Templesinindiainfo

Best Spiritual Website

Utathya Gita Lyrics in Hindi

Utathya Geetaa in Hindi:

॥ उतथ्यगीता ॥ (Mahabharata Shantiparva Rajadharma, chapters 90-91)

अध्यायः ९१
यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्म वित्तमः ।
मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत ॥ १ ॥

स यथानुशशासैनमुतथ्यो ब्रह्म वित्तमः ।
तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर ॥ २ ॥

धर्माय राजा भवति न कामकरणाय तु ।
मान्धातरेवं जानीहि राजा लोकस्य रक्षिता ॥ ३ ॥

राजा चरति वै धर्मं देवत्वायैव गच्छति ।
न चेद्धर्मं स चरति नरकायैव गच्छति ॥ ४ ॥

धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति ।
तं राजा साधु यः शास्ति स राजा पृथिवीपतिः ॥ ५ ॥

राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते ।
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ॥ ६ ॥

अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते ।
तदेव मङ्गलं सर्वं लोकः समनुवर्तते ॥ ७ ॥

उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् ।
भयमाहुर्दिवारात्रं यदा पापो न वार्यते ॥ ८ ॥

न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः ।
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते ॥ ९ ॥

वध्यानामिव सर्वेषां मनो भवति विह्वलम् ।
मनुष्याणां महाराज यदा पापो न वार्यते ॥ १० ॥

उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम् ।
असृजन्सुमहद्भूतमयं धर्मो भविष्यति ॥ ११ ॥

यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते ।
यस्मिन्विलीयते धर्मं तं देवा वेषलं विदुः ॥ १२ ॥

वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम् ।
वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥ १३ ॥

धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा ।
तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत् ॥ १४ ॥

धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः ।
अकार्याणां मनुष्येन्द्र स सीमान्त करः स्मृतः ॥ १५ ॥

प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयं भुवा ।
तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रह कारणात् ॥ १६ ॥

तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः ।
स राजा यः प्रजाः शास्ति साधु कृत्पुरुषर्षभः ॥ १७ ॥

कामक्रोधावनादृत्य धर्ममेवानुपालयेत् ।
धर्मः श्रेयः करतमो राज्ञां भरतसत्तम ॥ १८ ॥

धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा ।
ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी ॥ १९ ॥

तेषां ह्यकाम करणाद्राज्ञः सञ्जायते भयम् ।
मित्राणि च न वर्धन्ते तथामित्री भवन्त्यपि ॥ २० ॥

ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः ।
अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी ॥ २१ ॥

ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम् ।
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरन्दरे ॥ २२ ॥

एतत्फलमसूयाया अभिमानस्य चाभिभो ।
तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी ॥ २३ ॥

दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः ।
तेन देवासुरा राजन्नीताः सुबहुशो वशम् ॥ २४ ॥

राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव ।
राजा भवति तं जित्वा दासस्तेन पराजितः ॥ २५ ॥

स यथा दर्पसहितमधर्मं नानुसेवते ।
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ॥ २६ ॥

मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः ।
तदभ्यासादुपावर्तादहितानां च सेवनात् ॥ २७ ॥

निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः ।
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ॥ २८ ॥

एतेभ्यो नित्ययत्तः स्यान्नक्तञ्चर्यां च वर्जयेत् ।
अत्यायं चाति मानं च दम्भं क्रोधं च वर्जयेत् ॥ २९ ॥

अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च ।
परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः ॥ ३० ॥

कुलेषु पापरक्षांसि जायन्ते वर्णसङ्करात् ।
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ॥ ३१ ॥

एते चान्ये च जायन्ते यदा राजा प्रमाद्यति ।
तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते ॥ ३२ ॥

क्षत्रियस्य प्रमत्तस्य दोषः सञ्जायते महान् ।
अधर्माः सम्प्रवर्तन्ते प्रजा सङ्करकारकाः ॥ ३३ ॥

अशीते विद्यते शीतं शीते शीतं न विद्यते ।
अवृष्टिरति वृष्टिश्च व्याधिश्चाविशति प्रजाः ॥ ३४ ॥

नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे ।
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः ॥ ३५ ॥

अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति ।
प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति ॥ ३६ ॥

द्वावाददाते ह्येकस्य द्वयोश् च बहवोऽपरे ।
कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृप दूषणम् ॥ ३७ ॥

ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते ।
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति ॥ ३८ ॥

अध्यायः ९२
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः ।
सम्पद्यदैषा भवति सा बिभर्ति सुखं प्रजाः ॥ १ ॥

यो न जानाति निर्हन्तुं वस्त्राणां रजको मलम् ।
रक्तानि वा शोधयितुं यथा नास्ति तथैव सः ॥ २ ॥

एवमेव द्विजेन्द्राणां क्षत्रियाणां विशाम् अपि ।
शूद्राश्चतुर्णां वर्णानां नाना कर्मस्ववस्थिताः ॥ ३ ॥

कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि ।
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु ॥ ४ ॥

तेषां यः क्षत्रियो वेद वस्त्राणामिव शोधनम् ।
शीलदोषान्विनिर्हन्तुं स पिता स प्रजापतिः ॥ ५ ॥

कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ ।
राजवृत्तानि सर्वाणि राजैव युगमुच्यते ॥ ६ ॥

चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च ।
सर्वं प्रमुह्यते ह्येतद्यदा राजा प्रमाद्यति ॥ ७ ॥

राजैव कर्ता भूतानां राजैव च विनाशकः ।
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः ॥ ८ ॥

राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा ।
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति ॥ ९ ॥

हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतर गर्दभाः ।
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव ॥ १० ॥

दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते ।
अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् ॥ ११ ॥

यच्च भूतं स भजते भूता ये च तदन्वयाः ।
अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव ॥ १२ ॥

दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च ।
अविषह्य तमं मन्ये मा स्म दुर्बलमासदः ॥ १३ ॥

दुर्बलांस्तात बुध्येथा नित्यमेवाविमानितान् ।
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः स बान्धवम् ॥ १४ ॥

न हि दुर्बलदग्धस्य कुले किं चित्प्ररोहति ।
आमूलं निर्दहत्येव मा स्म दुर्बलमासदः ॥ १५ ॥

अबलं वै बलाच्छ्रेयो यच्चाति बलवद्बलम् ।
बलस्याबल दग्धस्य न किं चिदवशिष्यते ॥ १६ ॥

विमानितो हतोत्क्रुष्टस्त्रातारं चेन्न विन्दति ।
अमानुष कृतस्तत्र दण्डो हन्ति नराधिपम् ॥ १७ ॥

मा स्म तात बले स्थेया बाधिष्ठा मापि दुर्बलम् ।
मा त्वा दुर्बलचक्षूंषि धक्ष्यन्त्यग्निरिवाश्रयम् ॥ १८ ॥

यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम् ।
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशासताम् ॥ १९ ॥

यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्तृषु ।
न हि पापं कृतं कर्म सद्यः फलति गौरिव ॥ २० ॥

यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति ।
महान्दैवकृतस्तत्र दण्डः पतति दारुणः ॥ २१ ॥

युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव ।
अभीक्ष्णं भिक्षुदोषेण राजानं घ्नन्ति तादृशाः ॥ २२ ॥

राज्ञो यदा जनपदे बहवो राजपूरुषाः ।
अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत् ॥ २३ ॥

यदा युक्ता नयन्त्यर्थान्कामादर्थवशेन वा ।
कृपणं याचमानानां तद्राज्ञो वैशसं महत् ॥ २४ ॥

महावृक्षो जायते वर्धते च
तं चैव भूतानि समाश्रयन्ति ।
यदा वृक्षश्छिद्यते दह्यते वा
तदाश्रया अनिकेता भवन्ति ॥ २५ ॥

यदा राष्ट्रे धर्ममग्र्यं चरन्ति
संस्कारं वा राजगुणं ब्रुवाणाः ।
तैरेवाधर्मश्चरितो धर्ममोहात्
तूर्णं जह्यात्सुकृतं दुष्कृतं च ॥ २६ ॥

यत्र पापा ज्यायमानाश् चरन्ति
सतां कलिर्विन्दति तत्र राज्ञः ।
यदा राजा शास्ति नरान्नशिष्यान्
न तद्राज्ञ्य वर्धते भूमिपाल ॥ २७ ॥

यश्चामात्यं मानयित्वा यथार्हं
मन्त्रे च युद्धे च नृपो नियुज्ञ्यात् ।
प्रवर्धते तस्य राष्ट्रं नृपस्य
भुङ्क्ते महीं चाप्यखिलां चिराय ॥ २८ ॥

अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम् ।
समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम् ॥ २९ ॥

संविभज्य यदा भुङ्क्ते न चान्यानवमन्यते ।
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते ॥ ३० ॥

त्रायते हि यदा सर्वं वाचा कायेन कर्मणा ।
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते ॥ ३१ ॥

यदा शारणिकान्राजा पुत्र वत्परिरक्षति ।
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते ॥ ३२ ॥

यदाप्त दक्षिणैर्यज्ञैर्यजते श्रद्धयान्वितः ।
कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते ॥ ३३ ॥

कृपणानाथ वृद्धानां यदाश्रु व्यपमार्ष्टि वै ।
हर्षं सञ्जनयन्नॄणां स राज्ञो धर्म उच्यते ॥ ३४ ॥

विवर्धयति मित्राणि तथारींश्चापकर्षति ।
सम्पूजयति साधूंश्च स राज्ञो धर्म उच्यते ॥ ३५ ॥

सत्यं पालयति प्राप्त्या नित्यं भूमिं प्रयच्छति ।
पूजयत्यतिथीन्भृत्यान्स राज्ञो धर्म उच्यते ॥ ३६ ॥

निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ ।
अस्मिँल्लोके परे चैव राजा तत्प्राप्नुते फलम् ॥ ३७ ॥

यमो राजा धार्मिकाणां मान्धातः परमेश्वरः ।
संयच्छन्भवति प्राणान्न संयच्छंस्तु पापकः ॥ ३८ ॥

ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमन्य च ।
यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते ॥ ३९ ॥

यमो यच्छति भूतानि सर्वाण्येवाविशेषतः ।
तस्य राज्ञानुकर्तव्यं यन्तव्या विधिवत्प्रजाः ॥ ४० ॥

सहस्राक्षेण राजा हि सर्व एवोपमीयते ।
स पश्यति हि यं धर्मं स धर्मः पुरुषर्षभ ॥ ४१ ॥

अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम् ।
भूतानां सत्त्वजिज्ञासां साध्वसाधु च सर्वदा ॥ ४२ ॥

सङ्ग्रहः सर्वभूतानां दानं च मधुरा च वाक् ।
पौरजानपदाश्चैव गोप्तव्याः स्वा यथा प्रजाः ॥ ४३ ॥

न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम् ।
भरो हि सुमहांस्तात राज्यं नाम सुदुष्करम् ॥ ४४ ॥

तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम् ।
न हि शक्यमदण्डेन क्लीबेनाबुद्धिनापि वा ॥ ४५ ॥

अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः ।
सर्वा बुद्धीः परीक्षेथास्तापसाश्रमिणाम् अपि ॥ ४६ ॥

ततस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम् ।
स्वदेशे परदेशे वा न ते धर्मो विनश्यति ॥ ४७ ॥

धर्मश्चार्थश्च कामश् च धर्म एवोत्तरो भवेत् ।
अस्मिँल्लोके परे चैव धर्मवित्सुखमेधते ॥ ४८ ॥

त्यजन्ति दारान्प्राणांश्च मनुष्याः प्रतिपूजिताः ।
सङ्ग्रहश्चैव भूतानां दानं च मधुरा च वाक् ॥ ४९ ॥

अप्रमादश्च शौचं च तात भूतिकरं महत् ।
एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः ॥ ५० ॥

अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः ।
नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात् ॥ ५१ ॥

एतद्वृत्तं वासवस्य यमस्य वरुणस्य च ।
राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय ॥ ५२ ॥

तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम् ।
आतिष्ठ दिव्यं पन्थानमह्नाय भरतर्षभ ॥ ५३ ॥

धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत ।
देवर्षिपितृगन्धर्वाः कीर्तयन्त्यमितौजसः ॥ ५४ ॥

स एवमुक्तो मान्धाता तेनोतथ्येन भारत ।
कृतवानविशङ्कस्तदेकः प्राप च मेदिनीम् ॥ ५५ ॥

भवानपि तथा सम्यङ्मान्धातेव महीपतिः ।
धर्मं कृत्वा महीं रक्षन्स्वर्गे स्थानमवाप्स्यसि ॥ ५६ ॥

॥ इति उतथ्यगीता समाप्ता ॥

Also Read:

Utathya Gita in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Utathya Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top