Shataka

Shri Vishakhanandabhidha Stotram Lyrics in Hindi | Hindu Shataka

Sri Vishakhanandabhidhastotram Lyrics in Hindi:

श्रीविशाखानन्दाभिधस्तोत्रम्
भावनामगुणादीनामैक्यात्श्रीराधिकैव या ।
कृष्णेन्दोः प्रेयसी सा मे श्रीविशाखा प्रसीदतु ॥ १ ॥

जयति श्रीमती काचिद्वृन्दारण्यविहारिणी ।
विधातुस्तरुणीसृष्टिकौशलश्रीऋ इहोज्ज्वला ॥ २ ॥

छिन्नस्वर्णसदृक्षाङ्गी रक्तवस्त्रावगुण्ठिनी ।
निर्बन्धबद्धवेणीका चारुकाश्मीरचर्चिता ॥ ३ ॥

द्विकालेन्दुललाटोद्यत्कस्तूरीतिलकोज्ज्वला ।
स्फुटकोकनदद्वन्द्व बन्धुरीकृतकर्णिका ॥ ४ ॥

विचित्रवर्णविन्यास चित्रितीकृतविग्रहा
कृष्णचोरभयाच्चोली गुम्फीकृतमणिस्तनी ॥ ५ ॥

हारमञ्जीरकेयूर चूडानासाग्रमौक्तिकैः ।
मुद्रिकादिभिरन्यैश्च भूषिता भूषणोत्तमैः ॥ ६ ॥

सुदीप्तकज्जलोद्दीप्त नयनेन्दीवरद्वय ।
सौरभोज्ज्वलताम्बूल मञ्जुला श्रीमुखाम्बुजा ॥ ७ ॥

स्मितलेशलसत्पक्व चारुबिम्बफलाधरा ।
मधुरालापपीयूष सञ्जीवितसखीकुला ॥ ८ ॥

वृषभानुकुलोत्कीर्ति वर्धिका भानुसेविका ।
कीर्तिदाखणिरत्नश्रीः श्रीजितश्रीः श्रियोज्ज्वला ॥ ९ ॥

अनङ्गमञ्जरीज्येष्ठा श्रीदामानन्ददानुजा ।
मुखरादृष्टिपीयूष वर्तिनप्त्री तदाश्रिता ॥ १० ॥

पौर्णमासीबहिःखेलत्प्राणपञ्जरसारिका ।
सुबलप्रणयोल्लासा तत्र विन्यस्तभारका ॥ ११ ॥

व्रजेश्याः कृष्णवत्प्रेम पात्री तत्राति भक्तिका ।
अम्बावात्सल्यसंसिक्ता रोहिणीघ्रातमस्तका ॥ १२ ॥

व्रजेन्द्रचरणाम्भोजे ऽर्पितभक्तिपरम्परा ।
तस्यापि प्रेमपात्रीयं पितुर्भानोरिव स्फुटम् ॥ १३ ॥

गुरुबुद्ध्या प्रलम्बारौ नतिं दूरे वितन्वती ।
वधूबुद्ध्यैव तस्यापि प्रेमभूमीह ह्रीयुता ॥ १४ ॥

ललिताललिता स्वीय प्राणोरुललितावृता ।
ललिताप्राणरक्षैकरक्षिता तद्वशात्मिका ॥ १५ ॥

वृन्दाप्रसाधितोत्तुङ्ग कुडुङ्गानङ्गवेश्मनि ।
कृष्णखण्डितमानत्वाल् ललिताभीतिकम्पिनी ॥ १६ ॥

विशाखनर्मसख्येन सुखिता तद्गतात्मिका ।
विशाखाप्राणदीपालि निर्मञ्छ्यनखचन्द्रिका ॥ १७ ॥

