द एव हि ॥ २३.२ ॥

अहं ब्रह्म सदा ब्रह्म अस्मि ब्रह्माहमेव हि ।
कालो ब्रह्म क्षणो ब्रह्म अहं ब्रह्म न संशयः ॥ २३.३ ॥

वेदो ब्रह्म परं ब्रह्म सत्यं ब्रह्म परात् परः ।
हंसो ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म चिदव्ययः ॥ २३.४ ॥

सर्वोपनिषदो ब्रह्म साम्यं ब्रह्म समोऽस्म्यहम् ।
अजो ब्रह्म रसो ब्रह्म वियद्ब्रह्म परात्परः ॥ २३.५ ॥

त्रुटिर्ब्रह्म मनो ब्रह्म व्यष्टिर्ब्रह्म सदामुदः ।
इदं ब्रह्म परं ब्रह्म तत्त्वं ब्रह्म सदा जपः ॥ २३.६ ॥

अकारो ब्रह्म एवाहमुकारोऽहं न संशयः ।
मकारब्रह्ममात्रोऽहं मन्त्रब्रह्ममनुः परम् ॥ २३.७ ॥

शिकारब्रह्ममात्रोऽहं वाकारं ब्रह्म केवलम् ।
यकारं ब्रह्म नित्यं च पञ्चाक्षरमहं परम् ॥ २३.८ ॥

रेचकं ब्रह्म सद्ब्रह्म पूरकं ब्रह्म सर्वतः ।
कुंभकं ब्रह्म सर्वोऽहं धारणं ब्रह्म सर्वतः ॥ २३.९ ॥

ब्रह्मैव नान्यत् तत्सर्वं सच्चिदानन्द एव हि ।
एवं च निश्चितो मुक्तः सद्य एव न संशयः ॥ २३.१० ॥

केचिदेव महामूढाः द्वैतमेवं वदन्ति हि ।
न संभाष्याः सदानर्हा नमस्कारे न योग्यता ॥ २३.११ ॥

मूढा मूढतरास्तुच्छास्तथा मूढतमाः परे ।
एते न सन्ति मे नित्यं अहंविज्ञानमात्रतः ॥ २३.१२ ॥

सर्वं चिन्मात्ररूपत्वादानन्दत्वान्न मे भयम् ।
अहमित्यपि नास्त्येव परमित्यपि न क्वचित् ॥ २३.१३ ॥

ब्रह्मैव नान्यत् तत्सर्वं सच्चिदानन्द एव हि ।
कालातीतं सुखातीतं सर्वातीतमतीतकम् ॥ २३.१४ ॥

नित्यातीतमनित्यानाममितं ब्रह्म केवलम् ।
ब्रह्मैव नान्यद्यत्सर्वं सच्चिदानन्दमात्रकम् ॥ २३.१५ ॥

द्वैतसत्यत्वबुद्धिश्च द्वैतबुद्ध्या न तत् स्मर ।
सर्वं ब्रह्मैव नान्योऽस्ति सर्वं ब्रह्मैव केवलम् ॥ २३.१६ ॥

बुद्ध्यातीतं मनोऽतीतं वेदातीतमतः परम् ।
आत्मातीतं जनातीतं जीवातीतं च निर्गुणम् ॥ २३.१७ ॥

काष्ठातीतं कलातीतं नाट्यातीतं परं सुखम् ।
ब्रह्ममात्रेण सम्पश्यन् ब्रह्ममात्रपरो भव ॥ २३.१८ ॥

ब्रह्ममात्रपरो नित्यं चिन्मात्रोऽहं न संशयः ।
ज्योतिरानन्दमात्रोऽहं निजानन्दात्ममात्रकः ॥ २३.१९ ॥

शून्यानन्दात्ममात्रोऽहं चिन्मात्रोऽहमिति स्मर ।
सत्तामात्रोऽहमेवात्र सदा कालगुणान्तरः ॥ २३.२० ॥

नित्यसन्मात्ररूपोऽहं शुद्धानन्दात्ममात्रकम् ।
प्रपञ्चहीनरूपोऽहं सच्चिदानन्दमात्रकः ॥ २३.२१ ॥

निश्चयानन्दमात्रोऽहं केवलानन्दमात्रकः ।
परमानन्दमात्रोऽहं पूर्णानन्दोऽहमेव हि ॥ २३.२२ ॥

द्वैतस्यमात्रसिद्धोऽहं साम्राज्यपदलक्षणम् ।
इत्येवं निश्चयं कुर्वन् सदा त्रिषु यथासुखम् ॥ २३.२३ ॥

दृढनिश्चयरूपात्मा दृढनिश्चयसन्मयः ।
दृढनिश्चयशान्तात्मा दृढनिश्चयमानसः ॥ २३.२४ ॥

दृढनिश्चयपूर्णात्मा दृढनिश्चयनिर्मलः ।
दृढनिश्चयजीवात्मा दृढनिश्चयमङ्गलः ॥ २३.२५ ॥

दृढनिश्चयजीवात्मा संशयं नाशमेष्यति ।
दृढनिश्चयमेवात्र ब्रह्मज्ञानस्य लक्षणम् ॥ २३.२६ ॥

दृढनिश्चयमेवात्र वाक्यज्ञानस्य लक्षणम् ।
दृढनिश्चयमेवात्र कारणं मोक्षसम्पदः ॥ २३.२७ ॥

एवमेव सदा कार्यं ब्रह्मैवाहमिति स्थिरम् ।
ब्रह्मैवाहं न सन्देहः सच्चिदानन्द एव हि ॥ २३.२८ ॥

आत्मानन्दस्वरूपोऽहं नान्यदस्तीति भावय ।
ततस्तदपि सन्त्यज्य एक एव स्थिरो भव ॥ २३.२९ ॥

ततस्तदपि सन्त्यज्य निर्गुणो भव सर्वदा ।
निर्गुणत्वं च सन्त्यज्य वाचातीतो भवेत् ततः ॥ २३.३० ॥

वाचातीतं च सन्त्यज्य चिन्मात्रत्वपरो भव ।
आत्मातीतं च सन्त्यज्य ब्रह्ममात्रपरो भव ॥ २३.३१ ॥

चिन्मात्रत्वं च सन्त्यज्य सर्वतूष्णींपरो भव ।
सर्वतूष्णीं च सन्त्यज्य महातूष्णींपरो भव ॥ २३.३२ ॥

महातूष्णीं च सन्त्यज्य चित्ततूष्णीं समाश्रय ।
चित्ततूष्णीं च सन्त्यज्य जीवतूष्णीं समाहर ॥ २३.३३ ॥

जीवतूष्णीं परित्यज्य जीवशून्यपरो भव ।
शून्यत्यागं परित्यज्य यथा तिष्ठ तथासि भो ॥ २३.३४ ॥

तिष्ठत्वमपि सन्त्यज्य अवाङ्मानसगोचरः ।
ततः परं न वक्तव्यं ततः पश्येन्न किञ्चन ॥ २३.३५ ॥

नो चेत् सर्वपरित्यागो ब्रह्मैवाहमितीरय ।
सदा स्मरन् सदा चिन्त्यं सदा भावय निर्गुणम् ॥ २३.३६ ॥

सदा तिष्ठस्व तत्त्वज्ञ सदा ज्ञानी सदा परः ।
सदानन्दः सदातीतः सदादोषविवर्जितः ॥ २३.३७ ॥

सदा शान्तः सदा तृप्तः सदा ज्योतिः सदा रसः ।
सदा नित्यः सदा शुद्धः सदा बुद्धः सदा लयः ॥ २३.३८ ॥

सदा ब्रह्म सदा मोदः सदानन्दः सदा परः ।
सदा स्वयं सदा शून्यः सदा मौनी सदा शिवः ॥ २३.३९ ॥

सदा सर्वं सदा मित्रः सदा स्नानं सदा जपः ।
सदा सर्वं च विस्मृत्य सदा मौनं परित्यज ॥ २३.४० ॥

देहाभिमानं सन्त्यज्य चित्तसत्तां परित्यज ।
आत्मैवाहं स्वयं चाहं इत्येवं सर्वदा भव ॥ २३.४१ ॥

एवं स्थिते त्वं मुक्तोऽसि न तु कार्या विचारणा ।
ब्रह्मैव सर्वं यत्किञ्चित् सच्चिदानन्द एव हि ॥ २३.४२ ॥

अहं ब्रह्म इदं ब्रह्म त्वं ब्रह्मासि निरन्तरः ।
प्रज्ञानं ब्रह्म एवासि त्वं ब्रह्मासि न संशयः ॥ २३.४३ ॥

दृढनिश्चयमेव त्वं कुरु कल्याणमात्मनः ।
मनसो भूषणं ब्रह्म मनसो भूषणं परः ॥ २३.४४ ॥

मनसो भूषणं कर्ता ब्रह्मैवाहमवेक्षतः ।
ब्रह्मैव सच्चिदानदः सच्चिदानन्दविग्रहः ॥ २३.४५ ॥

सच्चिदानन्दमखिलं सच्चिदानन्द एव हि ।
सच्चिदानन्दजीवात्मा सच्चिदानन्दविग्रहः ॥ २३.४६ ॥

सच्चिदानन्दमद्वैतं सच्चिदानन्दशङ्करः ।
सच्चिदानन्दविज्ञानं सच्चिदानन्दभोजनः ॥ २३.४७ ॥

सच्चिदानन्दपूर्णात्मा सच्चिदानन्दकारणः ।
सच्चिदानन्दलीलात्मा सच्चिदानन्दशेवधिः ॥ २३.४८ ॥

सच्चिदानन्दसर्वाङ्गः सच्चिदानन्दचन्दनः ।
सच्चिदानन्दसिद्धान्तः सच्चिदानन्दवेदकः ॥ २३.४९ ॥

सच्चिदानन्दशास्त्रार्थः सच्चिदानन्दवाचकः ।
सच्चिदानन्दहोमश्च सच्चिदानन्दराज्यकः ॥ २३.५० ॥

सच्चिदानन्दपूर्णात्मा सच्चिदानन्दपूर्णकः ।
सच्चिदानन्दसन्मात्रं मूढेषु पठितं च यत् ॥ २३.५१ ॥

शुद्धं मूढेषु यद्दत्तं सुबद्धं मार्गचारिणा ।
विषयासक्तचित्तेषु न संभाष्यं विवेकिना ॥ २३.५२ ॥

सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ।
इच्छा चेद्यदि नारीणां मुखं ब्राह्मण एव हि ॥ २३.५३ ॥

सर्वं चैतन्यमात्रत्वात् स्त्रीभेदं च न विद्यते ।
वेदशास्त्रेण युक्तोऽपि ज्ञानाभावाद् द्विजोऽद्विजः ॥ २३.५४ ॥

ब्रह्मैव तन्तुना तेन बद्धास्ते मुक्तिचिन्तकाः ।
सर्वमुक्तं भगवता रहस्यं शङ्करेण हि ॥ २३.५५ ॥

सोमापीडपदांबुजार्चनफलैर्भुक्त्यै भवान् मानसं
नान्यद्योगपथा श्रुतिश्रवणतः किं कर्मभिर्भूयते ।
युक्त्या शिक्षितमानसानुभवतोऽप्यश्माप्यसङ्गो वचां
किं ग्राह्यं भवतीन्द्रियार्थरहितानन्दैकसान्द्रः शिवः ॥ २३.५६ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
रहस्योपदेशप्रकरणं नाम त्रयोविंशोऽध्यायः ॥

२४ ॥ चतुर्विंशोऽध्यायः ॥

ऋभुः –
पुनः पुनः परं वक्ष्ये आत्मनोऽन्यदसत् स्वतः ।
असतो वचनं नास्ति सतो नास्ति सदा स्थिते ॥ २४.१ ॥

ब्रह्माभ्यास परस्याहं वक्ष्ये निर्णयमात्मनः ।
तस्यापि सकृदेवाहं वक्ष्ये मङ्गलपूर्वकम् ॥ २४.२ ॥

सर्वं ब्रह्माहमेवास्मि चिन्मात्रो नास्ति किञ्चन ।
अहमेव परं ब्रह्म अहमेव चिदात्मकम् ॥ २४.३ ॥

अहं ममेति नास्त्येव अहं ज्ञानीति नास्ति च ।
शुद्धोऽहं ब्रह्मरूपोऽहमानन्दोऽहमजो नरः ॥ २४.४ ॥ var was नजः
देवोऽहं दिव्यभानोऽहं तुर्योऽहं भवभाव्यहम् ।
अण्डजोऽहमशेषोऽहमन्तरादन्तरोऽस्म्यहम् ॥ २४.५ ॥

अमरोऽहमजस्रोऽहमत्यन्तपरमोऽस्म्यहम् ।
परापरस्वरूपोऽहं नित्यानित्यरसोऽस्म्यहम् ॥ २४.६ ॥

गुणागुणविहीनोऽहं तुर्यातुर्यरसोऽस्म्यहम् ।
शान्ताशान्तविहीनोऽहं ज्ञानाज्ञानरसोऽस्म्यहम् ॥ २४.७ ॥

कालाकालविहीनोऽहमात्मानात्मविवर्जितः ।
लब्धालब्धादिहीनोऽहं सर्वशून्योऽहमव्ययः ॥ २४.८ ॥

अहमेवाहमेवाहमनन्तरनिरन्तरम् ।
शाश्वतोऽहमलक्ष्योऽहमात्मा न परिपूर्णतः ॥ २४.९ ॥

इत्यादिशब्दमुक्तोऽहं इत्याद्यं च न चास्म्यहम् ।
इत्यादिवाक्यमुक्तोऽहं सर्ववर्जितदुर्जयः ॥ २४.१० ॥

निरन्तरोऽहं भूतोऽहं भव्योऽहं भववर्जितः ।
लक्ष्यलक्षणहीनोऽहं कार्यहीनोऽहमाशुगः ॥ २४.११ ॥

व्योमादिरूपहीनोऽहं व्योमरूपोऽहमच्युतः ।
अन्तरान्तरभावोऽहमन्तरान्तरवर्जितः ॥ २४.१२ ॥

सर्वसिद्धान्तरूपोऽहं सर्वदोषविवर्जितः ।
न कदाचन मुक्तोऽहं न बद्धोऽहं कदाचन ॥ २४.१३ ॥

एवमेव सदा कृत्वा ब्रह्मैवाहमिति स्मर ।
एतावदेव मात्रं तु मुक्तो भवतु निश्चयः ॥ २४.१४ ॥

चिन्मात्रोऽहं शिवोऽहं वै शुभमात्रमहं सदा ।
सदाकारोऽहं मुक्तोऽहं सदा वाचामगोचरः ॥ २४.१५ ॥

सर्वदा परिपूर्णोऽहं वेदोपाधिविवर्जितः ।
चित्तकार्यविहीनोऽहं चित्तमस्तीति मे न हि ॥ २४.१६ ॥

यत् किञ्चिदपि नास्त्येव नास्त्येव प्रियभाषणम् ।
आत्मप्रियमनात्मा हि इदं मे वस्तुतो न हि ॥ २४.१७ ॥

इदं दुःखमिदं सौख्यमिदं भाति अहं न हि ।
सर्ववर्जितरूपोऽहं सर्ववर्जितचेतनः ॥ २४.१८ ॥

अनिर्वाच्यमनिर्वाच्यं परं ब्रह्म रसोऽस्म्यहम् ।
अहं ब्रह्म न सन्देह अहमेव परात् परः ॥ २४.१९ ॥

अहं चैतन्यभूतात्मा देहो नास्ति कदाचन ।
लिङ्गदेहं च नास्त्येव कारणं देहमेव न ॥ २४.२० ॥

अहं त्यक्त्वा परं चाहं अहं ब्रह्मस्वरूपतः ।
कामादिवर्जितोऽतीतः कालभेदपरात्परः ॥ २४.२१ ॥

ब्रह्मैवेदं न संवेद्यं नाहं भावं न वा नहि ।
सर्वसंशयसंशान्तो ब्रह्मैवाहमिति स्थितिः ॥ २४.२२ ॥

निश्चयं च न मे किञ्चित् चिन्ताभावात् सदाऽक्षरः ।
चिदहं चिदहं ब्रह्म चिदहं चिदहं सदा ॥ २४.२३ ॥

एवं भावनया युक्तस्त्यक्तशङ्कः सुखीभव ।
सर्वसङ्गं परित्यज्य आत्मैक्यैवं भवान्वहम् ॥ २४.२४ ॥

सङ्गं नाम प्रवक्ष्येऽहं ब्रह्माहमिति निश्चयः ।
सत्योऽहं परमात्माऽहं स्वयमेव स्वयं स्वयम् ॥ २४.२५ ॥

नाहं देहो न च प्राणो न द्वन्द्वो न च निर्मलः ।
एष एव हि सत्सङ्गः एष एव हि निर्मलः ॥ २४.२६ ॥

महत्सङ्गे महद्ब्रह्मभावनं परमं पदम् ।
अहं शान्तप्रभावोऽहं अहं ब्रह्म न संशयः ॥ २४.२७ ॥

अहं त्यक्तस्वरूपोऽहं अहं चिन्तादिवर्जितः ।
एष एव हि सत्सङ्गः एष नित्यं भवानहम् ॥ २४.२८ ॥

सर्वसङ्कल्पहीनोऽहं सर्ववृत्तिविवर्जितः ।
अमृतोऽहमजो नित्यं मृतिभीतिरतीतिकः ॥ २४.२९ ॥

सर्वकल्याणरूपोऽहं सर्वदा प्रियरूपवान् ।
समलाङ्गो मलातीतः सर्वदाहं सदानुगः ॥ २४.३० ॥

अपरिच्छिन्नसन्मात्रं सत्यज्ञानस्वरूपवान् ।
नादान्तरोऽहं नादोऽहं नामरूपविवर्जितः ॥ २४.३१ ॥

अत्यन्ताभिन्नहीनोऽहमादिमध्यान्तवर्जितः ।
एवं नित्यं दृढाभ्यास एवं स्वानुभवेन च ॥ २४.३२ ॥

एवमेव हि नित्यात्मभावनेन सुखी भव ।
एवमात्मा सुखं प्राप्तः पुनर्जन्म न संभवेत् ॥ २४.३३ ॥

सद्यो मुक्तो भवेद्ब्रह्माकारेण परितिष्ठति ।
आत्माकारमिदं विश्वमात्माकारमहं महत् ॥ २४.३४ ॥

आत्मैव नान्यद्भूतं वा आत्मैव मन एव हि ।
आत्मैव चित्तवद्भाति आत्मैव स्मृतिवत् क्वचित् ॥ २४.३५ ॥

आत्मैव वृत्तिवद्भाति आत्मैव क्रोधवत् सदा ।var was वृत्तिमद्भाति
आत्मैव श्रवणं तद्वदात्मैव मननं च तत् ॥ २४.३६ ॥

आत्मैवोपक्रमं नित्यमुपसंहारमात्मवत् ।
आत्मैवाभ्यां समं नित्यमात्मैवापूर्वताफलम् ॥ २४.३७ ॥

अर्थवादवदात्मा हि परमात्मोपपत्ति हि ।
इच्छा प्रारभ्यवद्ब्रह्म इच्छामारभ्यवत् परः ॥ २४.३८ ॥ var was प्रारब्धवद्
परेच्छारब्धवद्ब्रह्मा इच्छाशक्तिश्चिदेव हि ।
अनिच्छाशक्तिरात्मैव परेच्छाशक्तिरव्ययः ॥ २४.३९ ॥

परमात्मैवाधिकारो विषयं परमात्मनः ।
संबन्धं परमात्मैव प्रयोजनं परात्मकम् ॥ २४.४० ॥

ब्रह्मैव परमं सङ्गं कर्मजं ब्रह्म सङ्गमम् ।
ब्रह्मैव भ्रान्तिजं भाति द्वन्द्वं ब्रह्मैव नान्यतः ॥ २४.४१ ॥

सर्वं ब्रह्मेति निश्चित्य सद्य एव विमोक्षदम् ।
सविकल्पसमाधिस्थं निर्विकल्पसमाधि हि ॥ २४.४२ ॥

शब्दानुविद्धं ब्रह्मैव ब्रह्म दृश्यानुविद्धकम् ।
ब्रह्मैवादिसमाधिश्च तन्मध्यमसमाधिकम् ॥ २४.४३ ॥

ब्रह्मैव निश्चयं शून्यं तदुक्तमसमाधिकम् ।
देहाभिमानरहितं तद्वैराग्यसमाधिकम् ॥ २४.४४ ॥

एतद्भावनया शान्तं जीवन्मुक्तसमाधिकः ।
अत्यन्तं सर्वशान्तत्वं देहो मुक्तसमाधिकम् ॥ २४.४५ ॥

एतदभ्यासिनां प्रोक्तं सर्वं चैतत्समन्वितम् ।
सर्वं विस्मृत्य विस्मृत्य त्यक्त्वा त्यक्त्वा पुनः पुनः ॥ २४.४६ ॥

सर्ववृत्तिं च शून्येन स्थास्यामीति विमुच्य हि ।
न स्थास्यामीति विस्मृत्य भास्यामीति च विस्मर ॥ २४.४७ ॥

चैतन्योऽहमिति त्यक्त्वा सन्मात्रोऽहमिति त्यज ।
त्यजनं च परित्यज्य भावनं च परित्यज ॥ २४.४८ ॥

सर्वं त्यक्त्वा मनः क्षिप्रं स्मरणं च परित्यज ।
स्मरणं किञ्चिदेवात्र महासंसारसागरम् ॥ २४.४९ ॥

स्मरणं किञ्चिदेवात्र महादुःखं भवेत् तदा ।
महादोषं भवं बन्धं चित्तजन्म शतं मनः ॥ २४.५० ॥

प्रारब्धं हृदयग्रन्थि ब्रह्महत्यादि पातकम् ।
स्मरणं चैवमेवेह बन्धमोक्षस्य कारणम् ॥ २४.५१ ॥

अहं ब्रह्मप्रकरणं सर्वदुःखविनाशकम् ।
सर्वप्रपञ्चशमनं सद्यो मोक्षप्रदं सदा ।
एतच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ २४.५२ ॥

भक्त्या पद्मदलाक्षपूजितपदध्यानानुवृत्त्या मनः
स्वान्तानन्तपथप्रचारविधुरं मुक्त्यै भवेन्मानसम् ।
सङ्कल्पोज्झितमेतदल्पसुमहाशीलो दयाम्भोनिधौ
कश्चित् स्याच्छिवभक्तधुर्यसुमहाशान्तः शिवप्रेमतः ॥ २४.५३ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
अहं ब्रह्मप्रकरणनिरूपणं नाम चतुर्विंशोऽध्यायः ॥

२५ ॥ पञ्चविंशोऽध्यायः ॥

ऋभुः –
वक्ष्ये प्रसिद्धमात्मानं सर्वलोकप्रकाशकम् ।
सर्वाकारं सदा सिद्धं सर्वत्र निबिडं महत् ॥ २५.१ ॥

तद्ब्रह्माहं न सन्देह इति निश्चित्य तिष्ठ भोः ।
चिदेवाहं चिदेवाहं चित्रं चेदहमेव हि ॥ २५.२ ॥

वाचावधिश्च देवोऽहं चिदेव मनसः परः ।
चिदेवाहं परं ब्रह्म चिदेव सकलं पदम् ॥ २५.३ ॥

स्थूलदेहं चिदेवेदं सूक्ष्मदेहं चिदेव हि ।
चिदेव करणं सोऽहं कायमेव चिदेव हि ॥ २५.४ ॥

अखण्डाकारवृत्तिश्च उत्तमाधममध्यमाः ।
देहहीनश्चिदेवाहं सूक्ष्मदेहश्चिदेव हि ॥ २५.५ ॥

चिदेव कारणं सोऽहं बुद्धिहीनश्चिदेव हि ।
भावहीनश्चिदेवाहं दोषहीनश्चिदेव हि ॥ २५.६ ॥

अस्तित्वं ब्रह्म नास्त्येव नास्ति ब्रह्मेति नास्ति हि ।
अस्ति नास्तीति नास्त्येव अहमेव चिदेव हि ॥ २५.७ ॥

सर्वं नास्त्येव नास्त्येव साकारं नास्ति नास्ति हि ।
यत्किञ्चिदपि नास्त्येव अहमेव चिदेव हि ॥ २५.८ ॥

अन्वयव्यतिरेकं च आदिमध्यान्तदूषणम् ।
सर्वं चिन्मात्ररूपत्वादहमेव चिदेव हि ॥ २५.९ ॥

सर्वापरं च सदसत् कार्यकारणकर्तृकम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१० ॥

अशुद्धं शुद्धमद्वैतं द्वैतमेकमनेककम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.११ ॥

असत्यसत्यमद्वन्द्वं द्वन्द्वं च परतः परम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१२ ॥

भूतं भविष्यं वर्तं च मोहामोहौ समासमौ ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१३ ॥

क्षणं लवं त्रुटिर्ब्रह्म त्वंपदं तत्पदं तथा ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१४ ॥

त्वंपदं तत्पदं वापि ऐक्यं च ह्यहमेव हि ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१५ ॥

आनन्दं परमानन्दं सर्वानन्दं निजं महत् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१६ ॥

अहं ब्रह्म इदं ब्रह्म कं ब्रह्म ह्यक्षरं परम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१७ ॥

विष्णुरेव परं ब्रह्म शिवो ब्रह्माहमेव हि ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१८ ॥

श्रोत्रं ब्रह्म परं ब्रह्म शब्दं ब्रह्म पदं शुभम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.१९ ॥

स्पर्शो ब्रह्म पदं त्वक्च त्वक्च ब्रह्म परस्परम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२० ॥

परं रूपं चक्षुभिः एव तत्रैव योज्यताम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२१ ॥

ब्रह्मैव सर्वं सततं सच्चिदानन्दमात्रकम् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२२ ॥

चिन्मयानन्दमात्रोऽहं इदं विश्वमिदं सदा ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२३ ॥

ब्रह्मैव सर्वं यत्किञ्चित् तद्ब्रह्माहं न संशयः ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२४ ॥

वाचा यत् प्रोच्यते नाम मनसा मनुते तु यत् ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२५ ॥

कारणे कल्पिते यद्यत् तूष्णीं वा स्थीयते सदा ।
शरीरेण तु यद् भुङ्क्ते इन्द्रियैर्यत्तु भाव्यते ।
सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५.२६ ॥

वेदे यत् कर्म वेदोक्तं शास्त्रं शास्त्रोक्तनिर्णयम् ।
गुरूपदेशसिद्धान्तं शुद्धाशुद्धविभासकम् ॥ २५.२७ ॥

कामादिकलनं ब्रह्म देवादि कलनं पृथक् ।
जीवयुक्तेति कलनं विदेहो मुक्तिकल्पनम् ॥ २५.२८ ॥

ब्रह्म इत्यपि सङ्कल्पं ब्रह्मविद्वरकल्पनम् ।
वरीयानिति सङ्कल्पं वरिष्ठ इति कल्पनम् ॥ २५.२९ ॥

ब्रह्माहमिति सङ्कल्पं चिदहं चेति कल्पनम् ।
महाविद्येति सङ्कल्पं महामायेति कल्पनम् ॥ २५.३० ॥

महाशून्येति सङ्कल्पं महाचिन्तेति कल्पनम् ।
महालोकेति सङ्कल्पं महासत्येति कल्पनम् ॥ २५.३१ ॥

महारूपेति सङ्कल्पं महारूपं च कल्पनम् ।
सर्वसङ्कल्पकं चित्तं सर्वसङ्कल्पकं मनः ॥ २५.३२ ॥

सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मैव केवलम् ।
सर्वं द्वैतं मनोरूपं सर्वं दुःखं मनोमयम् ॥ २५.३३ ॥

चिदेवाहं न सन्देहः चिदेवेदं जगत्त्रयम् ।
यत्किञ्चिद्भाषणं वापि यत्किञ्चिन्मनसो जपम् ।
यत्किञ्चिन्मानसं कर्म सर्वं ब्रह्मैव केवलम् ॥ २५.३४ ॥

सर्वं नास्तीति सन्मन्त्रं जीवब्रह्मस्वरूपकम् ।
ब्रह्मैव सर्वमित्येवं मन्त्रञ्चैवोत्तमोत्तमम् ॥ २५.३५ ॥

अनुक्तमन्त्रं सन्मन्त्रं वृत्तिशून्यं परं महत् ।
सर्वं ब्रह्मेति सङ्कल्पं तदेव परमं पदम् ॥ २५.३६ ॥

सर्वं ब्रह्मेति सङ्कल्पं महादेवेति कीर्तनम् ।
सर्वं ब्रह्मेति सङ्कल्पं शिवपूजासमं महत् ॥ २५.३७ ॥

सर्वं ब्रह्मेत्यनुभवः सर्वाकारो न संशयः ।
सर्वं ब्रह्मेति सङ्कल्पं सर्वत्यागमितीरितम् ॥ २५.३८ ॥

सर्वं ब्रह्मेति सङ्कल्पं भावाभावविनाशनम् ।
सर्वं ब्रह्मेति सङ्कल्पं महादेवेति निश्चयः ॥ २५.३९ ॥

सर्वं ब्रह्मेति सङ्कल्पं कालसत्ताविनिर्मुक्तः ।
सर्वं ब्रह्मेति सङ्कल्पः देहसत्ता विमुक्तिकः ॥ २५.४० ॥

सर्वं ब्रह्मेति सङ्कल्पः सच्चिदानन्दरूपकः ।
सर्वोऽहं ब्रह्ममात्रैव सर्वं ब्रह्मैव केवलम् ॥ २५.४१ ॥

इदमित्येव यत्किञ्चित् तद्ब्रह्मैव न संशयः ।
भ्रान्तिश्च नरकं दुःखं स्वर्गभ्रान्तिरितीरिता ॥ २५.४२ ॥

ब्रह्मा विष्णुरिति भ्रान्तिर्भ्रान्तिश्च शिवरूपकम् ।
विराट् स्वराट् तथा सम्राट् सूत्रात्मा भ्रान्तिरेव च ॥ २५.४३ ॥

देवाश्च देवकार्याणि सूर्याचन्द्रमसोर्गतिः ।
मुनयो मनवः सिद्धा भ्रान्तिरेव न संशयः ॥ २५.४४ ॥

सर्वदेवासुरा भ्रान्तिस्तेषां युद्धादि जन्म च ।
विष्णोर्जन्मावताराणि चरितं शान्तिरेव हि ॥ २५.४५ ॥

ब्रह्मणः सृष्टिकृत्यानि रुद्रस्य चरितानि च ।
सर्वभ्रान्तिसमायुक्तं भ्रान्त्या लोकाश्चतुर्दश ॥ २५.४६ ॥

वर्णाश्रमविभागश्च भ्रान्तिरेव न संशयः ।
ब्रह्मविष्ण्वीशरुद्राणामुपासा भ्रान्तिरेव च ॥ २५.४७ ॥

तत्रापि यन्त्रमन्त्राभ्यां भ्रान्तिरेव न संशयः ।
वाचामगोचरं ब्रह्म सर्वं ब्रह्ममयं च हि ॥ २५.४८ ॥

सर्वं नास्त्येव नास्त्येव अहमेव चिदेव हि ।
एवं वद त्वं तिष्ठ त्वं सद्यो मुक्तो भविष्यसि ॥ २५.४९ ॥

एतावदुक्तं यत्किञ्चित् तन्नास्त्येव न संशयः ।
एवं यदान्तरं क्षिप्रं ब्रह्मैव दृढनिश्चयम् ॥ २५.५० ॥

