Templesinindiainfo

Best Spiritual Website

Sri Sharadesha Trishati Stotram Lyrics in Hindi

Shri Sharadesha Trishati Lyrics in Hindi:

॥ श्रीशारदेशत्रिशतीस्तोत्रम् ॥

श्रीदेव्युवाच –
त्रिशतीं शारदेशस्य कृपया वद शङ्कर ।
श्रीशिव उवाच –
सहस्रनाम मन्त्रवद् ऋषिध्यानाधिकं स्मृतम् ॥ १ ॥

॥ अथ श्रीशारदेशत्रिशती ॥

ॐकारवाच्य ॐकार ॐकारमुखराजितः ।
ॐकारमातृगे ॐकारशून्यपदसंस्थितः ॥ २ ॥

ॐकारबिन्दुगो नित्यं ॐकारनादकारणम् ।
ॐकारमात्राजनकः ॐकारपूर्णविग्रहः ॥ ३ ॥

ॐकारचक्रमध्यस्थ ॐकारशक्तिनायकः ।
श्रींकारश्श्रीधरश्श्रीदः श्रीपतिश्श्रीनिकेतनः ॥ ४ ॥

श्रीनिवासश्श्रीधरश्श्रीमान् श्रींकारदेवपूजितः ।
श्रींकारदेवपूर्वाङ्गः श्रींकारयुग्मसेवितः ॥ ५ ॥

ह्रींकारलक्ष्यः ह्रींकारशक्तीशः ह्रींमनुप्रियः ।
ह्रींकारमायाजनको ह्रींकारशक्तिपूजितः ॥ ६ ॥

ह्रींकारेशदक्षिणाङ्गो ह्रींकारमनुतोषितः ।
ह्रींकारजपसुप्रीतो ह्रींकारशक्तिलोकगः ॥ ७ ॥

ह्रींकारशक्तिमलजो ह्रींकारशक्तिनन्दनः ।
क्लींकारमनुसंवेद्यः क्लींकारमनुतोषितः ॥ ८ ॥

क्लींकारेशपश्चिमाङ्गः क्लींकारदेवसेवितः ।
क्लींकारेण विश्वमोहकरः क्लींकारकारणम् ॥ ९ ॥

क्लींकारेण वश्यदाता क्लींकारेश्वरपूजितः ।
क्लींकारशक्तिपतिदः क्लींकारशक्तिहर्षदः ॥ १० ॥

क्लींकारेण विश्वस्रष्टा क्लींकारमयविश्वगः ।
क्लींकारेण विश्ववृद्धिकरः ऐङ्कारपीठगः ॥ ११ ॥

ऐङ्कारजपसुप्रीत ऐङ्कारदेववन्दितः ।
ऐङ्कारेश्वरवामाङ्गः ऐङ्कारशक्तिनायकः ॥ १२ ॥

ऐङ्कारशक्तिजनक ऐङ्कारेण विभूतिदः ।
ऐङ्कारमयवेदेड्य ऐङ्कारशब्दकारणम् ॥ १३ ॥

गम्बीजो गम्बीजदेहो गम्बीजात्मा गंस्थितिप्रदः ।
गङ्कारमन्त्रसंवेद्यो गङ्कारेण गतिप्रदः ॥ १४ ॥

गङ्कारेण विश्वस्रष्टा गङ्कारेण सुमुक्तिदः ।
गङ्कारेण कामदाता गङ्कारेणाऽर्थदायकः ॥ १५ ॥

गङ्कारेण ब्रह्मभूयदायको गणनायकः ।
गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ॥ १६ ॥

गणमूर्तिर्गणपतिर्गणत्राता गणञ्जयः ।
गणज्येष्ठो गणश्रेष्ठो गणगोप्ता गणप्रथः ॥ १७ ॥