सखीवर्गैकजीवातुस्मितकैरवकोरका ।
स्नेहफुल्लीकृतस्वीयगणा गोविन्दवल्लभा ॥ १८ ॥

वृन्दारण्यमहाराज्यमहासेकमहोज्ज्वला ।
गोष्ठसर्वजनाजीव्यवदना रदनोत्तमा ॥ १९ ॥

ज्ञातवृन्दाटवीसर्वलतातरुमृगद्विजा ।
तदीयसख्यसौरभ्यसुरभीकृतमानसा ॥ २० ॥

सर्वत्र कुर्वति स्नेहं स्निग्धप्रकृतिराभवम् ।
नाममात्रजगाचित्तद्राविका दीनपालिका ॥ २१ ॥

गोकुले कृष्णचन्द्रस्य सर्वापच्छान्तिपूर्वकम् ।
धीरलालित्यवृद्ध्यर्थं क्रियमाणव्रताधिका ॥ २२ ॥

गुरुगोविप्रसत्काररता विनयसन्नता ।
तदाशीःशतवर्धिष्णुसौभाग्यादिगुणाञ्चिता ॥ २३ ॥

आयुर्गोश्रीयशोदायिपाको दुर्वाससो वरात् ।
अतः कुन्दलतानीयमाना राज्ञ्याः समाज्ञया ॥ २४ ॥

गोष्ठजीवातुगोविन्दजीवातुलपितामृता ।
निजप्रानार्बुदश्रेणिरक्ष्यतत्पादरेणुका ॥ २५ ॥

कृष्णपदारविन्दोद्यन्मकरन्दमये मुदा ।
अरिष्टमर्दि कासारे स्नात्री निर्बन्धतोऽन्वहम् ॥ २६ ॥

निजकुन्दपुरस्तीरे रत्नस्थल्यामहर्निशम् ।
प्रेष्ठनर्मालिभिर्भङ्ग्या समं नर्म वितन्वती ॥ २७ ॥

गोवर्धनगुहालक्ष्मीर्गोवर्धनविहारिणी ।
धृतगोवर्धनप्रेमा धृतगोवर्धनप्रिया ॥ २८ ॥

गान्धर्वाद्भुतगान्धर्वा राधा बाधापहारिणी ।
चन्द्रकान्तिश्चलापङ्गी राधिका भानुराधिका ॥ २९ ॥

गान्धर्विका स्वगन्धातिसुगन्धीकृतगोकुला ।
इति पञ्चभिराहूता नामभिर्गोकुले जनैः ॥ ३० ॥

हरिणी हरिणीनेत्रा रङ्गिणी रङ्गिणीप्रिया ।
रङ्गिणीध्वनिनागच्छत्सुरङ्गध्वनिहासिनी ॥ ३१ ॥

बद्धनन्दीश्वरोत्कण्ठा कान्तकृष्णैककङ्क्षया ।
नवानुरागसम्बन्धमदिरोन्मत्तमानसा ॥ ३२ ॥

मदनोन्मादिगोविन्दमकस्मात्प्रेक्ष्य हासिनी ।
लपन्ती रुदती कम्प्रा रुष्टा दष्टाधरातुरा ॥ ३३ ॥

विलोकयति गोविन्दे स्मित्वा चारुमुखाम्बुजम् ।
पुष्पाकृष्टिमिषादूर्ध्वे धृतदोर्मुलचालना ॥ ३४ ॥

समक्षमपि गोविन्दमविलोक्येव भावतः ।
दले विलिख्य तन्मूर्तिं पश्यन्ती तद्विलोकिताम् ॥ ३५ ॥

लीलया याचकं कृष्णमवधीर्येव भामिनी ।
गिरीन्द्रगाह्वरं भङ्ग्या पश्यन्ती विकसद्दृशा ॥ ३६ ॥

सुबलस्कन्धविन्यस्तबाहौ पश्यति माधवे ।
स्मेरा स्मेरारविन्देन तमालं तडयन्त्यथ ॥ ३७ ॥

लीलया केलिपाथोजं स्मित्वा चुम्बितमाधवे ।
स्मित्वा भालात्तकस्तूरीरसं घृतवती क्वचित् ॥ ३८ ॥

