Templesinindiainfo

Best Spiritual Website

Shri Sarasvatya Ashtakam Lyrics in Hindi | Sri Devi Stotram

Sri Saraswati Ashtakam Lyrics in Hindi:

सरस्वत्यष्टकम्
श्रीगणेशाय नमः ।
शतानीक उवाच ।
महामते महाप्राज्ञ सर्वशास्त्रविशारद ।
अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम || १ ||

मरणे यज्जपेज्जाप्यं यं च भावमनुस्मरन् ।
परं पदमवाप्नोति तन्मे ब्रूहि महामुने || २ ||

शौनक उवाच ।
इदमेव महाराज पृष्टवांस्ते पितामहः ।
भीष्मं धर्मविदां पृष्ठेदं धर्मपुत्रो युधिष्ठिरः || ३ ||

युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
बृहस्पतिस्तुता देवी वागीशाय महात्मने ।
आत्मानं दर्शयामास सूर्य कोटिसमप्रभम् || ४ ||

सरस्वत्युवाच ।
वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ।
बृहस्पतिरुवाच ।
यदि मे वरदा देवि दिव्यज्ञानं प्रयच्छ मे || ५ ||

देव्युवाच ।
हन्त ते निर्मलं ज्ञानं कुमतिध्वंसकारकम् ।
स्तोत्रेणानेन ये भक्त्या मां स्तुवन्ति मनीषिणः || ६ ||

बृहस्पतिरुवाच ।
लभते परमं ज्ञानं यत्सुरैरपि दुर्लभम् ।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः || ७ ||

सरस्वत्युवाच ।
त्रिसन्ध्यं प्रयतो नित्यं पठेदष्टकमुत्तमम् ।
तस्य कण्ठे सदा वासं करिष्यामि न संशयः || ८ ||

इति श्रीपद्मपुराणे दिव्यज्ञानप्रदायकं सरस्वत्यष्टकस्तोत्रं सम्पूर्णम् ||

Shri Sarasvatya Ashtakam Lyrics in Hindi | Sri Devi Stotram

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top