दृढनिश्चयमेवात्र प्रथमं कारणं भवेत् ।
निश्चयः खल्वयं पश्चात् स्वयमेव भविष्यति ॥ २५.५१ ॥

आर्तं यच्छिवपादतोऽन्यदितरं तज्जादिशब्दात्मकं
चेतोवृत्तिपरं पराप्रमुदितं षड्भावसिद्धं जगत् ।
भूताक्षादिमनोवचोभिरनघे सान्द्रे महेशे घने
सिन्धौ सैन्धवखण्डवज्जगदिदं लीयेत वृत्त्युज्झितम् ॥ २५.५२ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ब्रह्मणस्सर्वरूपत्वनिरूपणप्रकरणं नाम पञ्चविंशोऽध्यायः ॥

२६ ॥ षड्विंशोऽध्यायः ॥

ऋभुः –
वक्ष्ये सच्चित्परानन्दं स्वभावं सर्वदा सुखम् ।
सर्ववेदपुराणानां सारात् सारतरं स्वयम् ॥ २६.१ ॥

न भेदं च द्वयं द्वन्द्वं न भेदं भेदवर्जितम् ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.२ ॥

न क्वचिन्नात एवाहं नाक्षरं न परात्परम् ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.३ ॥

न बहिर्नान्तरं नाहं न सङ्कल्पो न विग्रहः ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.४ ॥

न सत्यं च परित्यज्य न वार्ता नार्थदूषणम् ।
इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६.५ ॥

न गुणो गुणिवाक्यं वा न मनोवृत्तिनिश्चयः ।
न जपं न परिच्छिन्नं न व्यापकमसत् फलम् ॥ २६.६ ॥

न गुरुर्न च शिष्यो वा न स्थिरं न शुभाशुभम् ।
नैकरूपं नान्यरूपं न मोक्षो न च बन्धकम् ॥ २६.७ ॥

अहं पदार्थस्तत्पदं वा नेन्द्रियं विषयादिकम् ।
न संशयं न तुच्छं वा न निश्चयं न वा कृतम् ॥ २६.८ ॥

न शान्तिरूपमद्वैतं न चोर्ध्वं न च नीचकम् ।
न लक्षणं न दुःखाङ्गं न सुखं न च चञ्चलम् ॥ २६.९ ॥

न शरीरं न लिङ्गं वा न कारणमकारणम् ।
न दुःखं नान्तिकं नाहं न गूढं न परं पदम् ॥ २६.१० ॥

न सञ्चितं च नागामि न सत्यं च त्वमाहकम् ।
नाज्ञानं न च विज्ञानं न मूढो न च विज्ञवान् ॥ २६.११ ॥

न नीचं नरकं नान्तं न मुक्तिर्न च पावनम् ।
न तृष्णा न च विद्यात्वं नाहं तत्त्वं न देवता ॥ २६.१२ ॥

न शुभाशुभसङ्केतो न मृत्युर्न च जीवनम् ।
न तृप्तिर्न च भोज्यं वा न खण्डैकरसोऽद्वयम् ॥ २६.१३ ॥

न सङ्कल्पं न प्रपञ्चं न जागरणराजकम् ।
न किञ्चित्समतादोषो न तुर्यगणना भ्रमः ॥ २६.१४ ॥

न सर्वं समलं नेष्टं न नीतिर्न च पूजनम् ।
न प्रपञ्चं न बहुना नान्यभाषणसङ्गमः ॥ २६.१५ ॥

न सत्सङ्गमसत्सङ्गः न ब्रह्म न विचारणम् ।
नाभ्यासं न च वक्ता च न स्नानं न च तीर्थकम् ॥ २६.१६ ॥

न पुण्यं न च वा पापं न क्रिया दोषकारणम् ।
न चाध्यात्मं नाधिभूतं न दैवतमसम्भवम् ॥ २६.१७ ॥

न जन्ममरणे क्वापि जाग्रत्स्वप्नसुषुप्तिकम् ।
न भूलोकं न पातालं न जयापजयाजयौ ॥ २६.१८ ॥

न हीनं न च वा भीतिर्न रतिर्न मृतिस्त्वरा ।
अचिन्त्यं नापराध्यात्मा निगमागमविभ्रमः ॥ २६.१९ ॥

न सात्त्विकं राजसं च न तामसगुणाधिकम् ।
न शैवं न च वेदान्तं न स्वाद्यं तन्न मानसम् ॥ २६.२० ॥

न बन्धो न च मोक्षो वा न वाक्यं ऐक्यलक्षणम् ।
न स्त्रीरूपं न पुंभावः न षण्डो न स्थिरः पदम् ॥ २६.२१ ॥

न भूषणं न दूषणं न स्तोत्रं न स्तुतिर्न हि ।
न लौकिकं वैदिकं न शास्त्रं न च शासनम् ॥ २६.२२ ॥

न पानं न कृशं नेदं न मोदं न मदामदम् ।
न भावनमभावो वा न कुलं नामरूपकम् ॥ २६.२३ ॥

नोत्कृष्टं च निकृष्टं च न श्रेयोऽश्रेय एव हि ।
निर्मलत्वं मलोत्सर्गो न जीवो न मनोदमः ॥ २६.२४ ॥

न शान्तिकलना नागं न शान्तिर्न शमो दमः ।
न क्रीडा न च भावाङ्गं न विकारं न दोषकम् ॥ २६.२५ ॥

न यत्किञ्चिन्न यत्राहं न मायाख्या न मायिका ।
यत्किञ्चिन्न च धर्मादि न धर्मपरिपीडनम् ॥ २६.२६ ॥

न यौवनं न बाल्यं वा न जरामरणादिकम् ।
न बन्धुर्न च वाऽबन्धुर्न मित्रं न च सोदरः ॥ २६.२७ ॥

नापि सर्वं न चाकिञ्चिन्न विरिञ्चो न केशवः ।
न शिवो नाष्टदिक्पालो न विश्वो न च तैजसः ॥ २६.२८ ॥

न प्राज्ञो हि न तुर्यो वा न ब्रह्मक्षत्रविड्वरः ।
इदमेव परं ब्रह्म ज्ञानामृतमनामयम् ॥ २६.२९ ॥

न पुनर्भावि पश्चाद्वा न पुनर्भवसंभवः ।
न कालकलना नाहं न संभाषणकारणम् ॥ २६.३० ॥

न चोर्ध्वमन्तःकरणं न च चिन्मात्रभाषणम् ।
न ब्रह्माहमिति द्वैतं न चिन्मात्रमिति द्वयम् ॥ २६.३१ ॥

नान्नकोशं न च प्राणमनोमयमकोशकम् ।
न विज्ञानमयः कोशः न चानन्दमयः पृथक् ॥ २६.३२ ॥

न बोधरूपं बोध्यं वा बोधकं नात्र यद्भ्रमः ।
न बाध्यं बाधकं मिथ्या त्रिपुटीज्ञाननिर्णयः ॥ २६.३३ ॥

न प्रमाता प्रमाणं वा न प्रमेयं फलोदयम् ।
इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् ॥ २६.३४ ॥

न गुह्यं न प्रकाशं वा न महत्वं न चाणुता ।
न प्रपञ्चो विद्यमानं न प्रपञ्चः कदाचन ॥ २६.३५ ॥

नान्तःकरणसंसारो न मनो जगतां भ्रमः ।
न चित्तरूपसंसारो बुद्धिपूर्वं प्रपञ्चकम् ॥ २६.३६ ॥

न जीवरूपसंसारो वासनारूपसंसृतिः ।
न लिङ्गभेदसंसारो नाज्ञानमयसंस्मृतिः ॥ २६.३७ ॥ var was संसृतिः
न वेदरूपसंसारो न शास्त्रागमसंसृतिः ।
नान्यदस्तीति संसारमन्यदस्तीति भेदकम् ॥ २६.३८ ॥

न भेदाभेदकलनं न दोषादोषकल्पनम् ।
न शान्ताशान्तसंसारं न गुणागुणसंसृतिः ॥ २६.३९ ॥

न स्त्रीलिङ्गं न पुंलिङ्गं न नपुंसकसंसृतिः ।
न स्थावरं न जङ्गमं च न दुःखं न सुखं क्वचित् ॥ २६.४० ॥

न शिष्टाशिष्टरूपं वा न योग्यायोग्यनिश्चयः ।
न द्वैतवृत्तिरूपं वा साक्षिवृत्तित्वलक्षणम् ॥ २६.४१ ॥

अखण्डाकारवृत्तित्वमखण्डैकरसं सुखम् ।
देहोऽहमिति या वृत्तिर्ब्रह्माहमिति शब्दकम् ॥ २६.४२ ॥

अखण्डनिश्चया वृत्तिर्नाखण्डैकरसं महत् ।
न सर्ववृत्तिभवनं सर्ववृत्तिविनाशकम् ॥ २६.४३ ॥

सर्ववृत्त्यनुसन्धानं सर्ववृत्तिविमोचनम् ।
सर्ववृत्तिविनाशान्तं सर्ववृत्तिविशून्यकम् ॥ २६.४४ ॥

न सर्ववृत्तिसाहस्रं क्षणक्षणविनाशनम् ।
न सर्ववृत्तिसाक्षित्वं न च ब्रह्मात्मभावनम् ॥ २६.४५ ॥

न जगन्न मनो नान्तो न कार्यकलनं क्वचित् ।
न दूषणं भूषणं वा न निरङ्कुशलक्षणम् ॥ २६.४६ ॥

न च धर्मात्मनो लिङ्गं गुणशालित्वलक्षणम् ।
न समाधिकलिङ्गं वा न प्रारब्धं प्रबन्धकम् ॥ २६.४७ ॥

ब्रह्मवित्तं आत्मसत्यो न परः स्वप्नलक्षणम् ।
न च वर्यपरो रोधो वरिष्ठो नार्थतत्परः ॥ २६.४८ ॥

आत्मज्ञानविहीनो यो महापातकिरेव सः ।
एतावद् ज्ञानहीनो यो महारोगी स एव हि ॥ २६.४९ ॥

अहं ब्रह्म न सन्देह अखण्डैकरसात्मकः ।
ब्रह्मैव सर्वमेवेति निश्चयानुभवात्मकः ॥ २६.५० ॥

सद्यो मुक्तो न सन्देहः सद्यः प्रज्ञानविग्रहः ।
स एव ज्ञानवान् लोके स एव परमेश्वरः ॥ २६.५१ ॥

इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् ।
एतत्प्रकरणं यस्तु श‍ृणुते ब्रह्म एव सः ॥ २६.५२ ॥

एकत्वं न बहुत्वमप्यणुमहत् कार्यं न वै कारणं
विश्वं विश्वपतित्वमप्यरसकं नो गन्धरूपं सदा ।
बद्धं मुक्तमनुत्तमोत्तममहानन्दैकमोदं सदा
भूमानन्दसदाशिवं जनिजरारोगाद्यसङ्गं महः ॥ २६.५३ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ज्ञानामृतमनोमयप्रकरणवर्णनं नाम षड्विंशोऽध्यायः ॥

२७ ॥ सप्तविंशोऽध्यायः ॥

ऋभुः –
वक्ष्ये प्रकरणं सत्यं ब्रह्मानन्दमनोमयम् ।
कार्यकारणनिर्मुक्तं नित्यानन्दमयं त्विदम् ॥ २७.१ ॥

अक्षयानन्द एवाहमात्मानन्दप्रकाशकम् ।
ज्ञानानन्दस्वरूपोऽहं लक्ष्यानन्दमयं सदा ॥ २७.२ ॥

विषयानन्दशून्योऽहं मिथ्यानन्दप्रकाशकः ।
वृत्तिशून्यसुखात्माहं वृत्तिशून्यसुखात्परम् ॥ २७.३ ॥

जडानन्दप्रकाशात्मा आत्मानन्दरसोऽस्म्यहम् ।
आत्मानन्दविहीनोऽहं नास्त्यानन्दात्मविग्रहः ॥ २७.४ ॥

कार्यानन्दविहीनोऽहं कार्यानन्दकलात्मकः ।
गुणानन्दविहीनोऽहं गुह्यानन्दस्वरूपवान् ॥ २७.५ ॥

गुप्तानन्दस्वरूपोऽहं कृत्यानन्दमहानहम् ।
ज्ञेयानन्दविहीनोऽहं गोप्यानन्दविवर्जितः ॥ २७.६ ॥

सदानन्दस्वरूपोऽहं मुदानन्दनिजात्मकः ।
लोकानन्दो महानन्दो लोकातीतमहानयम् ॥ २७.७ ॥

भेदानन्दश्चिदानन्दः सुखानन्दोऽहमद्वयः ।
क्रियानन्दोऽक्षयानन्दो वृत्त्यानन्दविवर्जितः ॥ २७.८ ॥

सर्वानन्दोऽक्षयानन्दश्चिदानन्दोऽहमव्ययः ।
सत्यानन्दः परानन्दः सद्योनन्दः परात्परः ॥ २७.९ ॥

वाक्यानन्दमहानन्दः शिवानन्दोऽहमद्वयः ।
शिवानन्दोत्तरानन्द आद्यानन्दविवर्जितः ॥ २७.१० ॥

अमलात्मा परानन्दश्चिदानन्दोऽहमद्वयः ।
वृत्त्यानन्दपरानन्दो विद्यातीतो हि निर्मलः ॥ २७.११ ॥

कारणातीत आनन्दश्चिदानन्दोऽहमद्वयः ।
सर्वानन्दः परानन्दो ब्रह्मानन्दात्मभावनः ॥ २७.१२ ॥

जीवानन्दो लयानन्दश्चिदानन्दस्वरूपवान् ।
शुद्धानन्दस्वरूपात्मा बुद्ध्यानन्दो मनोमयः ॥ २७.१३ ॥

शब्दानन्दो महानन्दश्चिदानन्दोऽहमद्वयः ।
आनन्दानन्दशून्यात्मा भेदानन्दविशून्यकः ॥ २७.१४ ॥

द्वैतानन्दप्रभावात्मा चिदानन्दोऽहमद्वयः ।
एवमादिमहानन्द अहमेवेति भावय ॥ २७.१५ ॥

शान्तानन्दोऽहमेवेति चिदानन्दप्रभास्वरः ।
एकानन्दपरानन्द एक एव चिदव्ययः ॥ २७.१६ ॥

एक एव महानात्मा एकसंख्याविवर्जितः ।
एकतत्त्वमहानन्दस्तत्त्वभेदविवर्जितः ॥ २७.१७ ॥

विजितानन्दहीनोऽहं निर्जितानन्दहीनकः ।
हीनानन्दप्रशान्तोऽहं शान्तोऽहमिति शान्तकः ॥ २७.१८ ॥

ममतानन्दशान्तोऽहमहमादिप्रकाशकम् ।
सर्वदा देहशान्तोऽहं शान्तोऽहमिति वर्जितः ॥ २७.१९ ॥

ब्रह्मैवाहं न संसारी इत्येवमिति शान्तकः ।
अन्तरादन्तरोऽहं वै अन्तरादन्तरान्तरः ॥ २७.२० ॥

एक एव महानन्द एक एवाहमक्षरः ।
एक एवाक्षरं ब्रह्म एक एवाक्षरोऽक्षरः ॥ २७.२१ ॥

एक एव महानात्मा एक एव मनोहरः ।
एक एवाद्वयोऽहं वै एक एव न चापरः ॥ २७.२२ ॥

एक एव न भूरादि एक एव न बुद्धयः ।
एक एव प्रशान्तोऽहं एक एव सुखात्मकः ॥ २७.२३ ॥

एक एव न कामात्मा एक एव न कोपकम् ।
एक एव न लोभात्मा एक एव न मोहकः ॥ २७.२४ ॥

एक एव मदो नाहं एक एव न मे रसः ।
एक एव न चित्तात्मा एक एव न चान्यकः ॥ २७.२५ ॥

एक एव न सत्तात्मा एक एव जरामरः ।
एक एव हि पूर्णात्मा एक एव हि निश्चलः ॥ २७.२६ ॥

एक एव महानन्द एक एवाहमेकवान् ।
देहोऽहमिति हीनोऽहं शान्तोऽहमिति शाश्वतः ॥ २७.२७ ॥

शिवोऽहमिति शान्तोऽहं आत्मैवाहमिति क्रमः ।
जीवोऽहमिति शान्तोऽहं नित्यशुद्धहृदन्तरः ॥ २७.२८ ॥

एवं भावय निःशङ्कं सद्यो मुक्तस्त्वमद्वये ।
एवमादि सुशब्दं वा नित्यं पठतु निश्चलः ॥ २७.२९ ॥

कालस्वभावो नियतैश्च भूतैः
जगद्विजायेत इति श्रुतीरितम् ।
तद्वै मृषा स्याज्जगतो जडत्वतः
इच्छाभवं चैतदथेस्वरस्य ॥ २७.३० ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
आनन्दरूपत्वनिरूपणप्रकरणं नाम सप्तविंशोऽध्यायः ॥

२८ ॥ अष्टाविंशोऽध्यायः ॥

ऋभुः –
ब्रह्मैवाहं चिदेवाहं निर्मलोऽहं निरन्तरः ।
शुद्धस्वरूप एवाहं नित्यरूपः परोऽस्म्यहम् ॥ २८.१ ॥

नित्यनिर्मलरूपोऽहं नित्यचैतन्यविग्रहः ।
आद्यन्तरूपहीनोऽहमाद्यन्तद्वैतहीनकः ॥ २८.२ ॥

अजस्रसुखरूपोऽहं अजस्रानन्दरूपवान् ।
अहमेवादिनिर्मुक्तः अहं कारणवर्जितः ॥ २८.३ ॥

अहमेव परं ब्रह्म अहमेवाहमेव हि ।
इत्येवं भावयन्नित्यं सुखमात्मनि निर्मलः ॥ २८.४ ॥

सुखं तिष्ठ सुखं तिष्ठ सुचिरं सुखमावह ।
सर्ववेदमनन्यस्त्वं सर्वदा नास्ति कल्पनम् ॥ २८.५ ॥

सर्वदा नास्ति चित्ताख्यं सर्वदा नास्ति संसृतिः ।
सर्वदा नास्ति नास्त्येव सर्वदा जगदेव न ॥ २८.६ ॥

जगत्प्रसङ्गो नास्त्येव देहवार्ता कुतस्ततः ।
ब्रह्मैव सर्वचिन्मात्रमहमेव हि केवलम् ॥ २८.७ ॥

चित्तमित्यपि नास्त्येव चित्तमस्ति हि नास्ति हि ।
अस्तित्वभावना निष्ठा जगदस्तित्ववाङ्मृषा ॥ २८.८ ॥

अस्तित्ववक्ता वार्ता हि जगदस्तीति भावना ।
स्वात्मनोऽन्यज्जगद्रक्षा देहोऽहमिति निश्चितः ॥ २८.९ ॥

महाचण्डाल एवासौ महाविप्रोऽपि निश्चयः ।
तस्मादिति जगन्नेति चित्तं वा बुद्धिरेव च ॥ २८.१० ॥

नास्ति नास्तीति सहसा निश्चयं कुरु निर्मलः ।
दृश्यं नास्त्येव नास्त्येव नास्ति नास्तीति भावय ॥ २८.११ ॥

अहमेव परं ब्रह्म अहमेव हि निष्कलः ।
अहमेव न सन्देहः अहमेव सुखात् सुखम् ॥ २८.१२ ॥

अहमेव हि दिव्यात्मा अहमेव हि केवलः ।
वाचामगोचरोऽहं वै अहमेव न चापरः ॥ २८.१३ ॥

अहमेव हि सर्वात्मा अहमेव सदा प्रियः ।
अहमेव हि भावात्मा अहं वृत्तिविवर्जितः ॥ २८.१४ ॥

अहमेवापरिच्छिन्न अहमेव निरन्तरः ।
अहमेव हि निश्चिन्त अहमेव हि सद्गुरुः ॥ २८.१५ ॥

अहमेव सदा साक्षी अहमेवाहमेव हि ।
नाहं गुप्तो न वाऽगुप्तो न प्रकाशात्मकः सदा ॥ २८.१६ ॥

नाहं जडो न चिन्मात्रः क्वचित् किञ्चित् तदस्ति हि ।
नाहं प्राणो जडत्वं तदत्यन्तं सर्वदा भ्रमः ॥ २८.१७ ॥

अहमत्यन्तमानन्द अहमत्यन्तनिर्मलः ।
अहमत्यन्तवेदात्मा अहमत्यन्तशाङ्करः ॥ २८.१८ ॥

अहमित्यपि मे किञ्चिदहमित्यपि न स्मृतिः ।
सर्वहीनोऽहमेवाग्रे सर्वहीनः सुखाच्छुभात् ॥ २८.१९ ॥

परात् परतरं ब्रह्म परात् परतरः पुमान् ।
परात् परतरोऽहं वै सर्वस्यात् परतः परः ॥ २८.२० ॥

सर्वदेहविहीनोऽहं सर्वकर्मविवर्जितः ।
सर्वमन्त्रः प्रशान्तात्मा सर्वान्तःकरणात् परः ॥ २८.२१ ॥

सर्वस्तोत्रविहीनोऽहं सर्वदेवप्रकाशकः ।
सर्वस्नानविहीनात्मा एकमग्नोऽहमद्वयः ॥ २८.२२ ॥

आत्मतीर्थे ह्यात्मजले आत्मानन्दमनोहरे ।
आत्मैवाहमिति ज्ञात्वा आत्मारामोवसाम्यहम् ॥ २८.२३ ॥

आत्मैव भोजनं ह्यात्मा तृप्तिरात्मसुखात्मकः ।
आत्मैव ह्यात्मनो ह्यात्मा आत्मैव परमो ह्यहम् ॥ २८.२४ ॥

अहमात्माऽहमात्माहमहमात्मा न लौकिकः ।
सर्वात्माहं सदात्माहं नित्यात्माहं गुणान्तरः ॥ २८.२५ ॥

एवं नित्यं भावयित्वा सदा भावय सिद्धये ।
सिद्धं तिष्ठति चिन्मात्रो निश्चयं मात्रमेव सा ।
निश्चयं च लयं याति स्वयमेव सुखी भव ॥ २८.२६ ॥

शाखादिभिश्च श्रुतयो ह्यनन्ता-
स्त्वामेकमेव भगवन् बहुधा वदन्ति ।
विष्ण्विन्द्रधातृरविसून्वनलानिलादि
भूतात्मनाथ गणनाथललाम शम्भो ॥ २८.२७ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
आत्मवैलक्षण्यप्रकरणं नाम अष्टाविंशोऽध्यायः ॥

२९ ॥ एकोनत्रिंशोऽध्यायः ॥

ऋभुः –
अत्यन्तं तन्मयं वक्ष्ये दुर्लभं योगिनामपि ।
वेदशास्त्रेषु देवेषु रहस्यमतिदुर्लभम् ॥ २९.१ ॥

यः परं ब्रह्म सर्वात्मा सच्चिदानन्दविग्रहः ।
सर्वात्मा परमात्मा हि तन्मयो भव सर्वदा ॥ २९.२ ॥

आत्मरूपमिदं सर्वमाद्यन्तरहितोऽजयः ।
कार्याकार्यमिदं नास्ति तन्मयो भव सर्वदा ॥ २९.३ ॥

यत्र द्वैतभयं नास्ति यत्राद्वैतप्रबोधनम् ।
शान्ताशान्तद्वयं नास्ति तन्मयो भव सर्वदा ॥ २९.४ ॥

यत्र सङ्कल्पकं नास्ति यत्र भ्रान्तिर्न विद्यते ।
तदेव हि मतिर्नास्ति तन्मयो भव सर्वदा ॥ २९.५ ॥

यत्र ब्रह्मणि नास्त्येव यत्र भावि विकल्पनम् ।
यत्र सर्वं जगन्नास्ति तन्मयो भव सर्वदा ॥ २९.६ ॥

यत्र भावमभावं वा मनोभ्रान्ति विकल्पनम् ।
यत्र भ्रान्तेर्न वार्ता वा तन्मयो भव सर्वदा ॥ २९.७ ॥

यत्र नास्ति सुखं नास्ति देहोऽहमिति रूपकम् ।
सर्वसङ्कल्पनिर्मुक्तं तन्मयो भव सर्वदा ॥ २९.८ ॥

यत्र ब्रह्म विना भावो यत्र दोषो न विद्यते ।
यत्र द्वन्द्वभयं नास्ति तन्मयो भव सर्वदा ॥ २९.९ ॥

यत्र वाक्कायकार्यं वा यत्र कल्पो लयं गतः ।
यत्र प्रपञ्चं नोत्पन्नं तन्मयो भव सर्वदा ॥ २९.१० ॥

यत्र माया प्रकाशो न माया कार्यं न किञ्चन ।
यत्र दृश्यमदृश्यं वा तन्मयो भव सर्वदा ॥ २९.११ ॥

विद्वान् विद्यापि नास्त्येव यत्र पक्षविपक्षकौ ।
न यत्र दोषादोषौ वा तन्मयो भव सर्वदा ॥ २९.१२ ॥

यत्र विष्णुत्वभेदो न यत्र ब्रह्मा न विद्यते ।
यत्र शङ्करभेदो न तन्मयो भव सर्वदा ॥ २९.१३ ॥

न यत्र सदसद्भेदो न यत्र कलनापदम् ।
न यत्र जीवकलना तन्मयो भव सर्वदा ॥ २९.१४ ॥

न यत्र शङ्करध्यानं न यत्र परमं पदम् ।
न यत्र कलनाकारं तन्मयो भव सर्वदा ॥ २९.१५ ॥

न यत्राणुर्महत्त्वं च यत्र सन्तोषकल्पनम् ।
यत्र प्रपञ्चमाभासं तन्मयो भव सर्वदा ॥ २९.१६ ॥

न यत्र देहकलनं न यत्र हि कुतूहलम् ।
न यत्र चित्तकलनं तन्मयो भव सर्वदा ॥ २९.१७ ॥

न यत्र बुद्धिविज्ञानं न यत्रात्मा मनोमयः ।
न यत्र कामकलनं तन्मयो भव सर्वदा ॥ २९.१८ ॥

न यत्र मोक्षविश्रान्तिर्यत्र बन्धत्वविग्रहः ।
न यत्र शाश्वतं ज्ञानं तन्मयो भव सर्वदा ॥ २९.१९ ॥

न यत्र कालकलनं यत्र दुःखत्वभावनम् ।
न यत्र देहकलनं तन्मयो भव सर्वदा ॥ २९.२० ॥

न यत्र जीववैराग्यं यत्र शास्त्रविकल्पनम् ।
यत्राहमहमात्मत्वं तन्मयो भव सर्वदा ॥ २९.२१ ॥

न यत्र जीवन्मुक्तिर्वा यत्र देहविमोचनम् ।
यत्र सङ्कल्पितं कार्यं तन्मयो भव सर्वदा ॥ २९.२२ ॥

न यत्र भूतकलनं यत्रान्यत्वप्रभावनम् ।
न यत्र जीवभेदो वा तन्मयो भव सर्वदा ॥ २९.२३ ॥

यत्रानन्दपदं ब्रह्म यत्रानन्दपदं सुखम् ।
यत्रानन्दगुणं नित्यं तन्मयो भव सर्वदा ॥ २९.२४ ॥

न यत्र वस्तुप्रभवं न यत्रापजयोजयः ।
न यत्र वाक्यकथनं तन्मयो भव सर्वदा ॥ २९.२५ ॥

न यत्रात्मविचाराङ्गं न यत्र श्रवणाकुलम् ।
न यत्र च महानन्दं तन्मयो भव सर्वदा ॥ २९.२६ ॥

न यत्र हि सजातीयं विजातीयं न यत्र हि ।
न यत्र स्वगतं भेदं तन्मयो भव सर्वदा ॥ २९.२७ ॥

न यत्र नरको घोरो न यत्र स्वर्गसम्पदः ।
न यत्र ब्रह्मलोको वा तन्मयो भव सर्वदा ॥ २९.२८ ॥

न यत्र विष्णुसायुज्यं यत्र कैलासपर्वतः ।
ब्रह्माण्डमण्डलं यत्र तन्मयो भव सर्वदा ॥ २९.२९ ॥

न यत्र भूषणं यत्र दूषणं वा न विद्यते ।
न यत्र समता दोषं तन्मयो भव सर्वदा ॥ २९.३० ॥

न यत्र मनसा भावो न यत्र सविकल्पनम् ।
न यत्रानुभवं दुःखं तन्मयो भव सर्वदा ॥ २९.३१ ॥

यत्र पापभयं नास्ति पञ्चपापादपि क्वचित् ।
न यत्र सङ्गदोषं वा तन्मयो भव सर्वदा ॥ २९.३२ ॥

यत्र तापत्रयं नास्ति यत्र जीवत्रयं क्वचित् ।
यत्र विश्वविकल्पाख्यं तन्मयो भव सर्वदा ॥ २९.३३ ॥

न यत्र बोधमुत्पन्नं न यत्र जगतां भ्रमः ।
न यत्र करणाकारं तन्मयो भव सर्वदा ॥ २९.३४ ॥

न यत्र हि मनो राज्यं यत्रैव परमं सुखम् ।
यत्र वै शाश्वतं स्थानं तन्मयो भव सर्वदा ॥ २९.३५ ॥

यत्र वै कारणं शान्तं यत्रैव सकलं सुखम् ।
यद्गत्वा न निवर्तन्ते तन्मयो भव सर्वदा ॥ २९.३६ ॥

यद् ज्ञात्वा मुच्यते सर्वं यद् ज्ञात्वाऽन्यन्न विद्यते ।
यद् ज्ञात्वा नान्यविज्ञानं तन्मयो भव सर्वदा ॥ २९.३७ ॥

यत्रैव दोषं नोत्पन्नं यत्रैव स्थाननिश्चलः ।
यत्रैव जीवसङ्घातः तन्मयो भव सर्वदा ॥ २९.३८ ॥

यत्रैव नित्यतृप्तात्मा यत्रैवानन्दनिश्चलम् ।
यत्रैव निश्चलं शान्तं तन्मयो भव सर्वदा ॥ २९.३९ ॥

यत्रैव सर्वसौख्यं वा यत्रैव सन्निरूपणम् ।
यत्रैव निश्चयाकारं तन्मयो भव सर्वदा ॥ २९.४० ॥

न यत्राहं न यत्र त्वं न यत्र त्वं स्वयं स्वयम् ।
यत्रैव निश्चयं शान्तं तन्मयो भव सर्वदा ॥ २९.४१ ॥

यत्रैव मोदते नित्यं यत्रैव सुखमेधते ।
यत्र दुःखभयं नास्ति तन्मयो भव सर्वदा ॥ २९.४२ ॥

यत्रैव चिन्मयाकारं यत्रैवानन्दसागरः ।
यत्रैव परमं साक्षात् तन्मयो भव सर्वदा ॥ २९.४३ ॥

यत्रैव स्वयमेवात्र स्वयमेव तदेव हि ।
स्वस्वात्मनोक्तभेदोऽस्ति तन्मयो भव सर्वदा ॥ २९.४४ ॥

यत्रैव परमानन्दं स्वयमेव सुखं परम् ।
यत्रैवाभेदकलनं तन्मयो भव सर्वदा ॥ २९.४५ ॥

न यत्र चाणुमात्रं वा न यत्र मनसो मलम् ।
न यत्र च ददाम्येव तन्मयो भव सर्वदा ॥ २९.४६ ॥

यत्र चित्तं मृतं देहं मनो मरणमात्मनः ।
यत्र स्मृतिर्लयं याति तन्मयो भव सर्वदा ॥ २९.४७ ॥

