Templesinindiainfo

Best Spiritual Website

Shri Hari Dhyanashtakam Lyrics in Hindi | Sri Vishnu Ashtakam

Shri Hari Dhanya Ashtakam in Hindi:

श्रीहरिध्यानाष्टकम्
वन्दे कान्ततनुं प्रशान्तवदनं वन्दे सुचक्रेक्षणं
वन्दे मेघनिभं महाम्बुजकरं वन्दे पदालक्तकम् ।
वन्दे कोटिरविद्युतिधृतिहरं वन्दे सुवर्णान्वितं
वन्दे नीलकलेवरं स्मितहसं वन्दे सदा श्रीहरिम् ॥ १ ॥

वन्दे श्रोणितटे सुपीतवसनं वन्दे महाकौस्तुभं
वन्दे शीर्षपटे सुरम्यमुकुटं वन्दे लसन्मौक्तिकम् ।
वन्दे कङ्कणराजितं करयुगे वन्देतिभूषोज्ज्वलं
वन्दे सुन्दरभालभागतिलकं वन्दे सदा श्रीहरिम् ॥ २ ॥

वन्दे चक्रकरं करे कमलिनं वन्दे गदाधारिणं
वन्दे शङ्खधरं स्यमन्तककरं वन्दे विलासालयम् ।
वन्दे सागरकन्यकापतिमणिं वन्दे जगत्स्वामिनं
वन्दे सत्त्वमयं विहङ्गगमनं वन्दे सदा श्रीहरिम् ॥ ३ ॥

वन्दे विश्वपतिं सुरेश्वरपतिं वन्दे धरित्रीपतिं
वन्दे लोकपतिं सुदर्शनपतिं वन्देमराणां पतिम् ।
वन्दे शङ्खपतिं गदावरपतिं वन्दे ग्रहाणां पतिं
वन्दे तार्क्षपतिं चतुर्युगपतिं वन्दे सदा श्रीहरिम् ॥ ४ ॥

वन्दे ब्रह्मपतिं महेश्वरपतिं वन्देखिलानां पतिं
वन्दे शार्ङ्गपतिं विकर्त्तनपतिं वन्दे प्रजानां पतिम् ।
वन्दे यज्ञपतिं च कौस्तुभपतिं वन्दे मुनीनां पतिं
वन्दे भक्तपतिं भवार्णवपतिं वन्दे सदा श्रीहरिम् ॥ ५ ॥

वन्दे सर्वगुणेश्वरं सुरवरं वन्दे त्रिलोकीश्वरं
वन्दे पापविघातकं रिपुहरं वन्दे शुभायत्तनम् ।
वन्दे साधुपतिं चराचरपतिं वन्दे जनानां पतिं
वन्दे गोलकधामनाथमनिशं वन्दे सदा श्रीहरिम् ॥ ६ ॥

वन्दे श्रीजगदीश्वरं क्षितिधरं वन्दे च धर्मद्रुमं
वन्दे दैत्यनिसूदनं कलिहरं वन्दे कृपाकारकम् ।
वन्दे कालकरालदण्डदहकं वन्दे सुमुक्तिप्रदं
वन्दे सर्वसुखास्पदं सुरगुरुं वन्दे सदा श्रीहरिम् ॥ ७ ॥

वन्दे न्याययशोधिपं दुरितहं वन्दे दयादायकं
वन्दे जन्महरं कुनीतिदमनं वन्दे सुकामप्रदम् ।
वन्दे भक्तविनोदनं मुनिनुतं वन्दे प्रजारञ्जकं
वन्देस्नाथपतिं दरिद्रनृपतिं वन्दे सदा श्रीहरिम् ॥ ८ ॥

इति श्रीव्रजकिशोरविरचितं श्रीहरिध्यानाष्टकं सम्पूर्णम् ।

(निद्राभङ्गसमये लिखितम्)

Shri Hari Dhyanashtakam Lyrics in Hindi | Sri Vishnu Ashtakam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top