नरदेहो नागमुखो नारायणसमर्चितः ।
नारायणश्रीपूर्वाङ्गो नादमध्ये प्रतिष्ठितः ॥ १८ ॥

नन्द्यो नन्दीप्रियो नादजनको नटनप्रियः ।
नगराजसुतासूनुर्नटराजसुपूजितः ॥ १९ ॥

परमात्मा परन्धाम पशुपाशविमोचकः ।
परञ्ज्योतिः पराकाशः पुराणपुरुषोत्तमः ॥ २० ॥

पुरुषः प्रणवाकारः पुरुषातीतविग्रहः ।
पद्मनाभसुतानाथः पद्मनाभसमर्चितः ॥ २१ ॥

तत्त्वानाम्परमन्तत्त्वं तत्त्वम्पदनिरूपितः ।
तत्त्वातीतस्तत्त्वमयस्तत्त्वाष्टकसुसंस्थितः ॥ २२ ॥

तत्त्वमस्याकृतिधरस्तत्त्वमस्यार्थबोधकः ।
तारकान्तरसंस्थानस्तारकस्तारकाननः ॥ २३ ॥

तारकासुरसंहर्ता तारकान्तकपूर्वजः ।
यज्ञो यज्ञपतिर्यज्ञफलदो यज्ञरक्षकः ॥ २४ ॥

यज्ञमूर्तिर्यज्ञभोक्ता यज्ञेशानवरप्रदः ।
यज्ञकर्ता यज्ञधर्ता यज्ञहर्ता यमीश्वरः ॥ २५ ॥

विनायको विघ्नराजो वैनायकप्रवालकः ।
विघ्नहर्ता विघ्नकर्ता विश्वाधारो विराट्पतिः ॥ २६ ॥

वागीश्वरीपतिर्वाणीनायको वामनार्चितः ।
रक्षाकरो राक्षसघ्नो रमेशो रावणार्चितः ॥ २७ ॥

रमाप्रियो रमेशानपूजितो राधिकार्चितः ।
रमारमेशपूर्वाङ्गो राकाचन्द्रसमप्रभः ॥ २८ ॥

रत्नगर्भो रत्नदाता रक्तो राज्यसुखप्रदः ।
विश्वनाथो विराण्णाथो विश्वो विष्णुप्रपूजितः ॥ २९ ॥

विश्वातीतो विश्वमयो वीतिहोत्रसमर्चितः ।
विश्वम्भरो विश्वपाता विश्वधर्ता विमानगः ॥ ३० ॥

रामार्चिताङ्घ्रियुगलो रघुनाथवरप्रदः ।
रामप्रियो रामनाथो रामवंशप्रपालकः ॥ ३१ ॥

रामेश्वरक्षेत्रवासी रामसेतुफलप्रदः ।
रामभक्तिसुसन्तुष्टो रामाभीष्टफलप्रदः ॥ ३२ ॥

रामविघ्नप्रशमनो रामाय सिद्धिदायकः ।
दक्षयज्ञप्रमथनो दैत्यवारणधारणः ॥ ३३ ॥

द्वैमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिगः ।
द्विपास्यो देवदेवेशो देवेन्द्रपरिपूजितः ॥ ३४ ॥

दहराकाशमध्यस्थो देवदानवमोहनः ।
वामारामो वेदवेद्यो वैद्यनाथो वरेण्यजः ॥ ३५ ॥

वासुदेवसमाराध्यो वासुदेवेष्टदायकः ।
विभावसुमण्डलस्थो विभावसुवरप्रदः ॥ ३६ ॥

वसुधारेशवरदो वरो वसुमतीश्वरः ।
दयावान् दिव्यविभवो दण्डभृद् दण्डनायकः ॥ ३७ ॥

दाडिमीकुसुमप्रख्यो दाडिमीफलभक्षकः ।
दितिजारिर्दिवोदासवरदो दिव्यलोकगः ॥ ३८ ॥

दशबाहुर्दीनदैन्यमोचको दीननायकः ।
प्रमाणप्रत्ययातीतः परमेशः पुराणकृत् ॥ ३९ ॥

पद्मपतिः पद्महस्तः पन्नगाशनवाहनः ।
पन्नगेशः पन्नगजः पन्नगाभरणोज्ज्वलः ॥ ४० ॥

पार्वतीतनयः पार्वतीनाथप्रपूजितः ।
ज्ञानं ज्ञानात्मको ज्ञेयो ज्ञानदो ज्ञानविग्रहः ॥ ४१ ॥