यत्रैवाहं मृतो नूनं यत्र कामो लयं गतः ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.४८ ॥

यत्र देवास्त्रयो लीनं यत्र देहादयो मृताः ।
न यत्र व्यवहारोऽस्ति तन्मयो भव सर्वदा ॥ २९.४९ ॥

यत्र मग्नो निरायासो यत्र मग्नो न पश्यति ।
यत्र मग्नो न जन्मादिस्तन्मयो भव सर्वदा ॥ २९.५० ॥

यत्र मग्नो न चाभाति यत्र जाग्रन्न विद्यते ।
यत्रैव मोहमरणं तन्मयो भव सर्वदा ॥ २९.५१ ॥

यत्रैव कालमरणं यत्र योगो लयं गतः ।
यत्र सत्सङ्गतिर्नष्टा तन्मयो भव सर्वदा ॥ २९.५२ ॥

यत्रैव ब्रह्मणो रूपं यत्रैवानन्दमात्रकम् ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.५३ ॥

यत्र विश्वं क्वचिन्नास्ति यत्र नास्ति ततो जगत् ।
यत्रान्तःकरणं नास्ति तन्मयो भव सर्वदा ॥ २९.५४ ॥

यत्रैव सुखमात्रं च यत्रैवानन्दमात्रकम् ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.५५ ॥

यत्र सन्मात्रचैतन्यं यत्र चिन्मात्रमात्रकम् ।
यत्रानन्दमयं भाति तन्मयो भव सर्वदा ॥ २९.५६ ॥

यत्र साक्षात् परं ब्रह्म यत्र साक्षात् स्वयं परम् ।
यत्र शान्तं परं लक्ष्यं तन्मयो भव सर्वदा ॥ २९.५७ ॥

यत्र साक्षादखण्डार्थं यत्र साक्षात् परायणम् ।
यत्र नाशादिकं नास्ति तन्मयो भव सर्वदा ॥ २९.५८ ॥

यत्र साक्षात् स्वयं मात्रं यत्र साक्षात्स्वयं जयम् ।
यत्र साक्षान्महानात्मा तन्मयो भव सर्वदा ॥ २९.५९ ॥

यत्र साक्षात् परं तत्त्वं यत्र साक्षात् स्वयं महत् ।
यत्र साक्षात्तु विज्ञानं तन्मयो भव सर्वदा ॥ २९.६० ॥

यत्र साक्षाद्गुणातीतं यत्र साक्षाद्धि निर्मलम् ।
यत्र साक्षात् सदाशुद्धं तन्मयो भव सर्वदा ॥ २९.६१ ॥

यत्र साक्षान्महानात्मा यत्र साक्षात् सुखात् सुखम् ।
यत्रैव ज्ञानविज्ञानं तन्मयो भव सर्वदा ॥ २९.६२ ॥

यत्रैव हि स्वयं ज्योतिर्यत्रैव स्वयमद्वयम् ।
यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९.६३ ॥

एवं तन्मयभावोक्तं एवं नित्यशनित्यशः ।
ब्रह्माहं सच्चिदानन्दं अखण्डोऽहं सदा सुखम् ॥ २९.६४ ॥

विज्ञानं ब्रह्ममात्रोऽहं स शान्तं परमोऽस्म्यहम् ।
चिदहं चित्तहीनोऽहं नाहं सोऽहं भवाम्यहम् ॥ २९.६५ ॥

तदहं चिदहं सोऽहं निर्मलोऽहमहं परम् ।
परोऽहं परमोऽहं वै सर्वं त्यज्य सुखीभव ॥ २९.६६ ॥

इदं सर्वं चित्तशेषं शुद्धत्वकमलीकृतम् ।
एवं सर्वं परित्यज्य विस्मृत्वा शुद्धकाष्ठवत् ॥ २९.६७ ॥

प्रेतवद्देहं संत्यज्य काष्ठवल्लोष्ठवत् सदा ।
स्मरणं च परित्यज्य ब्रह्ममात्रपरो भव ॥ २९.६८ ॥

एतत् प्रकरणं यस्तु श‍ृणोति सकृदस्ति वा ।
महापातकयुक्तोऽपि सर्वं त्यक्त्वा परं गतः ॥ २९.६९ ॥

अङ्गावबद्धाभिरुपासनाभि-
र्वदन्ति वेदाः किल त्वामसङ्गम् ।
समस्तहृत्कोशविशेषसङ्गं
भूमानमात्मानमखण्डरूपम् ॥ २९.७० ॥

इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
तन्मयभावोपदेशप्रकरणं नाम एकोनत्रिंशोऽध्यायः ॥

३० ॥ त्रिंशोऽध्यायः ॥

ऋभुः –
वक्ष्ये परं ब्रह्ममात्रं जगत्सन्त्यागपूर्वकम् ।
सकृच्छ्रवणमात्रेण ब्रह्मभावं परं लभेत् ॥ ३०.१ ॥

ब्रह्म ब्रह्मपरं मात्रं निर्गुणं नित्यनिर्मलम् ।
शाश्वतं सममत्यन्तं ब्रह्मणोऽन्यन्न विद्यते ॥ ३०.२ ॥

अहं सत्यः परानन्दः शुद्धो नित्यो निरञ्जनः ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.३ ॥

अखण्डैकरसैवास्मि परिपूर्णोऽस्मि सर्वदा ।
ब्रह्मैव सर्वं नान्योऽस्ति सर्वं ब्रह्म न संशयः ॥ ३०.४ ॥

सर्वदा केवलात्माहं सर्वं ब्रह्मेति नित्यशः ।
आनन्दरूपमेवाहं नान्यत् किञ्चिन्न शाश्वतम् ॥ ३०.५ ॥

शुद्धानन्दस्वरूपोऽहं शुद्धविज्ञानमात्मनः ।
एकाकारस्वरूपोऽहं नैकसत्ताविवर्जितः ॥ ३०.६ ॥

अन्तरज्ञानशुद्धोऽहमहमेव परायणम् ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.७ ॥

अनेकतत्त्वहीनोऽहं एकत्वं च न विद्यते ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.८ ॥

सर्वप्रकाररूपोऽस्मि सर्वं इत्यपि वर्जितः ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.९ ॥

निर्मलज्ञानरूपोऽहमहमेव न विद्यते ।
शुद्धब्रह्मस्वरूपोऽहं विशुद्धपदवर्जितः ॥ ३०.१० ॥

नित्यानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा ।
सूक्ष्मात् सूक्ष्मतरोऽहं वै सूक्ष्म इत्यादिवर्जितः ॥ ३०.११ ॥

अखण्डानन्दमात्रोऽहं अखण्डानन्दविग्रहः ।
सदाऽमृतस्वरूपोऽहं सदा कैवल्यविग्रहः ॥ ३०.१२ ॥

ब्रह्मानन्दमिदं सर्वं नास्ति नास्ति कदाचन ।
जीवत्वधर्महीनोऽहमीश्वरत्वविवर्जितः ॥ ३०.१३ ॥

वेदशास्त्रस्वरूपोऽहं शास्त्रस्मरणकारणम् ।
जगत्कारणकार्यं च ब्रह्मविष्णुमहेश्वराः ॥ ३०.१४ ॥

वाच्यवाचकभेदं च स्थूलसूक्ष्मशरीरकम् ।
जाग्रत्स्वप्नसुषुप्ताद्यप्राज्ञतैजसविश्वकाः ॥ ३०.१५ ॥

सर्वशास्त्रस्वरूपोऽहं सर्वानन्दमहं सदा ।
अतीतनामरूपार्थ अतीतः सर्वकल्पनात् ॥ ३०.१६ ॥

द्वैताद्वैतं सुखं दुःखं लाभालाभौ जयाजयौ ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.१७ ॥

सात्त्विकं राजसं भेदं संशयं हृदयं फलम् ।
दृक् दृष्टं सर्वद्रष्टा च भूतभौतिकदैवतम् ॥ ३०.१८ ॥

सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
तुर्यरूपमहं साक्षात् ज्ञानरूपमहं सदा ॥ ३०.१९ ॥

अज्ञानं चैव नास्त्येव तत्कार्यं कुत्र विद्यते ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२० ॥

चित्तवृत्तिविलासं च बुद्धीनामपि नास्ति हि ।
देहसङ्कल्पहीनोऽहं बुद्धिसङ्कल्पकल्पना ॥ ३०.२१ ॥

सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
बुद्धिनिश्चयरूपोऽहं निश्चयं च गलत्यहो ॥ ३०.२२ ॥

अहंकारं बहुविधं देहोऽहमिति भावनम् ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२३ ॥

ब्रह्माहमपि काणोऽहं बधिरोऽहं परोऽस्म्यहम् ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२४ ॥

देहोऽहमिति तादात्म्यं देहस्य परमात्मनः ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.२५ ॥

सर्वोऽहमिति तादात्म्यं सर्वस्य परमात्मनः ।
इति भावय यत्नेन ब्रह्मैवाहमिति प्रभो ॥ ३०.२६ ॥

दृढनिश्चयमेवेदं सत्यं सत्यमहं परम् ।
दृढनिश्चयमेवात्र सद्गुरोर्वाक्यनिश्चयम् ॥ ३०.२७ ॥

दृढनिश्चयसाम्राज्ये तिष्ठ तिष्ठ सदा परः ।
अहमेव परं ब्रह्म आत्मानन्दप्रकाशकः ॥ ३०.२८ ॥

शिवपूजा शिवश्चाहं विष्णुर्विष्णुप्रपूजनम् ।
यद्यत् संवेद्यते किञ्चित् यद्यन्निश्चीयते क्वचित् ॥ ३०.२९ ॥

तदेव त्वं त्वमेवाहं इत्येवं नास्ति किञ्चन ।
इदं चित्तमिदं दृश्यं इत्येवमिति नास्ति हि ॥ ३०.३० ॥

सदसद्भावशेषोऽपि तत्तद्भेदं न विद्यते ।
सुखरूपमिदं सर्वं सुखरूपमिदं न च ॥ ३०.३१ ॥

लक्षभेदं सकृद्भेदं सर्वभेदं न विद्यते ।
ब्रह्मानन्दो न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.३२ ॥

ब्रह्मभेदं तुर्यभेदं जीवभेदमभेदकम् ।
इदमेव हि नोत्पन्नं सर्वदा नास्ति किञ्चन ॥ ३०.३३ ॥

स देवमिति निर्देशो नास्ति नास्त्येव सर्वदा ।
अस्ति चेत् किल वक्तव्यं नास्ति चेत् कथमुच्यते ॥ ३०.३४ ॥

परं विशेषमेवेति नास्ति किञ्चित् सदा मयि ।
चञ्चलं मनश्चैव नास्ति नास्ति न संशयः ॥ ३०.३५ ॥

एवमेव सदा पूर्णो निरीहस्तिष्ठ शान्तधीः ।
सर्वं ब्रह्मास्मि पूर्णोऽस्मि एवं च न कदाचन ॥ ३०.३६ ॥

आनन्दोऽहं वरिष्ठोऽहं ब्रह्मास्मीत्यपि नास्ति हि ।
ब्रह्मानन्दमहानन्दमात्मानन्दमखण्डितम् ॥ ३०.३७ ॥

इदं परमहन्ता च सर्वदा नास्ति किञ्चन ।
इदं सर्वमिति ख्याति आनन्दं नेति नो भ्रमः ॥ ३०.३८ ॥

सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
लक्ष्यलक्षणभावं च दृश्यदर्शनदृश्यता ॥ ३०.३९ ॥

अत्यन्ताभावमेवेति सर्वदानुभवं महत् ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.४० ॥

गुह्यं मन्त्रं गुणं शास्त्रं सत्यं श्रोत्रं कलेवरम् ।
मरणं जननं कार्यं कारणं पावनं शुभम् ॥ ३०.४१ ॥

कामक्रोधौ लोभमोहौ मदो मात्सर्यमेव हि ।
द्वैतदोषं भयं शोकं सर्वं नास्त्येव सर्वदा ॥ ३०.४२ ॥

इदं नास्त्येव नास्त्येव नास्त्येव सकलं सुखम् ।
इदं ब्रह्मेति मननमहं ब्रह्मेति चिन्तनम् ॥ ३०.४३ ॥

अहं ब्रह्मेति मननं त्वं ब्रह्मत्वविनाशनम् ।
सत्यत्वं ब्रह्मविज्ञानं असत्यत्वं न बाध्यते ॥ ३०.४४ ॥

एक एव परो ह्यात्मा एकत्वश्रान्तिवर्जितः ।
सर्वं ब्रह्म सदा ब्रह्म तद्ब्रह्माहं न संशयः ॥ ३०.४५ ॥

जीवरूपा जीवभावा जीवशब्दत्रयं न हि ।
ईशरूपं चेशभावं ईशशब्दं च कल्पितम् ॥ ३०.४६ ॥

नाक्षरं न च सर्वं वा न पदं वाच्यवाचकम् ।
हृदयं मन्त्रतन्त्रं च चित्तं बुद्धिर्न किञ्चन ॥ ३०.४७ ॥

मूढो ज्ञानी विवेकी वा शुद्ध इत्यपि नास्ति हि ।
निश्चयं प्रणवं तारं आत्मायं गुरुशिष्यकम् ॥ ३०.४८ ॥

तूष्णीं तूष्णीं महातूष्णीं मौनं वा मौनभावनम् ।
प्रकाशनं प्रकाशं च आत्मानात्मविवेचनम् ॥ ३०.४९ ॥

ध्यानयोगं राजयोगं भोगमष्टाङ्गलक्षणम् ।
सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०.५० ॥

अस्तित्वभाषणं चापि नास्तित्वस्य च भाषणम् ।
पञ्चाशद्वर्णरूपोऽहं चतुःषष्टिकलात्मकः ॥ ३०.५१ ॥

सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
ब्रह्मैवाहं प्रसन्नात्मा ब्रह्मैवाहं चिदव्ययः ॥ ३०.५२ ॥

शास्त्रज्ञानविदूरोऽहं वेदज्ञानविदूरकः ।
उक्तं सर्वं परं ब्रह्म नास्ति सन्देहलेशतः ॥ ३०.५३ ॥

सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।
ब्रह्मैवाहं प्रसन्नात्मा ब्रह्मैवाहं चिदव्ययः ॥ ३०.५४ ॥

इत्येवं ब्रह्मतन्मात्रं तत्र तुभ्यं प्रियं ततः ।
यस्तु बुद्ध्येत सततं सर्वं ब्रह्म न संशयः ।
नित्यं श‍ृण्वन्ति ये मर्त्यास्ते चिन्मात्रमयामलाः ॥ ३०.५५ ॥

सन्देहसन्देहकरोऽर्यकास्वकैः
करादिसन्दोहजगद्विकारिभिः ।
यो वीतमोहं न करोति दुर्हृदं
विदेहमुक्तिं शिवदृक्प्रभावतः ॥ ३०.५६ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ब्रह्मैकरूपत्वनिरूपणप्रकरणं नाम त्रिंशोऽध्यायः ॥

३१ ॥ एकत्रिंशोऽध्यायः ॥

ऋभुः –
वक्ष्ये रहस्यमत्यन्तं साक्षाद्ब्रह्मप्रकाशकम् ।
सर्वोपनिषदामर्थं सर्वलोकेषु दुर्लभम् ॥ ३१.१ ॥

प्रज्ञानं ब्रह्म निश्चित्य पदद्वयसमन्वितम् ।
महावाक्यं चतुर्वाक्यं ऋग्यजुःसामसंभवम् ॥ ३१.२ ॥

मम प्रज्ञैव ब्रह्माहं ज्ञानमात्रमिदं जगत् ।
ज्ञानमेव जगत् सर्वं ज्ञानादन्यन्न विद्यते ॥ ३१.३ ॥

ज्ञानस्यानन्तरं सर्वं दृश्यते ज्ञानरूपतः ।
ज्ञानस्य ब्रह्मणश्चापि ममेव पृथङ् न हि ॥ ३१.४ ॥

जीवः प्रज्ञानशब्दस्य ब्रह्मशब्दस्य चेश्वरः ।
ऐक्यमस्मीत्यखण्डार्थमखण्डैकरसं ततम् ॥ ३१.५ ॥

अखण्डाकारवृत्तिस्तु जीवन्मुक्तिरितीरितम् ।
अखण्डैकरसं वस्तु विदेहो मुक्तिरुच्यते ॥ ३१.६ ॥

ब्रह्मैवाहं न संसारी सच्चिदानन्दमस्म्यहम् ।
निर्गुणोऽहं निरंशोऽहं परमानन्दवानहम् ॥ ३१.७ ॥

नित्योऽहं निर्विकल्पोऽहं चिदहं चिदहं सदा ।
अखण्डाकारवृत्त्याख्यं चित्तं ब्रह्मात्मना स्थितम् ॥ ३१.८ ॥

लवणं तोयमात्रेण यथैकत्वमखण्डितम् ।
अखण्डैकरसं वक्ष्ये विदेहो मुक्तिलक्षणम् ॥ ३१.९ ॥

प्रज्ञापदं परित्यज्य ब्रह्मैव पदमेव हि ।
अहमस्मि महानस्मि सिद्धोऽस्मीति परित्यजन् ॥ ३१.१० ॥

स्मरणं च परित्यज्य भावनं चित्तकर्तृकम् ।
सर्वमन्तः परित्यज्य सर्वशून्यं परिस्थितिः ॥ ३१.११ ॥

तूष्णीं स्थितिं च सन्त्यज्य ततो मौनविकल्पनम् ।
यत्तच्चित्तं विकल्पांशं मनसा कल्पितं जगत् ॥ ३१.१२ ॥

देहोऽहमित्यहङ्कारं द्वैतवृत्तिरितीरितम् ।
सर्वं साक्षिरहं ब्रह्म इत्येवं दृढनिश्चयम् ॥ ३१.१३ ॥

सर्वदाऽसंशयं ब्रह्म साक्षिवृत्तिरितीरितम् ।
द्वैतवृत्तिः साक्षवृत्तिरखण्डाकारवृत्तिकम् ॥ ३१.१४ ॥

अखण्डैकरसं चेति लोके वृत्तित्रयं भवेत् ।
प्रथमे निश्चिते द्वैते द्वितीये साक्षिसंशयः ॥ ३१.१५ ॥

तृतीये पदभागे हि दृढनिश्चयमीरितम् ।
एतत्त्रयार्थं संशोध्य तं परित्यज्य निश्चिनु ॥ ३१.१६ ॥

अखण्डैकरसाकारो नित्यं तन्मयतां व्रज ।
अभ्यासवाक्यमेतत्तु सदाऽभ्यासस्य कारणम् ॥ ३१.१७ ॥

मननस्य परं वाक्यं योऽयं चन्दनवृक्षवत् ।
युक्तिभिश्चिन्तनं वृत्तं पदत्रयमुदाहृतम् ॥ ३१.१८ ॥

अहं पदस्य जीवोऽर्थ ईशो ब्रह्मपदस्य हि ।
अस्मीति पदभागस्य अखण्डाकारवृत्तिकम् ॥ ३१.१९ ॥

पदत्रयं परित्यज्य विचार्य मनसा सह ।
अखण्डैकरसं प्राप्य विदेहो मुक्तिलक्षणम् ॥ ३१.२० ॥

अहं ब्रह्मास्मि चिन्मात्रं सच्चिदानन्दविग्रहः ।
अहं ब्रह्मास्मि वाक्यस्य श्रवणानन्तरं सदा ॥ ३१.२१ ॥

अहं ब्रह्मास्मि नित्योऽस्मि शान्तोऽस्मि परमोऽस्म्यहम् ।
निर्गुणोऽहं निरीहोऽहं निरंशोऽस्मि सदा स्मृतः ॥ ३१.२२ ॥ var was निर्यशोऽस्मि
आत्मैवास्मि न सन्देहः अखण्डैकरसोऽस्म्यहम् ।
एवं निरन्तरं तज्ज्ञो भावयेत् परमात्मनि ॥ ३१.२३ ॥

यथा चानुभवं वाक्यं तस्मादनुभवेत् सदा ।
आरंभाच्च द्वितीयात्तु स्मृतमभ्यासवाक्यतः ॥ ३१.२४ ॥

तृतीयान्तत्त्वमस्येति वाक्यसामान्यनिर्णयम् ।
तत्पदं त्वंपदं त्वस्य पदत्रयमुदाहृतम् ॥ ३१.२५ ॥

तत्पदस्येश्वरो ह्यर्थो जीवोऽर्थस्त्वंपदस्य हि ।
ऐक्यस्यापि पदस्यार्थमखण्डैकरसं पदम् ॥ ३१.२६ ॥

द्वैतवृत्तिः साक्षवृत्तिरखण्डाकारवृत्तिकः ।
अखण्डं सच्चिदानन्दं तत्त्वमेवासि निश्चयः ॥ ३१.२७ ॥

त्वं ब्रह्मासि न सन्देहस्त्वमेवासि चिदव्ययः ।
त्वमेव सच्चिदानन्दस्त्वमेवाखण्डनिश्चयः ॥ ३१.२८ ॥

इत्येवमुक्तो गुरुणा स एव परमो गुरुः ।
अहं ब्रह्मेति निश्चित्य सच्छिष्यः परमात्मवान् ॥ ३१.२९ ॥

नान्यो गुरुर्नान्यशिष्यस्त्वं ब्रह्मासि गुरुः परः ।
सर्वमन्त्रोपदेष्टारो गुरवः स गुरुः परः ॥ ३१.३० ॥

त्वं ब्रह्मासीति वक्तारं गुरुरेवेति निश्चिनु ।
तथा तत्त्वमसि ब्रह्म त्वमेवासि च सद्गुरुः ॥ ३१.३१ ॥

सद्गुरोर्वचने यस्तु निश्चयं तत्त्वनिश्चयम् ।
करोति सततं मुक्तेर्नात्र कार्या विचारणा ॥ ३१.३२ ॥

महावाक्यं गुरोर्वाक्यं तत्त्वमस्यादिवाक्यकम् ।
श‍ृणोतु श्रवणं चित्तं नान्यत् श्रवणमुच्यते ॥ ३१.३३ ॥

सर्ववेदान्तवाक्यानामद्वैते ब्रह्मणि स्थितिः ।
इत्येवं च गुरोर्वक्त्रात् श्रुतं ब्रह्मेति तच्छ्रवः ॥ ३१.३४ ॥

गुरोर्नान्यो मन्त्रवादी एक एव हि सद्गुरुः ।
त्वं ब्रह्मासीति येनोक्तं एष एव हि सद्गुरुः ॥ ३१.३५ ॥

वेदान्तश्रवणं चैतन्नान्यच्छ्रवणमीरितम् ।
युक्तिभिश्चिन्तनं चैव मननं परिकथ्यते ॥ ३१.३६ ॥

एवं चन्दनवृक्षोऽपि श्रुतोऽपि परिशोध्यते ।
त्वं ब्रह्मासीति चोक्तोऽपि संशयं परिपश्यति ॥ ३१.३७ ॥

संशोध्य निश्चिनोत्येवमात्मानं परिशोध्यते ।
युक्तिर्नाम वदाम्यत्र देहोनाहं विनाशतः ॥ ३१.३८ ॥

स्थूलदेहं सूक्ष्मदेहं स्थूलसूक्ष्मं च कारणम् ।
त्रयं चथुर्थे नास्तीति सर्वं चिन्मात्रमेव हि ॥ ३१.३९ ॥

एतत्सर्वं जडत्वाच्च दृश्यत्वाद्घटवन्नहि ।
अहं चैतन्यमेवात्र दृग्रूपत्वाल्लयं न हि ॥ ३१.४० ॥

सत्यं ज्ञानमनन्तं यदात्मनः सहजा गुणाः ।
अन्ततं जडदुःखादि जगतः प्रथितो गुणः ॥ ३१.४१ ॥

तस्मादहं ब्रह्म एव इदं सर्वमसत्यकम् ।
एवं च मननं नित्यं करोति ब्रह्मवित्तमः ॥ ३१.४२ ॥

वक्ष्ये निदिध्यासनं च उभयत्यागलक्षणम् ।
त्वं ब्रह्मासीति श्रवणं मननं चाहमेव हि ॥ ३१.४३ ॥

एतत्त्यागं निदिध्यासं सजातीयत्वभावनम् ।
विजातीयपरित्यागं स्वगतत्वविभावनम् ॥ ३१.४४ ॥

सर्वत्यागं परित्यज्य तुरीयत्वं च वर्जनम् ।
ब्रह्मचिन्मात्रसारत्वं साक्षात्कारं प्रचक्षते ॥ ३१.४५ ॥

उपदेशे महावाक्यमस्तित्वमिति निर्णयः ।
तथैवानुभवं वाक्यमहं ब्रह्मास्मि निर्णयः ॥ ३१.४६ ॥

प्रज्ञानं ब्रह्मवाक्योत्थमभ्यासार्थमितीरितम् ।
अयमात्मेति वाक्योत्थदर्शनं वाक्यमीरितम् ॥ ३१.४७ ॥

अयमेकपदं चैक आत्मेति ब्रह्म च त्रयम् ।
अयंपदस्य जीवोऽर्थ आत्मनो ईश्वरः परः ॥ ३१.४८ ॥

तथा ब्रह्मपदस्यार्थ अखण्डाकारवृत्तिकम् ।
अखण्डैकरसं सर्वं पदत्रयलयं गतम् ॥ ३१.४९ ॥

अखण्डैकरसो ह्यात्मा नित्यशुद्धविमुक्तकः ।
तदेव सर्वमुद्भूतं भविष्यति न संशयः ॥ ३१.५० ॥

अखण्डैकरसो देव अयमेकमुदीरितम् ।
आत्मेति पदमेकस्य ब्रह्मेति पदमेककम् ॥ ३१.५१ ॥

अयं पदस्य जीवोऽर्थ आत्मेतीश्वर ईरितः ।
अस्यार्थोऽस्मीत्यखण्डार्थमखण्डैकरसं पदम् ॥ ३१.५२ ॥

द्वैतवृत्तिः साक्षिवृत्तिरखण्डाकारवृत्तिकम् ।
अखण्डैकरसं पश्चात् सोऽहमस्मीति भावय ॥ ३१.५३ ॥

इत्येवं च चतुर्वाक्यतात्पर्यार्थं समीरितम् ।
उपाधिसहितं वाक्यं केवलं लक्ष्यमीरितम् ॥ ३१.५४ ॥

किञ्चिज्ज्ञत्वादि जीवस्य सर्व ज्ञत्वादि चेश्वरः ।
जीवोऽपरो सचैतन्यमीश्वरोऽहं परोक्षकः ॥ ३१.५५ ॥

सर्वशून्यमिति त्याज्यं ब्रह्मास्मीति विनिश्चयः ।
अहं ब्रह्म न सन्देहः सच्चिदानन्दविग्रहः ॥ ३१.५६ ॥

अहमैक्यं परं गत्वा स्वस्वभावो भवोत्तम ।
एतत्सर्वं महामिथ्या नास्ति नास्ति न संशयः ॥ ३१.५७ ॥

सर्वं नास्ति न सन्देहः सर्वं ब्रह्म न संशयः ।
एकाकारमखण्डार्थं तदेवाहं न संशयः ।
ब्रह्मेदं वितताकारं तद्ब्रह्माहं न संशयः ॥ ३१.५८ ॥

सूतः –
भवोद्भवमुखोद्भवं भवहराद्यहृद्यं भुवि
प्रकृष्टरसभावतः प्रथितबोधबुद्धं भव ।
भजन्ति भसिताङ्गका भरितमोदभारादरा
भुजङ्गवरभूषणं भुवनमध्यवृन्दावनम् ॥ ३१.५९ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
महावाक्यार्थनिरूपणप्रकरणं नाम एकत्रिंशोऽध्यायः ॥

३२ ॥ द्वात्रिंशोऽध्यायः ॥

ऋभुः –
वक्ष्ये पुनरसत्त्यागं ब्रह्मनिश्चयमेव च ।
यस्य श्रवणमात्रेण सद्यो मुक्तो भवेन्नरः ॥ ३२.१ ॥

चित्तसत्ता मनःसत्ता ब्रह्मसत्ताऽन्यथा स्थिता ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२ ॥

देहसत्ता लिङ्गसत्ता भावसत्ताऽक्षरा स्थिता ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.३ ॥

दृश्यं च दर्शनं दृष्टा कर्ता कारयिता क्रिया ।var was द्रष्टा
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.४ ॥

एकं द्वित्वं पृथग्भावं अस्ति नास्तीति निर्णयः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.५ ॥

शास्त्रभेदं वेदभेदं मुक्तीनां भेदभावनम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.६ ॥

जातिभेदं वर्णभेदं शुद्धाशुद्धविनिर्णयः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.७ ॥

अखण्डाकारवृत्तिश्च अखण्डैकरसं परम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.८ ॥

परापरविकल्पश्च पुण्यपापविकल्पनम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.९ ॥

कल्पनाकल्पनाद्वैतं मनोकल्पनभावनम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१० ॥

सिद्धं साध्यं साधनं च नाशनं ब्रह्मभावनम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.११ ॥

आत्मज्ञानं मनोधर्मं मनोऽभावे कुतो भवेत् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१२ ॥

अज्ञानं च मनोधर्मस्तदभावे च तत्कुतः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१३ ॥

शमो दमो मनोधर्मस्तदभावे च तत्कुतः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१४ ॥

बन्धमोक्षौ मनोधर्मौ तदभावे कुतो भवेत् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१५ ॥

सर्वं मिथ्या जगन्मिथ्या देहो मिथ्या जडत्वतः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१६ ॥

ब्रह्मलोकः सदा मिथ्या बुद्धिरूपं तदेव हि ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१७ ॥

विष्णुलोकः सदा मिथ्या शिवमेव हि सर्वदा ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१८ ॥

रुद्रलोकः सदा मिथ्या अहंकारस्वरूपतः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१९ ॥

चन्द्रलोकः सदा मिथ्या मनोरूपविकल्पनम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२० ॥

दिशो लोकः सदा मिथ्या श्रोत्रशब्दसमन्वितः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२१ ॥

सूर्यलोकः सदा मिथ्या नेत्ररूपसमन्वितः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२२ ॥

वरुणस्य सदा लोको जिह्वारससमन्वितः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२३ ॥

त्वचो लोकः सदा मिथ्या वायोः स्पर्शसमन्वितः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२४ ॥

अश्विनोर्घ्राणलोकश्च गन्धद्वैतसमन्वितः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२५ ॥

अग्नेर्लोकः सदा मिथ्या वागेव वचनेन तत् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२६ ॥

इन्द्रलोकः सदा मिथ्या पाणिपादेन संयुतः ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२७ ॥

उपेन्द्रस्य महर्लोको गमनेन पदं युतम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२८ ॥

मृत्युरेव सदा नास्ति पायुरेव विसर्गकम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२९ ॥

प्रजापतेर्महर्लोको गुह्यमानन्दसंयुतम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.३० ॥

सर्वं मिथ्या न सन्देहः सर्वमात्मेति निश्चितम् ।
तितिक्षोश्च समाधानं श्रद्धा चाचार्यभाषणे ॥ ३२.३१ ॥

मुमुक्षुत्वं च मोक्षश्च मोक्षार्थे मम जीवने ।
चतुःसाधनसम्पन्नः सोऽधिकारीति निश्चयः ॥ ३२.३२ ॥

जीवब्रह्मैक्यसद्भावं वियद्ब्रह्मेति निश्चयः ।
वेदान्तब्रह्मणो बोध्यं बोधकं बन्धमुच्यते ॥ ३२.३३ ॥