महाभावोज्ज्वलाचिन्तारत्नोद्भवितविग्रहाम् ।
सखीप्रणयसद्गन्धवरोद्वर्तनसुप्रभाम् ॥ ३९ ॥

कारुण्यामृतवीचिभिस्तारुण्यामृतधारया ।
लावण्यामृतवन्याभिः स्नपितां ग्लपितेन्दिराम् ॥ ४० ॥

ह्रीपट्टवस्त्रगुप्ताङ्गीं सौन्दर्यघुसृणाञ्चिताम् ।
श्यामलोज्ज्वलकस्तूरीविचित्रितकलेवराम् ॥ ४१ ॥

कम्पाश्रुपुलकस्तम्भस्वेदगद्गदरक्तता ।
उन्मदो जाड्यमित्येतै रत्नैर्नवभिरुत्तमैः ॥ ४२ ॥

क्ल्प्तालङ्कृतिसंश्लिष्टां गुणालिपुष्पमालिनीम् ।
धीराधिरत्वसद्वषपटवासैः परिष्कृताम् ॥ ४३ ॥

प्रच्छन्नमानधम्मिल्लां सौभाग्यतिलकोज्ज्वलाम् ।
कृष्णनामयशःश्रावावतंसोल्लासिकर्णिकाम् ॥ ४४ ॥

रागतम्बूलरक्तोष्ठीं प्रेमकौटिल्यकज्जलाम् ।
नर्मभाषितनिःस्यन्दस्मितकर्पूरवासिताम् ॥ ४५ ॥

सौरभान्तःपुरे गर्वपर्यङ्कोपरि लीलया ।
निविष्टां प्रेमवैचित्त्यविचलत्तरलाञ्चिताम् ॥ ४६ ॥

प्रणयक्रोधसाचोलीबन्धगुप्तिकृतस्तनाम् ।
सपत्नीवक्त्रहृच्छोशियशःश्रीकच्छपीरवाम् ॥ ४७ ॥

मध्यतात्मसखीस्कन्धलीलान्यस्तकराम्बुजाम् ।
श्यामां श्यामस्मरामोदमधुलीपरिवेशिकाम् ॥ ४८ ॥

सुभगवल्गुविञ्छोलीमौलीभूषणमञ्जरी ।
आवैकुण्ठमजाण्डालिवतंसीकृतसद्यशः ॥ ४९ ॥

वैदग्ध्यैकसुधासिन्धुश्चाटुर्यैकसुधापुरी ।
माधुर्यैकसुधावल्ली गुणरत्नैकपेटिका ॥ ५० ॥

गोविन्दानङ्गराजीवे भानुश्रीर्वार्षभानवी ।
कृष्णहृत्कुमुदोल्लासे सुधाकारकरस्थितिः ॥ ५१ ॥

कृष्णमानसहंसस्य मानसी सरसी वरा ।
कृष्णचातकजीवातुनवाम्भोदपयःश्रुतिः ॥ ५२ ॥

सिद्धाञ्जनसुधावार्तिः कृष्णलोचनयोर्द्वयोः ।
विलासश्रान्तकृष्णाङ्गे वातली माधवी मता ॥ ५३ ॥

मुकुन्दमत्तमातङ्गविहारापरदीर्घिका ।
कृष्णप्राणमहामीनखेलनानन्दवारिधिः ॥ ५४ ॥

गिरीन्द्रधारिरोलम्बरसालनवमञ्जरी ।
कृष्णकोकिलसम्मोदिमन्दरोद्यानविस्तृतिः ॥ ५५ ॥

कृष्णकेलिवरारामविहाराद्भुतकोकिला ।
नादाकृष्टबकद्वेषिवीरधीरमनोमृगा ॥ ५६ ॥

प्रणयोद्रेकसिद्ध्येकवशिकृतधृताचला ।
माधवातिवशा लोके माधवी माधवप्रिया ॥ ५७ ॥

कृष्णमञ्जुलतापिञ्छे विलसत्स्वर्णयूथिका ।
गोविन्दनव्यपाथोदे स्थिरविद्युल्लताद्भुता ॥ ५८ ॥

