Templesinindiainfo

Best Spiritual Website

Shri Tripurarnavokta Varganta Stotram Lyrics in Hindi | श्रीत्रिपुरार्णवोक्तवर्गान्तस्तोत्रं

श्रीत्रिपुरार्णवोक्तवर्गान्तस्तोत्रं Lyrics in Hindi:

क्ष्माम्ब्वग्नीरणखार्केन्दुयष्ट्टप्राययुगाक्षरैः ।
मातृभैरवगां वन्दे देवीं त्रिपुरभैरवीम् ॥ १॥

कादिवर्गाष्टकाकारसमस्ताष्टकविग्रहाम् ।
अष्टशक्त्यावृतां वन्दे देवीं त्रिपुरभैरवीम् ॥ २॥

स्वरषोडशकानां तु षट् त्रिंशद्भिः परापरैः ।
षट् त्रिंशत्तत्वगां वन्दे देवीं त्रिपुरभैरवीम् ॥ ३॥

षट् त्रिंशत्तत्वसंस्थाप्यशिवचन्द्रकलास्वपि ।
कादितत्त्वान्तरां वन्दे देवीं त्रिपुरभैरवीम् ॥ ४॥

आ ई माया द्वयोपाधिविचित्रेन्दुकलावतीम् ।
सर्वात्मिकां परां वन्दे देवीं त्रिपुरभैरवीम् ॥ ५॥

षडध्वपिण्डयोनिस्थां मण्डलत्रयकुण्डलीम् ।
लिङ्गत्रयातिगां वन्दे देवीं त्रिपुरभैरवीम् ॥ ६॥

स्वयम्भूहृदयां बाणभ्रूकामान्तःस्थितेतराम् ।
प्राच्यां प्रत्यक्चितिं वन्दे देवीं त्रिपुरभैरवीम् ॥ ७॥

अक्षरान्तर्गताशेषनामरूपां क्रियापराम् ।
शक्तिं विश्वेश्वरीं वन्दे देवीं त्रिपुरभैरवीम् ॥ ८॥

वर्गान्ते पठितव्यं स्यात् स्तोत्रमेतत्समाहितैः ।
सर्वान् कामानवाप्नोति अन्ते सायुज्यमाप्नुयात् ॥ ९॥

इति श्रीत्रिपुरार्णवोक्तवर्गान्तस्तोत्रं सम्पूर्णम् ।

Shri Tripurarnavokta Varganta Stotram Lyrics in Hindi | श्रीत्रिपुरार्णवोक्तवर्गान्तस्तोत्रं

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top