सर्वज्ञाननिर्वृत्तिश्चेदानन्दावाप्तिकं फलम् ।var was निवृत्ति
इत्येवमादिभिः शब्दैः प्रोक्तं सर्वमसत् सदा ॥ ३२.३४ ॥

सर्वशब्दार्थरूपं च निश्चयं भावनं तथा ।
ब्रह्ममात्रं परं सत्यमन्यत् सर्वमसत् सदा ॥ ३२.३५ ॥

अनेकशब्दश्रवणमनेकार्थविचारणम् ।
सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.३६ ॥

नानुध्यायाद्ब्रह्मशब्दान् इत्युक्त्वा ह महानसि ।
ब्रह्मोपदेशकाले तु सर्वं चोक्तं न संशयः ॥ ३२.३७ ॥

ब्रह्मैवाहमिदं द्वैतं चित्तसत्ताविभावनम् ।
चिन्मात्रोऽहमिदं द्वैतं जीवब्रह्मेति भावनम् ॥ ३२.३८ ॥

अहं चिन्मात्रमन्त्रं वा कार्यकारणचिन्तनम् ।
अक्षयानन्दविज्ञानमखण्डैकरसाद्वयम् ॥ ३२.३९ ॥

परं ब्रह्म इदं ब्रह्म शान्तं ब्रह्म स्वयं जगत् ।
अन्तरिन्द्रियविज्ञानं बाह्येन्द्रियनिरोधनम् ॥ ३२.४० ॥

सर्वोपदेशकालं च साम्यं शेषं महोदयम् ।
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥ ३२.४१ ॥

कारणं कार्यभेदं च शास्त्रमार्गैककल्पनम् ।
अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मेति शब्दतः ॥ ३२.४२ ॥

सत्यरूपं क्वचिन्नास्ति सत्यं नाम कदा नहि ।
संशयं च विपर्यासं सङ्कल्पः कारणं भ्रमः ॥ ३२.४३ ॥

आत्मनोऽन्यत् क्वचिन्नास्ति सर्वं मिथ्या न संशयः ।
महतां ह्यद्यते मन्त्री मेधाशुद्धिशुभाशुभम् ॥ ३२.४४ ॥

देशभेदं वस्तुभेदं न च चैतन्यभेदकम् ।
आत्मनोऽन्यत् पृथग्भावमात्मनोऽन्यन्निरूपणम् ॥ ३२.४५ ॥

आत्मनोऽन्यन्नामरूपमात्मनोऽन्यच्छुभाशुभम् ।
आत्मनोऽन्यद्वस्तुसत्ता आत्मनोऽन्यज्जगत्त्रयम् ॥ ३२.४६ ॥

आत्मनोऽन्यत् सुःखं दुःखमात्मनोऽन्यद्विचिन्तनम् ।
आत्मनोऽन्यत्प्रपञ्चं वा आत्मनोऽन्यज्जयाजयौ ॥ ३२.४७ ॥

आत्मनोऽन्यद्देवपूजा आत्मनोऽन्यच्छिवार्चनम् ।
आत्मनोऽन्यन्महाध्यानमात्मनोऽन्यत् कलाक्रमम् ॥ ३२.४८ ॥

सर्वं मिथ्या न सन्देहो ब्रह्म सर्वं न संशयः ।
सर्वमुक्तं भगवता निदिध्यासस्तु सर्वदा ॥ ३२.४९ ॥

सकृच्छ्रवणमात्रेण हृदयग्रन्थिरन्तिमम् ।
कर्मनाशं च मूढानां महतां मुक्तिरेव हि ॥ ३२.५० ॥

अनेककोटिजननपातकं भस्मसाद्भवेत् ।
सत्यं सत्यं पुनः सत्यं सत्यं सर्वं विनश्यति ।
सद्यो मुक्तिर्न सन्देहो नास्ति मङ्गलमङ्गलम् ॥ ३२.५१ ॥

क्व भेदभावदर्शनं न चैव शोकमोहहृत्
प्रपश्यतां श्रुते शिखाविशेषमैक्यभावनात् ।
यतो भवेज्जगाद तं महेश येन जीवितं
यदन्तराऽविशत् सदा यथोर्णनाभतन्तुवत् ॥ ३२.५२ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
सर्वमिथ्यात्वनिरूपणप्रकरणं नाम द्वात्रिंशोऽध्यायः ॥

३३ ॥ त्रयस्त्रिंशोऽध्यायः ॥

ऋभुः –
वक्ष्ये परं ब्रह्ममात्रमनुत्पन्नमिदं जगत् ।
सत्पदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ॥ ३३.१ ॥

आत्मैवाहं परं ब्रह्म नान्यत् संसारदृष्टयः ।
सत्पदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ॥ ३३.२ ॥

सत्पदानन्दमात्रोऽहं चित्पदानन्दविग्रहम् ।
अहमेवाहमेवैकमहमेव परात् परः ॥ ३३.३ ॥

सच्चिदानदमेवैकमहं ब्रह्मैव केवलम् ।
अहमस्मि सदा भामि एवं रूपं कुतोऽप्यसत् ॥ ३३.४ ॥

त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् ।
चिदाकारं चिदाकाशं चिदेव परमं सुखम् ॥ ३३.५ ॥

आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः ।
कालं नास्ति जगन्नास्ति कल्मषत्वानुभावनम् ॥ ३३.६ ॥

अहमेव परं ब्रह्म अहमेव सदा शिवः ।
शुद्धचैतन्य एवाहं शुद्धसत्वानुभावनः ॥ ३३.७ ॥

अद्वयानन्दमात्रोऽहमव्ययोऽहं महानहम् ।
सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव निर्मलः ॥ ३३.८ ॥

सर्वं ब्रह्मैव नान्योऽस्ति सर्वं ब्रह्मैव चेतनः ।
सर्वप्रकाशरूपोऽहं सर्वप्रियमनो ह्यहम् ॥ ३३.९ ॥

एकान्तैकप्रकाशोऽहं सिद्धासिद्धविवर्जितः ।
सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणम् ॥ ३३.१० ॥

शमो विचारसन्तोषरूपोऽहमिति निश्चयः ।
परमात्मा परं ज्योतिः परं परविवर्जितः ॥ ३३.११ ॥

परिपूर्णस्वरूपोऽहं परमात्माऽहमच्युतः ।
सर्ववेदस्वरूपोऽहं सर्वशास्त्रस्य निर्णयः ॥ ३३.१२ ॥

लोकानन्दस्वरूपोऽहं मुख्यानन्दस्य निर्णयः ।
सर्वं ब्रह्मैव भूर्नास्ति सर्वं ब्रह्मैव कारणम् ॥ ३३.१३ ॥

सर्वं ब्रह्मैव नाकार्यं सर्वं ब्रह्म स्वयं वरः ।
नित्याक्षरोऽहं नित्योऽहं सर्वकल्याणकारकम् ॥ ३३.१४ ॥

सत्यज्ञानप्रकाशोऽहं मुख्यविज्ञानविग्रहः ।
तुर्यातुर्यप्रकाशोऽहं सिद्धासिद्धादिवर्जितः ॥ ३३.१५ ॥

सर्वं ब्रह्मैव सततं सर्वं ब्रह्म निरन्तरम् ।
सर्वं ब्रह्म चिदाकाशं नित्यब्रह्म निरञ्जनम् ॥ ३३.१६ ॥

सर्वं ब्रह्म गुणातीतं सर्वं ब्रह्मैव केवलम् ।
सर्वं ब्रह्मैव इत्येवं निश्चयं कुरु सर्वदा ॥ ३३.१७ ॥

ब्रह्मैव सर्वमित्येवं सर्वदा दृढनिश्चयः ।
सर्वं ब्रह्मैव इत्येवं निश्चयित्वा सुखी भव ॥ ३३.१८ ॥

सर्वं ब्रह्मैव सततं भावाभावौ चिदेव हि ।
द्वैताद्वैतविवादोऽयं नास्ति नास्ति न संशयः ॥ ३३.१९ ॥

सर्वविज्ञानमात्रोऽहं सर्वं ब्रह्मेति निश्चयः ।
गुह्याद्गुह्यतरं सोऽहं गुणातीतोऽहमद्वयः ॥ ३३.२० ॥

अन्वयव्यतिरेकं च कार्याकार्यं विशोधय ।
सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् ॥ ३३.२१ ॥

ब्रह्मैव सर्वमेवेदं चिदाकाशमिदं जगत् ।
ब्रह्मैव परमानन्दं आकाशसदृशं विभु ॥ ३३.२२ ॥

ब्रह्मैव सच्चिदानन्दं सदा वाचामगोचरम् ।
ब्रह्मैव सर्वमेवेदमस्ति नास्तीति केचन ॥ ३३.२३ ॥

आनन्दभावना किञ्चित् सदसन्मात्र एव हि ।
ब्रह्मैव सर्वमेवेदं सदा सन्मात्रमेव हि ॥ ३३.२४ ॥

ब्रह्मैव सर्वमेवदं चिद्घनानन्दविग्रहम् ।
ब्रह्मैव सच्च सत्यं च सनातनमहं महत् ॥ ३३.२५ ॥

ब्रह्मैव सच्चिदानन्दं ओतप्रोतेव तिष्ठति ।
ब्रह्मैव सच्चिदानन्दं सर्वाकारं सनातनम् ॥ ३३.२६ ॥

ब्रह्मैव सच्चिदानन्दं परमानदमव्ययम् ।
ब्रह्मैव सच्चिदानन्दं मायातीतं निरञ्जनम् ॥ ३३.२७ ॥

ब्रह्मैव सच्चिदानन्दं सत्तामात्रं सुखात् सुखम् ।
ब्रह्मैव सच्चिदानन्दं चिन्मात्रैकस्वरूपकम् ॥ ३३.२८ ॥

ब्रह्मैव सच्चिदानन्दं सर्वभेदविवर्जितम् ।
सच्चिदानन्दं ब्रह्मैव नानाकारमिव स्थितम् ॥ ३३.२९ ॥

ब्रह्मैव सच्चिदानन्दं कर्ता चावसरोऽस्ति हि ।
सच्चिदानदं ब्रह्मैव परं ज्योतिः स्वरूपकम् ॥ ३३.३० ॥

ब्रह्मैव सच्चिदानन्दं नित्यनिश्चलमव्ययम् ।
ब्रह्मैव सच्चिदानन्दं वाचावधिरसावयम् ॥ ३३.३१ ॥

ब्रह्मैव सच्चिदानन्दं स्वयमेव स्वयं सदा ।
ब्रह्मैव सच्चिदानन्दं न करोति न तिष्ठति ॥ ३३.३२ ॥

ब्रह्मैव सच्चिदानन्दं न गच्छति न तिष्ठति ।
ब्रह्मैव सच्चिदानन्दं ब्रह्मणोऽन्यन्न किञ्चन ॥ ३३.३३ ॥

ब्रह्मैव सच्चिदानन्दं न शुक्लं न च कृष्णकम् ।
ब्रह्मैव सच्चिदानन्दं सर्वाधिष्ठानमव्ययम् ॥ ३३.३४ ॥

ब्रह्मैव सच्चिदानन्दं न तूष्णीं न विभाषणम् ।
ब्रह्मैव सच्चिदानन्दं सत्त्वं नाहं न किञ्चन ॥ ३३.३५ ॥

ब्रह्मैव सच्चिदानन्दं परात्परमनुद्भवम् ।
ब्रह्मैव सच्चिदानन्दं तत्त्वातीतं महोत्सवम् ॥ ३३.३६ ॥

ब्रह्मैव सच्चिदानन्दं परमाकाशमाततम् ।
ब्रह्मैव सच्चिदानन्दं सर्वदा गुरुरूपकम् ॥ ३३.३७ ॥

ब्रह्मैव सच्चिदानन्दं सदा निर्मलविग्रहम् ।
ब्रह्मैव सच्चिदानन्दं शुद्धचैतन्यमाततम् ॥ ३३.३८ ॥

ब्रह्मैव सच्चिदानन्दं स्वप्रकाशात्मरूपकम् ।
ब्रह्मैव सच्चिदानन्दं निश्चयं चात्मकारणम् ॥ ३३.३९ ॥

ब्रह्मैव सच्चिदानन्दं स्वयमेव प्रकाशते ।
ब्रह्मैव सच्चिदानन्दं नानाकार इति स्थितम् ॥ ३३.४० ॥

ब्रह्मैव सच्चिदाकारं भ्रान्ताधिष्ठानरूपकम् ।
ब्रह्मैव सच्चिदानन्दं सर्वं नास्ति न मे स्थितम् ॥ ३३.४१ ॥

वाचामगोचरं ब्रह्म सच्चिदानदविग्रहम् ।
सच्चिदानन्दरूपोऽहमनुत्पन्नमिदम् जगत् ॥ ३३.४२ ॥

ब्रह्मैवेदं सदा सत्यं नित्यमुक्तं निरञ्जनम् ।
सच्चिदानन्दं ब्रह्मैव एकमेव सदा सुखम् ॥ ३३.४३ ॥

सच्चिदानन्दं ब्रह्मैव पूर्णात् पूर्णतरं महत् ।
सच्चिदानन्दं ब्रह्मैव सर्वव्यापकमीश्वरम् ॥ ३३.४४ ॥

सच्चिदानन्दं ब्रह्मैव नामरूपप्रभास्वरम् ।
सच्चिदानन्दं ब्रह्मैव अनन्तानन्दनिर्मलम् ॥ ३३.४५ ॥

सच्चिदानन्दं ब्रह्मैव परमानन्ददायकम् ।
सच्चिदानन्दं ब्रह्मैव सन्मात्रं सदसत्परम् ॥ ३३.४६ ॥

सच्चिदानन्दं ब्रह्मैव सर्वेषां परमव्ययम् ।
सच्चिदानन्दं ब्रह्मैव मोक्षरूपं शुभाशुभम् ॥ ३३.४७ ॥

सच्चिदानन्दं ब्रह्मैव परिच्छिन्नं न हि क्वचित् ।
ब्रह्मैव सर्वमेवेदं शुद्धबुद्धमलेपकम् ॥ ३३.४८ ॥

सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् ।
एतत् प्रकरणं सत्यं सद्योमुक्तिप्रदायकम् ॥ ३३.४९ ॥

सर्वदुःखक्षयकरं सर्वविज्ञानदायकम् ।
नित्यानन्दकरं सत्यं शान्तिदान्तिप्रदायकम् ॥ ३३.५० ॥

यस्त्वन्तकान्तकमहेश्वरपादपद्म-
लोलम्बसप्रभहृदा परिशीलकश्च ।
वृन्दारवृन्दविनतामलदिव्यपादो
भावो भवोद्भवकृपावशतो भवेच्च ॥ ३३.५१ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
सच्चिदानन्दरूपताप्रकरणं नाम त्रयस्त्रिंशोऽध्यायः ॥

३४ ॥ चतुस्त्रिंशोऽध्यायः ॥

ऋभुः –
श‍ृणुष्व ब्रह्म विज्ञानमद्भुतं त्वतिदुर्लभम् ।
एकैकश्रवणेनैव कैवल्यं परमश्नुते ॥ ३४.१ ॥

सत्यं सत्यं जगन्नास्ति संकल्पकलनादिकम् ।
नित्यानन्दमयं ब्रह्मविज्ञानं सर्वदा स्वयम् ॥ ३४.२ ॥

आनन्दमव्ययं शान्तमेकरूपमनामयम् ।
चित्तप्रपञ्चं नैवास्ति नास्ति कार्यं च तत्त्वतः ॥ ३४.३ ॥

प्रपञ्चभावना नास्ति दृश्यरूपं न किञ्चन ।
असत्यरूपं सङ्कल्पं तत्कार्यं च जगन्न हि ॥ ३४.४ ॥

सर्वमित्येव नास्त्येव कालमित्येवमीश्वरः ।
वन्ध्याकुमारे भीतिश्च तदधीनमिदं जगत् ॥ ३४.५ ॥

गन्धर्वनगरे श‍ृङ्गे मदग्रे दृश्यते जगत् ।
मृगतृष्णाजलं पीत्वा तृप्तिश्चेदस्त्विदं जगत् ॥ ३४.६ ॥

नगे श‍ृङ्गे न बाणेन नष्टं पुरुषमस्त्विदम् ।
गन्धर्वनगरे सत्ये जगद्भवतु सर्वदा ॥ ३४.७ ॥

गगने नीलमासिन्धौ जगत् सत्यं भविष्यति ।
शुक्तिकारजतं सत्यं भूषणं चिज्जगद्भवेत् ॥ ३४.८ ॥

रज्जुसर्पेण नष्टश्चेत् नरो भवति संसृतिः ।
जातिरूपेण बाणेन ज्वालाग्नौ नाशिते सति ॥ ३४.९ ॥

रंभास्तम्भेन काष्ठेन पाकसिद्धिर्जगद्भवेत् ।
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३४.१० ॥

सद्यः कुमारिकारूपैः पाके सिद्धे जगद्भवेत् ।
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३४.११ ॥

मित्याटव्यां वायसान्नं अस्ति चेज्जगदुद्भवम् ।
मूलारोपणमन्त्रस्य प्रीतिश्चेद्भाषणं जगत् ॥ ३४.१२ ॥

मासात् पूर्वं मृतो मर्त्य आगतश्चेज्जगद् भवेत् ।
तक्रं क्षीरस्वरूपं चेत् किञ्चित् किञ्चिज्जगद्भवेत् ॥ ३४.१३ ॥

गोस्तनादुद्भवं क्षीरं पुनरारोहणं जगत् ।
भूरजस्याअब्दमुत्पन्नं जगद्भवतु सर्वदा ॥ ३४.१४ ॥

कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे ।
मृणालतन्तुना मेरुश्चलितश्चेज्जगद् भवेत् ॥ ३४.१५ ॥

तरङ्गमालया सिन्धुः बद्धश्चेदस्त्विदं जगत् ।
ज्वालाग्निमण्डले पद्मं वृद्धं चेत् तज्जगद्भवेत् ॥ ३४.१६ ॥

महच्छैलेन्द्रनिलयं संभवश्चेदिदं भवेत् ।
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३४.१७ ॥

मीन आगत्य पद्माक्षे स्थितश्चेदस्त्विदं जगत् ।
निगीर्णश्चेद्भङ्गसूनुः मेरुपुच्छवदस्त्विदम् ॥ ३४.१८ ॥

मशकेनाशिते सिंहे हते भवतु कल्पनम् ।
अणुकोटरविस्तीर्णे त्रैलोक्ये चेज्जगद्भवेत् ॥ ३४.१९ ॥

स्वप्ने तिष्ठति यद्वस्तु जागरे चेज्जगद्भवेत् ।
नदीवेगो निश्चलश्चेत् जगद्भवतु सर्वदा ॥ ३४.२० ॥

जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगद्भवेत् ।
चन्द्रसूर्यादिकं त्यक्त्वा राहुश्चेत् दृश्यते जगत् ॥ ३४.२१ ॥

भ्रष्टबीजेन उत्पन्ने वृद्धिश्चेच्चित्तसंभवः ।
महादरिद्रैराढ्यानां सुखे ज्ञाते जगद्भवेत् ॥ ३४.२२ ॥

दुग्धं दुग्धगतक्षीरं पुनरारोहणं पुनः ।
केवलं दर्पणे नास्ति प्रतिबिम्बं तदा जगत् ॥ ३४.२३ ॥

यथा शून्यगतं व्योम प्रतिबिम्बेन वै जगत् ।
अजकुक्षौ गजो नास्ति आत्मकुक्षौ जगन्न हि ॥ ३४.२४ ॥

यथा तान्त्रे समुत्पन्ने तथा ब्रह्ममयं जगत् ।
कार्पासकेऽग्निदग्धेन भस्म नास्ति तथा जगत् ॥ ३४.२५ ॥

परं ब्रह्म परं ज्योतिः परस्तात् परतः परः ।
सर्वदा भेदकलनं द्वैताद्वैतं न विद्यते ॥ ३४.२६ ॥

चित्तवृत्तिर्जगद्दुःखं अस्ति चेत् किल नाशनम् ।
मनःसंकल्पकं बन्ध अस्ति चेद्ब्रह्मभावना ॥ ३४.२७ ॥

अविद्या कार्यदेहादि अस्ति चेद्द्वैतभावनम् ।
चित्तमेव महारोगो व्याप्तश्चेद्ब्रह्मभेषजम् ॥ ३४.२८ ॥

अहं शत्रुर्यदि भवेदहं ब्रह्मैव भावनम् ।
देहोऽहमिति दुखं चेद्ब्रह्माहमिति निश्चिनु ॥ ३४.२९ ॥

संशयश्च पिशाचश्चेद्ब्रह्ममात्रेण नाशय ।
द्वैतभूताविष्टरेण अद्वैतं भस्म आश्रय ॥ ३४.३० ॥

अनात्मत्वपिशाचश्चेदात्ममन्त्रेण बन्धय ।
नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३४.३१ ॥

चतुःषष्टिकदृष्टान्तैरेवं ब्रह्मैव साधितम् ।
यः श‍ृणोति नरो नित्यं स मुक्तो नात्र संशयः ॥ ३४.३२ ॥

कृतार्थ एव सततं नात्र कार्या विचारणा ॥ ३४.३३ ॥

मनोवचोविदूरगं त्वरूपगन्धवर्जितं
हृदर्भकोकसन्ततं विजानतां मुदे सदा ।
सदाप्रकाशदुज्वलप्रभाविकाससद्युति
प्रकाशदं महेश्वर त्वदीयपादपङ्कजम् ॥ ३४.३४ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
दृष्टान्तैर्ब्रह्मसाधनप्रकरणं नाम चतुस्त्रिंशोऽध्यायः ॥

३५ ॥ पञ्चत्रिंशोऽध्यायः ॥

ऋभुः –
निदाघ श‍ृणु गुह्यं मे सद्यो मुक्तिप्रदं नृणाम् ।
आत्मैव नान्यदेवेदं परमात्माहमक्षतः ॥ ३५.१ ॥

अहमेव परं ब्रह्म सच्चिदानन्दविग्रहः ।
अहमस्मि महानस्मि शिवोऽस्मि परमोऽस्म्यहम् ॥ ३५.२ ॥

अदृश्यं परमं ब्रह्म नान्यदस्ति स्वभावतः ।
सर्वं नास्त्येव नास्त्येव अहं ब्रह्मैव केवलम् ॥ ३५.३ ॥

शान्तं ब्रह्म परं चास्मि सर्वदा नित्यनिर्मलः ।
सर्वं नास्त्येव नास्त्येव अहं ब्रह्मैव केवलम् ॥ ३५.४ ॥

सर्वसङ्कल्पमुक्तोऽस्मि सर्वसन्तोषवर्जितः ।
कालकर्मजगद्द्वैतद्रष्टृदर्शनविग्रहः ॥ ३५.५ ॥

आनन्दोऽस्मि सदानन्दकेवलो जगतां प्रियम् ।
समरूपोऽस्मि नित्योऽस्मि भूतभव्यमजो जयः ॥ ३५.६ ॥

चिन्मात्रोऽस्मि सदा भुक्तो जीवो बन्धो न विद्यते ।var was मुक्तः
श्रवणं षड्विधं लिङ्गं नैवास्ति जगदीदृशम् ॥ ३५.७ ॥

चित्तसंसारहीनोऽस्मि चिन्मात्रत्वं जगत् सदा ।
चित्तमेव हितं देह अविचारः परो रिपुः ॥ ३५.८ ॥

अविचारो जगद्दुःखमविचारो महद्भयम् ।
सद्योऽस्मि सर्वदा तृप्तः परिपूर्णः परो महान् ॥ ३५.९ ॥

नित्यशुद्धोऽस्मि बुद्धोऽस्मि चिदाकाशोऽस्मि चेतनः ।
आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.१० ॥

सर्वदोषविहीनोऽस्मि सर्वत्र विततोऽस्म्यहम् ।
वाचातीतस्वरूपोऽस्मि परमात्माऽहमक्षतः ॥ ३५.११ ॥

चित्रातीतं परं द्वन्द्वं सन्तोषः समभावनम् ।
अन्तर्बहिरनाद्यन्तं सर्वभेदविनिर्णयम् ॥ ३५.१२ ॥

अहंकारं बलं सर्वं कामं क्रोधं परिग्रहम् ।
ब्रह्मेन्द्रोविष्णुर्वरुणो भावाभावविनिश्चयः ॥ ३५.१३ ॥

जीवसत्ता जगत्सत्ता मायासत्ता न किञ्चन ।
गुरुशिष्यादिभेदं च कार्याकार्यविनिश्चयः ॥ ३५.१४ ॥

त्वं ब्रह्मासीति वक्ता च अहं ब्रह्मास्मि संभवः ।
सर्ववेदान्तविज्ञानं सर्वाम्नायविचारणम् ॥ ३५.१५ ॥

इदं पदार्थसद्भावमहं रूपेण संभवम् ।
वेदवेदान्तसिद्धान्तजगद्भेदं न विद्यते ॥ ३५.१६ ॥

सर्वं ब्रह्म न सन्देहः सर्वमित्येव नास्ति हि ।
केवलं ब्रह्मशान्तात्मा अहमेव निरन्तरम् ॥ ३५.१७ ॥

शुभाशुभविभेदं च दोषादोषं च मे न हि ।
चित्तसत्ता जगत्सत्ता बुद्धिवृत्तिविजृम्भणम् ॥ ३५.१८ ॥

ब्रह्मैव सर्वदा नान्यत् सत्यं सत्यं निजं पदम् ।
आत्माकारमिदं द्वैतं मिथ्यैव न परः पुमान् ॥ ३५.१९ ॥

सच्चिदानन्दमात्रोऽहं सर्वं केवलमव्ययम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ३५.२० ॥

मनो जगदहं भेदं चित्तवृत्तिजगद्भयम् ।
सर्वानन्दमहानन्दमात्मानन्दमनन्तकम् ॥ ३५.२१ ॥

अत्यन्तस्वल्पमल्पं वा प्रपञ्चं नास्ति किञ्चन ।
प्रपञ्चमिति शब्दो वा स्मरणं वा न विद्यते ॥ ३५.२२ ॥

अन्तरस्थप्रपञ्चं वा क्वचिन्नास्ति क्वचिद्बहिः ।
यत् किञ्चिदेवं तूष्णीं वा यच्च किञ्चित् सदा क्व वा ॥ ३५.२३ ॥

येन केन यदा किञ्चिद्यस्य कस्य न किञ्चन ।
शुद्धं मलिनरूपं वा ब्रह्मवाक्यमबोधकम् ॥ ३५.२४ ॥

ईदृषं तादृषं वेति न किञ्चित् वक्तुमर्हति ।
ब्रह्मैव सर्वं सततं ब्रह्मैव सकलं मनः ॥ ३५.२५ ॥

आनन्दं परमानदं नित्यानन्दं सदाऽद्वयम् ।
चिन्मात्रमेव सततं नास्ति नास्ति परोऽस्म्यहम् ॥ ३५.२६ ॥

प्रपञ्चं सर्वदा नास्ति प्रपञ्चं चित्रमेव च ।
चित्तमेव हि संसारं नान्यत् संसारमेव हि ॥ ३५.२७ ॥

मन एव हि संसारो देहोऽहमिति रूपकम् ।
सङ्कल्पमेव संसारं तन्नाशेऽसौ विनश्यति ॥ ३५.२८ ॥

सङ्कल्पमेव जननं तन्नाशेऽसौ विनश्यति ।
सङ्कल्पमेव दारिद्र्यं तन्नाशेऽसौ विनश्यति ॥ ३५.२९ ॥

सङ्कल्पमेव मननं तन्नाशेऽसौ विनश्यति ।
आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.३० ॥

नित्यमात्ममयं बोधमहमेव सदा महान् ।
आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.३१ ॥

इत्येवं भावयेन्नित्यं क्षिप्रं मुक्तो भविष्यति ।
त्वमेव ब्रह्मरूपोऽसि त्वमेव ब्रह्मविग्रहः ॥ ३५.३२ ॥

एवं च परमानन्दं ध्यात्वा ध्यात्वा सुखीभव ।
सुखमात्रं जगत् सर्वं प्रियमात्रं प्रपञ्चकम् ॥ ३५.३३ ॥

जडमात्रमयं लोकं ब्रह्ममात्रमयं सदा ।
ब्रह्मैव नान्यदेवेदं परमात्माऽहमव्ययः ॥ ३५.३४ ॥

एक एव सदा एष एक एव निरन्तरम् ।
एक एव परं ब्रह्म एक एव चिदव्ययः ॥ ३५.३५ ॥

एक एव गुणातीत एक एव सुखावहः ।
एक एव महानात्मा एक एव निरन्तरम् ॥ ३५.३६ ॥

एक एव चिदाकार एक एवात्मनिर्णयः ।
ब्रह्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५.३७ ॥

परमात्माहमन्यन्न परमानन्दमन्दिरम् ।
इत्येवं भावयन्नित्यं सदा चिन्मय एव हि ॥ ३५.३८ ॥

सूतः –
विरिञ्चिवञ्चनाततप्रपञ्चपञ्चबाणभित्
सुकाञ्चनाद्रिधारिणं कुलुञ्चनां पतिं भजे ।
अकिञ्चनेऽपि सिञ्चके जलेन लिङ्गमस्तके
विमुञ्चति क्षणादघं न किञ्चिदत्र शिष्यते ॥ ३५.३९ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ब्रह्मभावनोपदेशप्रकरणं नाम पञ्चत्रिंशोऽध्यायः ॥

३६ ॥ षट्त्रिंशोऽध्यायः ॥

ऋभुः –
श‍ृणु वक्ष्यामि विप्रेन्द्र सर्वं ब्रह्मैव निर्णयम् ।
यस्य श्रवणमात्रेण सद्यो मुक्तिमवाप्नुयात् ॥ ३६.१ ॥

इदमेव सदा नास्ति ह्यहमेव हि केवलम् ।
आत्मैव सर्वदा नास्ति आत्मैव सुखलक्षणम् ॥ ३६.२ ॥

आत्मैव परमं तत्त्वमात्मैव जगतां गणः ।
आत्मैव गगनाकारमात्मैव च निरन्तरम् ॥ ३६.३ ॥

आत्मैव सत्यं ब्रह्मैव आत्मैव गुरुलक्षणम् ।
आत्मैव चिन्मयं नित्यमात्मैवाक्षरमव्ययम् ॥ ३६.४ ॥

आत्मैव सिद्धरूपं वा आत्मैवात्मा न संशयः ।
आत्मैवजगदाकारं आत्मैवात्मा स्वयं स्वयम् ॥ ३६.५ ॥

आत्मैव शान्तिकलनमात्मैव मनसा वियत् ।
आत्मैव सर्वं यत् किञ्चिदात्मैव परमं पदम् ॥ ३६.६ ॥

आत्मैव भुवनाकारमात्मैव प्रियमव्ययम् ।
आत्मैवान्यन्न च क्वापि आत्मैवान्यं मनोमयम् ॥ ३६.७ ॥

आत्मैव सर्वविज्ञानमात्मैव परमं धनम् ।
आत्मैव भूतरूपं वा आत्मैव भ्रमणं महत् ॥ ३६.८ ॥

आत्मैव नित्यशुद्धं वा आत्मैव गुरुरात्मनः ।
आत्मैव ह्यात्मनः शिष्य आत्मैव लयमात्मनि ॥ ३६.९ ॥

आत्मैव ह्यात्मनो ध्यानमात्मैव गतिरात्मनः ।
आत्मैव ह्यात्मनो होम आत्मैव ह्यात्मनो जपः ॥ ३६.१० ॥