ग्रीष्मे गोविन्दसर्वाङ्गे चन्द्रचन्दनचन्द्रिका ।
शीते श्यामशुभाङ्गेषु पीतपट्टलसत्पटी ॥ ५९ ॥

मधौ कृष्णतरूल्लासे मधुश्रीर्मधुराकृतिः ।
मञ्जुमल्लाररागश्रीः प्रावृषी श्यामहर्षिणी ॥ ६० ॥

ऋतौ शरदि रासैकरसिकेन्द्रमिह स्फुटम् ।
वरितुं हन्त रासश्रीर्विहरन्ती सखीश्रिता ॥ ६१ ॥

हेमान्ते स्मरयुद्धार्थमटन्तं राजनन्दनम् ।
पौरुषेण पराजेतुं जयश्रीर्मूर्तिधारिणी ॥ ६२ ॥

सर्वतः सकलस्तव्यवस्तुतो यत्नतश्चिरात् ।
सारणाकृष्य तैर्युक्त्या निर्मायाद्भुतशोभया ॥ ६३ ॥

स्वश्लाघं कुर्वता फुल्लविधिना श्लाघिता मुहुः ।
गौरीश्रीमृग्यसौन्दर्यवन्दितश्रीनखप्रभा ॥ ६४ ॥

शरत्सरोजशुभ्रांशुमणिदर्पनमालया ।
निर्मञ्छितमुखाम्भोजविलसत्सुषमकणा ॥ ६५ ॥

स्थायीसञ्चारिसूद्दीप्तसत्त्विकैरनुभावकैः ।
विभावाद्यैर्विभावोऽपि स्वयं श्रीरसतां गता ॥ ६६ ॥

सौभाग्यदुन्दुभिप्रोद्यद्ध्वनिकोलाहलैः सदा ।
वित्रस्तीकृतगर्विष्ठविपक्षाखिलगोपिका ॥ ६७ ॥

विपक्षलक्षाहृत्कम्पासम्पादकमुखश्रिया ।
वशीकृतबकारातिमानसा मदनालसा ॥ ६८ ॥

कन्दर्पकोटिरम्यश्रीजयिश्रीगिरिधारिणा ।
चञ्चलापङ्गभङ्गेन विस्मारितसतीव्रता ॥ ६९ ॥

कृष्णेतिवर्णयुग्मोरुमोहमन्त्रेण मोहिता ।
कृष्णदेहवरामोदहृद्यमादनमादिता ॥ ७० ॥

कुटिलभ्रूचलाचण्डकन्दर्पोद्दण्डकर्मुका ।
न्यस्तापङ्गशरक्षेपैर्विह्वलीकृतमाधवा ॥ ७१ ॥

निजाङ्गसौरभोद्गारमदकौषधिवात्यया ।
उन्मदीकृतसर्वैकमदकप्रवराच्युता ॥ ७२ ॥

दैवाच्छ्रुतिपथायातनामनीहारवायुना ।
प्रोद्यद्रोमाञ्चशीत्कारकम्पिकृष्णमनोहरा ॥ ७३ ॥

कृष्णनेत्रलसञ्जिह्वालेह्यवक्त्रप्रभामृता ।
कृष्णान्यतृष्णासंहारी सुधासारैकझर्झरी ॥ ७४ ॥

रासलास्यरसोल्लासवशीकृतबलानुजा ।
गानफुल्लीकृतोपेन्द्रा पिकोरुमधुरस्वरा ॥ ७५ ॥

कृष्णकेलिसुधासिन्धुमकरी मकरध्वजम् ।
वर्धयन्ती स्फुटं तस्य नर्मास्फलनखेलया ॥ ७६ ॥

गतिर्मत्तगजः कुम्भौ कुचौ गन्धमदोद्धुरौ ।
मध्यमुद्दामसिंहोऽयं त्रिबल्यो दुर्गभित्तयः ॥ ७७ ॥

