Templesinindiainfo

Best Spiritual Website

Shrimad Gitasara from Agni Purana 381 Lyrics in Hindi

Shrimad Geeta Saar from Agni Purana 381 in Hindi:

॥ श्रीमद् गीतासारः अग्निपुराणान्तर्गतः ॥
अग्निरुवाच —
गीतासारं प्रवक्ष्यामि सर्वगीतोत्तमोत्तमम् ।
कृष्णोऽर्जुनाय यमाह पुरा वै भुक्तिमुक्तिदम् ॥ ३८१.१ ॥

श्रीभगवानुवाच —
गतासुरगतासुर्वा न शोच्यो देहवानजः ।
आत्माऽजरोऽमरोऽभेद्यस्तस्माच्छोकादिकं त्यजेत् ॥ ३८१.२ ॥

ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।
सङ्गात् कामस्ततः क्रोधः क्रोधात्सम्मोह एव च ॥ ३८१.३ ॥

सम्मोहात् स्मृतिविभ्रंशो बुद्धिनाशात् प्रणश्यति ।
दुःसङ्गहानिः सत्सङ्गान्मोक्षकामी च कामनुत् ॥ ३८१.४ ॥

कामत्यागादात्मनिष्ठः स्थिरप्रज्ञस्तदोच्यते ।
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ॥ ३८१.५ ॥

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ ३८१.६ ॥

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
तत्त्ववित्तु महावाहो गुणकर्मविभागयोः ॥ ३८१.७ ॥

गुणा गुणेषु वर्तन्ते इति मत्वा न सज्जते ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यति ॥ ३८१.८ ॥

ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन ।
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ॥ ३८१.९ ॥

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ।
सर्वभूतेषु चात्मानां सर्वभूतानि चात्मनि ॥ ३८१.११ ॥

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ३८१.११ ॥

न हि कल्याणकृत् कश्चिद्दुर्गतिं तात गच्छति ।
दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥ ३८१.१२ ॥

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ३८१.१३ ॥

चतुर्विधा भजन्ते मां ज्ञानी चैकत्वमास्थितः ।
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ॥ ३८१.१४ ॥

भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ।
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ॥ ३८१.१५ ॥

अधियज्ञोऽहमेवात्र देहे देहभृतां वर ।
अन्तकाले स्मरन्माञ्च मद्भावं यात्यसंशयः ॥ ३८१.१६ ॥

यं यं भावं स्मरन्नन्ते त्यजेद्देहं तमाप्नुयात् ।
प्राणं न्यस्य भ्रुवोर्मध्ये अन्ते प्राप्नोति मत्परम् ॥ ३८१.१७ ॥

ओमित्येकाक्षरं ब्रह्म वदन् देहं त्यजन् तथा ।
ब्रह्मादिस्तम्भपर्यन्ताः सर्वे मम विभूतयः ॥ ३८१.१८ ॥

श्रीमन्तश्चोर्जिताः सर्वे ममांशाः प्राणिनः स्मृताः ।
अहमेको विश्वरुप इति ज्ञात्वा विमुच्यते ॥ ३८१.१९ ॥

क्षेत्रं शरीरं यो वेत्ति क्षेत्रज्ञः स प्रकीर्तितः ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ ३८१.२१ ॥

महाभूतान्यहङ्गारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशौकञ्च पञ्च चेन्द्रियगोचराः ॥ ३८१.२१ ॥

इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ३८१.२२ ॥

अमानित्वमदम्भित्वमहिसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ३८१.२३ ॥

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ३८१.२४ ॥

आसक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यञ्च समचित्तत्त्वमिष्टानिष्टोपपत्तिषु ॥ ३८१.२५ ॥

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ ३८१.२६ ॥

अध्यात्मज्ञाननिष्ठत्वन् तत्त्वज्ञानानुदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ३८१.२७ ॥

ज्ञेयं यत्तत् प्रवक्ष्यामि यत् ज्ञात्वाऽमृतमश्नुते ।
अनादि परमं ब्रह्म सत्त्वं नाम तदुच्यते ॥ ३८१.२८ ॥

सर्वतः पाणिपादां तत् सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ ३८१.२९ ॥

सर्वेन्द्रियगुणाभासं सर्वेन्दियविवर्जितम् ।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ ३८१.३१ ॥

बहिरन्तश्च भूतानामचरञ्चरमेव च ।
सूक्षमत्वात्तदविज्ञेयं दूरस्थञ्चान्तिकेऽपि यत् ॥ ३८१.३१ ॥

अविभक्तञ्च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च विज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ ३८१.३२ ॥

ज्योतिषामपि तज्जयोतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य घिष्ठितम् ॥ ३८१.३३ ॥