आत्मैव तृप्तिरात्मैव आत्मनोऽन्यन्न किञ्चन ।
आत्मैव ह्यात्मनो मूलमात्मैव ह्यात्मनो व्रतम् ॥ ३६.११ ॥

आत्मज्ञानं व्रतं नित्यमात्मज्ञानं परं सुखम् ।
आत्मज्ञानं परानन्दमात्मज्ञानं परायणम् ॥ ३६.१२ ॥

आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महाव्रतम् ।
आत्मज्ञानं स्वयं वेद्यमात्मज्ञानं महाधनम् ॥ ३६.१३ ॥

आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महत् सुखम् ।
आत्मज्ञानं महानात्मा आत्मज्ञानं जनास्पदम् ॥ ३६.१४ ॥

आत्मज्ञानं महातीर्थमात्मज्ञानं जयप्रदम् ।
आत्मज्ञानं परं ब्रह्म आत्मज्ञानं चराचरम् ॥ ३६.१५ ॥

आत्मज्ञानं परं शास्त्रमात्मज्ञानमनूपमम् ।
आत्मज्ञानं परो योग आत्मज्ञानं परा गतिः ॥ ३६.१६ ॥

आत्मज्ञानं परं ब्रह्म इत्येवं दृढनिश्चयः ।
आत्मज्ञानं मनोनाशः आत्मज्ञानं परो गुरुः ॥ ३६.१७ ॥

आत्मज्ञानं चित्तनाशः आत्मज्ञानं विमुक्तिदम् ।
आत्मज्ञानं भयनाशमात्मज्ञानं सुखावहम् ॥ ३६.१८ ॥

आत्मज्ञानं महातेज आत्मज्ञानं महाशुभम् ।
आत्मज्ञानं सतां रूपमात्मज्ञानं सतां प्रियम् ॥ ३६.१९ ॥

आत्मज्ञानं सतां मोक्षमात्मज्ञानं विवेकजम् ।
आत्मज्ञानं परो धर्म आत्मज्ञानं सदा जपः ॥ ३६.२० ॥

आत्मज्ञानस्य सदृशमात्मविज्ञानमेव हि ।
आत्मज्ञानेन सदृशं न भूतं न भविष्यति ॥ ३६.२१ ॥

आत्मज्ञानं परो मन्त्र आत्मज्ञानं परं तपः ।
आत्मज्ञानं हरिः साक्षादात्मज्ञानं शिवः परः ॥ ३६.२२ ॥

आत्मज्ञानं परो धाता आत्मज्ञानं स्वसंमतम् ।
आत्मज्ञानं स्वयं पुण्यमात्मज्ञानं विशोधनम् ॥ ३६.२३ ॥

आत्मज्ञानं महातीर्थमात्मज्ञानं शमादिकम् ।
आत्मज्ञानं प्रियं मन्त्रमात्मज्ञानं स्वपावनम् ॥ ३६.२४ ॥

आत्मज्ञानं च किन्नाम अहं ब्रह्मेति निश्चयः ।
अहं ब्रह्मेति विश्वासमात्मज्ञानं महोदयम् ॥ ३६.२५ ॥

अहं ब्रह्मास्मि नित्योऽस्मि सिद्धोऽस्मीति विभावनम् ।
आनन्दोऽहं परानन्दं शुद्धोऽहं नित्यमव्ययः ॥ ३६.२६ ॥

चिदाकाशस्वरूपोऽस्मि सच्चिदानन्दशाश्वतम् ।
निर्विकारोऽस्मि शान्तोऽहं सर्वतोऽहं निरन्तरः ॥ ३६.२७ ॥

सर्वदा सुखरूपोऽस्मि सर्वदोषविवर्जितः ।
सर्वसङ्कल्पहीनोऽस्मि सर्वदा स्वयमस्म्यहम् ॥ ३६.२८ ॥

सर्वं ब्रह्मेत्यनुभवं विना शब्दं पठ स्वयम् ।
कोट्यश्वमेधे यत् पुण्यं क्षणात् तत्पुण्यमाप्नुयात् ॥ ३६.२९ ॥

अहं ब्रह्मेति निश्चित्य मेरुदानफलं लभेत् ।
ब्रह्मैवाहमिति स्थित्वा सर्वभूदानमप्यणु ॥ ३६.३० ॥

ब्रह्मैवाहमिति स्थित्वा कोटिशो दानमप्यणु ।
ब्रह्मैवाहमिति स्थित्वा सर्वानन्दं तृणायते ॥ ३६.३१ ॥

ब्रह्मैव सर्वमित्येव भावितस्य फलं स्वयम् ।
ब्रह्मैवाहमिति स्थित्वा समानं ब्रह्म एव हि ॥ ३६.३२ ॥

तस्मात् स्वप्नेऽपि नित्यं च सर्वं सन्त्यज्य यत्नतः ।
अहं ब्रह्म न सन्देहः अहमेव गतिर्मम ॥ ३६.३३ ॥

अहमेव सदा नान्यदहमेव सदा गुरुः ।
अहमेव परो ह्यात्मा अहमेव न चापरः ॥ ३६.३४ ॥

अहमेव गुरुः शिष्यः अहमेवेति निश्चिनु ।
इदमित्येव निर्देशः परिच्छिन्नो जगन्न हि ॥ ३६.३५ ॥

न भूमिर्न जलं नाग्निर्न वायुर्न च खं तथा ।
सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चन विद्यते ॥ ३६.३६ ॥

इत्येवं भावनपरो देहमुक्तः सुखीभव ।
अहमात्मा इदं नास्ति सर्वं चैतन्यमात्रतः ॥ ३६.३७ ॥

अहमेव हि पूर्णात्मा आनन्दाब्धिरनामयः ।
इदमेव सदा नास्ति जडत्वादसदेव हि ।
इदं ब्रह्म सदा ब्रह्म इदं नेति सुखी भव ॥ ३६.३८ ॥

तुरङ्गश‍ृङ्गसन्निभा श्रुतिपरोचना ???
विशेषकामवासना विनिश्चितात्मवृत्तितः ।
नराः सुरा मुनीश्वरा असङ्गसङ्गमप्युमा-
पतिं ??? न ते भजन्ति केचन ??? ॥ ३६.३९ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ब्रह्मभावनोपदेशप्रकरणं नाम षट्त्रिंशोऽध्यायः ॥

३७ ॥ सप्तत्रिंशोऽध्यायः ॥

ऋभुः –
निदाघ श‍ृणु वक्ष्यामि रहस्यं परमद्भुतम् ।
श्लोकैकश्रवणेनैव सद्यो मोक्षमवाप्नुयात् ॥ ३७.१ ॥

इदं दृष्टं परं ब्रह्म दृश्यवद्भाति चित्ततः ।
सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ॥ ३७.२ ॥

इदमेव हि नास्त्येव अयमित्यपि नास्ति हि ।
एक एवाप्यणुर्वापि नास्ति नास्ति न संशयः ॥ ३७.३ ॥

व्यवहारमिदं क्वापि वार्तामात्रमपि क्व वा ।
बन्धरूपं बन्धवार्ता बन्धकार्यं परं च वा ॥ ३७.४ ॥

सन्मात्रकार्यं सन्मात्रमहं ब्रह्मेति निश्चयम् ।
दुःखं सुखं वा बोधो वा साधकं साध्यनिर्णयः ॥ ३७.५ ॥

आत्मेति परमात्मेति जीवात्मेति पृथङ् न हि ।
देहोऽहमिति मूर्तोऽहं ज्ञानविज्ञानवानहम् ॥ ३७.६ ॥

कार्यकारणरूपोऽहमन्तःकरणकार्यकम् ।
एकमित्येकमात्रं वा नास्ति नास्तीति भावय ॥ ३७.७ ॥

सर्वसङ्कल्पमात्रेति सर्वं ब्रह्मेति वा जगत् ।
तत्त्वज्ञानं परं ब्रह्म ओङ्कारार्थं सुखं जपम् ॥ ३७.८ ॥

द्वैताद्वैतं सदाद्वैतं तथा मानावमानकम् ।
सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ॥ ३७.९ ॥

आत्मानन्दमहं ब्रह्म प्रज्ञानं ब्रह्म एव हि ।
इदं रूपमहं रूपं प्रियाप्रियविचारणम् ॥ ३७.१० ॥

यद्यत् संभाव्यते लोके यद्यत् साधनकल्पनम् ।
यद्यन्तरहितं ब्रह्मभावनं चित्तनिर्मितम् ॥ ३७.११ ॥

स्थूलदेहोऽहमेवात्र सूक्ष्मदेहोऽहमेव हि ।
बुद्धेर्भेदं मनोभेदं अहंकारं जडं च तत् ॥ ३७.१२ ॥

सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ।
श्रवणं मननं चैव साक्षात्कारविचारणम् ॥ ३७.१३ ॥

आत्मैवाहं परं चैव नाहं मोहमयं स्वयम् ।
ब्रह्मैव सर्वमेवेदं ब्रह्मैव परमं पदम् ॥ ३७.१४ ॥

ब्रह्मैव कारणं कार्यं ब्रह्मैव जगतां जयः ।
ब्रह्मैव सर्वं चैतन्यं ब्रह्मैव मनसायते ॥ ३७.१५ ॥

ब्रह्मैव जीववद्भाति ब्रह्मैव च हरीयते ।
ब्रह्मैव शिववद्भाति ब्रह्मैव प्रियमात्मनः ॥ ३७.१६ ॥

ब्रह्मैव शान्तिवद्भाति ब्रह्मणोऽन्यन्न किञ्चन ।
नाहं न चायं नैवान्यन्नोत्पन्नं न परात् परम् ॥ ३७.१७ ॥

न चेदं न च शास्त्रार्थं न मीमांसं न चोद्भवम् ।
न लक्षणं न वेदादि नापि चित्तं न मे मनः ॥ ३७.१८ ॥

न मे नायं नेदमिदं न बुद्धिनिश्चयं सदा ।
कदाचिदपि नास्त्येव सत्यं सत्यं न किञ्चन ॥ ३७.१९ ॥

नैकमात्रं न चायं वा नान्तरं न बहिर्न हि ।
ईषण्मात्रं च न द्वैतं न जन्यं न च दृश्यकम् ॥ ३७.२० ॥

न भावनं न स्मरणं न विस्मरणमण्वपि ।
न कालदेशकलनं न सङ्कल्पं न वेदनम् ॥ ३७.२१ ॥

न विज्ञानं न देहान्यं न वेदोऽहं न संसृतिः ।
न मे दुःखं न मे मोक्षं न गतिर्न च दुर्गतिः ॥ ३७.२२ ॥

नात्मा नाहं न जीवोऽहं न कूटस्थो न जायते ।
न देहोऽहं न च श्रोत्रं न त्वगिन्द्रियदेवता ॥ ३७.२३ ॥

सर्वं चैतन्यमात्रत्वात् सर्वं नास्त्येव सर्वदा ।
अखण्डाकाररूपत्वात् सर्वं नास्त्येव सर्वदा ॥ ३७.२४ ॥

हुंकारस्यावकाशो वा हुंकारजननं च वा ।
नास्त्येव नास्ति नास्त्येव नास्ति नास्ति कदाचन ॥ ३७.२५ ॥

अन्यत् पदार्थमल्पं वा अन्यदेवान्यभाषणम् ।
आत्मनोऽन्यदसत्यं वा सत्यं वा भ्रान्तिरेव च ॥ ३७.२६ ॥

नास्त्येव नास्ति नास्त्येव नास्ति शब्दोऽपि नास्ति हि ।
सर्वं चैतन्यमात्रत्वात् सर्वं नास्त्येव सर्वदा ॥ ३७.२७ ॥

सर्वं ब्रह्म न सन्देहो ब्रह्मैवाहं न संशयः ।
वाक्यं च वाचकं सर्वं वक्ता च त्रिपुटीद्वयम् ॥ ३७.२८ ॥

ज्ञाता ज्ञानं ज्ञेयभेदं मातृमानमिति प्रियम् ।
यद्यच्छास्त्रेषु निर्णीतं यद्यद्वेदेषु निश्चितम् ॥ ३७.२९ ॥

परापरमतीतं च अतीतोऽहमवेदनम् ।
गुरुर्गुरूपदेशश्च गुरुं वक्ष्ये न कस्यचित् ॥ ३७.३० ॥

गुरुरूपा गुरुश्रद्धा सदा नास्ति गुरुः स्वयम् ।
आत्मैव गुरुरात्मैव अन्याभावान्न संशयः ॥ ३७.३१ ॥

आत्मनः शुभमात्मैव अन्याभावान्न संशयः ।
आत्मनो मोहमात्मैव आत्मनोऽस्ति न किञ्चन ॥ ३७.३२ ॥

आत्मनः सुखमात्मैव अन्यन्नास्ति न संशयः ।
आत्मन्येवात्मनः शक्तिः आत्मन्येवात्मनः प्रियम् ॥ ३७.३३ ॥

आत्मन्येवात्मनः स्नानं आत्मन्येवात्मनो रतिः ।
आत्मज्ञानं परं श्रेयः आत्मज्ञानं सुदुर्लभम् ॥ ३७.३४ ॥

आत्मज्ञानं परं ब्रह्म आत्मज्ञानं सुखात् सुखम् ।
आत्मज्ञानात् परं नास्ति आत्मज्ञानात् स्मृतिर्न हि ॥ ३७.३५ ॥

ब्रह्मैवात्मा न सन्देह आत्मैव ब्रह्मणः स्वयम् ।
स्वयमेव हि सर्वत्र स्वयमेव हि चिन्मयः ॥ ३७.३६ ॥

स्वयमेव चिदाकाशः स्वयमेव निरन्तरम् ।
स्वयमेव च नानात्मा स्वयमेव च नापरः ॥ ३७.३७ ॥

स्वयमेव गुणातीतः स्वयमेव महत् सुखम् ।
स्वयमेव हि शान्तात्मा स्वयमेव हि निष्कलः ॥ ३७.३८ ॥

स्वयमेव चिदानन्दः स्वयमेव महत्प्रभुः ।
स्वयमेव सदा साक्षी स्वयमेव सदाशिवः ॥ ३७.३९ ॥

स्वयमेव हरिः साक्षात् स्वयमेव प्रजापतिः ।
स्वयमेव परं ब्रह्म ब्रह्म एव स्वयं सदा ॥ ३७.४० ॥

सर्वं ब्रह्म स्वयं ब्रह्म स्वयं ब्रह्म न संशयः ।
दृढनिश्चयमेव त्वं सर्वथा कुरु सर्वदा ॥ ३७.४१ ॥

विचारयन् स्वयं ब्रह्म ब्रह्ममात्रं स्वयं भवेत् ।
एतदेव परं ब्रह्म अहं ब्रह्मेति निश्चयः ॥ ३७.४२ ॥

एष एव परो मोक्ष अहं ब्रह्मेति निश्चयः ।
एष एव कृतार्थो हि एष एव सुखं सदा ॥ ३७.४३ ॥

एतदेव सदा ज्ञानं स्वयं ब्रह्म स्वयं महत् ।
अहं ब्रह्म एतदेव सदा ज्ञानं स्वयं महत् ॥ ३७.४४ ॥

अहं ब्रह्म एतदेव स्वभावं सततं निजम् ।
अहं ब्रह्म एतदेव सदा नित्यं स्वयं सदा ॥ ३७.४५ ॥

अहं ब्रह्म एतदेव बन्धनाशं न संशयः ।
अहं ब्रह्म एतदेव सर्वसिद्धान्तनिश्चयम् ॥ ३७.४६ ॥

एष वेदान्तसिद्धान्त अहं ब्रह्म न संशयः ।
सर्वोपनिषदामर्थः सर्वानन्दमयं जगत् ॥ ३७.४७ ॥

महावाक्यस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ।
साक्षाच्छिवस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥ ३७.४८ ॥

नारायणस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ।
चतुर्मुखस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥ ३७.४९ ॥

ऋषीणां हृदयं ह्येतत् देवानामुपदेशकम् ।
सर्वदेशिकसिद्धान्त अहं ब्रह्मेति निश्चयः ॥ ३७.५० ॥

यच्च यावच्च भूतानां महोपदेश एव तत् ।
अहं ब्रह्म महामोक्षं परं चैतदहं स्वयम् ॥ ३७.५१ ॥

अहं चानुभवं चैतन्महागोप्यमिदं च तत् ।
अहं ब्रह्म एतदेव सदा ज्ञानं स्वयं महत् ॥ ३७.५२ ॥

महाप्रकाशमेवैतत् अहं ब्रह्म एव तत् ।
एतदेव महामन्त्रं एतदेव महाजपः ॥ ३७.५३ ॥

एतदेव महास्नानमहं ब्रह्मेति निश्चयः ।
एतदेव महातीर्थमहं ब्रह्मेति निश्चयः ॥ ३७.५४ ॥

एतदेव महागङ्गा अहं ब्रह्मेति निश्चयः ।
एष एव परो धर्म अहं ब्रह्मेति निश्चयः ॥ ३७.५५ ॥

एष एव महाकाश अहं ब्रह्मेति निश्चयः ।
एतदेव हि विज्ञानमहं ब्रह्मास्मि केवलम् ।
सर्वसिद्धान्तमेवैतदहं ब्रह्मेति निश्चयः ॥ ३७.५६ ॥

सव्यासव्यतयाद्यवज्ञहृदया गोपोदहार्यः स्रियः
पश्यन्त्यम्बुजमित्रमण्डलगतं शंभुं हिरण्यात्मकम् ।
सर्वत्र प्रसृतैः करैर्जगदिदं पुष्णाति मुष्णन् धनैः
घृष्टं चौषधिजालमम्बुनिकरैर्विश्वोत्थधूतं हरः ॥ ३७.५७ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
सर्वसिद्धान्तप्रकरणं नाम सप्तत्रिंशोऽध्यायः ॥

३८ ॥ अष्टत्रिंशोऽध्यायः ॥

ऋभुः –
वक्ष्ये अत्यद्भुतं व्यक्तं सच्चिदानन्दमात्रकम् ।
सर्वप्रपञ्चशून्यत्वं सर्वमात्मेति निश्चितम् ॥ ३८.१ ॥

आत्मरूपप्रपञ्चं वा आत्मरूपप्रपञ्चकम् ।
सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चितम् ॥ ३८.२ ॥

नित्यानुभवमानन्दं नित्यं ब्रह्मेति भावनम् ।
चित्तरूपप्रपञ्चं वा चित्तसंसारमेव वा ॥ ३८.३ ॥

इदमस्तीति सत्तात्वमहमस्तीति वा जगत् ।
स्वान्तःकरणदोषं वा स्वान्तःकरणकार्यकम् ॥ ३८.४ ॥

स्वस्य जीवभ्रमः कश्चित् स्वस्य नाशं स्वजन्मना ।
ईश्वरः कश्चिदस्तीति जीवोऽहमिति वै जगत् ॥ ३८.५ ॥

माया सत्ता महा सत्ता चित्तसत्ता जगन्मयम् ।
यद्यच्च दृश्यते शास्त्रैर्यद्यद्वेदे च भाषणम् ॥ ३८.६ ॥

एकमित्येव निर्देशं द्वैतमित्येव भाषणम् ।
शिवोऽस्मीति भ्रमः कश्चित् ब्रह्मास्मीति विभ्रमः ॥ ३८.७ ॥

विष्णुरस्मीति विभ्रान्तिर्जगदस्तीति विभ्रमः ।var was जगदस्मीति
ईषदस्तीति वा भेदं ईषदस्तीति वा द्वयम् ॥ ३८.८ ॥

सर्वमस्तीति नास्तीति सर्वं ब्रह्मेति निश्चयम् ।
आत्मध्यानप्रपञ्चं वा स्मरणादिप्रपञ्चकम् ॥ ३८.९ ॥

दुःखरूपप्रपञ्चं वा सुखरूपप्रपञ्चकम् ।
द्वैताद्वैतप्रपञ्चं वा सत्यासत्यप्रपञ्चकम् ॥ ३८.१० ॥

जाग्रत्प्रपञ्चमेवापि तथा स्वप्नप्रपञ्चकम् ।
सुप्तिज्ञानप्रपञ्चं वा तुर्यज्ञानप्रपञ्चकम् ॥ ३८.११ ॥

वेदज्ञानप्रपञ्चं वा शास्त्रज्ञानप्रपञ्चकम् ।
पापबुद्धिप्रपञ्चं वा पुण्यभेदप्रपञ्चकम् ॥ ३८.१२ ॥

ज्ञानरूपप्रपञ्चं वा निर्गुणज्ञानप्रपञ्चकम् ।
गुणागुणप्रपञ्चं वा दोषादोषविनिर्णयम् ॥ ३८.१३ ॥

सत्यासत्यविचारं वा चराचरविचारणम् ।
एक आत्मेति सद्भावं मुख्य आत्मेति भावनम् ॥ ३८.१४ ॥

सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयम् ।
द्वैताद्वैतसमुद्भेदं नास्ति नास्तीति भाषणम् ॥ ३८.१५ ॥

असत्यं जगदेवेति सत्यं ब्रह्मेति निश्चयम् ।
कार्यरूपं कारणं च नानाभेदविजृम्भणम् ॥ ३८.१६ ॥

सर्वमन्त्रप्रदातारं दूरे दूरं तथा तथा ।
सर्वं सन्त्यज्य सततं स्वात्मन्येव स्थिरो भव ॥ ३८.१७ ॥

मौनभावं मौनकार्यं मौनयोगं मनःप्रियम् ।
पञ्चाक्षरोपदेष्टारं तथा चाष्टाक्षरप्रदम् ॥ ३८.१८ ॥

यद्यद्यद्यद्वेदशास्त्रं यद्यद्भेदो गुरोऽपि वा ।
सर्वदा सर्वलोकेषु सर्वसङ्कल्पकल्पनम् ॥ ३८.१९ ॥

सर्ववाक्यप्रपञ्चं हि सर्वचित्तप्रपञ्चकम् ।
सर्वाकारविकल्पं च सर्वकारणकल्पनम् ॥ ३८.२० ॥

सर्वदोषप्रपञ्चं च सुखदुःखप्रपञ्चकम् ।
सहादेयमुपादेयं ग्राह्यं त्याज्यं च भाषणम् ॥ ३८.२१ ॥

विचार्य जन्ममरणं वासनाचित्तरूपकम् ।
कामक्रोधं लोभमोहं सर्वडम्भं च हुंकृतिम् ॥ ३८.२२ ॥

त्रैलोक्यसंभवं द्वैतं ब्रह्मेन्द्रवरुणादिकम् ।
ज्ञानेन्द्रियं च शब्दादि दिग्वाय्वर्कादिदैवतम् ॥ ३८.२३ ॥

कर्मेन्द्रियादिसद्भावं विषयं देवतागणम् ।
अन्तःकरणवृत्तिं च विषयं चाधिदैवतम् ॥ ३८.२४ ॥

चित्तवृत्तिं विभेदं च बुद्धिवृत्तिनिरूपणम् ।
मायामात्रमिदं द्वैतं सदसत्तादिनिर्णयम् ॥ ३८.२५ ॥

किञ्चिद् द्वैतं बहुद्वैतं जीवद्वैतं सदा ह्यसत् ।
जगदुत्पत्तिमोहं च गुरुशिष्यत्वनिर्णयम् ॥ ३८.२६ ॥

गोपनं तत्पदार्थस्य त्वंपदार्थस्य मेलनम् ।
तथा चासिपदार्थस्य ऐक्यबुद्ध्यानुभावनम् ॥ ३८.२७ ॥

भेदेषु भेदाभेदं च नान्यत् किञ्चिच्च विद्यते ।
एतत् प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयः ॥ ३८.२८ ॥

सर्वं चैतन्यमात्रत्वात् केवलं ब्रह्म एव सः ।
आत्माकारमिदं सर्वमात्मनोऽन्यन्न किञ्चन ॥ ३८.२९ ॥

तुर्यातीतं ब्रह्मणोऽन्यत् सत्यासत्यं न विद्यते ।
सर्वं त्यक्त्वा तु सततं स्वात्मन्येव स्थिरो भव ॥ ३८.३० ॥

चित्तं कालं वस्तुभेदं सङ्कल्पं भावनं स्वयम् ।
सर्वं संत्यज्य सततं सर्वं ब्रह्मैव भावय ॥ ३८.३१ ॥

यद्यद्भेदपरं शास्त्रं यद्यद् भेदपरं मनः ।
सर्वं संत्यज्य सततं स्वात्मन्येव स्थिरो भव ॥ ३८.३२ ॥

मनः कल्पितकल्पं वा आत्माकल्पनविभ्रमम् ।
अहंकारपरिच्छेदं देहोऽहं देहभावना ॥ ३८.३३ ॥

सर्वं संत्यज्य सततमात्मन्येव स्थिरो भव ।
प्रपञ्चस्य च सद्भावं प्रपञ्चोद्भवमन्यकम् ॥ ३८.३४ ॥

बन्धसद्भावकलनं मोक्षसद्भावभाषणम् ।
देवताभावसद्भावं देवपूजाविनिर्णयम् ॥ ३८.३५ ॥

पञ्चाक्षरेति यद्द्वैतमष्टाक्षरस्य दैवतम् ।
प्राणादिपञ्चकास्तित्वमुपप्राणादिपञ्चकम् ॥ ३८.३६ ॥

पृथिवीभूतभेदं च गुणा यत् कुण्ठनादिकम् ।
वेदान्तशास्त्रसिद्धान्तं शैवागमनमेव च ॥ ३८.३७ ॥

लौकिकं वास्तवं दोषं प्रवृत्तिं च निवृत्तिकम् ।
सर्वं संत्यज्य सततमात्मन्येव स्थिरो भव ॥ ३८.३८ ॥

आत्मज्ञानसुखं ब्रह्म अनात्मज्ञानदूषणम् ।
रेचकं पूरकं कुम्भं षडाधारविशोधनम् ॥ ३८.३९ ॥

द्वैतवृत्तिश्च देहोऽहं साक्षिवृत्तिश्चिदंशकम् ।
अखण्डाकारवृत्तिश्च अखण्डाकारसंमतम् ॥ ३८.४० ॥

अनन्तानुभवं चापि अहं ब्रह्मेति निश्चयम् ।
उत्तमं मध्यमं चापि तथा चैवाधमाधमम् ॥ ३८.४१ ॥

दूषणं भूषणं चैव सर्ववस्तुविनिन्दनम् ।
अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मैव तत्त्वतः ॥ ३८.४२ ॥

अहं ब्रह्मास्मि मुग्धोऽस्मि वृद्धोऽस्मि सदसत्परः ।
वैश्वानरो विराट् स्थूलप्रपञ्चमिति भावनम् ॥ ३८.४३ ॥

आनन्दस्फारणेनाहं परापरविवर्जितः ।
नित्यानन्दमयं ब्रह्म सच्चिदानन्दविग्रहः ॥ ३८.४४ ॥

दृग्रूपं दृश्यरूपं च महासत्तास्वरूपकम् ।
कैवल्यं सर्वनिधनं सर्वभूतान्तरं गतम् ॥ ३८.४५ ॥

भूतभव्यं भविष्यच्च वर्तमानमसत् सदा ।
कालभावं देहभावं सत्यासत्यविनिर्णयम् ॥ ३८.४६ ॥

प्रज्ञानघन एवाहं शान्ताशान्तं निरञ्जनम् ।
प्रपञ्चवार्तास्मरणं द्वैताद्वैतविभावनम् ॥ ३८.४७ ॥

शिवागमसमाचारं वेदान्तश्रवणं पदम् ।
अहं ब्रह्मास्मि शुद्धोऽस्मि चिन्मात्रोऽस्मि सदाशिवः ॥ ३८.४८ ॥

सर्वं ब्रह्मेति सन्त्यज्य स्वात्मन्येव स्थिरो भव ।
अहं ब्रह्म न सन्देह इदं ब्रह्म न संशयः ॥ ३८.४९ ॥

स्थूलदेहं सूक्ष्मदेहं कारणं देहमेव च ।
एवं ज्ञातुं च सततं ब्रह्मैवेदं क्षणे क्षणे ॥ ३८.५० ॥

शिवो ह्यात्मा शिवो जीवः शिवो ब्रह्म न संशयः ।
एतत् प्रकरणं यस्तु सकृद्वा सर्वदापि वा ॥ ३८.५१ ॥

पठेद्वा श‍ृणुयाद्वापि स च मुक्तो न संशयः ।
निमिषं निमिषार्धं वा श्रुत्वैतब्रह्मभाग्भवेत् ॥ ३८.५२ ॥

लोकालोकजगत्स्थितिप्रविलयप्रोद्भावसत्तात्मिका
भीतिः शङ्करनामरूपमस्कृद्व्याकुर्वते केवलम् ।
सत्यासत्यनिरङ्कुशश्रुतिवचोवीचीभिरामृश्यते
यस्त्वेतत् सदितीव तत्त्ववचनैर्मीमांस्यतेऽयं शिवः ॥ ३८.५३ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
प्रपञ्चशून्यत्वप्रकरणं नाम अष्टत्रिंशोऽध्यायः ॥

३९ ॥ एकोनचत्वारिंशोऽध्यायः ॥

ऋभुः –
परं ब्रह्म प्रवक्ष्यामि निर्विकल्पं निरामयम् ।
तदेवाहं न सन्देहः सर्वं ब्रह्मैव केवलम् ॥ ३९.१ ॥

चिन्मात्रममलं शान्तं सच्चिदानन्दविग्रहम् ।
आनन्दं परमानन्दं निर्विकल्पं निरञ्जनम् ॥ ३९.२ ॥

गुणातीतं जनातीतमवस्थातीतमव्ययम् ।
एवं भावय चैतन्यमहं ब्रह्मास्मि सोऽस्म्यहम् ॥ ३९.३ ॥

सर्वातीतस्वरूपोऽस्मि सर्वशब्दार्थवर्जितः ।
सत्योऽहं सर्वहन्ताहं शुद्धोऽहं परमोऽस्म्यहम् ॥ ३९.४ ॥

अजोऽहं शान्तरूपोऽहं अशरीरोऽहमान्तरः ।
सर्वहीनोऽहमेवाहं स्वयमेव स्वयं महः ॥ ३९.५ ॥

आत्मैवाहं परात्माहं ब्रह्मैवाहं शिवोऽस्म्यहम् ।
चित्तहीनस्वरूपोऽहं बुद्धिहीनोऽहमस्म्यहम् ॥ ३९.६ ॥

व्यापकोऽहमहं साक्षी ब्रह्माहमिति निश्चयः ।
निष्प्रपञ्चगजारूढो निष्प्रपञ्चाश्ववाहनः ॥ ३९.७ ॥

निष्प्रपञ्चमहाराज्यो निष्प्रपञ्चायुधादिमान् ।
निष्प्रपञ्चमहावेदो निष्प्रपञ्चात्मभावनः ॥ ३९.८ ॥

निष्प्रपञ्चमहानिद्रो निष्प्रपञ्चस्वभावकः ।
निष्प्रपञ्चस्तु जीवात्मा निष्प्रपञ्चकलेवरः ॥ ३९.९ ॥

निष्प्रपञ्चपरीवारो निष्प्रपञ्चोत्सवो भवः ।
निष्प्रपञ्चस्तु कल्याणो निष्प्रपञ्चस्तु दर्पणः ॥ ३९.१० ॥

निष्प्रपञ्चरथारूढो निष्प्रपञ्चविचारणम् ।
निष्प्रपञ्चगुहान्तस्थो निष्प्रपञ्चप्रदीपकम् ॥ ३९.११ ॥