रोमाली नागपाशश्रीर्नितम्बो रथ उल्बनः ।
दान्ता दुर्दन्तसामान्ताः पादाङ्गुल्यः पदातयः ॥ ७८ ॥

पादौ पदतिकाध्यक्षौ पुलकः पृथुकङ्कतः ।
ऊरू जयमणिस्तम्भौ बाहू पाशवरौ दृढौ ॥ ७९ ॥

भ्रूद्वन्द्वं कर्मुकं क्रूरं कटाक्षाः शनिताः शराः ।
भालमर्धेन्दुदिव्यास्त्रमङ्कुशाणि नखाङ्कुराः ॥ ८० ॥

स्वर्णेन्दुफलकं वक्त्रं कृपणी करयोर्द्युतिः ।
भल्लभारः कराङ्गुल्यो गण्डौ कनकदर्पनौ ॥ ८१ ॥

केशपाशः कटुक्रोधः कर्णौ मौर्वगुणोत्तमौ ।
बन्धुकाधररागोऽतिप्रतापः करकम्पकः ॥ ८२ ॥

दुन्दुभ्यादिरवश्चूडाकिङ्किनीनूपुरस्वनः ।
चिबुकं स्वस्तिकं शास्तं कण्ठः शङ्खो जयप्रदः ॥ ८३ ॥

परिष्वङ्गो हि विद्ध्यस्त्रं सौरभं मदकौषदम् ।
वाणी मोहनमन्त्रश्रीर्देहबुद्धिविमोहिनी ॥ ८४ ॥

नाभी रत्नादिभाण्डारं नासाश्रीः सकलोन्नता ।
स्मितलेशोऽप्यचिन्त्यादि वशीकरणतन्त्रकः ॥ ८५ ॥

अलकानां कुलं भीष्मं भृङ्गास्त्रं भङ्गदायकम् ।
मूर्तिः कन्दर्पयुद्धश्रीर्वेणी सञ्जयिनी ध्वजा ॥ ८६ ॥

इति ते कामसङ्ग्रामसामग्यो दुर्घटाः परैः ।
ईदृश्यो ललितादीनां सेनानीनां च राधिके ॥ ८७ ॥

अतो दर्पमदाद्यूतं दानीन्द्रमवधीर्य माम् ।
महामारमहाराजनियुक्तं प्रथितं व्रजे ॥ ८८ ॥

सुष्ठु सीमान्तसिन्दूर तिलकानां वरत्विषाम् ।
हाराङ्गदादिचोलीनां नासामौक्तिकवाससाम् ॥ ८९ ॥

केयूरमुद्रिकादीनां कज्जलोद्यद्वतंसयोः ।
एतावद्युद्धवस्तूनां परार्ध्यानां परर्ध्यतः ॥ ९० ॥

तथा दध्यादिगव्यानआममूल्यानानां व्रजोद्भवात् ।
अदत्त्वा मे करं न्याय्यं खेलन्त्यो भ्रमतेह यत् ॥ ९१ ॥

ततो मया समं युद्धं कर्तुमिच्छत बुध्यते ।
किं चैकोऽहं शतं यूयं कुरुध्वं क्रमशस्ततः ॥ ९२ ॥

प्रथमं ललितोच्चण्डा चरताच्चण्डसङ्गरम् ।
ततस्त्वं तदनु प्रेष्ठसङ्गराः सकलाः क्रमात् ॥ ९३ ॥

अथ चेन्मिलिताः कर्तुं कामयध्वे रणं मदात् ।
अग्रे सरत तद्दोर्भ्यां पिनष्मि सकलाः क्षणात् ॥ ९४ ॥

इति कृष्णवचः श्रुत्वा साटोपं नर्मनिर्मितम् ।
सानन्दं मदनाक्रान्तमानसालिकुलान्विता ॥ ९५ ॥

स्मित्वा नेत्रान्तबाणैस्तं स्तब्धीकृत्य मदोद्धतम् ।
गच्छन्ती हंसवद्भङ्ग्या स्मित्वा तेन धृताञ्चला ॥ ९६ ॥