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ ३८१.३४ ॥

अन्ये त्वेवमजानन्तो श्रुत्वान्येभ्य उपासते ।
तेऽपि चाशु तरन्त्येव मृत्युं श्रुतिपरायणाः ॥ ३८१.३५ ॥ BG 13.25 चातितर
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ ३८१.३६ ॥

गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ।
मानावमानमित्रारितुल्यस्त्यागी स निर्गुणः ॥ ३८१.३७ ॥

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ ३८१.३८ ॥

द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ।
अहिंसादिः क्षमा चैव दैवीसम्पत्तितो नृणाम् ॥ ३८१.३९ ॥

न शौचं नापि वाचारो ह्यासुरीसम्पदोद्भवः ।
नरकत्वात् क्रोधलोभकामस्तस्मात्त्रयं त्यजेत् ॥ ३८१.४१ ॥

यज्ञस्तपस्तथा दानं सत्त्वाद्यैस्त्रिविधं स्मृतम् ।
आयुः सत्त्वबलारोग्यसुखायान्नन्तु सात्त्विकम् ॥ ३८१.४१ ॥

दुःखशोकामयायान्नं तीक्ष्णरूक्षन्तु राजसम् ।
अमेध्योच्छिष्टपूत्यन्नं तामसं नीरसादिकम् ॥ ३८१.४२ ॥

यष्टव्यो विधिना यज्ञो निष्कामाय स सात्त्विकः ।
यज्ञः फलाय दम्भात्मी राजसस्तामसः क्रतुः ॥ ३८१.४३ ॥ var दम्भार्थं
श्रद्धामन्त्रादिविध्युक्तं तपः शारीरमुच्यते ।
देवादिपूजाऽहिंसादि वाङ्मयं तप उच्यते ॥ ३८१.४४ ॥

अनुद्वेगकरं वाक्यं सत्यं स्वाध्यायसज्जपः ।
मानसं चित्तसंशुद्धेर्मौनमात्मविनिग्रहः ॥ ३८१.४५ ॥

सात्त्विकञ्च तपोऽकामं फलाद्यर्थन्तु राजसम् ।
तामसं परपीडायै सात्त्विकं दानमुच्यते ॥ ३८१.४६ ॥

देशादौ चैव दातव्यमुपकाराय राजसम् ।
अदेशादाववज्ञातं तामसं दानमीरितम् ॥ ३८१.४७ ॥

ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
यज्ञदानादिकं कर्म भुक्तिमुक्तिप्रदं नृणाम् ॥ ३८१.४८ ॥

अनिष्टमिष्टं मिश्रञ्च त्रिविंधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥ ३८१.४९ ॥

तामसः कर्मसंयोगात् मोहात्क्लेशभयादिकात् ।
राजसः सात्त्विकोऽकामात् पञ्चैते कर्महेतवः ॥ ३८१.५१ ॥

अधिष्ठानं तथा कर्ता करणञ्च पृथग्विधम् ।
त्रिविधाश्च पृथक् चेष्टा दैवञ्चैवात्र पञ्चमम् ॥ ३८१.५१ ॥

एकं ज्ञानं सात्त्विकं स्यात् पृथग् ज्ञानन्तु राजसम् ।
अतत्त्वार्थन्तामसं स्यात् कर्माकामाय सात्त्विकम् ॥ ३८१.५२ ॥

कामाय राजसं कर्म मोहात् कर्म तु तामसम् ।
सिद्ध्यसिद्ध्योः समः कर्ता सात्त्विको राजसोऽत्यपि ॥ ३८१.५३ ॥

शठोऽलसस्तामसः स्यात् कार्यादिधीश्च सात्त्विकी ।
कार्यार्थं सा राजसी स्याद्विपरीता तु तामसी ॥ ३८१.५४ ॥

मनोधृतिः सात्त्विकी स्यात् प्रीतिकामेति राजसी ।
तामसी तु प्रशोकादौ सुखं सत्त्वात्तदन्तगम् ॥ ३८१.५५ ॥

सुखं तद्राजसञ्चाग्रे अन्ते दुःखन्तु तामसम् ।
अतः प्रवृत्तिर्भूतानां येन सर्वमिदन्ततम् ॥ ३८१.५६ ॥

स्वकर्मणा तमभ्यर्च्य विष्णुं सिद्धिञ्च विन्दति ।
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ॥ ३८१.५७ ॥

ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुञ्च वेत्ति यः ।
सिद्धिमाप्नोति भगवद्भक्तो भागवतो ध्रुवम् ॥ ३८१.५८ ॥

इत्यादिमहापुराणे आग्नेये गीतासारो नामैकाशीत्यधिकत्रिशततमोऽध्यायः ॥

Also Read:

Shrimad Gitasara from Agni Purana 381 Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shrimad Gitasara from Agni Purana 381 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top