निष्प्रपञ्चप्रपूर्णात्मा निष्प्रपञ्चोऽरिमर्दनः ।
चित्तमेव प्रपञ्चो हि चित्तमेव जगत्त्रयम् ॥ ३९.१२ ॥

चित्तमेव महामोहश्चित्तमेव हि संसृतिः ।
चित्तमेव महापापं चित्तमेव हि पुण्यकम् ॥ ३९.१३ ॥

चित्तमेव महाबन्धश्चित्तमेव विमोक्षदम् ।
ब्रह्मभावनया चित्तं नाशमेति न संशयः ॥ ३९.१४ ॥

ब्रह्मभावनया दुःखं नाशमेति न संशयः ।
ब्रह्मभावनया द्वैतं नाशमेति न संशयः ॥ ३९.१५ ॥

ब्रह्मभावनया कामः नाशमेति न संशयः ।
ब्रह्मभावनया क्रोधः नाशमेति न संशयः ॥ ३९.१६ ॥

ब्रह्मभावनया लोभः नाशमेति न संशयः ।
ब्रह्मभावनया ग्रन्थिः नाशमेति न संशयः ॥ ३९.१७ ॥

ब्रह्मभावनया सर्वं ब्रह्मभावनया मदः ।
ब्रह्मभावनया पूजा नाशमेति न संशयः ॥ ३९.१८ ॥

ब्रह्मभावनया ध्यानं नाशमेति न संशयः ।
ब्रह्मभावनया स्नानं नाशमेति न संशयः ॥ ३९.१९ ॥

ब्रह्मभावनया मन्त्रो नाशमेति न संशयः ।
ब्रह्मभावनया पापं नाशमेति न संशयः ॥ ३९.२० ॥

ब्रह्मभावनया पुण्यं नाशमेति न संशयः ।
ब्रह्मभावनया दोषो नाशमेति न संशयः ॥ ३९.२१ ॥

ब्रह्मभावनया भ्रान्तिः नाशमेति न संशयः ।
ब्रह्मभावनया दृश्यं नाशमेति न संशयः ॥ ३९.२२ ॥

ब्रह्मभावनया सङ्गो नाशमेति न संशयः ।
ब्रह्मभावनया तेजो नाशमेति न संशयः ॥ ३९.२३ ॥

ब्रह्मभावनया प्रज्ञा नाशमेति न संशयः ।
ब्रह्मभावनया सत्ता नाशमेति न संशयः ॥ ३९.२४ ॥

ब्रह्मभावनया भीतिः नाशमेति न संशयः ।
ब्रह्मभावनया वेदः नाशमेति न संशयः ॥ ३९.२५ ॥

ब्रह्मभावनया शास्त्रं नाशमेति न संशयः ।
ब्रह्मभावनया निद्रा नाशमेति न संशयः ॥ ३९.२६ ॥

ब्रह्मभावनया कर्म नाशमेति न संशयः ।
ब्रह्मभावनया तुर्यं नाशमेति न संशयः ॥ ३९.२७ ॥

ब्रह्मभावनया द्वन्द्वं नाशमेति न संशयः ।
ब्रह्मभावनया पृच्छेदहं ब्रह्मेति निश्चयम् ॥ ३९.२८ ॥

निश्चयं चापि सन्त्यज्य स्वस्वरूपान्तरासनम् ।
अहं ब्रह्म परं ब्रह्म चिद्ब्रह्म ब्रह्ममात्रकम् ॥ ३९.२९ ॥

ज्ञानमेव परं ब्रह्म ज्ञानमेव परं पदम् ।
दिवि ब्रह्म दिशो ब्रह्म मनो ब्रह्म अहं स्वयम् ॥ ३९.३० ॥

किञ्चिद्ब्रह्म ब्रह्म तत्त्वं तत्त्वं ब्रह्म तदेव हि ।
अजो ब्रह्म शुभं ब्रह्म आदिब्रह्म ब्रवीमि तम् ॥ ३९.३१ ॥

अहं ब्रह्म हविर्ब्रह्म कार्यब्रह्म त्वहं सदा ।
नादो ब्रह्म नदं ब्रह्म तत्त्वं ब्रह्म च नित्यशः ॥ ३९.३२ ॥

एतद्ब्रह्म शिखा ब्रह्म तद्ब्रह्म ब्रह्म शाश्वतम् ।
निजं ब्रह्म स्वतो ब्रह्म नित्यं ब्रह्म त्वमेव हि ॥ ३९.३३ ॥

सुखं ब्रह्म प्रियं ब्रह्म मित्रं ब्रह्म सदामृतम् ।
गुह्यं ब्रह्म गुरुर्ब्रह्म ऋतं ब्रह्म प्रकाशकम् ॥ ३९.३४ ॥

सत्यं ब्रह्म समं ब्रह्म सारं ब्रह्म निरञ्जनम् ।
एकं ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म न संशयः ॥ ३९.३५ ॥

इदं ब्रह्म स्वयं ब्रह्म लोकं ब्रह्म सदा परः ।
आत्मब्रह्म परं ब्रह्म आत्मब्रह्म निरन्तरः ॥ ३९.३६ ॥

एकं ब्रह्म चिरं ब्रह्म सर्वं ब्रह्मात्मकं जगत् ।
ब्रह्मैव ब्रह्म सद्ब्रह्म तत्परं ब्रह्म एव हि ॥ ३९.३७ ॥

चिद्ब्रह्म शाश्वतं ब्रह्म ज्ञेयं ब्रह्म न चापरः ।
अहमेव हि सद्ब्रह्म अहमेव हि निर्गुणम् ॥ ३९.३८ ॥

अहमेव हि नित्यात्मा एवं भावय सुव्रत ।
अहमेव हि शास्त्रार्थ इति निश्चित्य सर्वदा ॥ ३९.३९ ॥

आत्मैव नान्यद्भेदोऽस्ति सर्वं मिथ्येति निश्चिनु ।
आत्मैवाहमहं चात्मा अनात्मा नास्ति नास्ति हि ॥ ३९.४० ॥

विश्वं वस्तुतया विभाति हृदये मूढात्मनां बोधतो-
ऽप्यज्ञानं न निवर्तते श्रुतिशिरोवार्तानुवृत्त्याऽपि च ।
विश्वेशस्य समर्चनेन सुमहालिङ्गार्चनाद्भस्मधृक्
रुद्राक्षामलधारणेन भगवद्ध्यानेन भात्यात्मवत् ॥ ३९.४१ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
सर्वलयप्रकरणं नाम एकोनचत्वारिंशोऽध्यायः ॥

४० ॥ चत्वारिंशोऽध्यायः ॥

ऋभुः –
सर्वसारात् सारतरं ततः सारतरान्तरम् ।
इदमन्तिमत्यन्तं श‍ृणु प्रकरणं मुदा ॥ ४०.१ ॥

ब्रह्मैव सर्वमेवेदं ब्रह्मैवान्यन्न किञ्चन ।
निश्चयं दृढमाश्रित्य सर्वत्र सुखमास्व ह ॥ ४०.२ ॥

ब्रह्मैव सर्वभुवनं भुवनं नाम सन्त्यज ।
अहं ब्रह्मेति निश्चित्य अहं भावं परित्यज ॥ ४०.३ ॥

सर्वमेवं लयं याति स्वयमेव पतत्रिवत् ।
स्वयमेव लयं याति सुप्तहस्तस्थपद्मवत् ॥ ४०.४ ॥

न त्वं नाहं न प्रपञ्चः सर्वं ब्रह्मैव केवलम् ।
न भूतं न च कार्यं च सर्वं ब्रह्मैव केवलम् ॥ ४०.५ ॥

न दैवं न च कार्याणि न देहं नेन्द्रियाणि च ।
न जाग्रन्न च वा स्वप्नो न सुषुप्तिर्न तुर्यकम् ॥ ४०.६ ॥

इदं प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चिनु ।
सर्वं मिथ्या सदा मिथ्या सर्वं ब्रह्मेति निश्चिनु ॥ ४०.७ ॥

सदा ब्रह्म विचारं च सर्वं ब्रह्मेति निश्चिनु ।
तथा द्वैतप्रतीतिश्च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.८ ॥

सदाहं भावरूपं च सर्वं ब्रह्मेति निश्चिनु ।
नित्यानित्यविवेकं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.९ ॥

भावाभावप्रतीतिं च सर्वं ब्रह्मेति निश्चिनु ।
गुणदोषविभागं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१० ॥

कालाकालविभागं च सर्वं ब्रह्मेति निश्चिनु ।
अहं जीवेत्यनुभवं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.११ ॥

अहं मुक्तोऽस्म्यनुभवं सर्वं ब्रह्मेति निश्चिनु ।
सर्वं ब्रह्मेति कलनं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१२ ॥

सर्वं नास्तीति वार्ता च सर्वं ब्रह्मेति निश्चिनु ।
देवतान्तरसत्ताकं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१३ ॥

देवतान्तरपूजा च सर्वं ब्रह्मेति निश्चिनु ।
देहोऽहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१४ ॥

ब्रह्माहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
गुरुशिष्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१५ ॥

तुल्यातुल्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
वेदशास्त्रादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१६ ॥

चित्तसत्तादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
बुद्धिनिश्चयसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१७ ॥

मनोविकल्पसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
अहंकारादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१८ ॥

पञ्चभूतादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
शब्दादिसत्तासङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.१९ ॥

दृग्वार्तादिकसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
कर्मेन्द्रियादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२० ॥

वचनादानसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
मुनीन्द्रोपेन्द्रसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२१ ॥

मनोबुद्ध्यादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
सङ्कल्पाध्यास इत्यादि सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२२ ॥

रुद्रक्षेत्रादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।
प्राणादिदशसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२३ ॥

माया विद्या देहजीवाः सर्वं ब्रह्मेति निश्चिनु ।
स्थूलव्यष्टादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२४ ॥

सूक्ष्मव्यष्टिसमष्ट्यादि सर्वं ब्रह्मेति निश्चिनु ।
व्यष्ट्यज्ञानादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२५ ॥

विश्ववैश्वानरत्वं च सर्वं ब्रह्मेति निश्चिनु ।
तैजसप्राज्ञभेदं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२६ ॥

वाच्यार्थं चापि लक्ष्यार्थं सर्वं ब्रह्मेति निश्चिनु ।
जहल्लक्षणयानैक्यं अजहल्लक्षणा ध्रुवम् ॥ ४०.२७ ॥

भागत्यागेन नित्यैक्यं सर्वं ब्रह्म उपाधिकम् ।
लक्ष्यं च निरुपाध्यैक्यं सर्वं ब्रह्मेति निश्चिनु ॥ ४०.२८ ॥

एवमाहुर्महात्मानः सर्वं ब्रह्मेति केवलम् ।
सर्वमन्तः परित्यज्य अहं ब्रह्मेति भावय ॥ ४०.२९ ॥

असङ्कलितकापिलैर्मधुहराक्षिपूज्याम्बुज-
प्रभाङ्घ्रिजनिमोत्तमो परिषिचेद्यदिन्दुप्रभम् ।
तं डिण्डीरनिभोत्तमोत्तम महाखण्डाज्यदध्ना परं
क्षीराद्यैरभिषिच्य मुक्तिपरमानन्दं लभे शाम्भवम् ॥ ४०.३० ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
चित्तवृत्तिनिरोधप्रकरणं नाम चत्वारिंशोऽध्यायः ॥

४१ ॥ एकचत्वारिंशोऽध्यायः ॥

ऋभुः –
अहं ब्रह्म न सन्देहः अहं ब्रह्म न संशयः ।
अहं ब्रह्मैव नित्यात्मा अहमेव परात्परः ॥ ४१.१ ॥

चिन्मात्रोऽहं न सन्देह इति निश्चित्य तं त्यज ।
सत्यं सत्यं पुनः सत्यमात्मनोऽन्यन्न किञ्चन ॥ ४१.२ ॥

शिवपादद्वयं स्पृष्ट्वा वदामीदं न किञ्चन ।
गुरुपादद्वयं स्पृष्ट्वा वदामीदं न किञ्चन ॥ ४१.३ ॥

जिह्वया परशुं तप्तं धारयामि न संशयः ।
वेदशास्त्रादिकं स्पृष्ट्वा वदामीदं विनिश्चितम् ॥ ४१.४ ॥

निश्चयात्मन् निश्चयस्त्वं निश्चयेन सुखी भव ।
चिन्मयस्त्वं चिन्मयत्वं चिन्मयानन्द एव हि ॥ ४१.५ ॥

ब्रह्मैव ब्रह्मभूतात्मा ब्रह्मैव त्वं न संशयः ।
सर्वमुक्तं भगवता योगिनामपि दुर्लभम् ॥ ४१.६ ॥

देवानां च ऋषीणां च अत्यन्तं दुर्लभं सदा ।
ऐश्वरं परमं ज्ञानमुपदिष्टं शिवेन हि ॥ ४१.७ ॥

एतत् ज्ञानं समानीतं कैलासाच्छङ्करान्तिकात् ।
देवानां दक्षिणामूर्तिर्दशसाहस्रवत्सरान् ॥ ४१.८ ॥

विघ्नेशो बहुसाहस्रं वत्सरं चोपदिष्टवान् ।
साक्षाच्छिवोऽपि पार्वत्यै वत्सरं चोपदिष्टवान् ॥ ४१.९ ॥

क्षीराब्धौ च महाविष्णुर्ब्रह्मणे चोपदिष्टवान् ।
कदाचित्ब्रह्मलोके तु मत्पितुश्चोक्तवानहम् ॥ ४१.१० ॥

नारदादि ऋषीणां च उपदिष्टं महद्बहु ।
अयातयामं विस्तारं गृहीत्वाऽहमिहागतः ॥ ४१.११ ॥

न समं पादमेकं च तीर्थकोटिफलं लभेत् ।
न समं ग्रन्थमेतस्य भूमिदानफलं लभेत् ॥ ४१.१२ ॥

एकानुभवमात्रस्य न सर्वं सर्वदानकम् ।
श्लोकार्धश्रवणस्यापि न समं किञ्चिदेव हि ॥ ४१.१३ ॥

तात्पर्यश्रवणाभावे पठंस्तूष्णीं स मुच्यते ।
सर्वं सन्त्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥ ४१.१४ ॥

सर्वमन्त्रं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वदेवांश्च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१५ ॥

सर्वस्नानं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वभावं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१६ ॥

सर्वहोमं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वदानं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१७ ॥

सर्वपूजां च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वगुह्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१८ ॥

सर्वसेवां च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वास्तित्वं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१९ ॥

सर्वपाठं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वाभ्यासं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२० ॥

देशिकं च परित्यज्य एतद्ग्रन्थं समभ्यसेत् ।
गुरुं वापि परित्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२१ ॥

सर्वलोकं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वैश्वर्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२२ ॥

सर्वसङ्कल्पकं त्यज्य एतद्ग्रन्थं समभ्यसेत् ।
सर्वपुण्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२३ ॥

एतद्ग्रन्थं परं ब्रह्म एतद्ग्रन्थं समभ्यसेत् ।
अत्रैव सर्वविज्ञानं अत्रैव परमं पदम् ॥ ४१.२४ ॥

अत्रैव परमो मोक्ष अत्रैव परमं सुखम् ।
अत्रैव चित्तविश्रान्तिरत्रैव ग्रन्थिभेदनम् ॥ ४१.२५ ॥

अत्रैव जीवन्मुक्तिश्च अत्रैव सकलो जपः ।
एतद्ग्रन्थं पठंस्तूष्णीं सद्यो मुक्तिमवाप्नुयात् ॥ ४१.२६ ॥

सर्वशास्त्रं च सन्त्यज्य एतन्मात्रं सदाभ्यसेत् ।
दिने दिने चैकवारं पठेच्चेन्मुक्त एव सः ॥ ४१.२७ ॥

जन्ममध्ये सकृद्वापि श्रुतं चेत् सोऽपि मुच्यते ।
सर्वशास्त्रस्य सिद्धान्तं सर्ववेदस्य संग्रहम् ॥ ४१.२८ ॥

सारात् सारतरं सारं सारात् सारतरं महत् ।
एतद्ग्रन्थस्य न समं त्रैलोक्येऽपि भविष्यति ॥ ४१.२९ ॥

न प्रसिद्धिं गते लोके न स्वर्गेऽपि च दुर्लभम् ।
ब्रह्मलोकेषु सर्वेषु शास्त्रेष्वपि च दुर्लभम् ॥ ४१.३० ॥

एतद्ग्रन्थं कदाचित्तु चौर्यं कृत्वा पितामहः ।
क्षीराब्धौ च परित्यज्य सर्वे मुञ्चन्तु नो इति ॥ ४१.३१ ॥

ज्ञात्वा क्षीरसमुद्रस्य तीरे प्राप्तं गृहीतवान् ।
गृहीतं चाप्यसौ दृष्ट्वा शपथं च प्रदत्तवान् ॥ ४१.३२ ॥

तत् आरभ्य तल्लोकं त्यक्त्वाहमिममागतः ।
अत्यद्भुतमिदं ज्ञानं ग्रन्थं चैव महाद्भुतम् ॥ ४१.३३ ॥

तद् ज्ञो वक्ता च नास्त्येव ग्रन्थश्रोता च दुर्लभः ।
आत्मनिष्ठैकलभ्योऽसौ सद्गुरुर्नैष लभ्यते ॥ ४१.३४ ॥

ग्रन्थवन्तो न लभ्यन्ते तेन न ख्यातिरागता ।
भवते दर्शितं ह्येतद्गमिष्यामि यथागतम् ॥ ४१.३५ ॥

एतावदुक्तमात्रेण निदाघ ऋषिसत्तमः ।
पतित्वा पादयोस्तस्य आनन्दाश्रुपरिप्लुतः ॥ ४१.३६ ॥

उवाच वाक्यं सानन्दं साष्टाङ्गं प्रणिपत्य च ।

निदाघः –
अहो ब्रह्मन् कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः ।
भवतां दर्शनेनैव मज्जन्म सफलं कृतम् ॥ ४१.३७ ॥

एकवाक्यस्य मनने मुक्तोऽहं नात्र संशयः ।
नमस्करोमि ते पादौ सोपचारं न वास्तवौ ॥ ४१.३८ ॥

तस्यापि नावकाशोऽस्ति अहमेव न वास्तवम् ।
त्वमेव नास्ति मे नास्ति ब्रह्मेति वचनं न च ॥ ४१.३९ ॥

ब्रह्मेति वचनं नास्ति ब्रह्मभावं न किञ्चन ।
एतद्ग्रन्थं न मे नास्ति सर्वं ब्रह्मेति विद्यते ॥ ४१.४० ॥

सर्वं ब्रह्मेति वाक्यं न सर्वं ब्रह्मेति तं न हि ।
तदिति द्वैतभिन्नं तु त्वमिति द्वैतमप्यलम् ॥ ४१.४१ ॥

एवं किञ्चित् क्वचिन्नास्ति सर्वं शान्तं निरामयम् ।
एकमेव द्वयं नास्ति एकत्वमपि नास्ति हि ॥ ४१.४२ ॥

भिन्नद्वन्द्वं जगद्दोषं संसारद्वैतवृत्तिकम् ।
साक्षिवृत्तिप्रपञ्चं वा अखण्डाकारवृत्तिकम् ॥ ४१.४३ ॥

अखण्डैकरसो नास्ति गुरुर्वा शिष्य एव वा ।
भवद्दर्शनमात्रेण सर्वमेवं न संशयः ॥ ४१.४४ ॥

ब्रह्मज्योतिरहं प्राप्तो ज्योतिषां ज्योतिरस्म्यहम् ।
नमस्ते सुगुरो ब्रह्मन् नमस्ते गुरुनन्दन ।
एवं कृत्य नमस्कारं तूष्णीमास्ते सुखी स्वयम् ॥ ४१.४५ ॥

किं चण्डभानुकरमण्डलदण्डितानि
काष्ठामुखेषु गलितानि नमस्ततीति ।
यादृक्च तादृगथ शङ्करलिङ्गसङ्ग-
भङ्गीनि पापकलशैलकुलानि सद्यः ।
श्रीमृत्युञ्जय रञ्जय त्रिभुवनाध्यक्ष प्रभो पाहि नः ॥ ४१.४६ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ग्रन्थप्रशस्तिनिरूपणं नाम एकचत्वारिंशोऽध्यायः ॥

४२ ॥ द्विचत्वारिंशोऽध्यायः ॥

ऋभुः –
श्रुतं किञ्चिन्मया प्रोक्तं ब्रह्मज्ञानं सुदुर्लभम् ।
मनसा धारितं ब्रह्म चित्तं कीदृक् स्थितं वद ॥ ४२.१ ॥

निदाघः –
श‍ृणु त्वं सुगुरो ब्रह्मंस्त्वत्प्रसादाद्वदाम्यहम् ।
ममाज्ञानं महादोषं महाज्ञाननिरोधकम् ॥ ४२.२ ॥

सदा कर्मणि विश्वासं प्रपञ्चे सत्यभावनम् ।
नष्टं सर्वं क्षणादेव त्वत्प्रसादान्महद्भयम् ॥ ४२.३ ॥

एतावन्तमिमं कालमज्ञानरिपुणा हृतम् ।
महद्भयं च नष्टं मे कर्मतत्त्वं च नाशितम् ॥ ४२.४ ॥

अज्ञानं मनसा पूर्वमिदानीं ब्रह्मतां गतम् ।
पुराहं चित्तवद्भूतः इदानीं सन्मयोऽभवम् ॥ ४२.५ ॥

पूर्वमज्ञानवद्भावं इदानीं सन्मयं गतम् ।
अज्ञानवत् स्थितोऽहं वै ब्रह्मैवाहं परं गतः ॥ ४२.६ ॥

पुराऽहं चित्तवद्भ्रान्तो ब्रह्मैवाहं परं गतः ।
सर्वो विगलितो दोषः सर्वो भेदो लयं गतः ॥ ४२.७ ॥

सर्वः प्रपञ्चो गलितश्चित्तमेव हि सर्वगम् ।
सर्वान्तःकरणं लीनं ब्रह्मसद्भावभावनात् ॥ ४२.८ ॥

अहमेव चिदाकाश अहमेव हि चिन्मयः ।
अहमेव हि पूर्णात्मा अहमेव हि निर्मलः ॥ ४२.९ ॥

अहमेवाहमेवेति भावनापि विनिर्गता ।
अहमेव चिदाकाशो ब्राह्मणत्वं न किञ्चन ॥ ४२.१० ॥

शूद्रोऽहं श्वपचोऽहं वै वर्णी चापि गृहस्थकः ।
वानप्रस्थो यतिरहमित्ययं चित्तविभ्रमः ॥ ४२.११ ॥

तत्तदाश्रमकर्माणि चित्तेन परिकल्पितम् ।
अहमेव हि लक्ष्यात्मा अहमेव हि पूर्णकः ॥ ४२.१२ ॥

अहमेवान्तरात्मा हि अहमेव परायणम् ।
अहमेव सदाधार अहमेव सुखात्मकः ॥ ४२.१३ ॥

त्वत्प्रसादादहं ब्रह्मा त्वत्प्रसादाज्जनार्दनः ।
त्वत्प्रसादाच्चिदाकाशः शिवोऽहं नात्र संशयः ॥ ४२.१४ ॥

त्वत्प्रसादादहं चिद्वै त्वत्प्रसादान्न मे जगत् ।
त्वत्प्रसादाद्विमुक्तोऽस्मि त्वत्प्रसादात् परं गतः ॥ ४२.१५ ॥

त्वत्प्रसादाद्व्यापकोऽहं त्वत्प्रसादान्निरङ्कुशः ।
त्वत्प्रसादेन तीर्णोऽहं त्वत्प्रसादान्महत्सुखम् ॥ ४२.१६ ॥

त्वत्प्रसादादहं ब्रह्म त्वत्प्रसादात् त्वमेव न ।
त्वत्प्रसादादिदं नास्ति त्वत्प्रसादान्न किञ्चन ॥ ४२.१७ ॥

त्वत्प्रसादान्न मे किञ्चित् त्वत्प्रसादान्न मे विपत् ।
त्वत्प्रसादान्न मे भेदस्त्वत्प्रसादान्न मे भयम् ॥ ४२.१८ ॥

त्वत्प्रसादान्नमे रोगस्त्वत्प्रसादान्न मे क्षतिः ।
यत्पादाम्बुजपूजया हरिरभूदर्च्यो यदंघ्र्यर्चना-
दर्च्याऽभूत् कमला विधिप्रभृतयो ह्यर्च्या यदाज्ञावशात् ।
तं कालान्तकमन्तकान्तकमुमाकान्तं मुहुः सन्ततं
सन्तः स्वान्तसरोजराजचरणाम्भोजं भजन्त्यादरात् ॥ ४२.१९ ॥

किं वा धर्मशतायुतार्जितमहासौख्यैकसीमायुतं
नाकं पातमहोग्रदुःखनिकरं देवेषु तुष्टिप्रदम् ।
तस्माच्छङ्करलिङ्गपूजनमुमाकान्तप्रियं मुक्तिदं
भूमानन्दघनैकमुक्तिपरमानन्दैकमोदं महः ॥ ४२.२० ॥

ये शांभवाः शिवरताः शिवनाममात्र-
शब्दाक्षरज्ञहृदया भसितत्रिपुण्ड्राः ।
यां प्राप्नुवन्ति गतिमीशपदांबुजोद्यद्-
ध्यानानुरक्तहृदया न हि योगसांख्यैः ॥ ४२.२१ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
निदाघानुभववर्णनप्रकरणं नाम द्विचत्वारिंशोऽध्यायः ॥

४३ ॥ त्रिचत्वारिंशोऽध्यायः ॥

निदाघः –
न पश्यामि शरीरं वा लिङ्गं करणमेव वा ।
न पश्यामि मनो वापि न पश्यामि जडं ततः ॥ ४३.१ ॥

न पश्यामि चिदाकाशं न पश्यामि जगत् क्वचित् ।
न पश्यामि हरिं वापि न पश्यामि शिवं च वा ॥ ४३.२ ॥

आनन्दस्यान्तरे लग्नं तन्मयत्वान्न चोत्थितः ।
न पश्यामि सदा भेदं न जडं न जगत् क्वचित् ॥ ४३.३ ॥

न द्वैतं न सुखं दुःखं न गुरुर्न परापरम् ।
न गुणं वा न तुर्यं वा न बुद्धिर्न च संशयः ॥ ४३.४ ॥

न च कालं न च भयं न च शोकं शुभाशुभम् ।
न पश्यामि सन्दीनं न बन्धं न च संभवम् ॥ ४३.५ ॥

न देहेन्द्रियसद्भावो न च सद्वस्तु सन्मनः ।
न पश्यामि सदा स्थूलं न कृशं न च कुब्जकम् ॥ ४३.६ ॥

न भूमिर्न जलं नाग्निर्न मोहो न च मन्त्रकम् ।
न गुरुर्न च वाक्यं वा न दृढं न च सर्वकम् ॥ ४३.७ ॥

न जगच्छ्रवणं चैव निदिध्यासं न चापरः ।
आनन्दसागरे मग्नस्तन्मयत्वान्न चोत्थितः ॥ ४३.८ ॥

आनन्दोऽहमशेषोऽहमजोऽहममृतोस्म्यहम् ।
नित्योऽहमिति निश्चित्य सदा पूर्णोऽस्मि नित्यधीः ॥ ४३.९ ॥

पूर्णोऽहं पूर्णचित्तोऽहं पुण्योऽहं ज्ञानवानहम् ।
शुद्धोऽहं सर्वमुक्तोऽहं सर्वाकारोऽहमव्ययः ॥ ४३.१० ॥

चिन्मात्रोऽहं स्वयं सोऽहं तत्त्वरूपोऽहमीश्वरः ।
परापरोऽहं तुर्योऽहं प्रसन्नोऽहं रसोऽस्म्यहम् ॥ ४३.११ ॥

ब्रह्माऽहं सर्वलक्ष्योऽहं सदा पूर्णोऽहमक्षरः ।
ममानुभवरूपं यत् सर्वमुक्तं च सद्गुरो ॥ ४३.१२ ॥

नमस्करोमि ते नाहं सर्वं च गुरुदक्षिणा ।
मद्देहं त्वत्पदे दत्तं त्वया भस्मीकृतं क्षणात् ॥ ४३.१३ ॥

ममात्मा च मया दत्तः स्वयमात्मनि पूरितः ।
त्वमेवाहमहं च त्वमहमेव त्वमेव हि ॥ ४३.१४ ॥

ऐक्यार्णवनिमग्नोऽस्मि ऐक्यज्ञानं त्वमेव हि ।
एकं चैतन्यमेवाहं त्वया गन्तुं न शक्यते ॥ ४३.१५ ॥

गन्तव्यदेशो नास्त्येव एकाकारं न चान्यतः ।
त्वया गन्तव्यदेशो न मया गन्तव्यमस्ति न ॥ ४३.१६ ॥

एकं कारणमेकं च एकमेव द्वयं न हि ।
त्वया वक्तव्यकं नास्ति मया श्रोतव्यमप्यलम् ॥ ४३.१७ ॥

त्वमेव सद्गुरुर्नासि अहं नास्मि सशिष्यकः ।
ब्रह्ममात्रमिदं सर्वमस्मिन्मानोऽस्मि तन्मयः ॥ ४३.१८ ॥

भेदाभेदं न पश्यामि कार्याकार्यं न किञ्चन ।
ममैव चेन्नमस्कारो निष्प्रयोजन एव हि ॥ ४३.१९ ॥

तवैव चेन्नमस्कारो भिन्नत्वान्न फलं भवेत् ।
तव चेन्मम चेद्भेदः फलाभावो न संशयः ॥ ४३.२० ॥

नमस्कृतोऽहं युष्माकं भवानज्ञीति वक्ष्यति ।
ममैवापकरिष्यामि परिच्छिन्नो भवाम्यहम् ॥ ४३.२१ ॥

ममैव चेन्नमस्कारः फलं नास्ति स्वतः स्थिते ।
कस्यापि च नमस्कारः कदाचिदपि नास्ति हि ॥ ४३.२२ ॥

सदा चैतन्यमात्रत्वात् नाहं न त्वं न हि द्वयम् ।
न बन्धं न परो नान्ये नाहं नेदं न किञ्चन ॥ ४३.२३ ॥

न द्वयं नैकमद्वैतं निश्चितं न मनो न तत् ।
न बीजं न सुखं दुःखं नाशं निष्ठा न सत्सदा ॥ ४३.२४ ॥

नास्ति नास्ति न सन्देहः केवलात् परमात्मनि ।
न जीवो नेश्वरो नैको न चन्द्रो नाग्निलक्षणः ॥ ४३.२५ ॥

न वार्ता नेन्द्रियो नाहं न महत्त्वं गुणान्तरम् ।
न कालो न जगन्नान्यो न वा कारणमद्वयम् ॥ ४३.२६ ॥

नोन्नतोऽत्यन्तहीनोऽहं न मुक्तस्त्वत्प्रसादतः ।
सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मैव केवलम् ॥ ४३.२७ ॥

अहं ब्रह्म इदं ब्रह्म आत्म ब्रह्माहमेव हि ।
सर्वं ब्रह्म न सन्देहस्त्वत्प्रसादान्महेश्वरः ॥ ४३.२८ ॥

त्वमेव सद्गुरुर्ब्रह्म न हि सद्गुरुरन्यतः ।
आत्मैव सद्गुरुर्ब्रह्म शिष्यो ह्यात्मैव सद्गुरुः ॥ ४३.२९ ॥