लीलयाञ्चलमाकृष्य चलन्ती चारुहेलया ।
पुरो रुद्धपथं तं तु पश्यन्ती रुष्टया दृशा ॥ ९७ ॥

मानसस्वर्धुनीं तूर्णमुत्तरीतुं तरीं श्रिता ।
कम्पितायां तरौ भीत्या स्तुवन्ती कृष्णनाविकम् ॥ ९८ ॥

निजकुण्डपयःकेलिलीलानिर्जितमच्युतम् ।
हसितुं युञ्जती भङ्ग्या स्मेरा स्मेरमुखीः सखीः ॥ ९९ ॥

मकन्दमकुलस्यन्दिमरन्दस्यन्दिमन्दिरे ।
केलितल्पे मुकुन्देन कुन्दवृन्देन मण्डिता ॥ १०० ॥

नानापुष्पमणिव्रातपिञ्छागुञ्जाफलादिभिः ।
कृष्णगुम्फितधम्मिल्लोत्फुल्लरोमस्मरङ्कुरा ॥ १०१ ॥

मञ्जुकुञ्जे मुकुन्दस्य कुचौ चित्रयतः करम् ।
क्षपयन्ती कुचक्षेपैः सुसख्यमधुनोन्मदा ॥ १०२ ॥

विलासे यत्नतः कृष्णदत्तं ताम्बूलचर्वितम् ।
स्मित्वा वाम्यादगृह्णाना तत्रारोपितदूषणम् ॥ १०३ ॥

द्यूते पाणिकृतां वंशीं जित्वा कृष्णसुगोपिताम् ।
हसित्वाच्छिद्य गृह्णाना स्तुता स्मेरालिसञ्चयैः ॥ १०४ ॥

विशाखागूढनर्मोक्तिजितकृष्णार्पितस्मिता ।
नर्माध्यायवराचार्या भारतीजयवाग्मिता ॥ १०५ ॥

विशाखाग्रे रहःकेलिकथोद्घाटकमाधवम् ।
ताडयन्ती द्विरब्जेन सभ्रूभङ्गेन लीलया ॥ १०६ ॥

ललितादिपुरः साक्षात्कृष्णसम्भोगलञ्छने ।
सूच्यमाने दृशा दूत्या स्मित्वा हुङ्कुर्वती रुषा ॥ १०७ ॥

क्वचित्प्रणयमानेन स्मितमावृत्य मौनिनी ।
भीत्या स्मरशरैर्भङ्ग्यलिङ्गन्ती सस्मितं हरिम् ॥ १०८ ॥

कुपितं कौतुकैः क्र्ष्णं विहारे बाढमौनिनम् ।
कतरा परिरभ्याशु मानयन्ती स्मिताननम् ॥ १०९ ॥

मिथः प्रणयमानेन मौनिनी मौनिनं हरिम् ।
निर्मौना स्मरमित्रेण निर्मौनं वीक्ष्य सस्मिता ॥ ११० ॥

क्वचित्पथि मिलाचन्द्रावलीसम्भोगदूषणम् ।
श्रुत्वा क्रूरसखीवक्त्रान्मुकुन्दे मानिनी रुषा ॥ १११ ॥

पादलक्षारसोल्लासिशिरस्कं कंसविद्विषम् ।
कृतकाकुशतं सास्रा पश्यन्तीषाचलद्दृशा ॥ ११२ ॥

क्वचित्कलिन्दजातीरे पुष्पत्रोटनखेलया ।
विहरन्ती मुकुन्देन सार्धमालीकुलावृता ॥ ११३ ॥

तत्र पुष्पकृते कोपाद्व्रजन्ती प्रेमकारितात् ।
व्याघोतिता मुकुन्देन स्मित्वा धृत्वा पटाञ्चलम् ॥ ११४ ॥

विहारश्रान्तितः कान्तं ललितान्यस्तमस्तकम् ।
वीजयन्ती स्वयं प्रेम्णा कृष्णं रक्तपटाञ्चलैः ॥ ११५ ॥

