Templesinindiainfo

Best Spiritual Website

Shachisunva Ashtakam Lyrics in Hindi

Sri Shachisunva Ashtakam in Hindi:

शचीसून्वष्टकम्
हरिर्दृष्ट्वा गोष्ठे मुकुरगतमात्मानमतुलं
स्वमाधुर्यं राधप्रियतरसखीवाप्तुमभितः ।
अहो गौडे जातः प्रभुरपरगौरैकतनुभाक्
शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥ १॥

पुरीदेवयान्तःप्रणयमधुना स्नानमधुरो
मुहुर्गोविन्दोद्यद्विशदपरिचर्यार्चितपदः ।
स्वरूपस्य प्राणार्बुदपरिचर्यार्चितपदः
शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥ २॥

दधानः कौपीनं तदुपरि बहिर्वस्त्रमरुणं
प्रकाण्डो हेमाद्रिद्युतिभिरभितः सेविततनुः ।
मुदा गायन्नुच्चैर्निजमधुरनामावलिमसौ
शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥ ३॥

अनावेद्यां पूर्वैरपि मुनिगणैर्भक्तिनिपुणैः
श्रुतेर्गूढां प्रेमोज्ज्वलरसफलां भक्तिलतिकाम् ।
कृपालुस्तां गौडे प्रभु अतिकृपाभिः प्रकटय-
न्शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥ ४॥

निजत्वे गौडीयान्जगति परिगृह्य प्रभुरिमा-
न्हरे कृष्णेत्येवं गणनविधिना कीर्तयत भोः ।
इति प्रायां शिक्षां चरणमधुपेभ्यः परिदिश-
न्शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥ ५॥

पुरः पश्यन्नीलाचलपतिमुरुप्रेमनिवहैः
क्षरन्नेत्राम्भोभिः स्नपितनिजदीर्घोज्ज्वलतनुः ।
सदा तिष्ठन्देशे प्रणयिगरुडस्तम्भचरमे
शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥ ६॥

मुदा दन्तरि दृष्ट्वा द्युतिविजितबन्धूकमधरं
करं कृत्वा वामं कटिनिहितमन्यं परिलसन्।
समुत्थाप्य प्रेम्णागणितपुलको नृत्यकुतुकी
शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥ ७॥

सरोत्तीरारामे विरहविधुरो गोकुलविधो-
र्नदीमन्यां कुर्वन्नयनजलधाराविततिभिः ।
मुहुर्मूर्च्छां गच्छन्मृतकमिव विश्वं विरचय-
न्शचीसूनुः किं मे नयनसरणीं यास्यति पदम् ॥ ८॥

शचीसूनोरस्याष्टकमिदमभीष्टं विरचय-
न्सदा दैन्योद्रेकादतिविशदबुद्धिः पठति यः ।
प्रकामं चैतन्यः प्रभुरतिकृपावेशविवशः
पृथुप्रेमाम्भोधौ प्रथितरसदे मज्जयति तम् ॥ ९॥

इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
श्रीशचीसून्वष्टकं सम्पूर्णम् ।

Shachisunva Ashtakam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top