गुरुः प्रकल्पते शिष्यो गुरुहीनो न शिष्यकः ।
शिष्ये सति गुरुः कल्प्यः शिष्याभावे गुरुर्न हि ॥ ४३.३० ॥

गुरुशिष्यविहीनात्मा सर्वत्र स्वयमेव हि ।
चिन्मात्रात्मनि कल्प्योऽहं चिन्मात्रात्मा न चापरः ॥ ४३.३१ ॥

चिन्मात्रात्माहमेवैको नान्यत् किञ्चिन्न विद्यते ।
सर्वस्थितोऽहं सततं नान्यं पश्यामि सद्गुरोः ॥ ४३.३२ ॥

नान्यत् पश्यामि चित्तेन नान्यत् पश्यामि किञ्चन ।
सर्वाभावान्न पश्यामि सर्वं चेद् दृश्यतां पृथक् ॥ ४३.३३ ॥

एवं ब्रह्म प्रपश्यामि नान्यदस्तीति सर्वदा ।
अहो भेदं प्रकुपितं अहो माया न विद्यते ॥ ४३.३४ ॥

अहो सद्गुरुमाहात्म्यमहो ब्रह्मसुखं महत् ।
अहो विज्ञानमाहात्म्यमहो सज्जनवैभवः ॥ ४३.३५ ॥

अहो मोहविनाशश्च अहो पश्यामि सत्सुखम् ।
अहो चित्तं न पश्यामि अहो सर्वं न किञ्चन ॥ ४३.३६ ॥

अहमेव हि नान्यत्र अहमानन्द एव हि ।
ममान्तःकरणे यद्यन्निश्चितं भवदीरितम् ॥ ४३.३७ ॥

सर्वं ब्रह्म परं ब्रह्म न किञ्चिदन्यदैवतम् ।
एवं पश्यामि सततं नान्यत् पश्यामि सद्गुरो ॥ ४३.३८ ॥

एवं निश्चित्य तिष्ठामि स्वस्वरूपे ममात्मनि ॥ ४३.३९ ॥

अगाधवेदवाक्यतो न चाधिभेषजं भवे-
दुमाधवाङ्घ्रिपङ्कजस्मृतिः प्रबोधमोक्षदा ।
प्रबुद्धभेदवासनानिरुद्धहृत्तमोभिदे
महारुजाघवैद्यमीश्वरं हृदम्बुजे भजे ॥ ४३.४० ॥

द्यतत्प्रदग्धकामदेह दुग्धसन्निभं प्रमुग्धसामि ।
सोमधारिणं श्रुतीड्यगद्यसंस्तुतं त्वभेद्यमेकशङ्करम् ॥ ४३.४१ ॥

वरः कङ्कः काको भवदुभयजातेषु नियतं
महाशङ्कातङ्कैर्विधिविहितशान्तेन मनसा ।
यदि स्वैरं ध्यायन्नगपतिसुतानायकपदं
स एवायं धुर्यो भवति मुनिजातेषु नियतम् ॥ ४३.४२ ॥

कः कालान्तकपादपद्मभजनादन्यद्धृदा कष्टदां
धर्माभासपरंपरां प्रथयते मूर्खो खरीं तौरगीम् ।
कर्तुं यत्नशतैरशक्यकरणैर्विन्देत दुःखादिकंvar was दुःखाधिकम्
तद्वत् सांबपदांबुजार्चनरतिं त्यक्त्वा वृथा दुःखभाक् ॥ ४३.४३ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
निदाघानुभववर्णनप्रकरणं नाम त्रिचत्वारिंशोऽध्यायः ॥

४४ ॥ चतुश्चत्वारिंशोऽध्यायः ॥

निदाघः –
श‍ृणुश्व सद्गुरो ब्रह्मन् त्वत्प्रसादान्विनिश्चितम् ।
अहमेव हि तद्ब्रह्म अहमेव हि केवलम् ॥ ४४.१ ॥

अहमेव हि नित्यात्मा अहमेव सदाऽजरः ।
अहमेव हि शान्तात्मा अहमेव हि निष्कलः ॥ ४४.२ ॥

अहमेव हि निश्चिन्तः अहमेव सुखात्मकः ।
अहमेव गुरुस्त्वं हि अहं शिष्योऽस्मि केवलम् ॥ ४४.३ ॥

अहमानन्द एवात्मा अहमेव निरञ्जनः ।
अहं तुर्यातिगो ह्यात्मा अहमेव गुणोज्झितः ॥ ४४.४ ॥

अहं विदेह एवात्मा अहमेव हि शङ्करः ।
अहं वै परिपूर्णात्मा अहमेवेश्वरः परः ॥ ४४.५ ॥

अहमेव हि लक्ष्यात्मा अहमेव मनोमयः ।
अहमेव हि सर्वात्मा अहमेव सदाशिवः ॥ ४४.६ ॥

अहं विष्णुरहं ब्रह्मा अहमिन्द्रस्त्वहं सुराः ।
अहं वै यक्षरक्षांसि पिशाचा गुह्यकास्तथा ॥ ४४.७ ॥

अहं समुद्राः सरित अहमेव हि पर्वताः ।
अहं वनानि भुवनं अहमेवेदमेव हि ॥ ४४.८ ॥

नित्यतृप्तो ह्यहं शुद्धबुद्धोऽहं प्रकृतेः परः ।
अहमेव हि सर्वत्र अहमेव हि सर्वगः ॥ ४४.९ ॥

अहमेव महानात्मा सर्वमङ्गलविग्रहः ।
अहमेव हि मुक्तोऽस्मि शुद्धोऽस्मि परमः शिवः ॥ ४४.१० ॥

अहं भूमिरहं वायुरहं तेजो ह्यहं नभः ।
अहं जलमहं सूर्यश्चन्द्रमा भगणा ह्यहम् ॥ ४४.११ ॥

अहं लोका अलोकाश्च अहं लोक्या अहं सदा ।
अहमात्मा पारदृश्य अहं प्रज्ञानविग्रहः ॥ ४४.१२ ॥

अहं शून्यो अशून्योऽहं सर्वानन्दमयोऽस्म्यहम् ।
शुभाशुभफलातीतो ह्यहमेव हि केवलम् ॥ ४४.१३ ॥

अहमेव ऋतं सत्यमहं सच्चित्सुखात्मकः ।
अहमानन्द एवात्मा बहुधा चैकधा स्थितः ॥ ४४.१४ ॥

अहं भूतभविष्यं च वर्तमानमहं सदा ।
अहमेको द्विधाहं च बहुधा चाहमेव हि ॥ ४४.१५ ॥

अहमेव परं ब्रह्म अहमेव प्रजापतिः ।
स्वराट् सम्राड् जगद्योनिरहमेव हि सर्वदा ॥ ४४.१६ ॥

अहं विश्वस्तैजसश्च प्राज्ञोऽहं तुर्य एव हि ।
अहं प्राणो मनश्चाहमहमिद्रियवर्गकः ॥ ४४.१७ ॥

अहं विश्वं हि भुवनं गगनात्माहमेव हि ।
अनुपाधि उपाध्यं यत्तत्सर्वमहमेव हि ॥ ४४.१८ ॥

उपाधिरहितश्चाहं नित्यानन्दोऽहमेव हि ।
एवं निश्चयवानन्तः सर्वदा सुखमश्नुते ।
एवं यः श‍ृणुयान्नित्यं सर्वपापैः प्रमुच्यते ॥ ४४.१९ ॥

नित्योऽहं निर्विकल्पो जनवनभुवने पावनोऽहं मनीषी
विश्वो विश्वातिगोऽहं प्रकृतिविनिकृतो एकधा संस्थितोऽहम् ।
नानाकारविनाशजन्मरहितस्वज्ञानकार्योज्झितैः
भूमानन्दघनोऽस्म्यहं परशिवः सत्यस्वरूपोऽस्म्यहम् ॥ ४४.२० ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
निदाघानुभववर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥

४५ ॥ पञ्चचत्वारिंशोऽध्यायः ॥

निदाघः –
पुण्ये शिवरहस्येऽस्मिन्नितिहासे शिवोदिते ।
देव्यै शिवेन कथिते देव्या स्कन्दाय मोदतः ॥ ४५.१ ॥

तदेतस्मिन् हि षष्ठांशे षडास्यकमलोदिते ।
पारमेश्वरविज्ञानं श्रुतमेतन्महाघभित् ॥ ४५.२ ॥

महामायातमस्तोमविनिवारणभास्करम् ।
अस्याध्यायैककथनाद् विज्ञानं महदश्नुते ॥ ४५.३ ॥

श्लोकस्य श्रवणेनापि जीवन्मुक्तो न संशयः ।
एतद्ग्रन्थप्रवक्ता हि षण्मुखः शिव एव हि ॥ ४५.४ ॥

जैगीषव्यो महायोगी स एव श्रवणेऽर्हति ।
भस्मरुद्राक्षधृङ् नित्यं सदा ह्यत्याश्रमी मुनिः ॥ ४५.५ ॥

एतद्ग्रन्थप्रवक्ता हि स गुरुर्नात्र संशयः ।
एतद्ग्रन्थप्रवक्ता हि परं ब्रह्म न संशयः ॥ ४५.६ ॥

एतद्ग्रन्थप्रवक्ता हि शिव एव न चापरः ।
एतद्ग्रन्थप्रवक्ता हि साक्षाद्देवी न संशयः ॥ ४५.७ ॥

एतद्ग्रन्थप्रवक्ता हि गणेशो नात्र संशयः ।
एतद्ग्रन्थप्रवक्ता हि स्कन्दः स्कन्दिततारकः ॥ ४५.८ ॥

एतद्ग्रन्थप्रवक्ता हि नन्दिकेशो न संशयः ।
एतद्ग्रन्थप्रवक्ता हि दत्तात्रेयो मुनिः स्वयम् ॥ ४५.९ ॥

एतद्ग्रन्थप्रवक्ता हि दक्षिणामूर्तिरेव हि ।
एतद्ग्रन्थार्थकथने भावने मुनयः सुराः ॥ ४५.१० ॥

न शक्ता मुनिशार्दूल त्वदृतेऽहं शिवं शपे ।
एतद्ग्रन्थार्थवक्तारं गुरुं सर्वात्मना यजेत् ॥ ४५.११ ॥

एतद्ग्रन्थप्रवक्ता तु शिवो विघ्नेश्वरः स्वयम् ।
पिता हि जन्मदो दाता गुरुर्जन्मविनाशकः ॥ ४५.१२ ॥

एतद्ग्रन्थं समभ्यस्य गुरोर्वाक्याद्विशेषतः ।
न दुह्येत गुरुं शिष्यो मनसा किञ्च कायतः ॥ ४५.१३ ॥

गुरुरेव शिवः साक्षात् गुरुरेव शिवः स्वयम् ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ ४५.१४ ॥

एतद्ग्रन्थपदाभ्यासे श्रद्धा वै कारणं परम् ।
अश्रद्धधानः पुरुषो नैतल्लेशमिहार्हति ॥ ४५.१५ ॥

श्रद्धैव परमं श्रेयो जीवब्रह्मैक्यकारणम् ।
अस्ति ब्रह्मेति च श्रुत्वा भावयन् सन्त एव हि ॥ ४५.१६ ॥

शिवप्रसादहीनो यो नैतद्ग्रन्थार्थविद्भवेत् ।
भावग्राह्योऽयमात्मायं पर एकः शिवो ध्रुवः ॥ ४५.१७ ॥

सर्वमन्यत् परित्यज्य ध्यायीतेशानमव्ययम् ।
शिवज्ञानमिदं शुद्धं द्वैताद्वैतविनाशनम् ॥ ४५.१८ ॥

अन्येषु च पुराणेषु इतिहासेषु न क्वचित् ।
एतादृशं शिवज्ञानं श्रुतिसारमहोदयम् ॥ ४५.१९ ॥

उक्तं साक्षाच्छिवेनैतद् योगसांख्यविवर्जितम् ।
भावनामात्रसुलभं भक्तिगम्यमनामयम् ॥ ४५.२० ॥

महानन्दप्रदं साक्षात् प्रसादेनैव लभ्यते ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ४५.२१ ॥

एतद्ग्रन्थं गुरोः श्रुत्वा न पूजां कुरुते यदि ।
श्वानयोनिशतं प्राप्य चण्डालः कोटिजन्मसु ॥ ४५.२२ ॥

एतद्ग्रन्थस्य माहात्म्यं न यजन्तीश्वरं हृदा ।
स सूकरो भवत्येव सहस्रपरिवत्सरान् ॥ ४५.२३ ॥

एतद्ग्रन्थार्थवक्तारमभ्यसूयेत यो द्विजः ।
अनेकब्रह्मकल्पं च विष्ठायां जायते क्रिमिः ॥ ४५.२४ ॥

एतद्ग्रन्थार्थविद्ब्रह्मा स ब्रह्म भवति स्वयम् ।
किं पुनर्बहुनोक्तेन ज्ञानमेतद्विमुक्तिदम् ॥ ४५.२५ ॥

यस्त्वेतच्छृणुयाच्छिवोदिमहावेदान्तांबुधि (?)
वीचिजातपुण्यं नापेक्षत्यनिशं न चाब्दकल्पैः ।
शब्दानां निखिलो रसो हि स शिवः किं वा तुषाद्रि
परिखंडनतो भवेत् स्यात् तण्डुलोऽपि स मृषा भवमोहजालम् ॥ ४५.२६ ॥

तद्वत् सर्वमशास्त्रमित्येव हि सत्यं
द्वैतोत्थं परिहाय वाक्यजालम् ।
एवं त्वं त्वनिशं भजस्व नित्यं
शान्तोद्यखिलवाक् समूहभावना ॥ ४५.२७ ॥

सत्यत्वाभावभावितोऽनुरूपशीलः ।
सम्पश्यन् जगदिदमासमञ्जसं सदा हि ॥ ४५.२८ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
निदाघकृतगुरुस्तुतिवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥

४६ ॥ षट्चत्वारिंशोऽध्यायः ॥

निदाघः –
एतद्ग्रन्थं सदा श्रुत्वा चित्तजाड्यमकुर्वतः ।
यावद्देहं सदा वित्तैः शुश्रूषेत् पूजयेद्गुरुम् ॥ ४६.१ ॥

तत्पूजयैव सततं अहं ब्रह्मेति निश्चिनु ।
नित्यं पूर्णोऽस्मि नित्योऽस्मि सर्वदा शान्तविग्रहः ॥ ४६.२ ॥

एतदेवात्मविज्ञानं अहं ब्रह्मेति निर्णयः ।
निरङ्कुशस्वरूपोऽस्मि अतिवर्णाश्रमी भव ॥ ४६.३ ॥

अग्निरित्यादिभिर्मन्त्रैः सर्वदा भस्मधारणम् ।
त्रियायुषैस्त्र्यंबकैश्च कुर्वन्ति च त्रिपुण्ड्रकम् ॥ ४६.४ ॥

त्रिपुण्ड्रधारिणामेव सर्वदा भस्मधारणम् ।
शिवप्रसादसम्पत्तिर्भविष्यति न संशयः ॥ ४६.५ ॥

शिवप्रसादादेतद्वै ज्ञानं सम्प्राप्यते ध्रुवम् ।
शिरोव्रतमिदं प्रोक्तं केवलं भस्मधारणम् ॥ ४६.६ ॥

भस्मधारणमात्रेण ज्ञानमेतद्भविष्यति ।
अहं वत्सरपर्यन्तं कृत्वा वै भस्मधारणम् ॥ ४६.७ ॥

त्वत्पादाब्जं प्रपन्नोऽस्मि त्वत्तो लब्धात्म निर्वृतिः ।
सर्वाधारस्वरूपोऽहं सच्चिदानन्दमात्रकम् ॥ ४६.८ ॥

ब्रह्मात्माहं सुलक्षण्यो ब्रह्मलक्षणपूर्वकम् ।
आनन्दानुभवं प्राप्तः सच्चिदानन्दविग्रहः ॥ ४६.९ ॥

गुणरूपादिमुक्तोऽस्मि जीवन्मुक्तो न संशयः ।
मैत्र्यादिगुणसम्पन्नो ब्रह्मैवाहं परो महान् ॥ ४६.१० ॥

समाधिमानहं नित्यं जीवन्मुक्तेषु सत्तमः ।
अहं ब्रह्मास्मि नित्योऽस्मि समाधिरिति कथ्यते ॥ ४६.११ ॥

प्रारब्धप्रतिबन्धश्च जीवन्मुक्तेषु विद्यते ।
प्रारब्धवशतो यद्यत् प्राप्यं भुञ्जे सुखं वस ॥ ४६.१२ ॥

दूषणं भूषणं चैव सदा सर्वत्र संभवेत् ।
स्वस्वनिश्चयतो बुद्ध्या मुक्तोऽहमिति मन्यते ॥ ४६.१३ ॥

अहमेव परं ब्रह्म अहमेव परा गतिः ।
एवं निश्चयवान् नित्यं जीवन्मुक्तेति कथ्यते ॥ ४६.१४ ॥

एतद्भेदं च सन्त्यज्य स्वरूपे तिष्ठति प्रभुः ।
इन्द्रियार्थविहीनोऽहमिन्द्रियार्थविवर्जितः ॥ ४६.१५ ॥

सर्वेन्द्रियगुणातीतः सर्वेन्द्रियविवर्जितः ।
सर्वस्य प्रभुरेवाहं सर्वं मय्येव तिष्ठति ॥ ४६.१६ ॥

अहं चिन्मात्र एवास्मि सच्चिदान्दविग्रहः ।
सर्वं भेदं सदा त्यक्त्वा ब्रह्मभेदमपि त्यजेत् ॥ ४६.१७ ॥

अजस्रं भावयन् नित्यं विदेहो मुक्त एव सः ।
अहं ब्रह्म परं ब्रह्म अहं ब्रह्म जगत्प्रभुः ॥ ४६.१८ ॥

अहमेव गुणातीतः अहमेव मनोमयः ।
अहं मय्यो मनोमेयः प्राणमेयः सदामयः ॥ ४६.१९ ॥

सदृङ्मयो ब्रह्ममयोऽमृतमयः सभूतोमृतमेव हि ।
अहं सदानन्दधनोऽव्ययः सदा ।
स वेदमय्यो प्रणवोऽहमीशः ॥ ४६.२० ॥

अपाणिपादो जवनो गृहीता
अपश्यः पश्याम्यात्मवत् सर्वमेव ।
यत्तद्भूतं यच्च भव्योऽहमात्मा
सर्वातीतो वर्तमानोऽहमेव ॥ ४६.२२ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ज्ञानोपायभूतशिवव्रतनिरूपणं नाम षट्चत्वारिंशोऽध्यायः ॥

४७ ॥ सप्तचत्वारिंशोऽध्यायः ॥

ऋभुः –
निदाघ श‍ृणु वक्ष्यामि दृढीकरणमस्तु ते ।
शिवप्रसादपर्यन्तमेवं भावय नित्यशः ॥ ४७.१ ॥

अहमेव परं ब्रह्म अहमेव सदाशिवः ।
अहमेव हि चिन्मात्रमहमेव हि निर्गुणः ॥ ४७.२ ॥

अहमेव हि चैतन्यमहमेव हि निष्कलः ।
अहमेव हि शून्यात्मा अहमेव हि शाश्वतः ॥ ४७.३ ॥

अहमेव हि सर्वात्मा अहमेव हि चिन्मयः ।
अहमेव परं ब्रह्म अहमेव महेश्वरः ॥ ४७.४ ॥

अहमेव जगत्साक्षी अहमेव हि सद्गुरुः ।
अहमेव हि मुक्तात्मा अहमेव हि निर्मलः ॥ ४७.५ ॥

अहमेवाहमेवोक्तः अहमेव हि शङ्करः ।
अहमेव हि महाविष्णुरहमेव चतुर्मुखः ॥ ४७.६ ॥

अहमेव हि शुद्धात्मा ह्यहमेव ह्यहं सदा ।
अहमेव हि नित्यात्मा अहमेव हि मत्परः ॥ ४७.७ ॥

अहमेव मनोरूपं अहमेव हि शीतलः ।
अहमेवान्तर्यामी च अहमेव परेश्वरः ॥ ४७.८ ॥

एवमुक्तप्रकारेण भावयित्वा सदा स्वयम् ।
द्रव्योऽस्ति चेन्न कुर्यात्तु वंचकेन गुरुं परम् ॥ ४७.९ ॥

कुम्भीपाके सुघोरे तु तिष्ठत्येव हि कल्पकान् ।
श्रुत्वा निदाघश्चोथाय पुत्रदारान् प्रदत्तवान् ॥ ४७.१० ॥

स्वशरीरं च पुत्रत्वे दत्वा सादरपूर्वकम् ।
धनधान्यं च वस्त्रादीन् दत्वाऽतिष्ठत् समीपतः ॥ ४७.११ ॥

गुरोस्तु दक्षिणां दत्वा निदाघस्तुष्टवानृभुम् ।
सन्तुष्टोऽस्मि महाभाग तव शुश्रूषया सदा ॥ ४७.१२ ॥

ब्रह्मविज्ञानमाप्तोऽसि सुकृतार्थो न संशयः ।
ब्रह्मरूपमिदं चेति निश्चयं कुरु सर्वदा ॥ ४७.१३ ॥

निश्चयादपरो मोक्षो नास्ति नास्तीति निश्चिनु ।
निश्चयं कारणं मोक्षो नान्यत् कारणमस्ति वै ॥ ४७.१४ ॥

सकलभुवनसारं सर्ववेदान्तसारं
समरसगुरुसारं सर्ववेदार्थसारम् ।
सकलभुवनसारं सच्चिदानन्दसारं
समरसजयसारं सर्वदा मोक्षसारम् ॥ ४७.१५ ॥

सकलजननमोक्षं सर्वदा तुर्यमोक्षं
सकलसुलभमोक्षं सर्वसाम्राज्यमोक्षम् ।
विषयरहितमोक्षं वित्तसंशोषमोक्षं
श्रवणमननमात्रादेतदत्यन्तमोक्षम् ॥ ४७.१६ ॥

तच्छुश्रूषा च भवतः तच्छ्रुत्वा च प्रपेदिरे ।
एवं सर्ववचः श्रुत्वा निदाघऋषिदर्शितम् ।
शुकादयो महान्तस्ते परं ब्रह्ममवाप्नुवन् ॥ ४७.१७ ॥

श्रुत्वा शिवज्ञानमिदं ऋभुस्तदा
निदाघमाहेत्थं मुनीन्द्रमध्ये ।
मुदा हि तेऽपि श्रुतिशब्दसारं
श्रुत्वा प्रणम्याहुरतीव हर्षात् ॥ ४७.१८ ॥

मुनयः –
पिता माता भ्राता गुरुरसि वयस्योऽथ हितकृत्
अविद्याब्धेः पारं गमयसि भवानेव शरणम् ।
बलेनास्मान् नीत्वा मम वचनबलेनैव सुगमं
पथं प्राप्त्यैवार्थैः शिववचनतोऽस्मान् सुखयसि ॥ ४७.१९ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
ऋभुकृतसंग्रहोपदेशवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥

४८ ॥ अष्टचत्वारिंशोऽध्यायः ॥

स्कन्दः –
ज्ञानाङ्गसाधनं वक्ष्ये श‍ृणु वक्ष्यामि ते हितम् ।
यत् कृत्वा ज्ञानमाप्नोति तत् प्रादात् परमेष्ठिनः ॥ ४८.१ ॥

जैगीषव्य श‍ृणुष्वैतत् सावधानेन चेतसा ।
प्रथमं वेदसम्प्रोक्तं कर्माचरणमिष्यते ॥ ४८.२ ॥

उपनीतो द्विजो वापि वैश्यः क्षत्रिय एव वा ।
अग्निरित्यादिभिर्मन्त्रैर्भस्मधृक् पूयते त्वघैः ॥ ४८.३ ॥

त्रियायुषैस्त्र्यम्बकैश्च त्रिपुण्ड्रं भस्मनाऽऽचरेत् ।
लिङ्गार्चनपरो नित्यं रुद्राक्षान् धारयन् क्रमैः ॥ ४८.४ ॥

कण्ठे बाह्वोर्वक्षसी च मालाभिः शिरसा तथा ।
त्रिपुण्ड्रवद्धारयेत रुद्राक्षान् क्रमशो मुने ॥ ४८.५ ॥

एकाननं द्विवक्त्रं वा त्रिवक्त्रं चतुरास्यकम् ।
पञ्चवक्त्रं च षट् सप्त तथाष्टदशकं नव ॥ ४८.६ ॥

एकादशं द्वादशं वा तथोर्ध्वं धारयेत् क्रमात् ।
भस्मधारणमात्रेण प्रसीदति महेश्वरः ॥ ४८.७ ॥

रुद्राक्षधारणादेव नरो रुद्रत्वमाप्नुयात् ।
भस्मरुद्राक्षधृङ्मर्त्यो ज्ञानाङ्गी भवति प्रियः ॥ ४८.८ ॥

रुद्राध्यायी भस्मनिष्ठः पञ्चाक्षरजपाधरः ।
भस्मोद्धूलितदेहोऽयं श्रीरुद्रं प्रजपन् द्विजः ॥ ४८.९ ॥

सर्वपापैर्विमुक्तश्च ज्ञाननिष्ठो भवेन्मुने ।
भस्मसंछन्नसर्वाङ्गो भस्मफालत्रिपुण्ड्रकः ॥ ४८.१० ॥

वेदमौलिजवाक्येषु विचाराधिकृतो भवेत् ।
नान्यपुण्ड्रधरो विप्रो यतिर्वा विप्रसत्तम ॥ ४८.११ ॥

शमादिनियमोपेतः क्षमायुक्तोऽप्यसंस्कृतः ।
शिरोव्रतमिदं प्रोक्तं भस्मधारणमेव हि ॥ ४८.१२ ॥

शिरोव्रतं च विधिवद्यैश्चीर्णं मुनिसत्तम ।
तेषामेव ब्रह्मविद्यां वदेत गुरुरास्तिकः ॥ ४८.१३ ॥

शांभवा एव वेदेषु निष्ठा नष्टाशुभाः परम् ।
शिवप्रसादसम्पन्नो भस्मरुद्राक्षधारकः ॥ ४८.१४ ॥

रुद्राध्यायजपासक्तः पञ्चाक्षरपरायणः ।
स एव वेदवेदान्तश्रवणेऽधिकृतो भवेत् ॥ ४८.१५ ॥

नान्यपुण्ड्रधरो विप्रः कृत्वापि श्रवणं बहु ।
नैव लभ्येत तद्ज्ञानं प्रसादेन विनेशितुः ॥ ४८.१६ ॥

प्रसादजनकं शम्भोर्भस्मधारणमेव हि ।
शिवप्रसादहीनानां ज्ञानं नैवोपजायते ॥ ४८.१७ ॥

प्रसादे सति देवस्य विज्ञानस्फुरणं भवेत् ।
रुद्राध्यायजापिनां तु भस्मधारणपूर्वकम् ॥ ४८.१८ ॥

प्रसादो जायते शम्भोः पुनरावृत्तिवर्जितः ।
प्रसादे सति देवस्य वेदान्तस्फुरणं भवेत् ॥ ४८.१९ ॥

तस्यैवाकथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।
पञ्चाक्षरजपादेव पञ्चास्यध्यानपूर्वकम् ॥ ४८.२० ॥

तस्यैव भवति ज्ञानं शिवप्रोक्तमिदं ध्रुवम् ।
सर्वं शिवात्मकं भाति जगदेतत् चराचरम् ॥ ४८.२१ ॥

स प्रसादो महेशस्य विज्ञेयः शांभवोत्तमैः ।
शिवलिङ्गार्चनादेव प्रसादः शांभवोत्तमे ॥ ४८.२२ ॥

नियमाद्बिल्वपत्रैश्च भस्मधारणपूर्वकम् ।
प्रसादो जायते शम्भोः साक्षाद्ज्ञानप्रकाशकः ॥ ४८.२३ ॥

शिवक्षेत्रनिवासेन ज्ञानं सम्यक् दृढं भवेत् ।
शिवक्षेत्रनिवासे तु भस्मधार्यधिकारवान् ॥ ४८.२४ ॥

नक्ताशनार्चनादेव प्रीयेत भगवान् भवः ।
प्रदोषपूजनं शंभोः प्रसादजनकं परम् ॥ ४८.२५ ॥

सोमवारे निशीथेषु पूजनं प्रियमीशितुः ।
भूतायां भूतनाथस्य पूजनं परमं प्रियम् ॥ ४८.२६ ॥

शिवशब्दोच्चारणं च प्रसादजनकं महत् ।
ज्ञानाङ्गसाधनेष्वेवं शिवभक्तार्चनं महत् ॥ ४८.२७ ॥

भक्तानामर्चनादेव शिवः प्रीतो भविष्यति ।
इत्येतत्तं समासेन ज्ञानाङ्गं कथितं मया ।
अकैतवेन भावेन श्रवणीयो महेश्वरः ॥ ४८.२८ ॥

सूतः –
यः कोऽपि प्रसभं प्रदोषसमये बिल्वीदलालङ्कृतं
लिङ्गं तुङ्गमपारपुण्यविभवैः पश्येदथार्चेत वा ।
प्राप्तं राज्यमवाप्य कामहृदयस्तुष्येदकामो यदि
मुक्तिद्वारमपावृतं स तु लभेत् शम्भोः कटाक्षाङ्कुरैः ॥ ४८.२९ ॥

अचलातुलराजकन्यकाकुचलीलामलबाहुजालमीशम् ।
भजतामनलाक्षिपादपद्मं भवलीलं न भवेत चित्तबालम् ॥ ४८.३० ॥

भस्मत्रिपुण्ड्ररचिताङ्गकबाहुफाल-
रुद्राक्षजालकवचाः श्रुतिसूक्तिमालाः ।
वेदोरुरत्नपदकाङ्कितशम्भुनाम-
लोला हि शांभववराः परिशीलयन्ति ॥ ४८.३१ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे
स्कन्दकृतशिवव्रतोपदेशवर्णनं नाम अष्टचत्वारिंशोऽध्यायः ॥

४९ ॥ एकोनपञ्चाशोऽध्यायः ॥

स्कन्दः –
पुरा मगधदेशीयो ब्राह्मणो वेदपारगः ।
उचथ्यतनयो वाग्मी वेदार्थप्रवणे धृतः ॥ ४९.१ ॥

नाम्ना सुदर्शनो विप्रान् पाठयन् शास्त्रमुत्तमम् ।
वेदान्तपरया भक्त्या वर्णाश्रमरतः सदा ॥ ४९.२ ॥

मोक्षमिच्छेदपि सदा विप्रोऽपि च जनार्दनात् ।
विष्णुपूजापरो नित्यं विष्णुक्षेत्रेषु संवसन् ॥ ४९.३ ॥

गोपीचन्दनफालोसौ तुलस्यैवार्चयद्धरिम् ।
उवास नियतं विप्रो विष्णुध्यानपरायणः ॥ ४९.४ ॥

दशवर्षमिदं तस्य कृत्यं दृष्ट्वा जनार्दनः ।
मोक्षेच्छोराजुहावैनं पुरतोद्भूय तं द्विजम् ॥ ४९.५ ॥

विष्णुः –
औचथ्य मुनिशार्दूल तपस्यभिरतः सदा ।
वृणु कामं ददाम्येव विना ज्ञानं द्विजोत्तम ॥ ४९.६ ॥

सूतः –
इति विष्णोर्गिरं श्रुत्वा विप्रः किञ्चिद्भयान्वितः ।
प्रणिपत्याह तं विष्णुं स्तुवन्नारायणेति तम् ॥ ४९.७ ॥