पुष्पकल्पितदोलायां कलगानकुतूहलैः ।
प्रेम्णा प्रेष्ठसखीवर्गैर्दोलिता हरिभूषिता ॥ ११६ ॥

कुण्डकुञ्जाङ्गने वल्गु गायदालीगणान्विता ।
वीणानन्दितगोविन्ददत्तचुम्बेन लज्जिता ॥ ११७ ॥

गोविन्दवदनाम्भोजे स्मित्वा ताम्बूलवीटिकाम् ।
युञ्जतीह मिथो नर्मकेलिकर्पूरवासिताम् ॥ ११८ ॥

गिरीन्द्रगाह्वरे तल्पे गोविन्दोरसि सालसम् ।
शयना ललितावीज्यमाना स्वीयपटाञ्चलैः ॥ ११९ ॥

अपूर्वबन्धगान्धर्वाकलयोन्मद्य माधवम् ।
स्मित्वा हरिततद्वेणुहारा स्मेरविशाखया ॥ १२० ॥

वीणाध्वनिधुतोपेन्द्रहस्ताच्च्योतितवंशिका ।
चूडास्वनहृतश्यामदेहगेहपथस्मृतिः ॥ १२१ ॥

मुरलीगिलितोत्तुङ्गगृहधर्मकुलस्थितिः ।
श‍ृङ्गतो दत्ततत्सर्वसतिलापोऽञ्जलित्रया ॥ १२२ ॥

कृष्णपुष्टिकरामोदिसुधासाराधिकाधरा ।
स्वमधुरित्वसम्पादिकृष्णपादाम्बुजामृता ॥ १२३ ॥

राधेति निजनाम्नैव जगत्ख्यापितमाधवा ।
माधवस्यैव राधेति ज्ञापितात्मा जगत्त्रये ॥ १२४ ॥

मृगनाभेः सुगन्धश्रीरिवेन्दोरिव चन्द्रिका ।
तरोः सुमञ्जरीवेह कृष्णस्याभिन्नतां गता ॥ १२५ ॥

रङ्गिना सङ्गरङ्गेन सानङ्गरङिनीकृता ।
सानङ्गरङ्गभङ्गेन सुरङ्गीकृतरङ्गदा ॥ १२६ ॥

इत्येतन्नामलीलाक्तपद्यैः पीयूषवर्षकैः ।
तद्रसास्वादनिष्णातवसनावासितान्तरैः ॥ १२७ ॥

गीयमानं जनैर्धन्यैः स्नेहविक्लिन्नमानसैः ।
नत्वा तां कृपयाविष्टां दुष्टोऽपि निष्ठुरः शठः ॥ १२८ ॥

जनोऽयं याचते दुःखी रुदन्नुच्चैरिदं मुहुः ।
तत्पदाम्भोजयुग्मैकगतिः कातरतां गतः ॥ १२९ ॥

कृत्वा निजगणस्यान्तः कारुण्यान्निजसेवने ।
नियिजयतु मां साक्षात्सेयं वृन्दावनेश्वरी ॥ १३० ॥

भजामि राधामरविन्दनेत्रां
स्मरामि राधां मधुरस्मितास्याम् ।
वदामि राधां करुणभरार्द्रां
ततो ममान्यास्ति गतिर्न कापि ॥ १३१ ॥

लीलानामाङ्कितस्तोत्रं विशाखानन्ददाभिधम् ।
यः पठेन्नियतं गोष्ठे वसेन्निर्भरदीनधीः ॥ १३२ ॥

आत्मालङ्कृतिराधायां प्रीतिमुत्पद्य मोदभाक्
नियोजयति तां कृष्णः साक्षात्तत्प्रियसेवने ॥ १३३ ॥

श्रीमद्रूपपदाम्भोजधूलीमात्रैकसेविना
केनचिद्ग्रथिता पद्यैर्मालाघ्रेया तदाश्रयैः ॥ १३४ ॥

इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
श्रीविशाखानन्दाभिधस्तोत्रं सम्पूर्णम् ।

Add Comment

Click here to post a comment