ज्ञानाम्बातनयो ज्ञानशक्तीशो ज्ञानशास्त्रकृत् ।
ज्ञानकर्ता ज्ञानभर्ता ज्ञानी ज्ञानसुरक्षकः ॥ ४२ ॥

धर्मो धर्मप्रदो धर्मराजो धर्मप्रपूजितः ।
धर्मवाहो धर्मबाहुर्धर्मोष्ठो धर्मपालकः ॥ ४३ ॥

धर्मकर्ता धर्मधर्ता धर्मभर्ता धनप्रदः ।
यशस्करो योगगम्यो योगमार्गप्रकाशकः ॥ ४४ ॥

योगदो योगिनीनाथो योगशान्तिप्रदायकः ।
योगकर्ता योगधर्ता योगभूमिप्रपालकः ॥ ४५ ॥

योगविघ्नप्रशमनो योगसिद्धिप्रदायकः ।
मेधाप्रदो मायिकेशो मेधेशो मुक्तिदायकः ॥ ४६ ॥

मायी माधवसम्पूज्यो माधवो माधवात्मजः ।
मन्दाकिनीतीरवासी मणिकर्णिगणेश्वरः ॥ ४७ ॥

धनदो धान्यदो धीरो धैर्यदो धरणीधरः ।
धर्मपुत्रधर्मतुष्टो धर्मपुत्रेप्सितप्रदः ॥ ४८ ॥

धर्मपुत्रधर्मदाता धर्मपुत्रार्थदायकः ।
धर्मव्याधज्ञानदाता धर्मव्याधेप्सितप्रदः ॥ ४९ ॥

दत्तप्रियो दानपरो दत्तात्रेयेष्टदायकः ।
दत्तात्रेययोगदाता दत्तात्रेयहृदिस्थितः ॥ ५० ॥

दाक्षायणीसुतो दक्षवरदो दक्षमुक्तिदः ।
दक्षराजरोगहरो दक्षराजेप्सितप्रदः ॥ ५१ ॥

हंसो हस्तिपिशाचीशो हादिविद्यासुतोषितः ।
हरिर्हरसुतो हृष्टो हर्षदो हव्यकव्यभुक् ॥ ५२ ॥

हुतप्रियो हरीशानो हरीशविधिसेवितः ।
स्वस्स्वानन्दस्स्वसंवेद्यो स्वानन्देशस्स्वयम्प्रभुः ॥ ५३ ॥

स्वयञ्ज्योतिः स्वराट्पूज्यस्स्वस्वानन्दप्रदायकः ।
स्वात्मारामवरस्स्वर्गस्वानन्देशस्स्वधाप्रियः ॥ ५४ ॥

स्वसंवेद्यो योगगम्यस्स्वसम्वेद्यत्वदायकः ।
हय्यङ्गवीनहृदयो हिमाचलनिवासकृत् ॥ ५५
हैमवतीशतनयो हेमाङ्गदविभूषणः ।
फलश्रुतिः –
शारदेशमन्त्रभूतां त्रिशतीं यः पठेन्नरः ॥ ५६ ॥

इह भुक्त्वाऽखिलान्भोगान् शारदेशप्रसादतः ।
विद्यां बुद्धिं धियं कीर्तिं लब्ध्वा मोक्षमवाप्नुयात् ॥ ५७ ॥

॥ इति वैनायकतन्त्रे शारदेशत्रिशतीस्तोत्रं सम्पूर्णम् ॥

Also Read Sree Sharadesha Trishati:

Sri Sharadesha Trishati Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Sharadesha Trishati Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top