सुदर्शनः –
विष्णो जिष्णो नमस्तेऽस्तु शङ्खचक्रगदाधर ।
त्वत्पादनलिनं प्राप्तो ज्ञानायानर्हणः किमु ॥ ४९.८ ॥

किमन्यैर्धर्मकामार्थैर्नश्वरैरिह शङ्खभृत् ।
इत्युक्तं तद्वचः श्रुत्वा विष्णु प्राह सुदर्शनम् ॥ ४९.९ ॥

विष्णुः –
सुदर्शन श‍ृणुष्वैतन्मत्तो नान्यमना द्विज ।
वदामि ते हितं सत्यं मया प्राप्तं यथा तव ॥ ४९.१० ॥

मदर्चनेन ध्यानेन मोक्षेच्छा जायते नृणाम् ।
मोक्षदाता महादेवो ज्ञानविज्ञानदायकः ॥ ४९.११ ॥

तदर्चनेन सम्प्राप्तं मया पूर्वं सुदर्शनम् ।
सहस्रारं दैत्यहन्तृ साक्षात् त्र्यक्षप्रपूजया ॥ ४९.१२ ॥

तमाराधय यत्नेन भस्मधारणपूर्वकम् ।
अग्निरित्यादिभिर्मन्त्रैस्त्रियायुषत्रिपुण्ड्रकैः ॥ ४९.१३ ॥

रुद्राक्षधारको नित्यं रुद्रपञ्चाक्षरादरः ।
शिवलिङ्गं बिल्वपत्रैः पूजयन् ज्ञानवान् भव ॥ ४९.१४ ॥

वसन् क्षेत्रे महेशस्य स्नाहि तीर्थे च शाङ्करे ।
अहं ब्रह्मादयो देवाः पूजयैव पिनाकिनः ॥ ४९.१५ ॥

बलिनः शिवलिङ्गस्य पूजया विप्रसत्तम ।
यस्य फालतलं मेऽद्य त्रिपुण्ड्रपरिचिन्हितम् ॥ ४९.१६ ॥

ब्रह्मेन्द्रदेवमुनिभिस्त्रिपुण्ड्रं भस्मना धृतम् ।
पश्य वक्षसि बाह्वोर्मे रुद्राक्षाणां स्रजं शुभाम् ॥ ४९.१७ ॥

पञ्चाक्षरजपासक्तो रुद्राध्यायपरायणः ।
त्रिकालमर्चयामीशं बिल्वपत्रैरहं शिवम् ॥ ४९.१८ ॥

कमला विमला नित्यं कोमलैर्बिल्वपल्लवैः ।
पूजयत्यनिशं लिङ्गे तथा ब्रह्मादयः सुराः ॥ ४९.१९ ॥

मुनयो मनवोऽप्येवं तथान्ये द्विजसत्तमाः ।
नृपासुरास्तथा दैत्या बलिनः शिवपूजया ॥ ४९.२० ॥

ज्ञानं मोक्षस्तथा भाग्यं लभ्यते शङ्करार्चनात् ।
तस्मात् त्वमपि भक्त्यैव समाराधय शङ्करम् ॥ ४९.२१ ॥

पशवो विष्णुविधयस्तथान्ये मुनयः सुराः ।
सर्वेषां पतिरीशानस्तत्प्रसादाद्विमुक्तिभाक् ॥ ४९.२२ ॥

प्रसादजनकं तस्य भस्मधारणमेव हि ।
प्रसादजनकं तस्य मुने रुद्राक्षधारणम् ॥ ४९.२३ ॥

प्रसादजनकस्तस्य रुद्राध्यायजपः सदा ।
प्रसादजनकस्तस्य पञ्चाक्षरजपो द्विज ॥ ४९.२४ ॥

प्रसादजनकं तस्य शिवलिङ्गैकपूजनम् ।
प्रसादे शांभवे जाते भुक्तिमुक्ती करे स्थिते ॥ ४९.२५ ॥

तस्य भक्त्यैव सर्वेषां मोचनं भवपाशतः ।
तस्य प्रीतिकरं साक्षाद्बिल्वैर्लिङ्गस्य पूजनम् ॥ ४९.२६ ॥

तस्य प्रीतिकरं साक्षाच्छिवक्षेत्रेषु वर्तनम् ।
तस्य प्रीतिकरं साक्षात् शिवतीर्थनिषेवणम् ॥ ४९.२७ ॥

तस्य प्रीतिकरं साक्षात् भस्मरुद्राक्षधारणम् ।
तस्य प्रीतिकरं साक्षात् प्रदोषे शिवपूजनम् ॥ ४९.२८ ॥

तस्य प्रीतिकरं साक्षाद् रुद्रपञ्चाक्षरावृतिः ।
तस्य प्रीतिकरं साक्षाच्छिवभक्तजनार्चनम् ॥ ४९.२९ ॥

तस्य प्रीतिकरं साक्षात् सोमे सायन्तनार्चनम् ।
तस्य प्रीतिकरं साक्षात् तन्निर्माल्यैकभोजनम् ॥ ४९.३० ॥

तस्य प्रीतिकरं साक्षाद् अष्टमीष्वर्चनं निशि ।
तस्य प्रीतिकरं साक्षात् चतुर्दश्यर्चनं निशि ॥ ४९.३१ ॥

तस्य प्रीतिकरं साक्षात् तन्नाम्नां स्मृतिरेव हि ।
एतावानेन धर्मो हि शम्भोः प्रियकरो महान् ॥ ४९.३२ ॥

अन्यदभ्युदयं विप्र श्रुतिस्मृतिषु कीर्तितम् ।
धर्मो वर्णाश्रमप्रोक्तो मुनिभिः कथितो मुने ॥ ४९.३३ ॥

अविमुक्ते विशेषेण शिवो नित्यं प्रकाशते ।
तस्मात् काशीति तत् प्रोक्तं यतो हीशः प्रकाशते ॥ ४९.३४ ॥

तत्रैवामरणं तिष्ठेदिति जाबालिकी श्रुतिः ।
तत्र विश्वेश्वरे लिङ्गे नित्यं ब्रह्म प्रकाशते ॥ ४९.३५ ॥

तत्रान्नपूर्णा सर्वेषां भुक्त्यन्नं सम्प्रयच्छति ।
तत्रास्ति मणिकर्णाख्यं मणिकुण्डं विनिर्मितम् ॥ ४९.३६ ॥

ज्ञानोदयोऽपि तत्रास्ति सर्वेषां ज्ञानदायकः ।
तत्र याहि मया सार्धं तत्रैव वस वै मुने ॥ ४९.३७ ॥

तत्रान्ते मोक्षदं ज्ञानं ददातीश्वर एव हि ।
इत्युक्त्वा तेन विप्रेण ययौ काशीं हरिः स्वयम् ॥ ४९.३८ ॥

स्नात्वा तीर्थे चक्रसंज्ञे ज्ञानवाप्यां हरिद्विजः ।
तं द्विजं स्नापयामास भस्मनापादमस्तकम् ॥ ४९.३९ ॥

धृतत्रिपुण्ड्ररुद्राक्षं कृत्वा तं च सुदर्शनम् ।
पूजयच्चाथ विश्वेशं पूजयामास च द्विजान् ॥ ४९.४० ॥

बिल्वैर्गन्धाक्षतैर्दीपैर्नैवेद्यैश्च मनोहरैः ।
तुष्टाव प्रणिपत्यैवं स द्विजो मधुसूदनः ॥ ४९.४१ ॥

सुदर्शनविष्णू –
भज भज भसितानलोज्वलाक्षं
भुजगाभोगभुजङ्गसङ्गहस्तम् ।
भवभीममहोग्ररुद्रमीड्यं
भवभर्जकतर्जकं महैनसाम् ॥ ४९.४२ ॥

वेदघोषभटकाटकावधृक् देहदाहदहनामल काल ।
जूटकोटिसुजटातटिदुद्यद्रागरञ्जितटिनीशशिमौले ॥ ४९.४३ ॥

शंबराङ्कवरभूष पाहि मामम्बरान्तरचरस्फुटवाह ।
वारिजाद्यघनघोष शङ्कर त्राहि वारिजभवेड्य महेश ॥ ४९.४४ ॥

मदगजवरकृत्तिवास शंभो
मधुमदनाक्षिसरोरुहार्च्यपाद ।
यममददमनान्धशिक्ष शंभो
पुरहर पाहि दयाकटाक्षसारैः ॥ ४९.४५ ॥

अपां पुष्पं मौलौ हिमभयहरः फालनयनः
जटाजूटे गङ्गाऽम्बुजविकसनः सव्यनयनः ।
गरं कण्ठे यस्य त्रिभुवनगुरोः शंबरहर
मतङ्गोद्यत्कृत्तेर्भवहरणपादाब्जभजनम् ॥ ४९.४६ ॥

श्रीबिल्वमूलशितिकण्ठमहेशलिङ्गं
बिल्वाम्बुजोत्तमवरैः परिपूज्य भक्त्या ।
स्तम्बेरमाङ्गवदनोत्तमसङ्गभङ्ग
राजद्विषाङ्गपरिसङ्गमहेशशाङ्गम् ॥ ४९.४७ ॥

यो गौरीरमणार्चनोद्यतमतिर्भूयो भवेच्छांभवो
भक्तो जन्मपरंपरासु तु भवेन्मुक्तोऽथ मुक्त्यङ्गना-
कान्तस्वान्तनितान्तशान्तहृदये कार्तान्तवार्तोज्झितः ।
विष्णुब्रह्मसुरेन्द्ररञ्जितमुमाकान्तांघ्रिपङ्केरुह-
ध्यानानन्दनिमग्नसर्वहृदयः किञ्चिन्न जानात्यपि ॥ ४९.४८ ॥

कामारातिपदाम्बुजार्चनरतः पापानुतापाधिक-
व्यापारप्रवणप्रकीर्णमनसा पुण्यैरगण्यैरपि ।
नो दूयेत विशेषसन्ततिमहासारानुकारादरा-
दाराग्राहकुमारमारसुशराद्याघातभीतैरपि ॥ ४९.४९ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे विष्णूचथ्यसंवादे
शिवस्य ज्ञानदातृत्वनिरूपणं नाम एकोनपञ्चाशोऽध्यायः ॥

५० ॥ पञ्चाशोऽध्यायः ॥

स्कन्दः –
विष्णुस्तवान्ते विप्रोऽसौ सुदर्शनसमाह्वयः ।
स्नात्वाऽथ मणिकर्ण्यां स भस्मरुद्राक्षभूषणः ॥ ५०.१ ॥

सञ्जपन् शतरुद्रीयं पञ्चाक्षरपरायणः ।
सम्पाद्य बिल्वपत्राणि कमलान्यमलान्यपि ॥ ५०.२ ॥

गन्धाक्षतैर्धूपदीपैर्नैवेद्यैर्विविधैरपि ।
विष्णूपदिष्टमार्गेण नित्यमन्तर्गृहस्य हि ॥ ५०.३ ॥

प्रदक्षिणं चकारासौ लिङ्गान्यभ्यर्चयंस्तथा ।
विश्वेश्वराविमुक्तेशौ वीरेशं च त्रिलोचनम् ॥ ५०.४ ॥

कृत्तिवासं वृद्धकाले केदारं शूलटङ्ककम् ।
रत्नेशं भारभूतेशं चन्द्रेशं सिद्धकेश्वरम् ॥ ५०.५ ॥

घण्टाकर्णेश्वरं चैव नारदेशं यमेश्वरम् ।
पुलस्तिपुलहेशं च विकर्णेशं फलेश्वरम् ॥ ५०.६ ॥

कद्रुद्रेशमखण्डेशं केतुमालिं गभस्तिकम् ।
यमुनेशं वर्णकेशं भद्रेशं ज्येष्ठशङ्करम् ॥ ५०.७ ॥

नन्दिकेशं च रामेशं करमर्देश्वरं तथा ।
आवर्देशं मतङ्गेशं वासुकीशं द्रुतीश्वरम् ॥ ५०.८ ॥

सूर्येशमर्यमेशं च तूणीशं गालवेश्वरम् ।
कण्वकात्यायनेशं च चन्द्रचूडेश्वरं तथा ॥ ५०.९ ॥

उदावर्तेश्वरं चैव तृणज्योतीश्वरं सदा ।
कङ्कणेशं तङ्कणेशं स्कन्देशं तारकेश्वरम् ॥ ५०.१० ॥

जम्बुकेशं च ज्ञानेशं नन्दीशं गणपेश्वरम् ।
एतान्यन्तर्गृहे विप्रः पूजयन् परया मुदा ॥ ५०.११ ॥

ढुण्ढ्यादिगणपांश्चैव भैरवं चापि नित्यशः ।
अन्नपूर्णामन्नदात्रीं साक्षाल्लोकैकमातरम् ॥ ५०.१२ ॥

दण्डपाणिं क्षेत्रपालं सम्यगभ्यर्च्य तस्थिवान् ।
तीर्थान्यन्यान्यपि मुनिर्मणिकर्ण्यादि सत्तम ॥ ५०.१३ ॥

ज्ञानोदं सिद्धकूपं च वृद्धकूपं पिशाचकम् ।
ऋणमोचनतीर्थं च गर्गतीर्थं महत्तरम् ॥ ५०.१४ ॥

स्नात्वा सनियमं विप्रो नित्यं पञ्चनदे हृदे ।
किरणां धूतपापां च पञ्चगङ्गामपि द्विजः ॥ ५०.१५ ॥

गङ्गां मनोरमां तुङ्गां सर्वपापप्रणाशिनीम् ।
मुक्तिमण्टपमास्थाय स जपन् शतरुद्रियम् ॥ ५०.१६ ॥

अष्टोत्तरसहस्रं वै जपन् पञ्चाक्षरं द्विजः ।
पक्षे पक्षे तथा कुर्वन् पञ्चक्रोशप्रदक्षिणम् ॥ ५०.१७ ॥

अन्तर्गृहाद्बहिर्देशे चकारावसथं तदा ।
एवं संवसतस्तस्य कालो भूयानवर्तत ॥ ५०.१८ ॥

तत्र दृष्ट्वा तपोनिष्ठं सुदर्शनसमाह्वयम् ।
विष्णुस्तदा वै तं विप्रं समाहूय शिवार्चकम् ॥ ५०.१९ ॥

पुनः प्राह प्रसन्नेन चेतसा मुनिसत्तमम् ।

विष्णुः –
भोः सुदर्शनविप्रेन्द्र शिवार्चनपरायण ।
ज्ञानपात्रं भवानेव विश्वेशकृपयाऽधुना ॥ ५०.२० ॥

त्वया तपांसि तप्तानि इष्टा यज्ञास्त्वयैव हि ।
अधीताश्च त्वया वेदाः काश्यां वासो यतस्तव ॥ ५०.२१ ॥

बहुभिर्जन्मभिर्येन कृतं क्षेत्रे महत्तपः ।
तस्यैव सिद्ध्यत्यमला काशीयं मुक्तिकाशिका ॥ ५०.२२ ॥

तव भाग्यस्य नान्तोऽस्ति मुने त्वं भाग्यवानसि ।
किञ्चैकं तव वक्ष्यामि हितमात्यन्तिकं श‍ृणु ॥ ५०.२३ ॥

विश्वेशकृपया तेऽद्य मुक्तिरन्ते भविष्यति ।
रुद्राक्षनामपुण्यं यत् नाम्नां साहस्रमुत्तमम् ॥ ५०.२४ ॥

उपदेक्ष्यामि ते विप्र नामसाहस्रमीशितुः ।
तेनार्चयेशं विश्वेशं बिल्वपत्रैर्मनोहरैः ॥ ५०.२५ ॥

वर्षमेकं निराहारो विश्वेशं पूजयन् सदा ।
संवत्सरान्ते मुक्तस्त्वं भविष्यति न संशयः ॥ ५०.२६ ॥

त्वद्देहापगमे मन्त्रं पञ्चाक्षरमनुत्तमम् ।
ददाति देवो विश्वेशस्तेन मुक्तो भविष्यति ॥ ५०.२७ ॥

शैवेभ्यः सन्नजीवेभ्यो ददातीमं महामनुम् ।

स्कन्दः –
इति विष्णुवचः श्रुत्वा प्रणम्याह हरिं तदा ।
सुदर्शनो ययाचेत्थं नाम्नां साहस्रमुत्तमम् ॥ ५०.२८ ॥

भगवन् दैत्यवृन्दघ्न विष्णो जिष्णो नमोऽस्तु ते ।
सहस्रनाम्नां यद्दिव्यं विश्वेशस्याशु तद्वद ॥ ५०.२९ ॥

येन जप्तेन देवेशः पूजितो बिल्वपत्रकैः ।
ददाति मोक्षसाम्राज्यं देहान्ते तद्वदाशु मे ॥ ५०.३० ॥

तदा विप्रवचः श्रुत्वा तस्मै चोपादिशत् स्वयम् ।
सहस्रनाम्नां देवस्य हिरण्यस्येत्यादि सत्तम ॥ ५०.३१ ॥

तेन सम्पूज्य विश्वेशं वर्षमेकमतन्द्रितः ।
कोमलारक्तबिल्वैश्च स्तोत्रेणानेन तुष्टुवे ॥ ५०.३२ ॥

सुदर्शनः –
आशीविषाङ्गपरिमण्डलकण्ठभाग-
राजत्सुसागरभवोग्रविषोरुशोभ ।
फालस्फुरज्ज्वलनदीप्तिविदीपिताशा-
शोकावकाश तपनाक्ष मृगाङ्कमौले ॥ ५०.३३ ॥

क्रुद्धोडुजायापतिधृतार्धशरीरशोभ
पाह्याशु शासितमखान्धकदक्षशत्रो ।
सुत्रामवज्रकरदण्डविखण्डितोरु-
पक्षाद्यघक्षितिधरोर्ध्वशयाव शंभो ॥ ५०.३४ ॥

उत्फुल्लहल्लकलसत्करवीरमाला-
भ्राजत्सुकन्धरशरीर पिनाकपाणे ।
चञ्चत्सुचन्द्रकलिकोत्तमचारुमौलिं
लिङ्गे कुलुञ्चपतिमम्बिकया समेतम् ॥ ५०.३५ ॥

छायाधवानुजलसच्छदनैः परिपूज्य भक्त्या
मुक्तेन स्वस्य च विराजितवंशकोट्या ।
सायं सङ्गवपुङ्गवोरुवहनं श्रीतुङ्गलिङ्गार्चकः
शाङ्गः पातकसङ्गभङ्गचतुरश्चासङ्गनित्यान्तरः ॥ ५०.३६ ॥

फालाक्षस्फुरदक्षिजस्फुरदुरुस्फूलिङ्गदग्धाङ्गका-
नङ्गोत्तुङ्गमतङ्गकृत्तिवसनं लिङ्गं भजे शाङ्करम् ।
अच्छाच्छागवहां सुरतामीक्षाशिनान्ते विभो
वृष्यं शाङ्करवाहनामनिरताः सोमं तथा वाजिनम् ॥ ५०.३७ ॥

त्यक्त्वा जन्मविनाशनं त्विति मुहुस्ते जिह्वया सत्तमाः
ये शंभोः सकृदेव नामनिरताः शाङ्गाः स्वतः पावनाः ॥ ५०.३८ ॥

मृगाङ्क मौलिमीश्वरं मृगेन्द्रशत्रुजत्वचम् ।
वसानमिन्दुसप्रभं मृगाद्यबालसत्करम् ।
भजे मृगेन्द्रसप्रभं ??? ??? ॥ ५०.३९ ॥

स्कन्दः –
एवं स्तुवन्तं विश्वेशं सुदर्शनमतन्द्रितम् ।
प्राहेत्थं शौरिमाभाष्य शंभोर्भक्तिविवर्धनम् ॥ ५०.४० ॥

विष्णुः –
अत्रैवामरणं विप्र वस त्वं नियताशनः ।
नाम्नां सहस्रं प्रजपन् शतरुद्रीयमेव च ॥ ५०.४१ ॥

अन्तर्गृहात् बहिः स्थित्वा पूजयाशु महेश्वरम् ।
तवान्ते भूरिकरुणो मोक्षं दास्यत्यसंशयम् ॥ ५०.४२ ॥

स प्रणम्याह विश्वेशं दृष्ट्वा प्राह सुदर्शनम् ।
धन्यस्त्वं लिङ्गेऽप्यनुदिनगलितस्वान्तरङ्गाघसङ्घः
पुंसां वर्याद्यभक्त्या यमनियमवरैर्विश्ववन्द्यं प्रभाते ।
दत्वा बिल्ववरं सदंबुजदलं किञ्चिज्जलं वा मुहुः
प्राप्नोतीश्वरपादपङ्कजमुमानाथाद्य मुक्तिप्रदम् ॥ ५०.४३ ॥

को वा त्वत्सदृशो भवेदगपतिप्रेमैकलिङ्गार्चको
मुक्तानां प्रवरोर्ध्वकेशविलसच्छ्रीभक्तिबीजाङ्कुरैः ।
देवा वाप्यसुराः सुरा मुनिवरा भारा भुवः केवलं
वीरा वा करवीरपुष्पविलसन्मालाप्रदे नो समः ॥ ५०.४४ ॥

वने वा राज्ये वाप्यगपतिसुतानायकमहो
स्फुरल्लिङ्गार्चायां नियममतभावेन मनसा ।
हरं भक्त्या साध्य त्रिभुवनतृणाडम्बरवर-
प्ररूढैर्भाग्यैर्वा न हि खलु स सज्जेत भुवने ॥ ५०.४५ ॥

न दानैर्योगैर्वा विधिविहितवर्णाश्रमभरैः
अपारैर्वेदान्तप्रतिवचनवाक्यानुसरणैः ।
न मन्येऽहं स्वान्ते भवभजनभावेन मनसा
मुहुर्लिङ्गं शाङ्गं भजति परमानन्दकुहरः ॥ ५०.४६ ॥

शर्वं परवतनन्दिनीपतिमहानन्दाम्बुधेः पारगा
रागत्यागहृदा विरागपरमा भस्माङ्गरागादराः ।
मारापारशराभिघातरहिता धीरोरुधारारसैः
पारावारमहाघसंसृतिभरं तीर्णाः शिवाभ्यर्चनात् ॥ ५०.४७ ॥

मार्कण्डेयसुतं पुराऽन्तकभयाद्योऽरक्षदीशो हरः
तत्पादाम्बुजरागरञ्जितमना नाप्नोति किं वा फलम् ।
तं मृत्युञ्जयमञ्जसा प्रणमतामोजोजिमध्ये जयं
जेतारोतपराजयो जनिजरारोगैर्विमुक्तिं लभेत् ॥ ५०.४८ ॥

भूतायां भूतनाथं त्वघमतितिलकाकारभिल्लोत्थशल्यैः
धावन् भल्लूकपृष्ठे निशि किल सुमहद्व्याघ्रभीत्याऽरुरोह ।
बिल्वं नल्वप्रभं तच्छदघनमसकृत् पातयामास मूले
निद्रातन्द्रोज्झितोऽसौ मृगगणकलने मूललिङ्गेऽथ शाङ्गे ॥ ५०.४९ ॥

तेनाभूद्भगवान् गणोत्तमवरो मुक्ताघसङ्घस्तदा
चण्डांशोस्तनयेन पूजितपदः सारूप्यमापेशितुः ।
गङ्गाचन्द्रकलाकपर्दविलसत्फालस्फुलिङ्गोज्ज्वलद्
वालन्यङ्कुकराग्रसंगतमहाशूलाहि टंकोद्यतः ॥ ५०.५० ॥

चैत्रे चित्रैः पातकैर्विप्रमुक्तो वैशाखे वै दुःखशाखाविमुक्तः ।
ज्येष्ठे श्रेष्ठो भवतेषाढमासि पुत्रप्राप्तिः श्रावणे श्रान्तिनाशः ॥ ५०.५१ ॥

भाद्रे भद्रो भवते चाश्विने वै अश्वप्राप्तिः कार्तिके कीर्तिलाभः ।
मार्गे मुक्तेर्मार्गमेतल्लभेत पुष्ये पुण्यं माघके चाघनाशः ॥ ५०.५२ ॥

फल्गु त्वंहो फाल्गुने मासि
नश्येदीशार्चातो बिल्वपत्रैश्चलिङ्गे ।
एवं तत्तन्मासि पूज्येशलिङ्गं
चित्रैः पापैर्विप्रमुक्तो द्विजेन्द्रः ॥ ५०.५३ ॥

दूर्वाङ्कुरैरभिनवैः शशिधामचूड-
लिङ्गार्चनेन परिशेषयदङ्कुराणि ।
संसारघोरतररूपकराणि सद्यः
मुक्त्यङ्कुराणि परिवर्धयतीह धन्यः ॥ ५०.५४ ॥

गोक्षीरेक्षुक्षौद्रखण्डाज्यदध्ना
सन्नारेलैः पानसाम्रादिसारैः ।
विश्वेशानं सत्सितारत्नतोयैः
गन्धोदैर्वा सिञ्च्य दोषैर्विमुक्तः ॥ ५०.५५ ॥

लिङ्गं चन्दनलेपसङ्गतमुमाकान्तस्य पश्यन्ति ये
ते संसारभुजङ्गभङ्गपतनानङ्गाङ्गसङ्गोज्झिताः ।
व्यङ्गं सर्वसमर्चनं भगवतः साङ्गं भवेच्छाङ्करं
शङ्गापाङ्गकृपाकटाक्षलहरी तस्मिंश्चिरं तिष्ठति ॥ ५०.५६ ॥

मुरलिसरलिरागैर्मर्दलैस्तालशङ्खैः
पटुपटहनिनादध्वान्तसन्धानघोषैः ।
दुन्दुभ्याघातवादैर्वरयुवतिमहानृत्तसंरंभरङ्गैः
दर्शेष्वादर्शदर्शो भगवति गिरिजानायके मुक्तिहेतुः ॥ ५०.५७ ॥

स्वच्छच्छत्रछवीनां विविधजितमहाच्छायया छन्नमैशं
शीर्षं विच्छिन्नपापो भवति भवहरः पूजकः शम्भुभक्त्या ।
चञ्चच्चन्द्राभकाण्डप्रविलसदमलस्वर्णरत्नाग्रभाभि-
र्दीप्यच्चामरकोटिभिः स्फुटपटघटितैश्चाकचक्यैः पताकैः ॥ ५०.५८ ॥

सम्पश्यारुणभूरुहोत्तमशिखासंलेढितारागणं
तारानाथकलाधरोरुसुमहालिङ्गौघसंसेवितम् ।
बिल्वानां कुलमेतदत्र सुमहापापौघसंहारकृत्
वाराणां निखिलप्रमोदजनकं शम्भोः प्रियं केवलम् ॥ ५०.५९ ॥

अन्नं पोत्रिमलायते धनरसं कौलेयमूत्रायते
संवेशो निगलायते मम सदानन्दो कन्दायते ।
शम्भो ते स्मरणान्तरायभरित प्राणः कृपाणायते ॥ ५०.६० ॥

कः कल्पद्रुमुपेक्ष्य चित्तफलदं तूलादिदानक्षयं
बब्बूलं परिसेवते क्षुदधिको वातूलदानक्षमम् ।
तद्वच्छङ्करकिङ्करो विधिहरिब्रह्मेन्द्रचन्द्रानलान्
सेवेद्यो विधिवञ्चितः कलिबलप्राचुर्यतो मूढधीः ॥ ५०.६१ ॥

सुवर्णाण्डोद्भूतस्तुतिगतिसमर्च्याण्डजवर-
प्रपादं त्वां कश्चिद् भजति भुवने भक्तिपरमः ।
महाचण्डोद्दण्डप्रकटितभुवं ताण्डवपरं
विभुं सन्तं नित्यं भज भगणनाथामलजटम् ॥ ५०.६२ ॥

अजगवकर विष्णुबाण शम्भो
दुरितहरान्तकनाश पाहि मामनाथम् ।
भवदभयपदाब्जवर्यमेत
मम चित्तसरस्तटान्नयातु चाद्य ॥ ५०.६३ ॥

इत्थं विष्णुश्च काश्यां प्रमथपतिमगात् पूज्य विश्वेश्वरं तं
क्षितिसुरवरवर्यं चानुशास्येत्थमिष्टम् ।
स च मुनिगणमध्ये प्राप्य मुक्तिं तथान्ते
प्रमथपतिपदाब्जे लीनहीनाङ्गसङ्गः ॥ ५०.६४ ॥

सूतः –
इत्थं श्रुत्वा मुनीन्द्रोऽसौ जैगीषव्योऽवदद्विभुम् ।
प्रणिपत्य प्रहृष्टात्मा षष्ठांशं वै षडास्यतः ॥ ५०.६५ ॥

जैगीषव्यः –
मारमारकजानन्दवसतेर्महिमा कथम् ।
नाम्नां सहस्रमेतच्च वद मे करुणानिधे ॥ ५०.६६ ॥

क्षेत्राणां चाप्यथान्यानां महिमां वद सद्गुरो ।
शूरतारकसंहर्तस्त्वत्तो नान्यो गुरुर्मम ॥ ५०.६७ ॥

तच्छ्रुत्वा तु मुनेर्वाक्यं स्कन्दः प्राहाथ तं मुनिम् ।

स्कन्दः –
आगामिन्यंशकेऽस्मिंस्तव हृदयमहानन्दसिन्धौ विधूत्थ-
प्राचुर्यप्रकटैः करोपममहासप्तमांशे विशेषे ।
नाम्नां चापि सहस्रकं भगवतः शम्भोः प्रियं केवलं
अस्यानन्दवनस्य चैव महिमा त्वं वै श‍ृणुष्वादरात् ॥ ५०.६८ ॥

उग्रोंऽशः शशिशेखरेण कथितो वेदान्तसारात्मकः
षष्ठः षण्मुखसत्तमाय स ददौ तद्ब्रह्मणे सोऽप्यदात् ।
पुत्रायात्मभवाय तद्भवहरं श्रुत्वा भवेद् ज्ञानवित्
चोक्त्वा जन्मशतायुतार्जितमहापापैर्विमुक्तो भवेत् ॥ ५०.६९ ॥

श्रुत्वांशमेतद् भवतापपापहं शिवास्पदज्ञानदमुत्तमं महत् ।
ध्यानेन विज्ञानदमात्मदर्शनं ददाति शम्भोः पदभक्तिभावतः ॥ ५०.७० ॥

सूतः –
अध्यायपादाध्ययनेऽपि विद्या बुद्ध्या हृदि ध्यायति बन्धमुक्त्यै ।
स्वाध्यायतान्ताय शमान्विताय दद्याद्यदद्यान्न विभेद्यमेतत् ॥ ५०.७१ ॥

इत्थं सूतवचोद्यतमहानन्दैकमोदप्रभा
भास्वद्भास्करसप्रभा मुनिवराः संतुष्टुवुस्तं तदा ।
वेदोद्यद्वचनाशिषा प्रहृषिताः सूतं जयेत्युच्चरन्
प्याहो जग्मुरतीव हर्षितहृदा विश्वेश्वरं वीक्षितुम् ॥ ५०.७२ ॥

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे सुदर्शनस्य
मुक्तिलाभवर्णनं अंशश्रवणफलनिरूपणं च नाम पञ्चाशोऽध्यायः ॥

॥ शङ्कराख्यः षष्ठांशः समाप्तः ॥

॥ सर्वं श्रीरमणार्पणमस्तु ॥

Also Read:

Ribhu Gita from Shiva Rahasya in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Ribhu Gita from Shiva Rahasya Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top