Templesinindiainfo

Best Spiritual Website

Srikanta Ashtakam Lyrics in Marathi

Srikanta Ashtakam in Marathi:

॥ श्रीकण्ठ अष्टकम ॥

यः पादपपिहिततनुः प्रकाशतां परशुरामेण ।
नीतः सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥ 1 ॥

यः कालं जितगर्वं कऋत्वा क्षणतो मृकण्डुमुनिसूनुम ।
निर्भयमकरोत्सोऽव्यच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ 2 ॥

कुष्ठापस्मारमुखा रोगा यत्पादसेवनात्सहसा ।
प्रशमं प्रयान्ति सोऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ 3 ॥

यदविद्यैव जगदिदमखिलं प्रतिभाति सत्यवत्पूर्वम ।
ज्ञानात्सोऽव्यात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥ 4 ॥

यतिवृन्दवन्द्यचरणः कमिता धरणीधरेन्द्रतनयायाः ।
श्रीशादिवन्दितो‍ऽव्याच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ 5 ॥

यो दक्षिणास्यरूपं धृत्वा विज्ञानदानकृतदीक्षः ।
मुग्धेभ्योऽपि स पायाच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ 6 ॥

अन्धोऽपि यत्करुणया चक्षुष्मान्भवति सत्वरं लोके ।
करुणानिधिः स पायाच्छ्रीकण्ठः पादनम्रकल्पतरुः ॥ 7 ॥

कपिलातटादृतगतिः कपिलादिमुनीन्द्रवन्द्यपदपद्मः ।
श्रीदः पायात्सततं श्रीकण्ठः पादनम्रकल्पतरुः ॥ 8 ॥

श्रीकण्ठाष्टकमेतत्पठति जनो यः कऋतादरः सततम ।
श्रीविद्यासदनं स प्रभवेन्नैवात्र सन्देहः ॥ 9 ॥

इति श्रीकण्ठाष्टकं संपूर्णम ॥

Also Read:

Srikanta Ashtakam Lyrics in Marathi | GujaratiBengali | Kannada | Malayalam | Telugu

Srikanta Ashtakam Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top